________________
१६८
सर्वदर्शनसंग्रहेप्रयोगे समानबलतया बाधप्रतिरोधः । प्रतिरोधभियाऽन्यतरदोषत्वसंभवादिति वदितव्यम् । मरुमरीचिकोदकादौ सव्यभिचारात् । अबाधितत्वेन विशेषणान दोष इति चेन्मैवं भाषिष्ठाः । विशेषणासिद्धः। तत्रेदं भवा न्पृष्टो व्याचष्टाम् । कतिपयपुरुषकतिपयकालाबाधितत्वं हेतुविशेषणं क्रियते सर्वथा पाधवैधुर्यं वा । न प्रथमः । । ___ यत्नेनानुमितोऽप्यर्थः कुशलैरनुमातृभिः ।
अभियुक्ततरैरन्यैरन्यथैवोपपाद्यते ।। ( वाक्यप० १।३४) इति न्यायेन त्रिचतुरप्रतिपत्तृप्रतिपादितस्यापि प्रतिपनन्तरेण प्रकारान्तरमुररीकृत्य प्रतिपादनात् । नापि चरमः । सर्वथा बाधवैधुर्यस्यासर्वज्ञदुर्जेयत्वात् । यद्येवं हन्त तर्हि ज्ञानात्मनोऽपि सत्यत्वं नावगम्यत इति चेन्मेवं मंस्थाः। 'तत्सत्यं स आत्मा' (छा० ६।८७) इत्यागमसंवादगतेः । न च प्रपञ्चऽप्ययं न्याय इति मन्तव्यम् । तादृशस्याऽऽगमस्यानुपलम्भात् । प्रत्युताद्वितीयत्वं श्रावयन्त्याः श्रुतेः प्रपञ्चमिथ्यात्व एव पक्षपातात् । ननु कल्पनामात्रशरीरस्य 'पक्षसपक्षविपक्षादेः सर्वसुलभत्वेन जयपराजयव्यवस्थया कथं कथा प्रथेत । काऽत्र कथंता ।
‘एवं त्रिचतुरज्ञानजन्मनो नाधिका ना..' । (श्लो० वा० १ । १ । २ सूत्रे) इति न्यावेन त्रिचतुरकक्ष्याविश्रान्तस्य तत्तदाभासलक्षणानालिङ्गितस्य दूषण. भृषणादेस्तत्र कथाङ्गत्वाङ्गीकारात् । अत एवोक्तं खण्डनकारेण-व्यावहारिकी प्रमाणसत्तामादाय विचारारम्भः ( ख० पृ.० ४४ ) इति । न च भेदग्राहिभिः प्रमाणैरद्वैतश्रुतेर्जघन्यतेति अन्यम् । ब्रह्मणि पारमार्थिकसत्यत्वेन तदावेदिकायास्तत्त्वावेदनलक्षणप्रामाण्यायाः श्रुतेर्व्यावहारिकप्रमाणभावानां प्रत्यक्षादीनां च विभिन्न विषयतया परस्परं बाध्यबाधकभावासंभवात् । तदप्युक्तं तेनैव
दद्वैतश्रुतेस्तावदाधे प्रत्यक्षमक्षमम् । नौनुमानादिकं कर्तुं तवापि क्षमते मते ॥ (ख. १ । २०)। धीधना बाधनायास्यास्तदा प्रज्ञा प्रयच्छथ । क्षप्तुं चिन्तामणि पाणिलब्धमब्धौ यदीच्छथ ॥(ख० १।२४)।
१ ख. दोषितत्व । २ ख. नापग' । ३ ख. न प्रा ४ ख. 'न्याश्रावयन्त्या श्रु । ५ क.'तुरोज्ञा । ६ ख. कामितिरि' । ७ ख. श्रुतिर्मन्यत इति । ८ ख. तवे । ९ ख. क्षादिना च । १० ख. तथाऽद्वै । ११ ख. नाम मानादित क । १२ ख. ते । साध।