________________
४८
सर्वदर्शनसंग्रहे.. पुरुषः स परः पार्थ भक्त्या लभ्यस्त्वनन्यया ॥
. (भ० गी० ८ । २२ ) इति च । . भक्तिस्तु निरतिशयानंन्दप्रियानन्यप्रयोजनसकलेतरवैतृष्ण्यवज्ज्ञानविशेष एव । तत्सिद्धिश्च विवेकादिभ्यो भवतीति वाक्यकारेणोक्तम्-तल्लब्धिर्विवेकविमोकाभ्यासक्रियाकल्याणानवसादानुद्धर्षेभ्यः संभवान्निर्वचनाचेति । तत्र विवेको नामादुष्टादन्नात्सत्त्वशुद्धिः । अत्र निर्वचनम्-आहारशुद्धः सत्त्वशुद्धिः सत्त्वशुद्धया ध्रुवा स्मृतिरिति । विमोकः कामानभिष्वङ्गः । शान्त उपासीतेति निर्वचनम् । पुनः पुनः संशीलनमभ्यासः । निर्वचनं च स्मार्तमुदाहृतं भाष्यकारेण- सदा तद्भावभावितः ( गी० ८ । ६ ) इति । श्रौतस्मातकर्मानुष्ठानं शक्तितः क्रिया । क्रियावानेष ब्रह्मविदां वरिष्ठ इति निर्वचनम्। सत्यार्जवदयादानादीनि कल्याणानि । सत्येन लभ्यत इत्यादि निर्वचनम् । दैन्यविपर्ययोऽ. नवसादः। 'नायमात्मा बलहीनेन लभ्यः' (मु० ३ । २। ४) इति निर्वचनम् । * तद्विपर्ययजा तुष्टिरुद्धर्षः । तद्विपर्य योऽनुद्धर्षः । शान्तो दान्त इति निर्वचनम् । . तदेवमेवंविधनियमविशेषसमासादितपुरुषोत्तमप्रसादविध्वस्ततमःस्वान्तस्यानन्यप्रयोजनानवरतनिरतिशयप्रियविशदात्मप्रत्ययावभासतापन्नध्यानरूपया भक्त्या पुरुषोत्तमपदं लभ्यत इति सिद्धम् । तदुक्तं यामुनेन-उभयपरिकमितस्वान्तस्यैकान्तिकात्यन्तिकभक्तियोगो लभ्य इति । ज्ञानकर्मयोगसंस्कृतान्त:करणस्येत्यर्थः।
किं पुनर्ब्रह्म जिज्ञासितव्यमित्यपेक्षायां लक्षणमुक्तम् ' जन्माद्यस्य यतः । (ब्र० सू० १ । १ । २) इति । जन्मादीति सृष्टिस्थितिप्रलयम् । तद्गुणसं. विज्ञानो बहुव्रीहिः । अस्याचिन्त्यविविधविचित्ररचनस्य नियतदेशकालेभोगब्रह्मादिस्तम्बपर्यन्तक्षेत्रज्ञमिश्रस्य जगतो यतो यस्मात्सर्वेश्वरान्निखिलहेयप्रत्य. नीकस्वरूपात्सत्यसंकल्पाद्यनवधिकातिशयासंख्येयकल्याणगुणात्सर्वज्ञात्सर्वशः तेः पुंसः सृष्टिस्थितिपलयाः प्रवर्तन्त इति सूत्रार्थः। इत्यंभूते ब्रह्मणि किं प्रमाणमिति जिज्ञासायां शास्त्रमेव प्रमाणमित्युक्तं
* घ. पु. टि.-दैन्यविपर्ययजा ।
१ ख. शयति । २ क. ग. नप्रि । ३ च. °मानामाभि । ४ घ. °ति च नि । ५ च. 'स्तध्वान्त । ६ क.-टु. यदात्म । ७ च. "त्मकभासतापन्नस्य ध्या । ८ क. ख. ग. घ. स्वातन्यै । ग. लफलभो । १० ग, "कानति,