________________
ورو
रामानुजदर्शनम् । विरुद्धः। देशान्तरस्थितिभूता संनिहितदेशस्थितिवर्तत इति देशभेदसंबन्धविरो. धश्च कालभेदेन परिहरणीयः । लक्षणापक्षेऽप्येकस्यैव पदस्य लक्षणत्वाश्रयणेन विरोधपरिहारे पदद्वयस्य लाक्षणिकत्वस्वीकारो न संगच्छते। इतरथैकस्य वस्तु. नस्तत्तेदंताविशिष्टत्वावगाहनेन प्रत्यभिज्ञायाः प्रामाण्यानङ्गीकारे स्थायित्वासिद्धौ क्षणभङ्गवादी बौद्धो विजयेत । एवमत्रापि जीवपरमात्मनोः शरीरात्मभावेन तादात्म्यं न विरुद्धमिति प्रतिपादितम् । जीवात्मा हि ब्रह्मणः शरीरतया प्रकारत्वाद्ब्रह्मात्मकः । 'य आत्मनि तिष्ठन्नात्मनोऽन्तरो यमात्मा न वेद यस्याऽऽत्मा शरीरम् (बृ० मा० पा० ३ । ७ । २२) इति श्रुत्यन्तरात् । - अत्यल्पमिदमुच्यते। सर्वे शब्दाः परमात्मन एव वाचकाः । न च पर्यायत्वम् । दारभेदसंभवात्। तथा हि-जीवस्य शरीरंतया प्रकारभूतानि देवमनुष्यादिसंस्था नानीव सर्वाणि वस्तूनीति ब्रह्मात्मकानि तानि सर्वाणि । अतः
देवो मनुष्यो यक्षो वा पिशाचोरगराक्षसाः ।
पक्षी वृक्षो लता काष्ठं शिला तृणं घटः पटः॥ इत्यादयः सर्वे शब्दाः प्रकृतिप्रत्यययोगेनाभिधायकत या प्रसिद्धा लोके तद्वाच्यतया प्रतीयमानतत्तत्संस्थानवद्वस्तुमुखेन तदभिमानिजीवतदन्तर्यामिपरमात्मपर्यन्तसंघातस्य वाचकाः । देवादिशब्दानां परमात्मपर्यन्तत्वमुक्तं तत्त्वमु तावल्यां चतुर्थसरे। , जीवं देवादिशब्दो वदति तदपृथक्सिद्धभावाभिधानानिष्कर्षासावयुक्तो बहुरिह च दृढो लोकवेदप्रयोगः । आत्मासंबन्धकाले स्थितिरनवगता देवमादिमूर्तेजीवात्मानुप्रवेशाज्जगति विभुरपि व्याकरोनामरूपे ॥ . .
. (तत्त्वमु०४ । ८२) इति । अनेन देवादिशब्दानां शरीरविशिष्टजीवपर्यन्तत्वं प्रतिपाद्य संस्थानक्याद्यभावे ( तत्त्वमु० ४ । ८३ ) इत्यादिना शरीरलक्षणं दर्शयित्वा शब्देस्तन्वं
१ क. बन्धावि । २ ख. क्षणाश्र' । ३ क. रोधिप । ४ ख. 'त्वपक्षीका । ग. घ. 'त्वकक्षीका । ५ घ. 'दात्म्यमवि । ६ ग. रण। ७ घ. स्थानीनि व। ८ क. 'नानि स । ख. 'नानि व । ग. नानि सर्वाणि च व । ९ क. °नि इति ता । ख. नि स । १० ग. गरक्षसः । ११ घ. तृणध । १२ ख. खे त । १३ क.--. संस्थानस्य । १४ क. ग. वलीये च । ख. 'वल्या जी । १५ क. ग. चतुरुत्तरे । ख. रु. चतुरन्तरे च । घ. चतुरे। च. चतुर्थे सर्गे । जी । १६ क.- 'षोकूतयु। १७ ख. प्रसाध। .... .
.... ................"