________________
पूर्णमज्ञदर्शनम् ।
परित्राणं परिरक्षणम् । मनसा दया स्पृहा श्रद्धा चेति । अत्रैकैकं निष्पाद्य नारायणे: समर्पणं भजनम् । तदुक्तम्
अडूनं नामकरणं भजनं दशधा च तेत् । इति ।
एवं ज्ञेयत्वादिनाऽपि भेदोऽनुमातव्यः । तथा श्रुत्याऽपि भेदोऽवगम्यः । सत्यमेनमनु विश्वे मदन्ति राति देवस्य गृणतो मघोनः । सत्यः सो अस्य महिमा गृणे शवो यज्ञेषु विप्रराज्ये | सत्य आत्मा सत्यो जीवः सत्यं भिंदा सत्यं भिदा सत्यं भिदा मैवारुण्यो मैवारुवण्यो मैवारुवण्य इति मोक्षानन्दभेदप्रतिपादकश्रुतिभ्यः ।
इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः ।
सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च ॥ ( भ० गी० १४ । २ ) । जगव्यापारर्वेर्जम् । ' प्रकरणादसंनिहितत्वाच्च ' ( ब्र० सू० ४ । ४ । १७१८ ) इत्यादिभ्यश्च । न च ' ब्रह्म वेद ब्रह्मैव भवति ' ( मु० ३/२/९ ) इति श्रुतिबलाज्जीवस्य पारमैर्श्वर्य शक्यशङ्कम् ।
संपूज्य ब्राह्मणं भक्त्या शूद्रोऽपि ब्राह्मणो भवेत् । इतिवदबृंहितो भवतीत्यर्थपरत्वात् ।
ननु - प्रपञ्चो यदि विद्येत निवर्तेत न संशयः । मायामात्रमिदं द्वैतमद्वैतं परमार्थतः ॥ ( मा० का ० १।१७ ) इति वचनाद्वैतस्य कल्पितत्वमवगम्यत इति चेत्सत्यम् । भावमनभिसंधायाभिधानात् । तथा हि-यद्ययमुत्पद्येत तर्हि निवर्तेत न संशयः । तस्मादनादि - रेवायं प्रकृष्टः पञ्चविधो भेदप्रपञ्चः । न चायमविद्यमानः । मायामात्रत्वात् । मायेति भगवदिच्छोच्यते ।
1
महामायेत्यविद्यति नियतिर्मोहिनीति च । प्रकृतिर्वासनेत्येव तवेच्छाऽनन्त कथ्यते ॥ प्रकृतिः प्रकृष्ट करणाद्वासना वासयेद्यतः । अ इत्युक्तो हरिस्तस्य मायाऽविद्येति संज्ञिता । मायेत्युक्ता प्रकृष्टत्वात्प्रकृष्टे हि मयाभिधा । विष्णोः प्रज्ञप्तिरेवैका शब्दैरेतैरुदीर्यते ॥ प्रज्ञप्तिरूपो हि हरिः सा च स्वानन्दलक्षणा ||
१ क. ग. घ. परित्राणनं । २ क. ख. ग. सा । इ° । ३ च. 'नन्तरमे । ४ च. 'वर्ज्यम् । प्रभुहितो भ° । ५ ङ. च. प्रभुकरणासं । ६ घ श्वर्यमशक्य' । ७ क. ग. 'त्पद्यते त' । ८ क. ख. ग. "मानमा° । ९ क. ख. ग. 'वत्संज्ञोच्य' । च. 'वत्प्रज्ञोच्य । १० ख त्वदिच्छा।