________________
सर्वदर्शनसंग्रहे-- इति न्यायेन यत्सत्तक्षणिकमित्यादिना प्रमाणेन क्षणिकतायाः प्रमिततया तदनुसारेण समानसंतानवर्तिनामेव प्राचीनः प्रत्ययः कर्मकर्ता तदुत्तरः प्रत्ययः फलभोक्ता । न चातिप्रसङ्गः। कार्यकारणभावस्य नियामकत्वात् । यथा मधुरर. सभावितानामाम्रबीजानां परिकर्षितायां भूमाप्तानामङ्गुरकाण्डस्कन्धशाखापल्लवादिषु तद्वारा परम्परया फले माधुर्यनियमः। यथा वा लाक्षारसावसिक्तानां कासिबीजादीनामङ्कुरादिपारम्पर्येण कार्पासादौ रक्तिमनियमः । यथोक्तम्
यस्मिन्नेव हि संतान आहिता कर्मवासना । फलं तत्रैव बध्नाति कापासे रक्तता यथा ॥ . कुसुमे बीजपूरादेर्यलाक्षाद्यवसिच्यते ।
शक्तिराधीयते तत्र काचित्तां किं न पश्यसि ॥ इति । तदपि काशकुशावलम्बनकल्पम् । विकल्पासहत्वात् । जलधरादौ दृष्टान्ते क्षणिकत्वमनेन प्रमाणेन प्रमितं प्रमाणान्तरेण वा । नाऽऽद्यः। भवदभिमतस्य क्षणिकत्वस्य कचिदप्यदृष्टचरत्वेन दृष्टान्तासिद्धावस्यानुमानस्यानुत्थानात् । न द्वितीयः । तेनैव न्यायेन सर्वत्र क्षणिकत्वसिद्धौ सत्त्वानुमानवैफल्यापत्तेः। अर्थक्रियाकारित्वं सत्त्वमित्यङ्गीकारे मिथ्यासर्पदंशादेरप्यर्थक्रियाकारित्वेन सत्त्वापाताच्च । अत एवोक्तम्-उत्पादव्ययध्रौव्ययुक्तं सदिति । अथोच्यते-साम
र्थ्यासामर्थ्यलक्षणविरुद्धधर्माध्यासात्तत्सिद्धिरिति सदसाधु । स्याद्वादिनामनेकान्ततावादस्येष्टतया विरोधासिद्धेः। यदुक्तं कार्पासादिदृष्टान्त इति तदुक्तिमात्रम् । युक्तरेनुक्तेः। तत्रापि निरन्वर्थनाशस्यानङ्गीकाराच्च । न च संतानिव्यतिरेकेण संतानः प्रमाणपदवीमुपारोढुमर्हति । तदुक्तम्
सजातीयाः क्रमोत्पन्नाः प्रत्यासन्नाः परस्परम् ।
व्यक्तयस्तासु संतानः स चैक इति गीयते ॥ इति । न च कार्यकारणभावनियमोऽतिप्रसङ्ग भक्तुमर्हति । तथा छुपाध्यायबुद्धयनुभूतस्य शिष्यबुद्धिः स्मरेत्तदुपचितकर्मफलमनुभवेद्वा । तथा च कृतप्रणाशाकृताभ्यागमप्रसङ्गः। तदुक्तं सिद्धसेनवाक्य कारण
सजा
.....
१ ख. 'तताया । २ क.-जु. ती उत्त° । ३ ख. तथा । ४ च. कस्य। ५ च. 'धुत्वाद्वा । ६ ख. रयुक्तेः । घ. °रनुपपत्तेः । त° । ७ क. ग. च.यविना' । ८ च.- तान्यति । ९ ग, हति इति । त° । १० ग. यदुक्तम् । ११ घ. संतानी । १२ च. 'इंग भोक्तं प्रभवति ।