________________
४०
सर्वदर्शनसंग्रहे
४
कर्मवचनः । ‘ऋतं पिवन्तौ' ( का० ३ | १ ) इति वचनात् । ऋतं कर्म फलाभिसंधिरहितं परमपुरुषाराधनंवेषं तत्प्रतिफलम् । अत्र तद्व्यतिरिक्तं सांसारिकाल्पफलं कर्मानृतं ब्रह्मप्राप्तिविरोधि । 'य एतं ब्रह्मलोकं न विन्दन्ति अनृतैन हि प्रत्यूढा: ' ( छा०८ । ३ । २ ) इति वचनात् । 'मायां तु प्रकृतिं विद्यात्' (श्वे ० ४ । १० ) इत्यादी मायाशब्दो विचित्रार्थसर्गकरत्रिगुणात्मकम कृत्य • भिधायको नानिर्वचनीयाज्ञानवचनः ।
तेन माया सहस्रं तच्छम्बरस्याऽऽशुगामिना ।
बालस्य रक्षता देहमेकैकांशेन सूदितम् || (वि० पु० १ । १९ । २०) इत्यादौ विचित्रार्थसर्गसमर्थस्य पारमार्थिकस्यैव सुराद्यस्त्रविशेषस्यैव मायाशब्दाभिधेयत्वोपलम्भात् । अतो न कदाचिदपि श्रुत्याऽनिर्वचनीयाज्ञानप्रति पादनम् ।
नाप्यैक्योपदेशान्यथानुपपत्त्या । तत्त्वंपदयोः सविशेषब्रह्माभिधेयवत्वेन वि रुंद्धयोर्जीवपरयोः स्वरूपैक्यैस्य प्रतिपत्तुमशक्यतयाऽर्थापत्तेरनुदयदोषदूषितत्वात् । तथा हि-तत्पदं निरस्त समस्त दोषमनवधिकौतिशया संख्येये कल्याणगुणास्पदं जगदुदयविभवलयलीलं ब्रह्म प्रतिपादयति । 'तदैक्षत बहु स्यां प्रजायेय' ( छा० ६ । २ । ३ ) इत्यादिषु तस्यैव प्रकृतत् । तत्समानाधिकरणं स्वपदं चाचिद्विशिष्टजीवशरीरकं ब्रह्माऽऽचष्टे । प्रकारद्वयविशिष्टकवस्तुपरत्वात्सामानाधिकर
१५
99
व्यस्य ।
1
ननु सोऽयं देवदत्त इतिवत्तत्त्वमिति पदयोर्विरुद्ध भागत्यागलक्षणया निर्विशेषस्वरूपमात्मैक्यं सामानाधिकरण्यार्थः किंन स्यात् । यथा सोऽयमित्यत्र तच्छब्देन देशान्तरकालान्तरसंबन्धी पुरुषः प्रतीयते । इदंशब्देन संनिहितदेशवर्तमानकाल संबन्धी । तयोः सामानाधिकरण्येनैक्यमवगम्यते । तत्रैकस्यै युगपद्विरुद्धदेशका लभतीतिर्न संभवतीति द्वयोरपि पदयोः स्वरूपपरेत्वे स्वरूपस्य चैक्यं प्रतिपत्तुं शक्यम् । एवमत्रापि किंचिज्ज्ञत्व सर्वज्ञत्वादिविरुद्धांश महणेनाखण्डस्वरूपं लक्ष्यत इति चेत् — विषमोऽयमुपन्यासः । दृष्टान्तेऽपि विरोधधुर्येण लक्षणागन्धासंभवात् । एकस्य तावद्भुतवर्तमानकालदयसंबन्धो न
१ ख. ग. ङ.-च. 'नतयैव त। घ.' नमेव त । २ क. ख. ग. प्राप्यं फ । ३ख. 'फलकं क । ४ घ. -च. विदन्ति । ख. विन्दति । ५ ख. 'ते प्र। ग. 'तेन हि प्रत्येथा इ' । ६ ख. त्रि ं । ७ क. च. 'कैकश्येन धूलितम्। ८ ग. 'कस्यासु । ९ घ. 'वास्त्र । १० ख. घ. ङ. श्रुतावनि । ११ क. ख. ध.—च. "शानु ं । १२ क॰ ॰क्यपरस्य । १३ ग. कानति । १४ च. 'यगु° । १५ क. ग. °विल' ।१६ क. -ङ० 'त्वात्समा ं । १७ ग. घ. दं च चि° । १८ च. 'रीरं व्याच । १९ ख. 'शिष्टकवस्तुविषयत्वा'सामा' । २० ख. 'इत्यादिवत् । २१ ख. न । २२ ख. 'स्य विरु । २३ . ग. रत्वं स्व' । २४ ख. 'हारेणाख' ।