Book Title: Agam 14 Upang 03 Jivabhigam Sutra Part 03 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
२३६
जीवाभिगमसूत्रे 'झया' ध्वजाः वक्तव्याः ‘शुभा' स्तूपाः, तदनन्तरं चैत्यस्तूपाः वक्तव्याः 'महिंद ज्झया'-चैत्यवृक्षाणां पुरतो माहेन्द्रध्वजा वक्तव्याः, तेषां महेन्द्रध्वजानां पुरतः 'नंदाओ-पुक्खरिणीओ'-नन्दा पुष्करिण्यो वक्तव्याः 'तओय सुहम्माए जहा पमाणं मणगुलियाणं' ततश्च यथा सुधर्मायां सभायां मनोगुलिकानां कथितं तथैवात्रापि ज्ञातव्यम्, 'गोमाणसीओ धूवघडिओ'-गोमानस्यः शय्या सदृशस्थान विशेषो धूपघटिका अपि सुधर्मासभावदेवाऽत्रापि ज्ञातव्याः । 'तहेव भूमिभागे उल्लोए य जाव मणिफासे' तथैव बहुसमरमणीयो भूमिभागः उल्लोकश्च वर्णयितव्य इहापि यावत् तृणानां-मणीनां च स्पर्शः किं बहुना-सर्वमपि-सुधर्मासभावदेवाऽत्रापि ज्ञातव्यमिति ।। 'तस्स णं सिद्धायतणस्स' तस्य खलु सिद्धायतनस्य, 'बहुमज्झदेसभाए'-बहुमध्यदेशभागे, 'एत्थ णं एगा महं मणिपेढिया पन्नत्ता'अत्र सिद्धायतनबहुमध्यदेशभागे खलु एका महती मणिपीठिका-पीठविशेषः प्रज्ञप्ता-कथिता, सा खलु मणिपीठिका 'दो जोयणाई-द्वे योजने, 'आयामविक्खंभेणं' आयामविष्कम्भाभ्याम् दैर्घ्यविस्ताराभ्यां योजनद्वयप्रमाणा भवति मणिपीठिकेत्यर्थः । 'जोयणं बाहल्लेणं' योजनमेकं बाहल्येन-पृथुत्वेन, 'सव्व मणिमई अच्छा' सर्वमणिमयी-सर्वात्मना मणि प्रचुरा, 'अच्छा' आकाशस्फटिकरत्न बत्-शुभ्रा, श्लक्ष्णा-घृष्टा-मृष्टा-नीरजस्का-निर्मला-निष्पङ्का-निष्कण्टकच्छाया-प्रासादीया-सप्रभा-सोयोता-समरीचिका-दर्शनीयाऽभिरूपा-प्रतिरूपा। 'तीसेणं मणिपेढियाए उप्पि' तस्याः खलु मणिपीठिकाया उपरि, एत्थ णं' अत्र मणिपीठिकोपरितनभागे खलु, 'एगे महं देवछंदए पन्नत्ते' एको महान् देवच्छन्दकः आसनविशेषः प्रज्ञप्तः कथितः,-स च देवछन्दकः-'दो जोयणाई आयामविक्खंभेणं' आयामविष्कम्भाभ्यां द्वे योजने, दैर्ध्यविस्ताराभ्यामित्यर्थः । मणियों की बनी हुई हैं। इसके वर्णन में अच्छादि पदों का प्रयोग करना चाहिये ? इस मणिपीठिका के ऊपर एक-विशाल देवच्छन्दक है यह दो योजन का लम्बा चौडा है । और कुछ अधिक दो योजन का ऊंचा है । यह देवच्छन्दक भी अच्छ एवं इलक्ष्ण आदि विशेषणों वाला है इस देवच्छन्दक में १०८ जिन प्रतिमाएं अर्थात् कामदेवों की मूर्तियां है । इनका सम्बन्ध का वर्णन इस प्रकार से हैं । रक्त सुवर्ण છે. અને એક એજનના ઘેરાવાવાળી છે. એ સર્વ રીતે મણિની બનેલ છે. તેના વર્ણનમાં અચ્છ વિગેરે પદેને પ્રયોગ કરી લે. એ મણિપીઠિકાની ઉપર એક વિશાલ દેવચ્છેદક છે. એ બે જનની લંબાઈ પહોળાઈ વાળે છે, અને કંઈક વધારે બે એજનની ઉંચાઈ વાળે છે. આ દેવચ્છેદક પણ અશ્લફણ આદિ વિશેષણ વાળે છે. એ દેવછંદકમાં ૧૦૮ જીન પ્રતિમાઓ અર્થાત
જીવાભિગમસૂત્ર