________________
३०
सर्वदर्शनसंग्रहे—
बन्धः । तदुक्तम्–सकषायत्वाज्जीवः कर्मभावयोग्यान्पुद्गलानादत्ते स बैन्धः ( त० सू० ८ । २ ) इति । तत्र कषायग्रहणं सर्वबन्धहेतूपलक्षणार्थम् । बन्धेहेतून्पपाठ वाचकाचार्य:- मिध्यादर्शनाविरतिप्रमादकपाय योगा बन्धहेतवः (त० सू० ८ । १ ) इति । मिथ्यादर्शनं द्विविधम् । मिथ्या कर्मोदयात्परो देशानपेक्षं
श्रद्धानं नैसर्गिकमेकम् । अपरं परोपदेशजम् । पृथिव्यादिषट्कोपादानं पडिन्द्रियासंयमनं चाविरतिः । पञ्चसमितित्रिगुप्तिष्वनुत्साहः प्रमादः । कषायः क्रोधादिः । तत्र कषायान्ताः स्थित्यनुभववन्यहेतवः प्रकृतिप्रदेशबन्ध हेतुर्योग इति विभागः । बन्धश्चतुर्विध इत्युक्तं - प्रकृतिस्थित्यनुभवप्रदेशास्तद्विधयः ( त० सू० ८ । ३ ) इति । यथा निम्बगुडादेस्तिक्तत्वमधुरत्वादिस्वभाव एवमावरणीयस्य ज्ञानदर्शनावरणत्वमादित्यमभीच्छाद काम्भोध खत्मदीपप्रभातिरोधायककुम्भवच्च । सदसद्वेदनीयस्य सुखदुःखोत्पादकत्वमसिधारामधुलेहनबत् । दर्शने मोहनीयस्य तत्त्वर्थाश्रद्धानकारित्वं दुर्जनसङ्गवत् । चारित्र मोहनीयस्यासंयमँहेतुत्वं भैद्यमदवत् । आयुषो देहबन्धकर्तृत्वं जलत् । नाम्नो विचित्रनामकारित्वं चित्रिकवत् | गोत्रस्योच्चनीचकारित्वं कुम्भकारवत् । दानादीनां विघ्ननिदानत्वमन्तरायस्यै स्वभावः कोशाध्यक्षवत् । सोऽयं प्रकृतिबन्धोऽविधो द्रव्यकर्मावान्तरभेद मूलप्रकृतिवेदनीयः । तथाऽवोचदुमास्वीतिवाचकाचार्य:-आद्यो ज्ञान दर्शनावरणवेदनीयमोहनीयायुर्नामगोत्रान्तरायाः ( त० सू० ८ । ४ ) इति । तद्भेदं च समगृह्णात्पञ्चनवद्वद्यष्टाविंशति चतुर्द्विचत्वारिंशदद्विपञ्चभेदा यथा क्रममिति ( त० सू० ८ । ५ ) । एतच्च सर्वं विद्यानन्दादिभिर्विवृतमिति विस्तरभयान्न प्रस्तूयते । यथऽजागोमहिष्या दिक्षीराणामेतावन्तमनेहसं माधुर्यस्वभा वादमच्युतिस्थितिस्तथा ज्ञानावरणादीनां मूलप्रकृतीनामादितस्तिसृणामन्तरा. यस्य च त्रिंशत्सागरोपमकोटिकोट्यः परा स्थिति ( त० सू० ८ । १४ )
१५
२२
રઢ
१ ग. वद्धः । २ च. ' न्धनार्थ प' । ३ च 'वार्था । ४क. ग. ङ. च षट्कापादानकं । ५ . ' समित्रिगु' । ख. घ. 'संविगुप्ति' । ६ च. 'तित्रिगुप्तिप्रमृतिष्व । ७ घ. 'नभव' । ८ घ. ॰गः । स बौं। ९ ग. 'द्विषयः । १० च दित्याच्छाप्रभोच्छा' । ११ ख. घ. 'भातिरोधायका । १२ ग. 'रप्रदी° । १३ च 'वार्थ । १४ च. 'रित्रमो' । १५ ग. मनहे' । १६ ग. मदव ं । १७ . ' तत्व जलत्वात् । जिनाम्रो । १८ क. 'वर्तिनाम्नो । १९ ङ. चित्रक' । २० ग. ॰यस्व ं । २१ ग. मन्त' । २२ च. 'तिपदवे' । २३ च. 'स्वामिव । २४ ग. ज्ञानं द° । २५ क. ख. र वे ं । २६ ख. समागृ॰ । २७ ख. ञ्चदशा मे । २८ ख. 'भिर्नित्र । २९ ख. 'थाऽजगो' । ३० घ. 'धुर्यमाधुर्य ।