________________
सर्वदर्शनसंग्रहेभावान्तरमभावो हि कयाचित्तु व्यपेक्षया ।
भावान्तरादभावोऽन्यो न कश्चिदनिरूपणात् ॥ इति वदता भावव्यतिरिक्तस्याभावस्थानभ्युपगमात् । न द्वितीयः । अभा. वस्य षष्ठप्रमाणगोचरत्वेन ज्ञानस्य नित्यानुमेयत्वेन च तदभावस्य प्रत्यक्षविष यत्वानुपपत्तेः । यदि पुनः प्रत्यक्षाभाववादी कश्चिदेवमाचक्षीत तं प्रत्याचक्षीत। अहमज्ञ इत्यस्मिन्ननुभवेऽहमित्यात्मनोऽभावधर्मितया ज्ञानस्य प्रतियोगितया चावगतिरस्ति न वा । अस्ति चेद्विरोधादेवं न ज्ञानाभावानुभवसंभवः । न चेद्धर्मिप्रतियोगिज्ञानसापेक्षो ज्ञानाभावानुभवः सुतरां न संभवति । तस्याज्ञानस्य भावरूपत्वे प्रागुक्तदूषणाभावादयमनुभवो भावरूपाज्ञानगोचरे एवाभ्युपगन्तव्य इति ।
तदेतद्गगनरोमन्थायितम् । भावरूपस्याज्ञानस्य ज्ञानाभावेन समानयोगक्षेमत्वात् । तथा हि-विषयत्वेनाऽऽश्रयत्वेन चाज्ञानस्य व्यावर्तकतया प्रत्यगर्थः प्रतिपन्नो न वा । प्रतिपन्नश्चेत्स्वरूपज्ञाननिवर्यं तदज्ञानमिति तस्मिन्प्रतिपन्ने कथंकारमवतिष्ठते । अप्रतिपन्नशेव्यावर्तकाश्रयविषयेशून्यमज्ञानं कथमनुभूयेत । अथ विशदः स्वरूपावभास एवाज्ञानविरोधी नाज्ञानेन सह भासत इत्याश्रयविषयज्ञाने सत्यपि नाज्ञानानुभवविरोध इति हन्त तर्हि ज्ञानाभावेऽपि समानमेतत् । * अन्यत्राभिनिवेशात् । तस्मादुभयाभ्युपगतज्ञानाभाव एवाहमज्ञो मामन्यं न जानामीत्यनुभवगोचर इत्यभ्युपगन्तव्यम् ।
अस्तु तेर्वानुमानं मान-विवादास्पदं प्रमाणज्ञानं स्वप्रागौवव्यतिरिक्तस्वविषयावरणस्वनिवर्त्य स्वदेशगतवस्त्वन्तरपूर्वकमप्रकाशितार्थप्रकाशकत्वादन्धकारे प्रथमोत्पन्नप्रदीपप्रभावदिति । तदपि न क्षोदक्षमम् । अज्ञानेऽप्यनभिमताज्ञानान्तरंसाधनेऽपसिद्धान्तापातात् । + तदसाधनेऽनैकान्तिकत्वात् । दृष्टान्तस्य साधन___ * घ. पु. टि.-विशदस्वरूपावभासस्याज्ञानविरोधित्वं नाविशदस्वरूपावभासरयोत चेज्ज्ञानाभावेऽपि विशदस्वरूपावभास एव विरोधी नाविशदस्वरूपावभास इति तुल्यमतो भावरूपाज्ञानस्य ज्ञानाभावसमानयोगक्षेमत्वं तर्हि वादिप्रतिवादिनोरैकमत्ये क विरोध इति चेदन्यत्राज्ञानपदार्थत्वेनाभिमतयो वरूपत्वाभावरूपत्वयोरनैकमत्याग्रहादितरांशतौल्येऽपि न वादविच्छित्तिरिति भावः। + घ. पु. टि.-तस्मिन्नज्ञानविषयकप्रमाणज्ञाने साध्यस्यासाधने।
१ ख. °स्यानुप० । २ क.ग. ङ. °त् । अ° । ३ ख. °न त° । ४ ख. °धर्मत्वेन ज्ञा। ५ ख. °व ज्ञा। ६ च. चेत्थं तत्प्रति । ७ च. ज्ञानभा । ८ च. गनोन्मथितं। ९क.-ङ. भावस। १० च. नस्याव्या । ११ ग.- यं यद । १२ च. यज्ञा । १३ ख. भूयते। १४ ख. ग. °नेन भा । क. ङ.-च. °नेनाऽऽभासित । १५ क. "पि ज्ञा' । १६ ख. °ति चेत् हौं । १७ च.ज्ञानभा । १८ ग. च जा । १९ च. तर्हि तत्रानु । २० क.-ग. ङ. °नं वि°। २१ ख. भावाति । २२ ख. "नेऽसि ।