________________
w.
.
ताया
आहेतदर्शनम् । नाम्यां पुण्यपापाभ्यो सहितानि नव पदार्थान्केचनाङ्गी चक्रुः । तदुक्तं सद्धान्ते-जीवाजीवौ पुण्यपांपैयुतावास्रवः संवरो निर्जरणं बन्धों मोक्षश्च नव तत्त्वानीति । संग्रहे प्रवृत्ता वयमुपरताः स्मः ।
अत्र सर्वत्र सप्तभङ्गिनयाख्यं न्यायमवतारयन्ति जैनाः । स्यादस्ति स्यानास्ति स्यादस्ति च नास्ति च स्यादवक्तव्यः स्यादस्ति चावक्तव्यः स्यानास्ति .चावक्तव्यः स्यादस्ति च नास्ति चावक्तव्य इति । तत्सर्वमनन्तवीर्यः प्रत्यपीपदत्
तद्विधानविवक्षायां स्यादस्तीति गतिर्भवेत् । स्यानास्तीति प्रयोगः स्यात्तनिषेधे विवक्षिते ॥ क्रमेणोभयवाञ्छायां प्रयोगः समुदायभाक् । युगपत्तद्विवक्षायां स्यादवाच्यमशक्तितः ।। आद्यावाच्यविवक्षायां पश्चमो भङ्ग इष्यते । अँन्त्यावाच्यविवक्षायां षष्ठभङ्गासमुद्भवः ॥
समुच्चयेन युक्तश्च सप्तमो भङ्ग उच्यते ।। इति । स्याच्छब्दः खल्वयं निपातस्तिङन्तप्रतिरूपकोऽनेकान्तद्योतकः । यथोक्तम्
वाक्येष्वनेकान्तद्योती गम्यं प्रति विशेषणम् ।
स्यानिपातोऽर्थयोगित्वात्तिङन्तप्रतिरूपकः । इति । यदि पुनरकान्तद्योतकः स्याच्छदोऽयं स्यात्तदा स्यादस्तीति वाक्ये स्यात्प. दमनर्थक स्यात् । अनेकान्तद्योतकत्वे तु स्यादस्ति कथंचिदस्तीति स्यात्पदीस्कथंचिदित्ययमों लभ्यत इति नाऽऽनर्थक्यम् । तदाह
स्याद्वादः सर्वथैकान्तत्यागातिकत्तचिद्विधेः । सप्तभङ्गिन्नयापेक्षो हेयाँदेयविशेषकृत् ॥ इति ।
१ ख. पापान । २ घ. पता । ३ च. वयं विस्तरभयादुप। ४ घ... स्म । ५ च. 'यार्थ न्या । ६ च. पर्यपी' । ७ क. ख. घ. अन्यावा । ८ क. ख. पातेऽर्थ । ग. घ. पातार्थ । ९ घ. "दि अभिमतस्त्वेकान्तवादः सर्वथा। १० क. ख. ग. नरनेका । ११ क. ख. ग. घ. दो न स्या। १२ घ. दादय । १३ क. ख. ग. चिदस्तीत्य । १४ क. ख. ग. °मर्थ उपल° । १५ ङ. वृततद्वि। १६ क. ग. त्तताद्वधे । च. त्ततद्धितौ । स । १७ ग. °याहेय ।