________________
सर्वदर्शनसंग्रहेस्वतन्त्रं परतन्त्रं च द्विविधं तत्त्वमिष्यते ।
स्वतन्त्रो भगवान्विष्णुनिदोषोऽशेषसद्गुणः ॥ इति। . ननु सजातीयविजातीयस्वगतनानात्वशून्यं ब्रह्मतत्त्वमिति प्रतिपादकेषु वेदान्तेपु जागरूकेषु कथमशेषसद्गुणत्वं तस्य कथ्यत इति चेन्मैवम् । भेदप्रमापकबहुप्रमाणविरोधेन तेषां तत्र प्रामाण्यानुपपत्तेः । तथाहि- प्रत्यक्षं तावदिदमस्माद्भिन्नमिति नीलपीतादेर्भेदमध्यक्षयति ।
अथ मन्येथाः-किं प्रत्यक्षं भेदमेवावगाहते किंवा धर्मिप्रतियोगिघटितम् । न प्रथमः । धर्मिप्रतियोगिप्रतिपत्तिमन्तरेण तत्सापेक्षस्य भेदस्यासक्या. ध्यवसायत्वात् । द्वितीयेऽपि धर्मिप्रतियोगिग्रहणपुरःसरं भेदग्रहणमथवा युगपत्तत्सर्वग्रहणम् । न पूः । बुद्धषिरम्य व्यापाराभावात् । अन्योन्याश्रयमसङ्गाच्च । नापि चरमः । कार्यकारणबुद्धयोर्योगपद्याभावात् । धर्मितीतिर्हि भेदप्रत्ययस्य कारणम् । एवं प्रतियोगिप्रतीतिरपि । संनिहितेऽपि धर्मिणि व्यवहितप्रतियोगिज्ञानमन्तरेण भेदस्याज्ञातत्वेनान्वयध्यतिरेकाभ्यां कार्यकारणभावारगमात् । तस्मात्र भेदप्रत्यक्षं सुप्रसरामिति चेतिक वस्तुस्वरूपभेदवादिनं प्रतीमानि दूषणान्युद्घष्यन्ते किंवा धर्मभेदवादिनं प्रति । प्रथमे घोरापराधान्माण्डव्यनिग्रहन्यायापातः । भवदभिधीयमानदूषणानां तदविषयत्वात् । ननु वस्तुस्वरूपस्यैव भेदचे प्रतियोगिसापेक्षत्वं न घटते घटवत् । प्रतियोगिसापेक्ष एव सर्वत्र भेदः प्रथत इति चेन्न । प्रथम सर्वतो विलक्षणतया वस्तुस्वरूपे *ज्ञायमाने +ातियोग्यपेक्षया विशिष्टव्यवहारोपपत्तेः । तथाहि-परिमाणघटितं वस्तुस्वरूपं प्रथममवगम्यते । पश्चात्पति. योगिविशेषापेक्षया हस्त्वं दीर्घमिनि तदेव विशिष्य व्यवहारभाजनं भवति । तदुक्तं विष्णुतत्त्वनिणेये-न च विशेषणविशेष्यतया भेदसिद्धिः। विशेषणविशेष्यभानश्च भेदापेक्षः । धर्मिप्रतियोग्यपेक्षया भेदसिद्धिः। भेदापेक्षं च धर्मिप्रतियोगित्वमित्यन्योन्याश्रयतया भेदैस्यायुक्तिः । पदार्थस्वरूपत्वा दस्य-इत्यादिना। अत एव
___* घ. पु. टि.-ज्ञानविषये । + घ. पु. टि.-जाते सत्यनन्तरमिति शेषः । ४ यतः सर्वतो विश. क्षणतत्तद्रस्तुस्वरूपज्ञानं तत्तद्वस्तुनो विशिष्टव्यवहार कारणमत एवं गवार्थिनो लक्षणगवयति वस्तज्ञानसस्वेऽपि न गोविषयकविशिष्टव्यवहाररूपप्रवृत्यादिः संभवतीत्यर्थः ।
१ क. ख. घ. च. 'तन्त्रमस्वत । २ ग. 'र्दोषाशे । ३ कै. ख. षषड्गु । ४ख. °धु जा' ५५.-च. 'तीयोऽपि । ६ य. प्रतियोगिप्रतिपत्तिभे । ७ क.ग. ६. च. 'रणं स । ८ घ. त छ । ९ क. चेनैत:सारं स । १० च.--भेदासि । ११ टु.-च. 'दस्य यु। घ. °दस्यायुक्तत्वं