________________
आहेतदर्शनम् । कृतप्रणाशाकृतकर्मभो*गभवप्रमोक्षस्मृतिभङ्ग-दोषान् । . उपेक्ष्य साक्षात्क्षणभङ्गमिच्छन्नहो महासाहसिकः परोऽसौ ॥
(वी. स्तु. १८) इति । । 'किंच क्षणिकत्वपक्षे ज्ञानकाले ज्ञेयस्यासत्त्वेन ज्ञेयकाले ज्ञानस्यास. स्वेन च ग्राह्यग्राहकभावानुपपत्तौ सकललोकयात्राऽस्तमियात् । न च समसमयवर्तिता शङ्कनीया । सव्येतरविषाणवत्कार्यकारणभावासंभवेनाग्राह्यस्याऽऽलम्बनप्रत्ययत्वानुपपत्तेः । अथ भिन्नकालस्यापि तस्याऽऽकॉरापकत्वेन ग्राह्यत्वं तदप्यपेशलम् । क्षणिकस्य ज्ञानस्याऽऽकारार्पकताश्रयताया दुर्वचत्वेन साकारज्ञानवादप्रत्यादेशात् । निराकारज्ञानवादेऽपि योग्यतावशेन+. प्रतिकर्मव्यवस्थायाः स्थितत्वात् । तथाहि-प्रत्यक्षेण विषयाकाररहितमेव ज्ञानं प्रतिपुरुषमहमहमिकया घटादिग्राहकमनभूयते न तु दर्पणादिवत्पतिविम्बाकान्तम् । विषयाकारधारितत्वे च ज्ञानस्यार्थे दूरनिकटादिव्यवहाराय जलाञ्जलिवितीर्येत । न चेदमिष्टापादनमेष्टव्यम् । दवीयान्महीधरो नेदीयान्दी| बाहुरिति व्यवहारस्य निराबाधं जागरूकत्वात् । न चाराधायकस्य स्य दवीयस्त्वादिशालितया तथा व्यवहार इति कथनीयम् । दर्पणादौ तथाऽनुपलम्भात् । किंचार्थादुपजायमानं ज्ञानं यथा तस्य नीलाकारतामनुकरोति तथा यदि जडतामपि तयर्थवत्तदपि जडं स्यात् । तथा च वृद्धिमिष्टवतो मूलमपि ते नष्टं स्यादिति महत्कष्टमापनम् । अथैतदोषपरिजिहीर्षया ज्ञानं जडतां नानुक रोतीति ब्रूषे. हन्त तर्हि x तस्या ग्रहणं न स्यादित्येकमनुसंधिसतोऽपरं प्रच्यवत इति न्यायापातः । ननु मा भूज्जडाताया ग्रहणम् । किं नश्छिन्नम्। तदनहणेऽपि नीलाकारग्रहणे = तयोर्भेदोऽनेकान्तो वा भवेत् । नीलाकारग्रहणे
* भवभङ्गः परलोकाभावप्रसङ्गः प्रमोक्षभङ्गः । अन्यः क्षणो बद्धः क्षणान्तरस्य मुक्तिरिति मोक्षाभावः स्मृतिभङ्गदोषः । नह्यन्यदृष्टोऽर्थोऽन्येन स्मर्यत इति । + घ. प्रतिविषयव्यवस्थाया अयुक्तत्वात् । ४ जडतायाः घ. पुस्तके। : तदग्रहण इत्यत्र जडताया इति व्याख्या ग. पुस्तके । = नीलाकारजडतयोः । ॐ ग्रहणाग्रहणरूपः । ग. पुस्तके ।
१च. अपेक्ष्य । २ ख. °ले ज्ञेयस्या । ३ च. पत्तेः स । ४ ग. वेन ग्रा। ५ च. कामार्प । ६ च. कामाश्र । ७ ख. -ग. ङ. च. वादे प्रत्ययादेशेन नि । ८ च. नभेदे । ९ घ. स्थाया अस्थि । च. स्थायाः सिद्धत्वात् । १० क.-ड. दिज्ञानम° । ११ क. ख. घ.-च. बिम्बका। १२ क.- ङ. रित्वेन च । १३ च. विकीर्यत । १४ ख. घ. 'मिष्टमापा । १५ ग. कारोपधा । १६ ख. कस्य । १७ मू. पु. ङ. ते नेष्टं । १८ च. °णे नीलाकारस्यापि ग्रहणं न स्यादियेको दोषः । तदग्रहणेऽपि निराकारस्यापि । १९ ग. °रस्य न । २० घ. °न्तो भ।