________________
आहेतदर्शनम् । हिंसा रत्यरती रागद्वेषावविरतिः स्मरः। शोको मिथ्यात्वमेतेऽष्टादश दोषा न यस्य सः ।। जिनो देवो गुरुः सम्यक्तत्त्वज्ञानोपदेशकः । ज्ञानदर्शनचारित्राण्यपर्गस्य वर्तनी ॥ स्याद्वादस्य प्रमाणे द्वे प्रत्यक्षमनुमाऽपि च । नित्यानित्यात्मकं सर्व नव तत्त्वानि सप्त वा ।। जीवाजीवौ पुण्यपाँपे चाऽऽस्रवः संवरोऽपि च । बन्धो निर्जरणं मुक्तिरेषां व्याख्याऽधुनोच्यते ॥ चेतनालक्षणो जीवः स्यादजीवस्तदन्यकः । सत्कर्मपुद्गलाः पुण्यं पापं तस्य विपर्ययः ॥ आस्रवः स्रोतसो द्वारं संवृणोतीति संवरः । प्रवेशः कर्मणां बन्धो निर्जरस्तद्वियोजनम् ॥ .. अष्टकर्मक्षयान्मोक्षोऽथान्तर्भावश्च कैश्चन ।
पुण्यस्य संवरे पापस्याऽऽस्रवे क्रियते पुनः॥ लब्धानन्तचतुष्कस्य लोकागूढस्य चाऽऽत्मनः । क्षीर्णाष्टकर्मणो मुक्तिनिर्यावृत्तिर्जिनोदिता ॥ * सरजोहरणा भैक्षभुजो लुञ्चितमूर्धनाः । =श्वेताम्बराः क्षमाशीला निःसङ्गा जैनसाधवः ॥ लुञ्चिताः पिच्छिकाहस्ताः पाणिपात्रा दिगम्बराः । ऊ शिनो गृहे दातुर्द्वितीयाः स्युर्जिनर्षयः॥ भुङ्क्ते न केवली न स्त्री मोक्षमेति दिगम्बरः ।
प्राहुरेषामयं भेदो महाश्वेताम्बरैः सह ॥ इति । इति श्रीमत्सायणमाधवीये सर्वदर्शनसंग्रह आहेतदर्शनम् ॥
अथ रामानुजदर्शनम् ॥ ४ ॥ तदेतदार्हतमतं प्रामाणिकगर्हणमर्हति । न ह्येकस्मिन्वस्तुनि परमार्थे
* घ. पु. टि.-हरणायोग्याः सरजा मलिनवस्त्रा इत्यर्थः । = घ. पु. टि.-गौरिकाहिना रजनीवर्जिता इत्यर्थः।
१ घ. जीनो । २ क. ख. ग. गुरुं । ३ क. ख. ग. °शकम् । ४ घ. पापावास्र । ५ घ. 'गलः पु। ६ घ. आस्रावः । ७ ग. जरा तद्वि। ८ ग, लोकगू। ९ ख. °णास्तकर्मणा मु। १० ग. पिञ्छिका।