________________
..[३]
अनेन हि माधवाचार्येण नैकशो ग्रन्थाः प्रणीताः । तदन्तर्गत एवायं प्रकृतः सर्वदर्शनसंग्रहनामा निबन्धः ।
अत्रायं प्रश्नः पुरतः प्रादुर्भवति । किमयं ग्रन्थश्चतुर्थाश्रमस्वीकरणात्प्राक् प्रणीतोऽथवा तदनन्तरामिति । तत्र चरमाश्रमदीक्षाग्रहणात्प्रागेवायं निबन्धो निरमायीत्यनुमीयते । कुत इतिचेच्छ्यताम् । यतोऽयं माधवाचार्यः स्वयमेव ग्रन्थारम्भे श्रीमत्सायणदुग्धाब्धीति श्लोके माधवेतिस्वनामनिर्देशपुरःसरं स्वस्मिञ्जनकतया सायणवंशसंबन्धमवगमयति । यदि चायं निबन्धो जगद्गुरुपीठाधिष्ठानादूर्ध्वं कृतः स्यात्तर्हि संन्यासाश्रमस्वीकारमहिन्नैव तत्प्राग्माविस्ववंशगोत्रसंबन्धादेनिवृत्तत्वाद्ग्रन्थनिर्माणसमये तादृशसंवन्धस्याविद्यमानत्वेनासत्संबन्धकीर्तनस्य चानुचितत्वेन कथमयं सुधीर्माधवः सदावदितुं प्रवृत्तोऽसत्संबन्धं निर्दिशेत् । तथाचोक्तं विश्वेश्वरसरस्वतीप्रणीते यतिधर्मसंग्रहे
नामगोत्रादि चरणं देशं वासं श्रुतं कुलम् ।
वयो वृत्तं व्रतं शीलं ख्यापर्यन्नैव सद्यतिः ॥ इति । माधवेति नामापि च चतुर्थाश्रमग्रहणात्प्राक्तनमेव । तादृशान्ववायान्वयविशिष्टत्वेनैवाऽऽत्मनो माधवेतिनाम्नोल्लेखकरणात् । विद्यारण्य इति समाख्यायाः संन्यासदीक्षाग्रहणसमनन्तरभाविनीत्वेन पूर्वकथाकोविदपरम्परयेदानीमपि श्रूयमाणत्वाच्च ।
पञ्चदशीग्रन्थस्तु शारदापीठाक्रमणादूर्ध्व विरचित इति प्रतीयते । यतस्तत्र संन्यासाश्रमग्रहणात्पूर्वभाविनो वंशनामसंबन्धस्य कस्यचिदपि निर्देशमन्तरैव केवलं जगद्गुरुपीठाधिकारग्राहकशंकरानन्दगुरुपादाम्बुरुहनमनं विधाय ग्रन्थारम्भः क्रियमाणो दृश्यते । यद्यपि तत्र न ग्रन्थकर्तुर्नाम्न उल्लेखस्तथाऽपि नमस्कार्यत्वेन शंकरानन्दगुरोरुपादानान्नमस्कारकर्ता तच्छिष्येणैव भवितव्यम् । स च शिष्यो विद्यारण्य एव । नमनकर्तृग्रन्थकोंरैक्यलाभात् । एवं च पञ्चदश्यां दीपकपरिसमाप्त्यवसरे । विद्यारण्यमुनिविरचितायां ' इत्युल्लेखः पञ्चदश्याः संन्यासदीक्षासमनन्तरभाविनीत्वं सूचयति । यदि चायं निबन्धः पीठाधिरोहणानन्तरं कृतः स्यात्तर्हि पञ्चदश्यामिवात्रापि सायणवंशसंबन्धादिकं किमपि नोल्लिखेत् । यतश्चात्र वंशसंबन्धं कीर्तयति ततः संन्यासस्वीकारात्प्राग्भवत्वमस्य निबन्धस्य सिध्यति। ___ अथ पञ्चदश्यपि शारदापीठप्रवेशात्प्रागेव प्रणीतेति षे चेत् कथय किमिति तत्र माधवनामोल्लेखं न करोति । किमिति च तदानीमविद्यमानं शंकरानन्दगुरुसंबन्धमुद्घाट. यति । आधुनिकाः संन्यासिनोऽपि दीक्षोत्तरं तत्प्राग्वर्तिनामवंशसंबन्धित्वेन नैवाऽऽत्मानं कथयन्ति । नामगोत्रादिचरणं देशं वासं श्रुतं कुलमितिनिषेधात् । किंत्वाश्रमप्रतिष्ठापि