________________
रामानुजदर्शनम् । न भवति । तदुक्तं भगवता म्यासेन-नैकस्मिन्नसंभवात् (ब्र० सू०२ । २।३१) इति । रामानुजेन च जैनमतनिराकरणपरत्वेन तदिदं सूत्रं व्याकारि । एष हि तस्य सिद्धान्तः--चिदचिदीश्वरभेदेन भोक्तृभोग्यनियामकभेदेने च व्यवस्थितास्त्रयः पदार्था इति । तदुक्तम्---
ईश्वरश्चिदचिच्चेति पदार्थत्रितयं हरिः।
ईश्वरश्चिदिति प्रोक्तो जीवो दृश्यमचित्पुनः ॥ इति । अपरे पुनरशेषविशेषप्रत्यनीकं चिन्मानं ब्रह्मैव परमार्थः । तच्च नित्यशुद्धबुद्धमुक्तस्वभावमपि 'तत्त्वमसि' (छा० ६। ८ । ७) इत्यादिसामानाधिकरण्याधिगतजीवैक्यं बंध्यते मुच्यते च । तदतिरिक्तनानाविधभोक्तभोक्तव्यादिभेद: प्रपञ्चः सर्वोऽपि तस्मिन्नविद्यया परिकल्पित : ‘सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम्' ( छा० ६ । २ । १ ) इत्यादिवचननिचयप्रामाण्यादिति ब्रुवाणाः 'तरति शोकमात्मवित्' (छा० ७।१ । ३) इत्यादिश्रुतिशिरःशतवशेन निर्वि. शेषब्रह्मात्मैकत्वविद्ययाऽनाद्यविद्यानिवृत्तिमङ्गीकुर्वाणाः ' मृत्योः स मृत्युमामोति य इह नानेव पश्यति' (का० २ । १) इति भेदनिन्दाश्रवणेन पारमार्थिक भेदं निराचक्षाणा विचक्षणंमन्यास्तमिमं विभागं न सहन्ते । तत्रायं समाधिरभिधीयते । भवेदेतदेवं यद्यविद्यायां प्रमाणं विद्येत ।
नन्विदमनादि भावरूपं ज्ञाननिवर्त्यमज्ञानमहमज्ञो मामन्यं च न जानामीति प्रत्यक्षप्रमाणसिद्धम् । तदुक्तम्
अनादि भावरूपं यद्विज्ञानेन विलीयते ।
तदज्ञानमिति प्राज्ञा लक्षणं संप्रचक्षते ॥ (चित्सु० १ । १) इति । न चैतज्ज्ञानाभावविषयमित्याशङ्कनीयम् । को ह्येवं ब्रूयात्नभाकरकरावलम्बी भट्टदचहस्तो वा । नाऽऽद्य:
स्वरूपपररूपाभ्यां नित्यं सदसदात्मके । वस्तुनि ज्ञायते किंचित्कैश्चिद्रूपं कदाचन ॥
१ ख. त्वेनेदं । २ क. ख. घ.--च. °न व्य। ३ क. ख. घ. °षप्र । ४ ख. °ण्याग । च. °ण्यावग° । ५ घ. बुध्यते । ६ ग. °क्तभोग्यादि । ७ च. °तीयं ब्रह्मेत्या । ८ च. °दिश्रुतिव । ९ ग. विषया। १० क. ख. घ.--च. नचैवम । ११ ग. 'नमज्ञो । १२ ग. मन्योऽहम । १३ च.--'न्यच्च न । १४ ख. को हि कमेवं ब्रू । घ. को टकं ब्रू। १५ क. ख. ग. घ. प्राभा ।