________________
[१५] - पतललिप्रभृतिमुनिमतमनुवर्तमानानां दर्शनं पातञ्जलदर्शनम् । एतन्मते चितिशक्ते निरुपाधिकस्वरूपेणावस्थानं मोक्षः । तत्र साधनतया यमनियमासनप्राणायामप्रत्याहारध्यानधारणासमाधीत्येतदष्टाङ्गनिर्वचनपुरःसरं प्रमाणविपर्ययादिचित्तवृत्तिनिरोधाख्यो योगः सविस्तरं प्रतिपादितः । तत्र योगे प्रत्याहारपर्यन्तानि पञ्च बहिरङ्गाणि साधनानि । ततः पराणि त्रीणि संयमपदवाच्यान्यन्तरङ्गसाधनानीति विवेक्तव्यामिति ।
अधुना सर्वदर्शनमूर्धन्यभूतं शांकरदर्शनं संक्षेपतः किंचिन्निरूप्यते । सांख्यदर्शने मुख्यतः प्रकृतिपुरुषरूपं तत्त्वद्वयं प्रतिपादितम् । तत्र प्रकृतिरपि नित्या । सैव प्रधानशब्देनोच्यते । तच्च प्रधानं जडमपि घटस्य मृदिव महदादेः कारणमित्युक्तम् । तथा कैरपि सांख्यैर्जीवातिरिक्तः परमेश्वरः स्वीकृतः । स एव ब्रह्मात्मेत्यादिशब्दैर्व्यवाहियते । ततश्च जडनीवभेदो जीवेश्वरभेदः परिणामवादश्च स्वीकृतः । स च भेदः सत्य इति स्पष्टमेव प्रतीयते । तदेतत्सर्व श्रीशंकराचार्याणामसंमतम् । यतः श्रुतौ
___ सजातीयं न मे किंचिद्विजातीयं न मे भवेत् ।
स्वगतं च न मे किंचिन्न मे भेदत्रयं भवेत् ॥ इति ब्रह्मणि सजातीयाद्विजातीयात्स्वगताच्च भेदः प्रतिषिध्यते । यदि च सांख्यमतानुसारेण भेदो वास्तविकः स्यात्तर्हि चेतनत्वेन सजातीयाज्जीवादचेतनत्वेन विजातीयाज्जडाद्रामानुजमते ब्रह्मणः सगुणत्वेन स्वगताद्गुणाच्च ब्रह्मणि भेदस्य दुर्वारतया भेदत्रयनिषेधप्रतिपादिका श्रुतिः पीडयेत । जीवब्रह्मणो. स्तविकत्वेनैकविज्ञानेन सर्वविज्ञानप्रतिज्ञाऽपि न संगच्छेत । नेह नानाऽस्ति, नेति नेति इत्याद्याः श्रुतयोऽप्यमुमेवाभेदं प्रशंसन्ति । सर्वं खल्विदं ब्रह्म, ऐतदात्म्यमिद५ सर्वम्, . एवमादिश्रुतयश्च तं द्रढयन्ति । ततश्च भेदत्रयनिषेधान्यथानुपपत्त्या परिदृश्यमानस्य सचराचरस्य सचेतनाचेतनस्य सर्वस्य जगतः प्रातिभासिकत्वकल्पनं विना गत्यभावात्तदुपपादकमनादिभावरूपाज्ञानं परिकल्पनीयम् । यथैव हि रज्ज्वा तिमिरादिदोषवशासर्पभूदलनाम्बुधाराः परिकल्प्यन्त एवं चिन्मात्रवपुषि परे ब्रह्माण परिकल्पितमिदमनेकभेदभिन्नं सकलं जगन्मिथ्याभूतम् । यथावस्थितब्रह्मस्वरूपावबोधबाध्यं च । मिथ्यात्वं नाम प्रतीयमानत्वपूर्वकयथावस्थितवस्तुज्ञाननिवर्त्यत्वम् । यथा भ्रमाधिष्ठानभूतरज्जुतत्त्वज्ञाने प्रतीयमानसपीदेर्निवृत्तिः । दोषश्चात्र स्वरूपतिरोधानविविधविचित्रविक्षेपकरं सदसद्भ्यामनिर्वचनीयमनाद्यविद्यापरपर्याय भावरूपाज्ञानमेव । इदमेव सर्वस्य जगतो मूलकारणमिति मूलाज्ञानमित्युच्यते । तच्च त्रिगुणात्मकमपि न सांख्यसंमतप्रधानवन्नित्यम् । मोक्षावस्थायां तस्य विनाशावश्यंभावात् । अतो न कथमपि द्वैतप्रसङ्गः । एतादृशाज्ञानकल्पने प्रमाणं देवात्मशक्तिं स्वगुणैर्निगूढाम् , भूयश्चान्ते विश्वमायानिवृत्तिः, पराऽस्य शक्तिर्विविधैव