________________
[१६] श्रूयते, इत्याचाः श्रुतयः । अत्र स्वगुणैर्निगूढां मायानिवृत्तिः पराऽस्य शक्तिपिविधवे. त्यादिपदैः पूर्वोक्तविशेषणविशिष्टस्य तादृशाज्ञानस्य स्पष्टमेवोपढौकितत्वात् । किंचोंकाज्ञाने तत्त्वमसीति जीवब्रह्मैक्यप्रतिपादकश्रुतिरपि प्रमाणम् । यदि च जीवब्रह्मणोभेदस्तात्त्विकः स्यात्तदा तयोस्तादात्म्यं कुशाग्रधिषणेन सुरगुरुणाऽपि सुदुर्वचमित्यतस्तादृशाज्ञानकल्पनमनिच्छद्भिस्तत्रभवद्भिर्भवद्भिः सर्वैरप्यगत्या स्वीकार्यम् । तेन चाज्ञानेनायं जीवनडादिः सकलः प्रपञ्चः परमात्मनि प्रकल्पित इति मिथ्यैवेति चैकमेव तत्त्वं परमार्थतः । ततश्च परमात्मन्येवेदं सकलं भासत इत्ययं विवर्तवादः । नतु परिणामवादो नापि रामानुजीयाभीष्टा सख्यातिः । किंत्वनिर्वचनीयख्यातिः । अनिर्वचनीयत्वं नाम कार्यस्य सत्त्वेनासत्त्वेन च निर्वक्तमशक्यस्य ख्यातिः प्रतीतिः । यथा शक्तिकायां भासमानं रजतम् । तद्धि न सत्यम् । नेदं रजतमिति बाधानुपपत्तेः । नाप्यसत्यम् । संप्रतीदं रजतमिति प्रतीत्यनुपपत्तेः । तदुक्तम्
सत्त्वे न भ्रान्तिबाधौ स्तो नासत्त्वे ख्यातिबाधने ।
सदसद्भ्यामनिर्वाच्याविद्याऽऽविद्यैः सह भ्रमः ॥ इति । प्रपञ्चस्याप्यनादिभावरूपाज्ञानमूलकत्वादनिर्वचनीयत्वमेव । तथाहि प्रतीयमानं सर्क जगन्न सत् । ज्ञानिदृष्टया बाधानुपपत्तेः । नाप्यसत् । ज्ञानावस्थातः प्राक्कालेऽस्मदादीनामपि प्रतीत्यनुपपत्तेः । अतः सतः ख्यातिर्दुवैचा । एतत्सर्वमनुसंधायैव माण्डूक्योपनिषद्युक्तम्
मायामात्रमिदं द्वैतमद्वैतं परमार्थतः । इति । एतन्मते मूलाज्ञाननिवृत्तौ स्वस्वरूपाधिगमो मोक्षः । एवं चानवरततन्तन्यमानानादिभावरूपाज्ञानकृतं सर्व संसृतिचक्रं तस्मिन्परस्मिन्नेव कल्पितं मिथ्याभूतम् । रज्जो भुजंगवत् । निरस्तसमस्तदोषनिधूताखिलविशेषकर सकूटस्थशुद्धबुद्धमुक्तनित्यज्ञानानन्दस्वयंज्योतीरूपं चिन्मात्रमेकमेव ब्रह्मतत्त्वमित्यद्वैतप्रतिपादकं शांकरदर्शनमेव विजय. तेतराम् ।
एवं यथाबुद्धिबलं सर्वदर्शनस्वरूपं संक्षेपतो निरूप्य श्रीमत्सच्चिदानन्दचरणकमलयोः समर्पयति
पुण्यपत्तने शके १८४९ फा. शु. ११ भृगुवासरे. ६ मारुलकरोपाख्यः शंकरशास्त्री ।