________________
रामनुजदर्शनम् ।
४७ वचनबलादिच्छाया इष्यमाणप्रधानत्वादिष्यमाणं ज्ञानमिह विधेयम् । तथ ध्यानोपासनादिशब्दवाच्यं वेदनं न तु वाक्यजन्यमापातज्ञानम् । पदसंदर्भश्रावणो व्युत्पन्नस्य विधानमन्तरेणापि प्राप्तत्वात् । 'आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्य:' ( बृ० २/४/५ ) | 'आत्मेत्येवोपासीत ' ( बृ० १/४/७ ) | 'विज्ञाय प्रज्ञां कुर्वीत ' ( वृ० ४/४/२१ ) । ' अनुविध विजानाति' ( छा० ८|१२|६ ) इत्यादिश्रुतिभ्यः । अत्र श्रोतव्य इत्यनुवादः । अध्ययनविधिना साङ्गस्य स्वाध्यायस्य ग्रहणेऽधीतवेदस्य पुरुषस्य प्रयोजनवदर्थदर्शनात्तनिर्णयाय स्वरसत एव श्रवणे प्रवर्तमानतया तस्यं प्राप्तत्वात् । मन्तव्य इति चानुवादः । श्रवणप्रतिष्ठार्थत्वेन मननस्यापि प्राप्तत्वात् । अप्राप्ते शास्त्रमर्थवदिति न्यायात् । ध्यानं च तैलधारावदविच्छिन्न स्मृतिसंतान रूपम् । ध्रुवां स्मृतिः स्मृतिप्रतिलम्भे सर्वग्रन्थीनां विममोक्ष इति ध्रुवायाः स्मृतेरेव मोक्षोपायत्वश्रवणात् । सा च स्मृतिर्दर्शनसमानाकारा ।
भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः ।
क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे || ( मु० २|२८ ) इत्यनेनैकवाक्यत्वात् । तथा च ' आत्मा वा अरे द्रष्टव्यः ' ( बृ० २/४/५ ) इत्यनेनास्या दर्शनरूपता विधीयते । भवति च भावनाप्रकर्षात्स्मृतेर्दर्शन रूपत्वम् । वाक्यकारेणैतत्सर्वे प्रपञ्चितं वेदनमुपासनं स्यादित्यादिना । तदेव ध्यानं विशिनष्टि श्रुतिः
1
नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन ।
यमेवैष वृणुते तेन लभ्यस्तस्यैष आत्म विवृणुते तनूं स्वाम् || ( कठ० २ । २३ ) इति । प्रियतम एव हि वरणीयो भवति । यथाऽयं प्रियतम आत्मानं प्राप्नोति तथा स्वयमेव भगवान्प्रयतत इति भगवतैवाभिहितम् —
तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम् । ददामि बुद्धियोगं तं येन मामुपयान्ति ते ।
( भ० गी० १० । १० ) इति ।
* घं. पु. टि. तस्य श्रवणस्य प्राप्तत्वात् ।
१ ख. 'र्थज्ञाना' । २ क. ग. तस्याः । ३ ख इत्यनुवादमात्रं श्र° । ४ क. पि अप्रा । ५ क. ख. म. घ. रूपा ध्रुवा । ६ ख. मोक्षहेतुत्व' । ७ क. ख. घ. - च. 'कत्वा ं ।
८ ख. ग. घ.
'त्मावृ ।