________________
शांकरदर्शनम् ।
देहात्प्रत्ययो यद्वत्प्रमाणत्वेन कल्पितः । लौकिकं तद्वदेवेदं प्रमाणं स्वात्मनिश्चयात् ॥ इति ।
१४९
तथा च व्यापकस्य भेदभानस्य निवृत्तेर्व्याप्यस्य गौणत्वस्य निवृत्तिरिति निश्वयम् ।
नवभिज्ञया भेदसिद्धिर्मा संभलाम । प्रत्यभिज्ञया तु सोऽहमित्येवंरूपया तत्सिद्धिः संभविष्यतीति चेन्न । विकल्पासहत्वात् । किमियं प्रत्यभिज्ञा पामराणां स्यात्परीक्षकाणां वा । नाऽऽयः । देहव्यतिरिक्तात्मैक्यमत्रगाहमानायाः प्रत्यभि ज्ञाया अनुदद्यात् । प्रत्युत श्यामस्य लौहित्यवत्कारणविशेषादल्पस्यापि महापरिमाणत्वमविरुद्धमनुभवतां तेदेह एव तस्याः संभवाच्च । न द्वितीयः । व्यकहारसमये पामरसास्यानतिरेकांत् । अपरोक्षभ्रमस्य परोक्षज्ञानविनाश्यत्वानुपपत्तेश्च । यदुक्तं भगवता भाष्यकारेण पश्वादिभिश्चाविशेषात् (सू० भा० १ । १ । १ ) इति । भामतीकारैरयुक्तम् - शास्त्रचिन्तकाः खल्वेवं विचारयन्ति न प्रतिपत्तार इति । तथा चाऽऽत्मगोचरस्याध्यासात्मरूपत्वं सुस्थम् ।
न चाऽऽईत मतानुसारेणाप्रत्ययप्रामाण्यायाऽऽत्मनो देहपरिमाणत्वमीक रणीयमिति सांप्रतम् । मध्यमपरिमाणस्य सावयवत्वेन देहादिवदानित्यत्वे कृतद्दानाकृताभ्यागमप्रसङ्गात् । अथैतद्दोषपरिजिहीर्षयाऽवयवसमुदाय आत्मत्यभ्युपगम्येत तदा वक्तव्यम् । किं प्रत्येकमवयवानां चैतन्यं संघातस्य वा । नाss | बहूनां चेतानानामहमहमिकया प्रधानभावमनुभवतामै कमस्याभावेन समसमयं विरुद्धदिक्रियतया शरीरस्यापि विशरण निष्क्रियत्व योरन्यतरापातात् । द्विवीयेऽपि संघातापत्तिः किं शरीरोपाधिकी स्वाभाविकी यादृच्छिकी वा । नऽऽऽग्रः । एकस्मिन्नवयवे छिने चिदात्मनोऽप्यवचैव छिन्न इत्य चेतनत्वापातात् । न द्वितीयः । अनेकेषामवयवानामन्योन्य साहित्य नियमादर्शनात् । न तृतीयः । संश्लेषवश्लेषस्यापि यादृच्छिकत्वेन सुखेन वसताम कस्माद चेतनत्वप्रसङ्गात् ।
न चाणुपरिमाणत्वमात्मनः शङ्कनीयम् । स्थूलोऽहं दीर्घोऽहमिति प्रत्ययानुपपत्तेः । न च विज्ञानात्मभाषिणां नैष दोषः । विशुद्ध सावयवत्वाभावादिति गणनीयम् । यः सुषुप्तः सोऽहं जागमति स्थिरगोचरस्याहमुल्लेखस्य क्षणभङ्गविज्ञा नगोचरत्वेऽतस्मिंस्तद्बुद्धिरूपमिध्याध्यासस्य तदवस्थानात् । तदनेन कृशोऽहं
१ ख तदाह । २ 'काम' । ३ ख यवो भिन्न इति चे । ४ ख. 'त्वे सु । ५ ख. 'स्था
तद ।