________________
सर्वदर्शनसंग्रहेघातयन्ति हि राजानो राजाऽहामति वादिनः।
ददत्यखिलमिष्टं च स्वगुणोत्कर्षवादिनाम् ॥ इति । एवं च परमेश्वराभेदतृष्णया विष्णोर्गुणोत्कर्षस्य मृगतृष्णिकासमत्वाभिधानं विपुलकदलीफललिप्सया जिह्वाच्छेदमनुहरति । एतादृशविष्णुविद्वेषणादन्धत. मसप्रवेशप्रसङ्गात् । तदेतत्प्रतिपादितं मध्यमन्दिरेण महाभारततात्पर्यनिर्णये
अनादिद्वेषिणो दैत्या विष्णो द्वेषो विवर्धितः ।
तमस्यन्धे पातयति दैत्यानन्ते विनिश्चयात् .। (१ । १११)इति । सा च सेवा-अङ्कननामकरणभजनभेदात्रिविधा । तत्रानं नारायणायुधादीनां तद्रूपस्मरणार्थमपेक्षितार्थसिद्धयर्थं च । तथा च शाकल्यसंहितापरिशिष्टम् - .
चक्रं बिभर्ति पुरुषोऽभितप्तं बलं देवानाममृतस्य विष्णोः । स याति नाकं दुरितावधूय विशन्ति यद्यतयो वीतरागाः ॥ देवासो येन विधृतेन बाहुना सुदर्शनेन प्रयाँतास्तमायन् ।। येनाङ्किता मनवो लोकसृष्टिं वितन्वन्ति ब्राह्मणास्तद्हन्ति ॥ तद्विष्णोः परमं पदं येन गच्छन्ति लाञ्छिताः।।
उरुक्रमस्य चिह्लरङ्किता लोके सुभगा भवामः ॥ इति । . • अतप्ततनून तदामो अश्नुते श्रितास इद्वहन्तस्तत्समासत' (तै० आ० १ । ११ ) इति तैत्तिरीयकोपनिषच्च । स्थानविशेषश्वाऽऽग्नेयपुराणे दर्शितः
दक्षिणे तु करे विप्रो बिभृयाच्च सुदर्शनम् ।
सव्येन शङ्ख बिभृयादिति ब्रह्मविदो विदुः ॥ इति । अन्यत्र चक्रधारणे मन्त्रविशेषश्च दर्शित:
सुदर्शन महाज्वाल कोटिसूर्यसमप्रभ । अज्ञानान्धस्य मे नित्यं विष्णोर्मार्ग प्रदर्शय ॥ त्वं पुरा सागरोत्पन्नो विष्णुना विधृतः करे ।
नमितः सर्वदेवैश्च पाञ्चजन्य नमोऽस्तु ते ।। इति । नामकरणं पुत्रादीनां केशवादिनाम्ना व्यवहारः सर्वदा तन्नामानुस्मरणार्थम् । भजनं दशविधम-वाचा सत्यं हितं प्रियं स्वाध्यायः । कायेन दानं
१ घ. यातयन्ति । च. विघातयन्ति । २ घ. 'दिनम् । द°। ३ घ. 'दिनम् । इ । ४ च. विफल । ५ घ. °सति । ६ ख. 'तं मेध्य । ७ घ. विष्णोर्टेषविवृद्धितः। ८ क. ख. ग. पातयन्ति । ९ ग. "नन्धविनिश्चया इ°। १० ग. थे त°। ११ ङ. वाश्च ये । १२ घ. दर्शेन । १३ च. याताः स्वर्गमा । १४ घ. येनाऽऽग । १५ च. त्र मृद्धारणे । १६ ख. घ. च. निर्मितः।