________________
शांकरदर्शनम् । प्रत्यक्षं कंमते । अतीन्द्रियत्वात् । नाप्यनुमानम् । व्याप्तस्य लिङ्गस्याभावात् । नाप्यागमः । यतो वाचो निवर्तन्ते ( तै० २।४ । १) इति श्रुत्यैवाऽऽगमगम्यत्वनिषेधात् । उपमानादिकमशक्यशङ्कम् । नियतविषयत्वात् । तस्मादू. मणि प्रमाणं न संभवतीति चेन्मैवं वोचः । प्रत्यक्षाद्यसंभवेऽप्यागमस्य सत्त्वात् । यतो वाचो निवर्तन्त इति वाग्गोचरत्वनिषेधात्कथमेतदिति चेच्छृतिरेव निषेधति वेदान्तवेद्यत्वं ब्रह्मणः श्रुतिरेव विधत्ते । न हि वेदप्रतिपादितेऽ. र्थेऽनुपपन्ने वैदिकानां बुद्धिः खिद्यते । अपि तु तदुपपादनमार्गमेव विचारयति । तस्मादुभयमपि प्रतिपादनीयम् । विषयत्वनिषेधकानि वाक्यानि वाक्यजन्यत्तिव्यक्तस्फुरणलक्षणफलासंभवविवक्ष या प्रमुत्तानि । विषयत्वबोधकानि तु वृत्तिजन्यावरणभङ्गलक्षणसंभवविक्षया । तदुक्तं भगवद्भिः
अनाधेयफलत्वेन श्रुतेब्रह्म न गोचरः । प्रमेयं प्रमितौ तु स्यादात्माकारसमर्पणात् ॥ इति । न प्रकाश्यं प्रमाणेन प्रकाशो ब्रह्मणः स्वयम् ।
. तज्जन्यावृतिभङ्गत्वात्ममेयमिति गीयते ॥ इति च । ननु स्यादेष मनोरथो यदि सिद्धेऽर्थे वेदस्य प्रामाण्यं सिंध्येत् । संगतिग्रह गायत्तत्वात्मामाण्यनिश्चयस्य । संगतिग्रहणस्य च वृद्धव्यवहारायत्तत्वात् । वृद्धव्यवहारस्य च लोके कार्यकनियतत्वात् । न ह्यस्ति संभवः शब्दानां कार्येऽर्थे संगतिग्रहः सिद्धार्थाभिधायकत्वं तत्र वा प्रामाण्यमिति । न हि तुरगत्वे गृहीतसंगतिकं तुरङ्गपदं गोत्वमाचष्टे तत्र वा प्रामाण्यं भजते । तस्मा.
कार्यगृहीतसंगतिकानां शब्दानां कार्य एव प्रामाण्यम् । नर्नु मुखविकासादि. लिङ्गाद्धर्षहेतुं प्रसिद्धार्थमनुमाय यत्र शब्दस्य संगतिग्रहो यथा पुत्रस्ते जात इत्यादिषु तत्रावश्यं कार्यमन्तरेणैव शब्दस्य सिद्धेऽर्थे प्रामाण्यमाश्रीयत इति चेन्न । पुत्रजन्मवदेव प्रियासुखप्रसवादेरनेकस्यः हर्षहेतोरुपस्थीयमानत्वेन परिशेषावधारणानुपपत्तेः । पुत्रस्ते जात इत्यादिषु सिद्धार्थपरेषु प्रयोगेषु द्वार द्वार मित्यादिवत्कार्याध्याहारेण प्रयोगोपपत्तेश्च । शास्त्रत्वप्रसिद्धया च न वेदान्ताना सिद्धार्थपरत्वम् । प्रवृत्तिनिवृत्तिपराणामेव वाक्यानां शास्त्रत्वप्रसिद्धः । तदुक्तं भट्टाचार्य:
प्रवृत्तिर्वा निवृत्तिर्वा नित्येन कृतकेन वा। पुंसां येनोपदिश्येत तच्छास्त्रमभिधीयते ॥ इति ।
. . १ ख. पन्नवै । २ ख. बुद्धिभिद्य । ३ ख. रयितुमस्मी । ४ ख. यवि' ।५ ख. धायित्वं । ६ ख. वा माप्रा । ७ ख. रगत्वे । ८ ख. °नु यत्र मु । ९ ख. °नसत्त्वे ।