________________
सर्वदर्शनसंग्रहेशरूपप्रभृतिभिः ( तत्त्वमु० ४ । ८४ ) इत्यादिना विश्वस्येश्वरादपृथक्सिद्धत्वमुपपाद्य निष्कर्षाकूत ( तत्त्वमु० ४ । ८५ ) इत्यादिना पद्येन सर्वेषां शब्दानां परमात्मपर्यन्तत्वं प्रतिपादितं तत्सर्वं तत एवावधार्यम् । अयमेवार्थः समर्थितो वेदार्थसंग्रहे नामरूपश्रुतिव्याकरणसमये रामानुजेन ।
किंच सर्वप्रमाणस्य सविशेषविषयतया निर्विशेषवस्तुनि न किमपि प्रमाणं समस्ति । निर्विकल्पकप्रत्यक्षेऽपि सविशेषमेव वस्तु प्रतीयते । अन्यों सविफल्पके सोऽयमिति पूर्वप्रतिपन्नप्रकारविशिष्टप्रतीत्यनुपपत्तेः ।
किंच तत्त्वमस्यादिवाक्यं न प्रपञ्चस्य बाधकम् । भ्रान्तिमूलकत्वात् । भ्रान्तिप्रयुक्तरज्जुसर्पवाक्यवत् । नापि ब्रह्मात्मैक्यज्ञानं निवर्तकम् । तत्र प्रमाणाभावस्य प्रागेवोपपादनात् । न च प्रपञ्चस्य सत्यत्वप्रतिष्ठापनपक्ष एकविज्ञानेन सर्वविज्ञानप्रतिज्ञाव्याकोपः । प्रकृतिपुरुषमहदहंकारतन्मात्रभूतेन्द्रिय चतुर्दशभुवनात्मकब्रह्माण्डतदन्तर्वतिदेवतिर्यङ्मनुष्यस्थावरादिसर्वप्रकारसंस्थानसंस्थितं कार्यमपि सर्व ब्रह्मैवेति कारणभूतब्रह्मात्मज्ञानादेव सर्वविज्ञानं भवतीत्येकविज्ञानेन सर्वविज्ञानस्योपपन्नतरत्वात् । अपि च ब्रह्मव्यतिरिक्तस्य सर्वस्य मिथ्यात्वे सर्वस्यासत्त्वादेवैकविज्ञानेन सर्वविज्ञानप्रतिज्ञा बाध्येत । नामरूपविभागानहसूक्ष्मदशावत्प्रकृतिपुरुषशरीरं ब्रह्म कारणावस्थम् । जगत*. स्तदापत्तिरेव प्रलयः । नामरूपविभागविभक्तस्थूलचिदचिद्वस्तुशरीरं ब्रह्म कार्यावस्थम् । ब्रह्मणस्तथाविधस्थूलभावश्च सृष्टिरित्यभिधीयते । एवं च कार्यकारणयोरनन्यत्वमप्यारम्भणाधिकरणे प्रतिपादितमुपपन्नतरं भवति ।
निर्गुणवादाश्च प्राकृतहेयगुणनिषेधविषयतया व्यवस्थिताः । नानात्व. निषेधवादाश्चैकस्यैव ब्रह्मणः शरीरतया प्रकारभूतं सर्व चेतनाचेतनात्मकं वस्त्विति सर्वस्याऽऽत्मतया सर्वप्रकारं ब्रह्मेवावस्थितमिति सर्वात्मकब्रह्मपृथग्भूतवस्तुसद्भावनिषेधपरत्वाभ्युपगमेन प्रतिपादिताः।
किमत्र तत्त्वं भेदोऽभेद उभयात्मकं वा । सर्व तत्त्वम् । तत्र सर्वशरीरतया सर्वप्रकारं ब्रह्मैवावस्थितमित्यभेदोऽभ्युपेयते । एकमेव ब्रह्म नानाभूतचिदचित्प्रकारान्नानात्वेनावस्थितमिति भेदाभेदौ । चिदचिदीश्वराणां स्वरूपस्व
* घ. पु. टि. ब्रह्मापत्तिः।
१ क. ख. ग. घ। प्रकृति । ङ. प्रतिकृति । २ ग. 'कूतरीताविला । ३ ग. था सो ४ च. 'प्रवृत्य । ५ च. तिक्षेपपक्ष ए° । ६ क. ग. प. किंच । ७ क. स. घ.-च. 'ज्ञानं बा। ८ ग. 'गासहसूक्ष्मदशापनप्रकृ । ९ क. ख. ग. २ का । 1. ग. स्वस्वरू। ११ च. 'पप्रभा।