________________
.. आहेतदर्शनम् । सर्वज्ञसदृशं कंचिद्यदि पश्येम संप्रति । उपमानेन सर्वज्ञं जानीयाम ततो वयम् ॥ उपदेशोऽपि बुद्धस्य धर्माधर्मादिगोचरः। अन्यथा नोपपद्येत सार्वज्यं यदि नाभवत् ॥ एवमर्थापत्तिरपि प्रमाणं नात्र युज्यते । ।
उपदेशस्य सत्यत्वं यतो नाध्यक्षमीक्ष्यते ॥ इत्यादि । - अत्र प्रतिविधीयते । यदभ्यधायि तत्सद्भावग्राहकस्य प्रमाणपञ्चकस्य तत्रानुपलम्भादिति तदयुक्तम् । तत्सद्भावावेदकस्यानुमानादेः सद्भावात् । तथाहि-कश्चिदात्मा सकलपदार्थसाक्षात्कारी तद्ग्रहणस्वभावत्वे सति प्रक्षीणप्रतिबन्धप्रत्ययत्वात् । यद्यग्रहणस्वभावत्वे सति प्रक्षीणप्रतिबन्धप्रत्यय तत्तत्साक्षात्कारि । यथाऽपगततिमिरादिप्रतिबन्ध लोचनविज्ञानं रूपसाक्षात्कारि । तद्ग्रहणस्वभावत्वे सति प्रक्षीणप्रतिबन्धप्रत्ययश्च कश्चिदात्मा । तस्मात्सकलपदार्थसाक्षात्कारीति । न तावदशेषार्थग्रहणस्वभावत्वमात्मनोऽसिद्धम् । चोद. नाबलान्निखिलार्थज्ञानोत्पत्त्यन्यथानुपपत्त्या सर्वमनेकान्तात्मकं. सत्त्वादिति व्याप्तिज्ञानोत्पत्तेश्च । चोदना हि भूतं भवन्तं भविष्यन्तं सूक्ष्मं व्यवहितं विपकटमित्येवजातीयकमर्थमवगमयतीत्येवंजातीयकरध्वरमीमांसागुरुभिर्विधिप्रतिषेधविचारणानिबन्धनं सकलार्थविषयज्ञानं प्रतिपद्यमानः सकलार्थग्रहणस्वभावकत्वमात्मनोऽभ्युपगतम् । न चाखिलार्थप्रतिबन्धकावरणप्रक्षयानुपपत्तिः । सम्यग्दर्शनादित्रयलक्षणस्याऽऽवरणप्रक्षयहेतुभूतस्य सामग्रीविशेषस्य प्रतीतत्वात् । अनया मुद्रयाऽपि क्षुद्रोपद्रवा विद्राव्याः ।
नन्वावरणप्रक्षयवशादशेषविषयं विज्ञानं विशदं मुख्यप्रत्यक्ष प्रभवतीत्युक्तं तदयुक्तम् । तस्य सर्वज्ञस्यानादिमुक्तत्वेनाऽऽवरणस्यैवासंभवादिति चेत्तन्न । अनादिमुक्तत्वस्यैवासिद्धेः । न सर्वज्ञोऽनादिमुक्तः । मुक्तत्वादितरमुक्तवत् । बद्धापेक्षया च मुक्त व्यपदेशः। तद्रहिते चास्याप्यभावः स्यादाकाशवत् । नन्वनादेः क्षित्यादिकार्य परम्परायाः कर्तृत्वेन तत्सिद्धिः । तथाहि-क्षित्यादिकं सक,
.. १ च. भवेत् । २ क.-टु. ग. च. °यि सद्भा । ३ घ. °वादेवैक° । ङ. च. वादेक । ४ च. "हस्व । ५ च °ति साक्षात्कारि य । ६ च.त्कारी । य°1७ क. थाऽवग । ८३. बन्धलो ।९ध. 'त्कारी । त° । १०क. ज्ञानात् । नोत्पत्यन्य । ख. ज्ञानात् । नोत्पत्योन्य । ङ..-च: ज्ञानात् । नाप्यन्य । घ. ज्ञानात् । न च व्याप्तिघटकप्रतिबन्धके प्रक्षीणता ग्रहीतुं शक्या, उत्पत्यन्य । ११ घ. "ति, अनुमानेन व्या ।१२ ख. °मव । १३ ग. "तीयैर । घ. तीयकमध्व ।