________________
१७०
सर्वदर्शनसंग्रहेभरूपपरमपुरुषार्थः: सेत्स्यति । तथा चाऽऽपस्तम्बस्मृतिः-आत्मलाभान परं विद्यत इति । नन्वसौ नित्यलब्धः । न हि स्वयमेव स्वस्यालब्धो भवति । सत्यम् । किंत्वनादिमायोसंबन्धात्क्षीरोदकवत्समदाचारप्रवृत्तिता न लभते । तथा च यथा शबरादिभिर्खाल्यात्स्वसुतैः सह वर्धितो राजपुत्रस्तज्जातीयमात्मानमवगच्छन्बन्धुभिर्य एवंभूतो राजा स त्वमसीति बोधिते स्वरूपे लब्धस्वरूप इव भवति तथा वेश्यास्थानीययाऽनाद्यविद्यया स्वभावान्तरं नीत आत्मामातृस्थानीयया तत्त्वमसीत्यादिकया श्रुत्या स्वभावं नीयते । एतदाहुवि
घवृद्धः
......
नीचानां वसतौ तदीयतनयः सार्धं चिरं वर्धित- . "स्तजातीयमवैति राजतनयः स्वात्मानमप्यञ्जसा। संवादे महदादिभिः सह वसंस्तद्वद्भवेत्पुरुषः .. स्वात्मानं सुखदुःखजालकलित मिथ्यैव धिङ्मन्यते ॥ दाता भोगपरः समग्रविभवो यः शासिता दुष्कृता । राजा स त्वमसीति रक्षितृमुखाच्छ्त्वा यथावत्स तु । रानीभूय जयार्थमेव यतते तद्वत्पुमान्बोधितः ।
· श्रुत्या तस्वमसीत्यपास्य दुरितं ब्रह्मैव संपद्यते ॥ एतेनतत्मत्युक्तं यदुक्तं परैः किं द्वयोस्तादात्म्यमेकस्य वा । नाऽऽद्यः । अद्वैत-. भङ्गप्रसङ्गात् । न द्वितीयः । असंभवादिति । तन्न । अविद्यापरिकल्पितभेद निवृत्तिपरत्वेन तत्त्वमस्यादितादात्म्यवादमामाण्योपपत्तेः। तौ च पर्यनुयोगप: रिहारावग्राहिषातां मनीषिभिः ।
'न द्वयोरस्ति तादात्म्यं न चैकस्याद्वयस्वतः। .
___ अप्रामाण्यं श्रुतेरेवं नाऽऽरोपध्वंसमात्रतः ।। इति । ततश्च तत्त्वमसीति तत्त्वंपदार्थश्रवणमननभावनोबलभुवा साक्षात्कारेणानाद्यविद्यानिवृत्तौ सच्चिदानन्दैकरसब्रह्माविर्भावः संपत्स्यत इति ब्रह्मणो जिज्ञास्यत्वं प्रथमसूत्रोक्तं युक्तम् ।
अज्ञातं विषयो ब्रह्म ज्ञातं तच्च प्रयोजनम् । मुमुक्षुरधिकारी स्यात्संबन्धः शक्तितः श्रुतेः ॥ इति ।
१ ख. 'म्बश्रुतिः । २ क. "या साक्षी । ख. यासंहारात्क्षी । ३ ख. लभ्यते। ४ ख. वर्तितो । ५ ख. 'यते । त° । ६ ख. "द्धा निचा । ७ ख. नयोः सार्थ चि । ८ ख. । 'स्तद्वत्पू । ९ ख. लिलं मि। १० ख 'धिप्ता श्रु° । ११ क-ते । येनै । १२ ख. 'नादल' । १३ ख. न्धः शुक्तितच्छ्रुतेरिति ।