________________
रामानुजदर्शनम् । विकलत्वाच्च । न हि प्रदीपप्रभाया अप्रकाशितार्थप्रकाशकत्वं संभवति । ज्ञानस्यैव प्रकाशकत्वात् । सत्यपि प्रदीपे ज्ञानेन विषयप्रकाशसंभवात् । प्रदीपप्रभायास्तु चक्षुरिन्द्रियस्य ज्ञानं समुत्पादयतो विरोधिसतमसनिरसनद्वारेणोपकारकस्वैमात्रमेवेत्यलमतिविस्तरेण ।
प्रतिप्रयोगश्च विवादाध्यासितमज्ञानं न ज्ञानमात्रब्रह्माश्रितम् । अज्ञानत्वाच्छुक्तिकाद्यज्ञानवदिति । ननु शुक्तिकाद्यज्ञानस्याऽऽश्रयस्य प्रत्यगर्थस्य ज्ञानमात्रस्वभावत्वमेवेति चेन्मैवं शङ्किष्ठाः । अनुभूतिर्हि स्वसद्भावेनैव कस्यचिद्वस्तुना व्यवहारानुगुणत्वापादनस्वभावो ज्ञानावगतिसंविदाद्यपरनामा सकर्मकोऽ. नुभवितुरात्मनो धर्मविशेषः । अनुभवितुरात्मत्वमात्मवृत्तिगुणविशेषस्य ज्ञानत्वमित्याश्रयणात् । ननु ज्ञानरूपस्याऽऽत्मनः कथं ज्ञानगुणकत्वमिति चेत्तदसारम् । यथा हि मणिधुमणिप्रभृति तेजोद्रव्यं प्रभाद्रूपेणावतिष्ठमानं प्रभारूपगुणाश्रयः । स्वाश्रयादन्यत्रापि वर्तमानत्वेन रूपवत्त्वेन च प्रभा द्रव्यरूपाऽपि तच्छेषत्वनिबन्यनगुणव्यवहारा । एवमयमात्मा स्वप्रकाशचिद्रूप एव चैतन्यगुणः। तथा च श्रुतिः- स यथा सैन्धवघनोऽनन्तरोऽबाह्यः कृत्स्नो रसघन एवैवं वा अरेऽयमात्माऽनन्तरोऽबाह्यः कृत्स्नः प्रज्ञानघन एव । (घृ० ४।५।१३ )। ' अत्रायं पुरुषः स्वयंज्योतिर्भवति' (बृ० ४।३।९) । न हि विज्ञातुविज्ञातेर्विपरिलोपो विद्यते ' (बृ० ४।३।३०) । ' अथ यो वेदेदं जिघ्राणीति स आत्मा ' ( छा० ८।१२।४ ) । ' योऽयं विज्ञानमयः प्राणेषु हृद्यन्तज्योतिः पुरुषः । (बृ० ४।३।७)। 'एष हि द्रष्टा स्पष्टा श्रोता घाता रसयिता मन्ता बोद्धा कर्ता विज्ञानात्मा पुरुषः । (प्र० ४।९) इत्यादिका । . न च ' अनुतेन हि प्रत्यूढाः ' ( छा० ८।३।२) इति श्रुतिरविद्यायां प्रमाणमित्याश्रयितुं शक्यम् । ऋतेतरविषयो ह्यनृतशब्दः । ऋतशब्दश्च
१ ध. शत्वा । २ ख. निरासद्वा । ३ ख. त्वमे' । ४ ग. त्रमित्य । ५ च. 'तिप्रपच्छेन । प्र । ६ क. तियो । ७ च. ह्याश्रयम् । ८ ख. 'बमे । ९ ख. घ.-च. °भावाज्ञा । १० क. ग. ङ.-च. तिसंगतिवि' । ११ क. ङ.-मकानु । घ. °कर्मिका । १२ क.-ग. ङ. च. "त्मत्वं ज्ञा । १३ ख. चेद । १४ क. ख. घ.-च. यदा । १५ क. ग. हिमम । १६ ख. °वरूपे । १७ च. न रू° । १८ क. ख. घ. 'श्रयम् । १९ ग. °न्धगु । २० च. दिना श्रुतिरविद्यायाः श्रुतिः प्रमा । २१ ग. योऽन् । २२ ख. °ब्दश्च क ।