________________
रामानुजदर्शनम् । भाववैलक्षण्यादसंकराच्च भेदः । तत्र चिद्रूपाणां जीवात्मनामसंकुचितापरिच्छिन्ननिर्मलज्ञानरूपाणामनादिकर्मरूपाविद्यावोष्टतानां तत्तत्कर्मानुरूपज्ञानसंकोचविकाशौ भोग्यभूताचित्संसर्गस्तदनुगुणसुखदुःखोपभोगद्वयरूपा भोक्तृता भगवत्पतिपत्तिर्भगवत्पदप्राप्तिरित्यादयः स्वभावाः । अचिद्वस्तूनां तु भोग्यभूतानामचेतनत्वमपुरुषार्थत्वं विकारास्पदत्वमित्यादयः । परमेश्वरस्य भोक्तभोग्ययोरन्तर्यामिरूपेणावस्थानमपरिच्छेद्यज्ञानेश्वर्यवीर्यशक्तितेजःप्रभृत्यनवधिकातिशयासंख्येयकल्याणगुणगणता स्वसंकल्पमत्तस्वेतरसमस्तचिदचिद्वस्तुजातता स्वाभिमतस्वानुरूंपैकरूपदिव्यरूपनिरतिशयविविधानन्तभूषणतेत्यादयः । वेङ्कटनायेन त्वित्थं निरसैङ्कि पदार्थविभाग:
द्रव्याद्रव्यप्रभेदीन्मितमुभयविधं तद्विदस्तत्त्वमाहुद्रव्यं द्वेधा विभक्तं जडमजडमिति प्राच्यमव्यक्तकालौ। अन्त्यं प्रत्यक्पराक्च प्रथममुभयथा तत्र जीवेशभेदानित्या भूतिर्मतिश्चेत्यपरमिह जैडामादिमां केचिदाहुः॥
(तत्त्वमु० १ । ६)। द्रव्यं नानादशावत्प्रकृतिरिह गुणैः सत्त्वपूर्वैरुपेता कालोऽब्दाघाकृतिः स्यादणुरवगतिमाञ्जीव ईशोऽन्य आत्मा । संमोक्ता नित्यभूतिस्त्रिगुणसमधिका सत्त्वयुक्ता तथैव ज्ञातु यावभासो मतिरिति कथितं संग्रहाद्रव्यलक्ष्म ।।
(तत्त्वमु०१ । ७) इत्यादिना । तत्र चिच्छन्दवाच्या जीवात्मानः परमात्मनः सकाशाद्भिमा नित्याश्च । सथाच श्रुतिः-'द्वा सुपर्णा सयुजा सखाया' (मु०३।१।१।०४।६) इत्यादिका । अत एवोक्तम्-नानात्मानो व्यवस्थातः (वै० सू० ३ । २। २०) इति । तन्नित्यत्वमपि श्रुतिप्रसिद्धम्
न जायते म्रियते वा विपश्चिन्नायं भूत्वा भविता वा न भूयः । अजो नित्यः शाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे ॥
(का० २ । १८) इति । १ ग. कर्मावि । २ क. ख. ग. घ. भोज्यभू । ३ क. 'त्वपु । ४ ख. घ. ग्ययोरुभयोर। ग. ग्योभयोर । ५ क. ख. घ.-च. वस्थितिका । ६ ग. कानति । ७ क. वृत्यस्वे । ख. घ. वृत्या स्वे । ८ ख. रूप्यैक । ग. रूपदि। ९ क. ख. घ.-च. निराट । १० क. दाभिमत। ख. घ. दामित° । ग. °दाभिमतमुभयधं । ङ. दायित। ११ घ. अन्ते। १२ क. ख घ. °डा वादिनः के ग. °डामादिकां के । १३ घ. °णुरग° । १४ च. हाद्दिव्य । १५ ग. वा कदाचित्रा। घ. वाऽपि कश्चि।