________________
सर्वदर्शनसंग्रहेइत्यादिवचननिचयमामाण्यवलात् । सैव प्रज्ञा मानत्राणकी च यस्य तन्माया. मात्रम् । ततश्च परमेश्वरेण ज्ञातत्वादक्षितवाच न द्वैत भ्रान्तिकल्पितम् । न हघिरे सर्वस्य भ्रान्तिः संभवति । विशेषादर्शननिबन्धनत्वाद्धान्तेः । तर्हि तद्यपदेशः कथमित्यत्रोत्तरमद्वैतं परमार्थत इति । परमार्थत इति परमार्थापेक्षया। तेन सर्वस्मादुत्तमस्य विष्णुतत्त्वस्य समाभ्यधिकशून्यत्वमुक्तं भवति । तथा च परमा श्रुतिः
जीवेश्वरभिदा चैव जडेश्वरभिदा तथा। जीवभेदो मिथश्चैव जडजीवभिदा तथा ॥ मिथश्च जडभेदो य: प्रपश्चो भेदपञ्चकः । सोऽयं सत्योऽप्यनादिश्व सादिश्चन्नाशमाप्नुयात् ॥ न च नाशं प्रयात्येष न चासौ भ्रान्तिकल्पितः । कल्पितश्चेन्निवर्तेत न चासौ विनिवर्तते ।। द्वैतं न विद्यत इति तस्मादज्ञानिनां मतम् । मतं हि ज्ञानिनामेतन्मितं जातं हि विष्णुना ॥
तस्मान्मात्रमिति प्रोक्तं परमो हरिरेव तु ॥ इत्यादि । तस्माद्विष्णोः सर्वोत्कर्ष एव तात्पर्य सर्वागमानाम् । एतदेवाभिसंधाया. भिहितं भगवता
द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च । क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते ॥ उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः । यो लोकत्रयमाविश्य बिभत्र्यव्यय ईश्वरः ।। यस्मात्क्षरमतीतोऽहमक्षरादपि चोत्तमः । अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः ॥ यो मामेवमसंमूढो जानाति पुरुषोत्तमम् । स सर्वविद्भजति मां सर्वभावेन भारत । इति गुह्यतमं शास्त्रमिदमुक्तं मयाऽनघ । एतबुद्ध्वा बुद्धिमानस्यात्कृतकृत्यश्च भारत ।।
(भ० गी० १५ । १६–२० ) इनि ।
१ ख. दिलक्षणव । २ ख. °माण्यात् । ३ घ. मात्रं त्रा। ४ घ. तन्मतं ।