________________
रामानुजदर्शनम् ।
४९ 'शास्त्रयोनित्वात् ' ( ब्र० सू० १ । १ । ३) इति । शास्त्रं योनिः कारणं . प्रमाणं यस्य तच्छास्त्रयोनि । तस्य भावस्तत्त्वं तस्मात् । ब्रह्मज्ञानकारणत्वाच्छास्त्रस्य तद्योनित्वं ब्रह्मण इत्यर्थः । न च ब्रह्मणः प्रमाणान्तरगम्यत्वं शङ्कितुं शक्यम् । अतीन्द्रियत्वेन प्रत्यक्षस्य तत्र प्रवृत्त्यनुपपत्तेः । नापि महाणेवादिकं सकर्तकं कार्यत्वाद्घटवदित्यनुमानम् । तस्य पूतिकूष्माण्डायमानत्वात् । तल्लक्षणं ब्रह्म ' यतो वा इमानि भूतानि (०२।१।१) इत्यादिवाक्यं प्रतिपादयतीति स्थितम् ।
यद्यपि ब्रह्म प्रमाणान्तरगोचरतां नावतरति तथाऽपि प्रवृत्तिनिवृत्तिपरत्वाभावे सिद्धरूपं ब्रह्म न शास्त्रं प्रतिपादयितुं प्रभवतीत्येतत्पर्यनुयोगपरिहारायोक्तं ' तत्तु समन्वयात् ' (ब्र० सू० १ । १ । ४) इति । तुशब्दः प्रसक्ता. शङ्काव्यावृत्त्यर्थः । तच्छास्त्रप्रमाणकत्वं ब्रह्मणः संभवत्येव । कुतः । समन्वयात् । परमपुरुषार्थभूतस्यैव ब्रह्मणोऽभिधेयतयाऽन्वयादित्यर्थः । न च प्रवत्तिनिवृत्त्योरन्यतरविरहिणः प्रयोजनशून्यत्वम् । स्वरूपपरेष्वपि पुत्रस्ते जातो नायं सर्प इत्यादिषु हर्षप्राप्तिभयनिवृत्तिरूपप्रयोजनवत्वं दृष्टमेवेति न किंचिदनुपपन्नम् । दिङ्मात्रमत्र प्रदर्शितम् । विस्तरस्त्वाकरादेवावगन्तव्य इति विस्तरभीरुणोदास्यत इति सर्वमनाकुलम् । " इति श्रीमत्सायणमाधवीये सर्वदर्शनसंग्रहे रामानुजदर्शनम् ।।
अथ पूर्णप्रज्ञदर्शनम् ॥ ५ ॥
. तदेतद्रामानुजमतं जीवाणुत्वदासत्ववेदापौरुषेयत्वसिद्धार्थबोधकत्वस्वतःप्रमाणत्वप्रमाणत्रित्वपश्चिरात्रोपजीव्यत्वप्रपञ्चभेदसत्यत्वादिसाम्येऽपि परस्परवि. रुद्धभेदादिपक्षत्रयकक्षीकारण क्षपणकपक्षनिक्षिप्तमित्युपेक्षमाणः 'स आत्मा तत्त्वमसि' (छा० ६ । ८ । ७) इत्यादेर्वेदान्तवाक्यजातस्य भङ्गन्यन्तरेणार्थान्तरपरत्वमुपपाद्य ब्रह्ममीमांसाविवरणव्याजेनाऽऽनन्दतीर्थः प्रस्थानान्तरमास्थिषत । तन्मते हि द्विविधं तत्त्वम् । स्वतन्त्रपरतन्त्रभेदात् । तदुक्तं तत्त्वविवेके--
१क. ख. ग. घ. च. नहि । २ च. पक्षेऽपि । ३ क. ख. घ.-च. र्षभ । ४ क. ख. ग.घ. कर एवा । ५ क. °सत्वे वे । ६ क. ग. पञ्च । ७ ग. त्यादिवेदा । ८ ग. °साव्या । ९ च. रमकार्षीत् । अस्मिन्म ।१० क. ख. घ.-च. 'तन्त्रास्वत । .