________________
सर्वदर्शनसंग्रहे-- अतत्त्वमिति वा छेदस्तेनैक्यं सुनिराकृतम् । इति ।
तस्मादृष्टान्तनवकेऽपि स यथा शकुनिः सूत्रेण प्रबद्धः ( छा० ६। ८।२) इत्यादिना भेद एव दृष्टान्ताभिधानान्नायमभेदोपदेश इति तत्त्ववादरहस्यम् । तथाच महोपनिषत्
यथा पक्षी च सूत्रं च नानावृक्षरसा यथा । यथा नद्यः समुद्राश्च यथा जीवमहीरुहो ।। यथाऽणिमा च धाना च शुद्धोदलवणे यथा । चोरापहार्यों च यथा यथा पुंविषयावपि । यथाऽज्ञो जीवसंघश्च प्राणादेश्च नियामकः । तथा जीवेश्वरौ भिन्नौ सर्वदैव विलक्षणौ ॥ तथाऽपि सूक्ष्मरूपत्वान्न जीवात्परमो हरिः। भेदेन मन्ददृष्टीनां दृश्यते प्रेरकोऽपि सन् ।।
लक्षण्यं तयोर्ज्ञात्वा मुच्यते बध्यतेऽन्यथा ॥ इति । ब्रह्मा शिवः सुराद्याश्च शरीरक्षरणाक्षराः । लक्ष्मीरक्षरदेहत्वादक्षरा तत्परो हरिः॥ स्वातन्त्र्यशक्तिविज्ञानसुखाचैरखिलैगुणैः । निःसीमत्वेन ते सर्वे तदशाः सर्वदैव च ॥ इति । विष्णुं सर्वगुणैः पूर्ण ज्ञात्वा संसारवर्जितः । निर्दुःखानन्दभुङ्नित्यं तत्समीपे स मोदते ॥ मुक्तानां चाऽऽयो विष्णुरधिकोऽधिपतिस्तथा ।
तदशा एव ते सर्वे सर्वदेव स ईश्वरः ।। इति च । एकविज्ञानेन सर्वविज्ञानं च प्रधानत्वकारणत्वादिना युज्यते न तु सर्वमिध्यात्वेन । न हि सत्यज्ञानेन मिथ्याज्ञानं संभवति । यथा प्रधानपुरुषाणां ज्ञानाज्ञानाभ्यां ग्रामो ज्ञातोऽज्ञात इत्येवमादिव्यपदेशो दृष्ट एव । यथा च कारणे पितरि ज्ञाते जानात्यस्य पुत्रमिति । यथा वा सादृश्यादेकस्त्रीज्ञानादन्यस्त्रीज्ञानमिति । तदेव सादृश्यमत्रापि विवक्षितं यथा सोम्यैकेन मृत्पिण्डेन सर्व मृन्मयं विज्ञातं स्यादित्यादिना । अन्यथा सोम्यकेन मृत्पिण्डेन सर्व मृन्मयं विज्ञात. मित्यत्रैकपिण्डशब्दो वृथा प्रसज्येयाताम् । मृदा विज्ञातयेत्येतावतैव वाक्यस्य
१.- तत्तस्मा । २ क.ग. ङ च. 'ण ब° । ३ क घ.-च. 'नायाय । ४ ख. 'न भेदहः । ५.ख.. वैदैव वा । इ । क. ग. .-च. वदेवताः । इ । ६ च. ज्ञात आहूत । ७ च. 'नाम्यस्य । ८ ख. घ. °ब्दौ न प्रयुज्येया।