________________
१५०
सर्पदर्शनसंग्रहेकृष्णोऽहमित्यादीनां प्रख्यानानां बुद्धया सरूपताख्यानेनौपचारिकत्वं प्रत्याख्यातम् । तद्व्यापकभेदभानासंभवस्य प्रागेव प्रपञ्चितत्वात् । तथा च प्रयोगः-विमतं शास्त्रं विषयप्रयोजनसहितमाविद्यकबन्धनिवर्तकत्वात्सुप्तोत्थितबोधवत् । यथा स्वमावस्थायां मायापरिकल्पितयोषादिकृतबन्धनिवर्तकस्य सुप्तोत्थितबोधस्य मन्दिरमध्ये सुखेन शय्यायामवतिष्ठमानो देहो विषयः । तस्य सुप्तबोधेनानिश्चयात् । स्वप्नमायाविजृम्भितानर्थनिवृत्तिः प्रयोजनम् । एवं मननादिजन्यपरोक्षज्ञानेद्वारेणाऽऽध्यासिककर्तृत्वभोक्तृत्वाद्यनर्थनिषेधकस्य शा. त्रस्य सच्चिदानन्दैकरसं प्रत्यगात्मभूतं ब्रह्म विषयः । तस्याहमनुभवेनानिश्च यात् । अध्यसानिवृत्तिः प्रयोजनम् । तथा चाफलत्वादिति हेतुरसिद्ध इति सिद्धम् । तदुक्तम्.. श्रुतिगम्यात्मतत्वं तु नाहंबुद्धयाऽवगम्यते ।
अपि खे कामतो मोहा नाऽऽत्मन्यस्तविपर्यये ।। इति । " इतोऽयमसंदिग्धत्वादिति हेतुरप्यसिद्ध इति सिद्धम् ।
यद्यपि सर्वः प्राणी प्रत्यागात्मास्तित्वं प्रत्येति अहमस्मीति । न हि कश्चिदपि नाहमस्मीति विप्रतिपद्यते । प्रत्यगात्मैव ब्रह्म। तत्त्वमास(छा०६।८।७)इति सामानाधिकरण्यात् । तस्मादात्मतत्त्वमसंदिग्धं सिद्धम् । तथाऽपि धर्म प्रति विप्रतिपन्ना बहुविधा इति न्यायेन विशेषप्रतिपत्तिरुपपद्यत एव । तथाहि-चैतन्यविशिष्टं देहमात्मेति लोकायता मन्यन्ते । इन्द्रियाण्यात्मेत्यन्ये । अन्तःकरणमात्मेत्यपरे । क्षणभङ्गुरं संतन्यमानं विज्ञानमात्मेति बौद्धा बुद्धयन्ते । देहपरिमाण आत्मेति जैना जिनाः प्रतिजानते। कर्तृत्वादिविशिष्टः परमेश्वराद्भिन्नो जीवात्मति नैयायिकादयो वर्णयन्ति । द्रव्यबोधस्वभावमात्मेत्याचार्याः परिचक्षते । भोक्तव केवलं न कर्तेति सांख्याः संगिरन्ते । चिद्रूपः कर्तृत्वादिरहितः परस्मादभिन्नः प्रत्यगात्मेत्यौप. निषदा भाषन्ते । एवं प्रसिद्ध धर्मिणि विशेषतो विप्रतिपत्तौ तद्विशेषसंशयो युज्यते । तथा च संदेहसंभवाज्जिज्ञास्यत्वं ब्रह्मणः सिद्धम् । तदित्थं ब्रह्मणो विचार्यत्वसंभवेन तद्विचारात्मकं ब्रह्ममीमांसाशास्त्रमारम्भणीयमिति युक्तम् । जन्माद्यस्य यतः (ब्र० सू० १ । १ । २ ) इत्यादिसर्वस्य शास्त्रस्यैतद्विचारापेक्षत्वाच्छास्त्रपथमाध्यायसंगतमिदमधिकरणम् । ..
नन्वित्थंभूते ब्रह्मणि किं प्रमाणे प्रत्यक्षमनुमानमागमो वा । न कदाचित्तत्र
१ ख. योगावि । २ ख. शास्त्रबि । ३ ख. 'हो न वि°। ४ ख. नव्यापारे । ५ ख. त्वं ना । ६ ख. नान्यस्त । ७ ख. °चार्य प°। ८ ख. र्यत्वेन स ।