________________
प्रस्थानभेदः । शाखायनादिप्रणीतानि । आध्वर्यवप्रयोगप्रतिपादकानि बौधायनापस्तम्बकात्यायनादिप्रणीतानि । औद्गात्रप्रयोगप्रतिपादकानि लाट्यायनद्राशायणादिप्रणीतानि ।
एवं निरूपितः षण्णामङ्गानां प्रयोजनभेदः। चतुर्णामुपाङ्गानमधुनोच्यते । तत्र सर्गप्रति सर्गवंशमन्वन्तरवंशानुचरितप्रतिपादकानि भगवता बादरायणेन कृतानि पुराणानि । तानि च ब्राह्म पानं वैष्णवं शैवं भागवतं नारदीयं मार्क ण्डेयमाग्नेयं भविष्यं ब्रह्मवैवर्त लैङ्गं वाराहं स्कान्दं वामनं कौम मात्स्यं गारुडं ब्रह्माण्डं चेत्यष्टादश ।
आद्यं सनत्कुमारेण प्रोक्तं वेदविदां वराः । द्वितीयं नारसिंहाख्यं तृतीयं नान्दमेव च ॥ चतुर्थ शिवधर्माख्यं दौर्वासं पञ्चमं विदुः।
षष्ठं तु नारदीयाख्यं कॉपिलं सप्तमं विदुः ॥ .... अष्टमं मानवं प्रोक्तं ततश्चोशनसेरितम् ।
ततो ब्रह्माण्डसंज्ञं तु वारुणाख्यं ततः परम् ।। ततः कालीपुराणाख्यं वासिष्ठं मुनिपुंगवाः । ततो वासिष्ठं लैङ्गाख्यं प्रोक्तं माहेश्वरं परम् ।। तंतः साम्बपुराणाख्यं ततः सौरं महाद्भतम् । पाराशरं ततः प्रोक्तं मारीचाख्यं ततः परम् ॥
भार्गवाख्यं ततः प्रोक्तं सर्वधर्मार्थसाधकम् । एवमुपपुराणान्यनेकप्रकाराणि द्रष्टव्यानि ।
न्याय आन्वीक्षिकी पश्चाध्यायी गौतमेन प्रणीता। प्रमाणप्रमेयसंशयप्रयोजनदृष्टान्तसिद्धान्तावयवतर्कनिर्णयवादजल्पवितण्डाहेत्वाभासच्छलजातिनिग्रहस्थानाख्यानां षोडशपदार्थानामुदेशलक्षणपरीक्षाभिस्तत्त्वज्ञानं तस्याः प्रयोजनम् । एवं दशाध्यायं वैशेषिकं शास्त्रं कणादेन प्रणीतम् । द्रव्यगुणकर्मसामान्यावि. शेषसमवायानां षण्णां पदार्थानामभावसप्तमानां साधयवैधाभ्यां व्युत्पा' दनं तस्य प्रयोजनम् । एतदपि न्यायपदेनोक्तम् ।
एवं मीमांसाऽपि द्विविधा । कर्ममीमांसा शारीरकमीमांसा च । तत्र द्वाद
१ क. द्राहळ्याय । २ म. °यं नन्दिमे । ३ ख. स्मृतम् । ४ क. वाशिष्टं। ५ क. घ. वाशिष्ठं । ६ ख. बशिष्ठलैङ्गाख्यं । ७ ग. पराशरं। ८ ख. °क्तं ततो भागवतं परम् । ए । ९ ख, निर्मितम् ।