________________
शांकरदर्शनम् ।
१४५ विवर्तस्तु प्रपञ्चोऽयं ब्रह्मणोऽपरिणामिनः।
अनादिवासनोद्भूतो न सारूप्यमपेक्षते ।। इति । तदेतत्सर्वं वेदान्तशास्त्रपरिश्रमशालिनां सुगम मुघटं च । - तच्च वेदान्तशास्त्रं चतुर्लक्षणम् । भगवता बादरायणेन प्रणीतस्य वेदान्तशास्त्रस्य प्रत्यग्ब्रह्मैक्यं विषय इति शंकराचार्याः प्रत्येपीपदन् । तत्र प्रथमे समन्वयाध्याये सर्वेषां वेदान्तानां ब्रह्मणि तात्पर्येण पर्यवसानम् । द्वितीयेऽविरोधाध्याये सख्यिादितर्कविरोधनिराकरणम् । तृतीये साधनाध्याये ब्रह्मविद्यासाधनम् । चतुर्थे फलाध्याये विद्याफलम् । तत्र प्रत्यध्यायं पादचतुष्टयम् । तंत्र प्रथमस्याध्यायस्य प्रथमे पादे स्पष्टब्रह्मलिङ्गं वाक्यजातं मीमांस्यते। द्वितीयेऽस्पष्टब्रह्मलिङ्गमुपास्यविषयम् । तृतीये तादृशं ज्ञेयविषयम् । चतुर्थेऽव्यक्ताजापदादि संदिग्धं पर्दजातमिति । अविरोधस्य द्वितीयस्य प्रथमे सांख्ययोगकणादादिस्मृतिविरोधपरिहारः। द्वितीये साख्यादिमतानां दुष्टत्वम् । तृतीये पञ्चमहाभूतश्रुतीनो जीवश्रुतीनां च परस्परविरोधपरिहारः । चतुर्थे लिङ्गशरीरश्रुतीनां विरोधपरिहारः । तृतीयस्य प्रथमे जीवस्य परलोकगमनागमन विचारपुरःसरं वैराग्यम् । द्वितीये स्वंपदतत्पदार्थपरिशोधनम् । तृतीये सगुणविद्यासु गुणोपसंहारः । चतुर्थे निर्गुणब्रह्मविद्याया बहिरङ्गान्तरङ्गामयज्ञशमादिसाधमजातम् । चतुर्थस्य प्रथमे ब्रह्मसाक्षात्कारेग जीवतः पापपुण्यक्लेशवैधुर्यलक्षणा मुक्तिः । लिये मरणोरक्रमणप्रकारः। तृतीये सगुणब्रह्मोपासकस्योत्तरमार्गः । चतुर्थे निर्गुणसगुणब्रह्मविदो विदेहकैवल्यब्रह्मलोकावस्थानानि । सदित्यं ब्रह्मविचारशास्त्राच्यार्यपादार्थसंग्रहः । -तत्र प्रथममधिकरणमथातो ब्रह्मजिज्ञासा (ब्र० सू० १।१।१ )इति ब्रह्ममीमाँसारम्भोषपादनपरम् । अधिकरणं च पञ्चावयवं प्रसिद्धम् । ते च विषयादयः पश्चावयवा निरूप्यन्ते । आत्मा वारे द्रष्टव्यः (० २।४।५) इत्येतद्वाक्यं विषयः । ब्रह्म जिज्ञासितव्यं न वेति संदेहः । जिज्ञास्यत्वव्यापकयोः संदेहप्रयोजनयोः संभवासंभवाभ्याम् ।
तत्र कस्येदं जिज्ञास्यत्वमवगम्यते । अहमनुभवगम्यस्य श्रुतिगम्यस्य वा । नाऽऽद्यः । सर्वजनीनेनाहमनुर्भवेनेदमास्पददेहादिभ्यो विवेकेनाऽऽत्मनः स्पष्टं प्रतिभासमानत्वात् । ननु स्थूलोऽहं कृशोऽहमित्यादिदेहधर्मसामानाधिकरण्यानु.
. १ क. 'रिभ्रम । २ क. "त्यक्पदं त । ३ ख. 'व्यक्तसं । ४ क.-. नपु। ५ क. 'श्रययज्ञादि । ६ क. °यपदा । ७ क. इत्यत्रत । ८ ख, वेन दे।
१९