________________
.
.
प्रस्थानभेदः। आदित्यो यूप इत्यादिः । प्रमाणान्तरप्राप्त्यर्थबोधकोऽनुवादोऽग्निहिमस्य भेष. जमित्यादिः । प्रमाणान्तरविरोधतत्माप्तिरहितार्थबोधको भूतार्थवाद इन्द्रो वृत्राय वनमुद्यच्छदित्यादिः । तदुक्तम्
विरोधे गुणवादः स्यादनुवादोऽवधारिते। .. भूतार्थवादस्तद्धानादर्थवादस्त्रिधा मतः ॥ इति । तत्र त्रिविधानामप्यर्थवादानां विधिस्तुतिपरत्वे समानेऽपि भूतार्थवादानांस्वार्थेऽपि प्रामाण्यं देवताधिकरणन्यायात् । अबाधिताज्ञातज्ञापकत्वं हि प्रामाण्यम् । तचाबाधितविषयत्वाज्ज्ञातज्ञापकत्वाच्च न गुणवादानुवादयोः । भूतार्थस्य तु स्वार्थे तात्पर्यरहितस्याप्योत्सर्गिक प्रामाण्यं विहन्यते । तदेवं निरूपितोऽर्थवादभागः । विध्यर्थवादोभयविलक्षणं तु वेदान्तवाक्यम् । तच्चाज्ञातज्ञापकत्वेऽप्यनुष्ठानामतिपादकत्वान्न विधिः । स्वतः पुरुषार्थपरमानन्दज्ञानात्मकब्रह्मणि , स्वार्थ उपक्रमोपसंहारादिषड्विधतात्पर्यलिङ्गवत्तया स्वतः प्रमाणभूतं सर्वानपि विधीनन्तःकरणशुद्धिद्वारा स्वविशेषतामापादयदन्यशेषत्वाभावाच । तस्मादुभयविलक्षणमेव वेदान्तवाक्यम् । तच्च कचिदज्ञातज्ञापकत्वमात्रेण विधिरिति व्यपदिश्यते । कंचिदविधिपदरहितप्रमाणवाक्यत्वेन भूतार्थवाद इति व्यवहियत इति न दोषः । तदेवं निरूपितं त्रिविधं ब्राह्मणम् । . . एवं च कर्मकाण्डब्रह्मकाण्डात्मको वेदो धर्मार्थकाममोक्षहेतुः । स च प्रयोगत्रयेण यज्ञनिर्वाहार्थमृग्यजुःसामभेदेन भिन्नः । तत्र हौत्रप्रयोग ऋग्वेदेन, आध्वर्यवप्रयोगो यजुर्वेदेन, औद्गात्रप्रयोगः सामवेदेन । ब्रामयाजमानप्रयोगौ त्वत्रैवान्तर्भूतौ । अथर्ववेदस्तु यज्ञानुपयुक्तः शान्तिक. पौष्टिकाभिचारादिकर्मप्रतिपादकत्वेनात्यन्तविलक्षण एव । एवं प्रवचनभेदात्मतिवेदं भिन्ना भूयस्यः शाखाः । एवं च कर्मकाण्डे व्यापारभेदेऽपि , सर्वासां वेदशाखानामेकरूपत्वमेव ब्रह्मकाण्डे । .
इति चतुर्णा वेदानां प्रयोजनभेदेन भेद उक्तः । अथाङ्गनामुच्यते । तत्र शिक्षाया उदात्तानुदात्तस्वरितहस्वदीर्घप्लतादिविशिष्टस्वरव्यञ्जनात्मकवर्णोचारविशेषज्ञानं प्रयोजनम् । तदभावे मन्त्राणामनर्थकत्वात् । तथा चोक्तम्- .
मन्त्रो हीनः स्वरतो वर्णतो वा मिथ्याप्रयुक्तो न तमर्थमाह । स वाग्यज्रो यजमानं हिनस्ति यथेन्द्रशत्रुः स्वरतोऽपराधात् (शि०५२) इति ।
१ ग. °न्दो वजहस्तः पुरंदरः । त° । २ ख. 'नां स्तु। ३ क. तम्ब बा । ४ ख. र्थवादस्य । ५ ख. स्वशे । ६ ख. च नार्थवादः । त°। ७ ख. "मवेदैभिन्नः। ८ ख ग. गाथाः। ९ ख. पमेव ब्रह्मकाण्डमिति । १० ख. ङ्गानां प्रयोजनमु।