________________
पूर्णप्रज्ञर्दशनम्। महावराहेऽपि
मुख्यं च सर्ववेदानां तात्पर्य श्रीपतौ परे ।
उत्कर्षे तु तदन्यत्र तात्पर्य स्यादवान्तरम् ॥ इति । मुक्तं च विष्णोः सर्वोत्कर्षे महातात्पर्यम् । मोक्षो हि सर्वपुरुषार्थोत्तमः ।
धमार्थकामाः सर्वेऽपि न नित्या मोक्ष एव हि ।
नित्यस्तस्मात्तदाय यतेत मतिमान्नरः ॥ इति भाल्लवेयश्रुतेः। मोक्षश्च विष्णुप्रसादमन्तरेण न लभ्यते ।
यस्य प्रसादात्परमार्तिरूपादस्मात्संसारान्मुच्यते नौपरेण ।
नारायणोऽसौ परमो विचिन्त्यो मुमुक्षुभिः कर्मपाशादमुप्मात् ॥ इति नारायणश्रुतेः।
तस्मिन्प्रसन्ने किमिहास्त्यलभ्यं सर्वार्थकामेरलमल्पकास्ते । समाश्रिताड्रह्मतरोरनन्तानिःसंशयं मुक्तिफलं प्रयान्ति ॥
(१ । १७ । ९१) इति विष्णुपुराणोक्तेश्च । प्रसादश्च गुणोत्कर्षज्ञानादेव नाभेदज्ञानादित्युक्तम् । न च तत्त्वमस्यादितादात्म्यव्याकोपः । श्रुतितात्पर्यापरिज्ञानविजृम्भणात् ।
आह नित्यपरोक्षं तु तच्छब्दो ह्यविशेषतः। त्वंशब्दश्चापरोक्षार्थ तयोरैक्यं कथं भवेत् ॥
आदित्यो यूप इति षत्सादृश्यार्थी तु सा श्रुतिः ।। इति । तथाच परमा श्रुतिः
जीवस्य परमैक्यं तु बुद्धिसारूप्यमेव तु । एक स्थाननिवेशो वा व्यक्तिस्थानमपेक्ष्य सः ।। न स्वरूपैकता तस्य मुक्तस्यापि विरूपतः ।
स्वातन्यपूर्णतेऽल्पत्वपारतन्त्र्ये विरूपते ॥ इति । अथवा तत्त्वमसीत्यत्र स एवाऽऽत्मा स्वातन्त्र्यादिगुणोपेतत्वात् । अतत्त्व मसि त्वं तन भवसि तद्रहितत्वादित्येकत्वमतिशयेन निराकृतम् । तदाह
१च. पार्थेषूत्त । २ च. 'मास्वरू । ३ घ. °पान्मुक्तस्तस्मा । ४ च. स्मात्प्रसादान्मु । ५ क.-. नावरे सुसनाराधयन्तोऽसौ । ६ च. भ्यं धर्मार्थ । ७ क. . ङ. प. शोषितः । क. ग.त् । त° । ख. त् । तत।