________________
१४६
सर्वदर्शनसंग्रहेभवादध्यस्तात्मभावदेहालम्बनोऽयमहंकार इति चेन्न । बाल्यावस्थासु भिन्नपरिमाणतया बदरामलकादिवत्परस्परभेदेन शरीरस्य प्रत्यभिज्ञानानुपपत्तेः । अथोच्येत यथा पीलुपाकपक्षे पिठरपाकपक्षे वा कालभेदेनैकस्मिन्वस्तुनि पाकजभेदो युज्यते तथैकस्मिञ्शरीराभिधे वस्तुनि कालभेदेन परिमाणभेदः । अत एव लौकिकाः शरीरमात्मनः सकाशादभिन्नं प्रतिपद्यमानाः प्रत्यभिजानते चेति । न तद्भद्रम् । मणिमन्त्रौषधायुपायभेदेन भूमिकाधानवन्नानाविधान्देहान्प्रतिपद्यमानस्याहमालम्बनस्य भिन्नस्याऽऽत्मनः शरीराद्भेदेन भासमानत्वात् । अत एव चक्षुरादीनामप्यहमालम्बनत्वमशक्यशङ्कम् । नान्यदृष्टं स्मरत्यन्यः (न्या० कु० १ । १५) इति न्यायेन चक्षुरादौ नष्टेऽपि रूपादिप्रतिसंधानानुपपत्तेः । नाप्यन्तःकरणस्याहमालम्बनत्वमास्थयम् । अयमेव भेदो भेदहेतुर्वा यद्विरुद्धधर्माध्यासः कारणभेदश्चेति न्यायेन कर्तृकरणभूतयोरात्मान्तःकरणयोस्तक्षवासिव
संभेदासंभवात् । यद्यभेद एव नाऽऽद्रियते तर्हि स्थूलोऽहं कृशोऽहं कृष्णोऽहमित्यादि संख्यानमुत्सन्नसंकथं स्यात् । न स्यात् । एवं लोके शास्त्रे चोभयथाशब्दप्रयोगदर्शनेन मुख्यार्थत्वानुपपत्तौ मञ्चाः क्रोशन्तीत्यादिवदौपचारिकत्वेनोपपत्तेः। न द्वितीयः। अहमनुभवगम्यस्यैव श्रुतिगम्यत्वात् । सत्यं ज्ञानमनन्तं ब्रह्म (तै० २।१।१ ) इत्यादिश्रुतिभ्यो हि ब्रह्मावगम्यते । ब्रह्मभावश्चाहमात्मा ब्रह्म ( बृ० २।५।१९ ) तत्त्वमसि ( छा० ६।८।७) इत्यादिश्रुतिष्वहंप्रत्ययगम्यस्यैव बोध्यते । तथा चेदमनुमानं समसूचि । पिमतमाजिज्ञास्यमसंदिग्धत्वा. करतलामलकवत् ।
तथा फलं न फलभावमीक्षते । पुरुषैरर्थ्यत इति व्युत्पत्त्या निःशेषदुःखोपशमलक्षितं परमानन्दैकरस्यं च पुरुषार्थशब्दस्यार्थः सकलपुरुषधौरेयः प्रेप्स्यते नेतरत्सांसारिक सुखजातम् । तस्यैहिकस्य पारलौकिकस्य च सातिशयतया च सदृक्षतया च प्रेक्षावद्भिर्यमानत्वानुपपत्तेः । यत्तत्परिपन्थि दुःखजातं तज्जिहास्यते । तच्चाविद्यापरपर्यायसंसार एव । कर्तत्वादिसकलानर्थकरत्वादविद्यायाः । समित्येकीकरणे वर्तते । संभेदादौ तथा चोपलम्भात् । तथा चाऽऽत्मानं देहेनकीकृत्य स्वर्गनरकमार्गयोः संरति येन पुरुषः स संसारोऽवि. द्याशब्दार्थः । तनिवृत्तिः फलं फलवतामभिमतम् । तथा कथितम
अविद्यास्तमयो मोक्षः सा च बन्ध उदाहृतः ॥ इति । तच काशकुशावलम्बनकल्पम् । आत्मयाथात्म्यानुभवेन सह वर्तमानस्य . १ ख. 'दपदं नाऽऽद्रियेत तर्हि । २ ख.. 'था च फ° । ३ ख. शमोपलक्षित्वं प° । ४ ख. "ते नैतान्सांसा । ५ ख. "रुषः सं ।