________________
रामानुजदर्शनम् । तदेव वासुदेवाख्यं परं ब्रह्म निगद्यते । अन्तर्यामी जीवसंस्थो जीवप्ररेक ईरितः ॥ य आत्मनीति वेदान्तवाक्यजालैर्निरूपितः।। अर्थोपासनया क्षिप्ते कल्मषेऽधिकृतो भवेत् ॥ विभवोपासने पश्चाद्व्यूहोपास्तौ ततः परम् ।
सूक्ष्मे तदनु शक्तः स्यादन्तर्यामिणमीक्षितुम् ॥ इति । .. तदुपासनं च पञ्चविधमभिगमनमुपादानामिज्या स्वाध्यायो योग इति श्रीपञ्चरात्रेऽभिहितम् । तत्राभिगमनं नाम देवतास्थानमार्गस्य संमार्जनोपलेपनादि । उपादानं गन्धपुष्पादिपूजासाधनसंपादनम् । इज्या नाम देवतापूजनम् । स्वाध्यायो नामार्थानुसंधानपूर्वको मन्त्रजपो वैष्णवसूक्तस्तोत्रपाठो नामसंकीर्तनं तत्त्वप्रतिपादकशास्त्राभ्यासश्च । योगो नाम देवतानुसंधानम् । - एवमुपासनाकर्मसमुच्चितेन विज्ञानेन द्रष्टदर्शने नष्टे भगवद्भक्तस्य तन्निष्ठस्य भक्तवत्सलः परमकारुणिकः पुरुषोत्तमः स्वयाथात्म्यानुभवानुगुणनिरवधिकानन्दरूपं पुनरावृत्तिरहितं स्वपदं प्रयच्छति । तथाच स्मृतिः
मामुपेत्य पुनर्जन्म दुःखालयमशाश्वतम् । नाऽऽप्नुवन्ति महात्मानः संसिद्धिं परमां गताः ॥
(भ० गी०८।१५) इति । स्वभक्तं वासुदेवोऽपि संप्राप्याऽऽनन्दमक्षयम् ।
पुनरावृत्तिरहितं स्वीयं धाम प्रयच्छति ॥ इति च । तदेतत्सर्वं हृदि निधाय महोपनिषन्मतावलम्बनेन भगवदोधायनाचार्यकृतां ब्रह्मसूत्रवृत्ति विस्तीर्णामालक्ष्य रामानुजः शारीरकमीमांसाभाष्यमकार्षीत् । तत्राथातो ब्रह्मजिज्ञासा (ब्र० सू० १।१।१ ) इति प्रथममूत्रस्यायमर्थ:-अत्राथशब्दः पूर्वप्रवृत्तकर्माधिगमनानन्तर्यार्थः । तदुक्तं वृत्तिकारण-वृत्तात्कर्माधिगमादनन्तरं ब्राँ विविदिषतीति । अतःशब्दो हेत्वर्थः । अधीतसाङ्गवेदस्या. धिगततदर्थस्य विनश्वरफलात्कर्मणो विरक्तत्वाद्धेनोः स्थिरमोक्षाभिलाषुकस्य तदुपायभूतब्रह्मजिज्ञासा भवति । ब्रह्मशब्देन स्वभावतो निरस्तसमस्तदोषानवधिकातिशयासंख्येयकल्याणगुणः पुरुषोत्तमोऽभिधीयते । एवं च कर्मज्ञानस्य तदनुष्ठानस्य च वैराग्योत्पादनद्वारा चित्तकल्मषापनयद्वारा च ब्रह्मज्ञानं १५. नसाकल्ये कल्पितेऽधि । २ ग. र्गस्थ सं । ३ ख. ग. वृ। ४ ग. 'ह्मजिज्ञासा भवती ।