Page #1
--------------------------------------------------------------------------
________________
Jain Educationa International
शास्त्रविशारदजैनाचार्यश्रीविजयधर्मसूरिगुरुभ्यो नमः ।
॥ अर्हम् ॥ श्रीयशोविजयजैनग्रन्थमाला [२५] श्रीजिनभद्रगणिक्षमाश्रमणपादविरचितम्
विशेषावश्यकभाष्यम् । मलधारिश्रीहेमचन्द्रसूरिविरचितया शिष्यहितानामया बृहद्वृत्त्या विभूषितम् ।
( प्रथमो विभागः )
राजधन्यपुरनिवासिना श्रेष्ठिवर्यत्रिकमचन्द्रतनुजनुषा श्रावकहरगोविन्देन परिष्कृत्य संशोधितम् ।
Printed and Published by Shah Harakhchand Bhurabhai at The Dharmabhyudaya Press, Benares city. वीरसंवत् २४३७ ।
For Personal and Private Use Only
Page #2
--------------------------------------------------------------------------
________________
Jan Education international
For Personal and Private Use Only
www.jainerary.org
Page #3
--------------------------------------------------------------------------
________________
॥ अहेम् ।। श्रीविजयधर्मसूरिगुरुभ्यो नमः । श्रीविशेषावश्यकभाष्यम् । शिष्यहिताख्यया बृहद्व्याख्यया समुल्लसितम्।
श्रीसिद्धार्थनरेन्द्रविश्रुतकुलव्योमप्रवृत्तोदयः सद्धोधांशुनिरस्तदुस्तरमहामोहान्धकारस्थितिः। हप्ताशेषकुवादिकौशिककुलप्रीतिप्रणोदक्षमो जीयादस्खलितप्रतापतरणिः श्रीवर्धमानो जिनः॥१॥
येन क्रमेण कृपया श्रुतधर्म एष आनीय मादृशजनेऽपि हि संप्रणीतः। श्रीमत्सुधर्मगणभृत्ममुखं नतोऽस्मि तं सूरिसङ्घमनघं स्वगुरूंश्च भक्त्या ॥२॥ आवश्यकप्रतिनिबद्धगभीरभाष्यपीयूपजन्मजलधिर्गुणरत्नराशिः। ख्यातः क्षमाश्रमणतागुणतः क्षितौ यः सोऽयं गणिर्विजयते जिनभद्रनामा ॥३॥ यस्याः प्रसादपरिवर्धितशुद्धबोधाः पार ब्रजन्ति सुधियः श्रुततोयराशेः ।
सानुग्रहा मयि समीहितसिद्धयेऽस्तु सर्वज्ञशासनरता श्रुतदेवताऽसौ ॥ ४ ॥ इह चरणकरणक्रियाकलापतरुमूलकल्पं सामायिकादिपडध्ययनात्मकश्रुतस्कन्धरूपमावश्यकं तावदर्थतस्तीर्थकरैः, सूत्रतस्तु गणधरैविरचितम् । अस्य चातीव गम्भीरार्थतां सकलसाधु-श्रावकवर्गस्य नित्योपयोगितां च विज्ञाय चतुर्दशपूर्वधरेण श्रीमद्भद्रबाहुस्वामिनैतव्याख्यानरूपा " ऑभिणियोहिअनाणं सुयनाणं चेव ओहिनाणं च" इत्यादिप्रसिद्धग्रन्थरूंपा नियुक्तिः कृता । तन्मध्ये च सामा
१ ख. 'रूपाव' । २ ख. 'गभीरा'। ३ आभिनिबोधिकज्ञानं ( मतिज्ञानं ) श्रुतज्ञानं चैवाऽवधिज्ञानं च ४ ध, 'खरूपा' ।
Jan Education Inter
For Personal and Private Use Only
www.jaineitrary.ary
Page #4
--------------------------------------------------------------------------
________________
|
यिकाध्ययननियुक्ति विशेषत एवातिबहुविचारदुर्विज्ञेयार्थामतिशयोपकारिणी चावगम्य केवलामृतरसस्यन्दिवाग्विलासैःश्रीमज्जिनभद्रविशे० गणिक्षमाश्रमणपूज्यस्तदर्थव्याख्याऽऽत्मकमेव 'कयपवयणप्पणामो' इत्यादिगाथासमूहस्वरूपं भाष्यमकारि । तस्य च यद्यपि श्रीजिनभद्रगणि॥२ ॥
क्षमाश्रमणपूज्यैः, श्रीकोट्याचार्यश्च वृत्तिर्विहिता वर्तते, तथाऽप्यतिगम्भीरवाक्यात्मकत्वात् , किश्चित्संक्षेपरूपत्वाच दुःपमानुभावतः प्रज्ञादिभिरपचीयमानानां किमापविस्तराभिधानरुचीनां शिष्याणां नाऽसौ तथाविधोपकारं सांप्रतमाधातुं क्षमाः इति विचिन्त्य मुत्कलतरवाक्यप्रवन्धरूपा किमपिविस्तरवती च मन्दमतिनापि मया मन्दतममतिशिष्यावबोधार्थ, श्रुताभ्याससंपादनार्थं च वृत्तिरियमारभ्यते।
तत्र चादौ तावद् विघ्नविनायकोपशमहेतोर्मङ्गलार्थ, शिष्यप्रवृत्तिनिमित्तमभिधेयाद्यभिधानार्थं चाह भाष्यकार:केयपवयणप्पणामो वोच्छं चरण-गुणसंगहं सयलं । आवस्सयाणुओगं गुरूवएसाणुसारेणं ॥१॥
व्याख्या- 'वोच्छं' इति क्रिया, वक्ष्येऽभिधास्य इत्यर्थः । कम् ? इत्याह- 'आवस्सयाणुओगं ति ' अवश्यं कर्तव्यमावश्यक सामायिकादिरूपम् , कचित् 'आवासयाणुओर्ग' इति पाठः, तत्रापि आ समन्ताज्ज्ञानादिगुणैः शून्यं जीवं वासयति तैर्युक्तं करोतीत्यावासकं सामायिकादिरूपमेव, तस्य वक्ष्यमाणशब्दार्थोऽनुयोगो व्याख्यानं विधि-प्रतिषेधाभ्यामर्थप्ररूपणमित्यर्थः, तम् । किविशिष्टः सन् ? इत्याह- ‘कयपवयणप्पणामो त्ति' प्रोच्यन्तेऽनेन, अस्मात् , अस्मिन् वा जीवादयः पदार्था इति प्रवचनम् । अथवा प्रशब्दस्याऽव्ययत्वेनाऽनेकार्थद्योतकत्वात् प्रगतं जीवादिपदार्थव्यापकं, प्रधान, प्रशस्तम् , आदौ वा वचनं प्रवचनं द्वादशाङ्गं गणिपिटकम् ; आदित्वं चाऽस्य विवक्षिततीर्थकरापेक्षया द्रष्टव्यम् , “नमस्तीर्थाय" इति वचनात् तीर्थकरेणापि तन्नमस्करणादिति । अथवा जीवादितत्त्वं प्रवक्तीति प्रबचनमिति व्युत्पत्तेदशाङ्गम् , गणिपिटकोपयोगानन्यत्वाद् वा चतुर्विधश्रीश्रमणसङ्घोऽपि प्रवचनमुच्यते । कृतो विहितो यथोक्तप्रवचनस्य
प्रणामो नमस्कारो येन मया सोऽहं कृतप्रवचनप्रणामः। किंस्वरूपमावश्यकानुयोगम् ? इत्याह- 'चरण गुणसंगहं ति ' चर्यते मुमुक्षुभिFoil रासेव्यत इति चरणम् , अथवा चर्यते गम्यते प्राप्यते भवोदधेः परकूलमनेनेति चरणं व्रत-श्रमणधर्मादयो मूलगुणाः, गुण्यन्ते संख्यायन्त
इति गुणाः पिण्डविशुद्धवाद्युत्तरगुणरूपाः, चरणं च गुणाश्च चरणगुणाः; अथवा चरणशब्देन सर्वतो देशतश्च चारित्रमिह विवक्षितम् , गुणशब्देन तु दर्शनंज्ञाने, ततश्च चरणं च गुणौ च चरणगुणाः, तेषां संगृहीतिः संग्रहश्चरणगुणसंग्रहः, तम् । स च देशतोऽपि भवतीत्याह- सकलं परिपूर्णम् ॥
१ ख. 'भव्यानां'। २ कृतप्रवचनप्रगामो वक्ष्ये चरणगुणसंग्रहं सकलम् । आवश्यकानुयोग गुरूपदेशानुसारेण ॥1॥ ३ घ. 'समन्ततो ज्ञा' ।
For Personal and ve Use Only
Page #5
--------------------------------------------------------------------------
________________
S SAGE
विशे०
कसानकाALAAMARAGAGARIGAMAGE
आह- नन्वावश्यकानुयोगस्तावदावश्यकव्याख्यानम् , चरण-गुणसंग्रहस्तु ज्ञान-दर्शन-चारित्रसंगृहीतिरूपः, ततोऽत्यन्तं भिन्नाधिकरणत्वात् कथमनयोः सामानाधिकरण्यम् ? । सत्यम् , किन्तु “सामाइअं च तिविहं सम्मत्तं सुअंतहा चरित्तं च " इत्यादिवक्ष्यमाणवचनादेकोऽपि सामायिकानुयोगस्तावत् संपूर्णचरण-गुणसंग्राहकः, किं पुनः सकलावश्यकानुयोगः । ततश्चं संपूर्णचरण-गुणसंग्रहयुक्तत्वादावश्यकानुयोगोऽपि संपूर्णचरण--गुणसंग्रहत्वेनोक्तः, यथा दण्डयोगाद् दण्डः पुरुषः; इत्यदोषः । अथवा चरण-गुणानां संग्रहो यत्रावश्यकानुयोगेऽसौ चरण-गुणसंग्रह इति बहुव्रीहिपक्षे प्रेर्यमेव नास्ति, केवलमस्मिन् पक्षे सकलमिति विशेषणमावश्यकानुयोगस्य चरण-गुणसंग्रहसंपूर्णत्वापेक्षयैव द्रष्टव्यमिति, एतच्च कष्टगम्यमित्युपेक्ष्यते ॥
आह-ननु यदि “सामाइअं च तिविहं " इत्यादिवक्ष्यमाणवचनात् सामायिकस्य संपूर्णचरण-गुणसंग्राहकत्वम् , तर्हि तदनुयोगस्य तद्रूपत्वे किमायातम् । नैतदेवम् , सामायिकं हि व्याख्येयम् , अनुयोगस्तु व्याख्यानम् , व्याख्येय-व्याख्यानयोश्चैकाभिप्रायत्वादिहाऽभेदेन विवक्षितत्वाददोषः, इत्यलमतिचर्चयेति ॥
अनेन च संपूर्णचरण-गुणसंग्रहलक्षणेन स्वरूपविशेषणेनाऽऽवश्यकानुयोगस्य महार्थतां दर्शयति भाष्यकारः ।।
आह- ननु यदि त्वयाऽऽवश्यकानुयोगः स्वमनीषिकया वक्ष्यते, तदाऽनादेय एवायं प्रेक्षावताम् , छमस्थत्वे सति स्वतन्त्रतयाऽभिधीयमानत्वात् , रथ्यापुरुषवाक्यवत् । इति परवचनमाशङ्कय तदुपन्यस्तहेतोरसिद्धतामुपदर्शयन्नाह- 'गुरूवएसाणुसारेणं ति' गृणन्ति तत्त्वमिति गुरवस्तीर्थकर-गणधरादयः, तेषामुपदेशो भणनम् , तदनुसारेण तत्पारतन्त्र्येणाऽऽवश्यकानुयोगमहं वक्ष्ये, न तु स्वमनीषिकया; अतः स्वतन्त्रतयाऽभिधीयमानत्वादित्यसिद्धो हेतुरिति भावः । यो हि च्छद्मस्थः सन् परमगुरूपदेशानपेक्षं खतन्त्रमेव वक्ति रथ्यापुरुषस्येव, तस्य वचोऽनादेयमिति वयमपि मन्यामहे, केवलं तदिह नास्ति, परमगुरूपदेशानुसारेणैवाऽऽवश्यकानुयोगस्य मयाभिधीयमानत्वादिति । तदेवं कृतप्रवचनप्रणामो गुरूपदेशनिश्रया सकलचरण-गुणसंग्रहरूपमावश्यकानुयोगमहं वक्ष्य इति पिण्डार्थः।।
___ आह-ननु श्रीमद्भद्रबाहुप्रणीता सामायिकनियुक्तिरिह भाष्ये व्याख्यास्यते, तत्कथमिदमावश्यकानुयोगोऽभिधीयते ? । नैतदेवम् , अभिप्रायाऽपरिज्ञानात् , तथाहि-सामायिकस्य पद्विधावश्यकैकदेशत्वादावश्यकरूपता तावद् न विरुध्यते, तनियुक्तिस्तु तद्व्याख्यानरूपैव, व्याख्येय-व्याख्यानयोश्चैकाभिप्रायत्वादेकत्वमित्यनन्तरमेवोक्तम् । तस्मात् सामायिकस्य तनियुक्तेश्च सर्वस्योऽप्याव
1 सामायिकं च त्रिविधं सम्यक्त्वं श्रुतं तथा चारित्रं च । २ “अत्राऽनुखारलोपः, भाषत्वात्" इत्यावश्यकनियुजिटीकायागया एवं गायाया विवरणे श्रीमन्मलयगिरिसूरिः । ३ घ. 'स्याप्यस्या' ।
Jan Education interna
For Personal and Private Use Only
Page #6
--------------------------------------------------------------------------
________________
विशे०
SS
॥४॥
श्यकत्वात् , तस्य चेह व्याख्यायमानत्वादावश्यकानुयोगरूपता भाष्यस्य न विहन्यते; इत्यलं विस्तरेण ।।
अस्याच गाथायाः प्रथमपादेन विघ्नसंघातविघाताथै मङ्गलहेतुत्वादिष्टदेवतानमस्कारः कृतः, शेषपादत्रयेण त्वभिधेय-प्रयोजन-संबन्धाभिधानमकारि । तत्रावश्यकानुयोगं वक्ष्य इति ब्रुवताऽऽवश्यकानुयोगोऽस्य शास्त्रस्याऽभिधेय इति साक्षादेवोक्तम् । प्रयोजनसंबन्धौ तु सामर्थ्यादुक्ती, तथाहि संपूर्णचरण-गुणसंग्राहकत्वं दर्शयता ज्ञान दर्शन-चारित्राधारताऽस्य शास्त्रस्य दर्शिता भवति, तद्रूपाणि च शास्त्राणि पठन-श्रवणादिभिरनुशील्यमानानि स्वर्गा-ऽपवर्गप्राप्तिनिवन्धनानि भवन्तीति प्रतीतमेव, अतः स्वर्ग-मोक्षफलावातिरस्य शास्त्रस्य प्रयोजनमिति सामादुक्तं भवति । अभिधेया-ऽभिधायकयोश्च वाच्य-चाचकभावलक्षणः संबन्धोऽप्यर्थादभिहितो भवति । अस्यां च संबन्ध-प्रयोजना-ऽभिधेयादिचर्चायां बद्दपि वक्तव्यमस्ति, केवलं बहुषु शास्रेष्वतिचर्चितत्वेन सुप्रतीतत्वात् , तथाविधसाध्यशून्यत्वाच नेहोच्यते । अनेन चाभिधेयायभिधानेन शाखश्रवणादौ शिष्यप्रत्तिः साधिता भवति, अन्यथा हि न श्रवणादियोग्यमिदम् , निरभिधेयत्वात् , काकदन्तपरीक्षावत् । इत्याशक्य नेह कश्चित् प्रवर्तते । उक्तं च
"सीसंपवित्तिनिमित्तं अभिधेयपओयणाई संबंधो । वत्तव्वाई सत्थे तस्सुन्नत्तं सुणिज्जिहरा" ॥ १ ॥ एवं मङ्गलायभिधाने व्यवस्थापित कश्चिदाह-- नन्वहंदादय एचेष्टदेवतात्वेन प्रसिद्धाः, तत्किमिति तान् विहाय ग्रन्थकृता प्रवचनस्य नमस्कारः कृतः ? इति । अत्रोच्यते- “नमस्तीर्थाय" इति वचनादर्हदादीनामपि प्रवचनमेव नमस्करणीयम् , अपरं चाहदादयोऽप्यस्मदादिभिः प्रवचनोपदेशेनैव ज्ञायन्ते, तीर्थमपि च चिरकालं प्रवचनावष्टम्भेनैव प्रवर्तते, इत्यादिविवक्षयार्हदादिभ्योऽपि प्रवचनस्य प्रधानत्वात् , ज्ञानादिगुणात्पकत्वाचेष्टदेवतात्वं न विरुध्यते । प्रवचननमस्कारं च कुर्वद्भिः पूज्यः सिद्धान्ततत्त्वावगमरसानुरञ्जितहृदयत्वादात्मनः प्रवचनभक्त्यतिशयः प्रख्यापितो भवति, इत्यलमतिविस्तरेण । मङ्गलादिविचारविषये द्याक्षेपपरिहारादिकमिहैव ग्रन्थकारोऽपि न्यक्षेण वक्ष्यतीति ॥
तदेवमियं गाथा, सर्वोऽपि चायं ग्रन्थो महामतिभिः पूर्वमरिभिगम्भीरवाक्यप्रवन्धैर्युत्पन्नभणितिप्रकारेण च व्याख्यातः । तच्च व्याख्यानमित्थं युक्तमपि “गौराग्यां गौरवपाण्डुरोग-" न्यायेन मतिमान्यात् सांप्रतकालीनशिष्याणां न तथाविधार्थावगमहेतुतां प्रतिपद्यते, इत्याकलय्य मन्दमतिनाऽपि मया तेषां मन्दतरमतीनां शिष्याणामर्थावगमनिमित्तममुना ऋजुभणितिप्रकारेणेयं गाथा व्या१ स. 'व्यपोहाथै'। २ ख, 'सामर्थ्य तो गम्यौ। ३ क. ग. 'चर्यायां'।
४ शिष्यप्रवृत्तिनिमित्तमभिधेय-ययोजने संबन्धः । वक्तव्यानि शास्त्रे सच्टून्पत्वं ऋणुयादितरथा ॥१॥
४
॥
Jain Education
inte
For Personal and Private Use Only
Page #7
--------------------------------------------------------------------------
________________
पर
AMA
-
विशे०
बृहद्वृत्तिः ।
Goras
S
ATTA
ख्याता, सर्वोऽपि च ग्रन्थोऽयमनेनोल्लेखेन व्याख्यास्यत इति प्रतिपत्तव्यम् । न च वक्तव्यम् येषां महामतिपूर्वपुरुषवचनरर्थावबोधो न । संपद्यते, तेषां मन्दबुद्धेर्भवतो वचनेन कुतोऽयं संपत्स्यते ? इति : यतो जायत एव समानशीलवचनैः समानशीलानामर्थप्रतिपत्तिः, यदाह
"गोमिल्लुआण गामिल्लुएहिं मिच्छाण होन्ति मिच्छोहिं । सम्मं पंडिवत्तीउ अत्थरस न विबुहभणिएहिं ॥१॥
निअभासाए भयंते समाणसीलम्मि अस्थपडिवत्ती । जायइ मंदरस वि न उण "विविहसकयपबंधेहिं " ॥२॥ इत्यलमतिबहुभाषितेन ।। इति गाभार्थः॥१॥
आवश्यकानुयोगोत्राऽभिधास्यत इत्युक्तम् , किं पुनरस्य फलादिकं, यदवगम्य वयं तच्छ्रवणादी प्रवामहे ?; इति प्रेक्षावच्छिष्यवचनमाशङ्कयाऽऽवश्यकानुयोगस्य फलादीन्यभिधित्सुस्तत्संग्रहपरां द्वारगाथामाह
तरस फल-जोग-मंगल-समुदायत्था तहेव दाराई। तब्भेय-निरुत्त-कम-पओयणाई च वच्चाई ॥२॥
व्याख्या-तस्येत्यावश्यकानुयोगस्य, प्रेक्षावतां प्रवृत्तिनिमित्तं फलं मोक्षप्राप्तिलक्षणं तावदत्र ग्रन्थे वक्तव्यम् । ततोऽस्य योगः शिष्यपदाने संबन्धोऽवसरः प्रस्तावो वाच्यः । आवश्यकानुयोगे च क्रियमाणे किं मङ्गलमित्येतदपि निरूपणीयम् । सामायिकाद्यध्ययनानां 'सावज्जजोगविरई उकित्तण गुणवओ य पडिवत्ती' इत्यादिगाथया समुदायार्थश्च सावद्ययोगविरत्यादिकोऽभिधानीयः । फलं च योगश्च मङ्गलं च समुदायार्थश्चेति समासः । ' तहेव दाराई ति ' तथा द्वाराणि चोपक्रमनिक्षेपादीनि कयनीयानि । तेषां द्वाराणां भेदो वक्तव्यः, तद्यथा-आनुपूर्वी-नाम-प्रमाण-वक्तव्यता-ऽर्थाधिकार-समवतारभेदादुपक्रमः पोढा, ओघनिष्पन्न-नामनिष्पन्न-सूत्रालापकनिष्पन्नभेदाद् निक्षेपविधा, मूत्र-नियुक्तिभेदादनुगमो विधा, नैगमादिभेदाद् नयाः सप्तविधा इत्यादि । उपक्रमणमुपक्रमः, निक्षेपणं निक्षेप इत्यादि । निरुक्तं च शब्दव्युत्पत्तिरूपं भणनीयम् । तथा 'कम त्ति' तेषामुपक्रमादिद्वाराणां प्रथममुपक्रम एव ततो यथाक्रमं निक्षेपादय एव, इत्येवंरूपो योऽसौ नियतः क्रमः स युक्त्याऽभिधानतो निर्देष्टव्यः, युक्ति चात्रैव वक्ष्यति; तद्यथा-नानुपक्रान्तं निक्षिप्यते, नाऽ
१ प्रामीणानां ग्रामीणम्लेंच्छाना भवन्ति म्लेच्छैः । सम्यक् प्रतिपत्तयोऽर्थस्य न विबुधभाणितैः ॥1॥
निजभाषया भणति समानशीलेऽर्थप्रतिपत्तिः । जायते मन्दस्यापि न पुनर्विविधसंस्कृतप्रबन्धैः ॥ २॥ २५. 'हुन्ति'। २ घ. 'पडिवत्तीओ। ४ घ. 'विबुह'।
॥५॥ ५ तस्य फल-योग-माल-समुदायार्थास्तथैव द्वाराणि । तद्भेद-निरुक्त-क्रम-प्रयोजनानि च वाच्यानि ॥२॥ ६ सावद्ययोगविरतिरुत्कीर्तनं गुणवतश्च प्रतिपत्तिः।
PROIDIdra
amerecate
For Pesona Pe User
Page #8
--------------------------------------------------------------------------
________________
विशे०
निक्षिप्तमनुगम्यत इत्यादि । तथोपक्रमादिद्वाराणामेव प्रयोजनं शास्त्रोपकाररूपं नगरदृष्टान्तेन वाच्यम् , यथा समाकारं महानगरं किमप्यकृतद्वारं लोकस्याऽनाश्रयणीयं भवति, एकादिद्वारोपेतमपि दुःखनिर्गमप्रवेशं जायते, चतुरोपेतं तु सर्वजनाभिगमनीयं सुख
। बृहद्वृत्तिः । निर्गमप्रवेशं च संपद्यते; एवं शास्त्रमप्युपक्रमादिचतुरयुक्तं सुबोधम् , सुखचिन्तन-धारणादिसंपन्नं च भवतीति । एवमुपक्रमादिद्वाराणां सुखावबोधादिरूपः शास्त्रोपकारः प्रयोजनमिह वक्ष्यत इति भावः । भेदश्च निरुक्तं च क्रमश्च प्रयोजनं चेति द्वन्द्रं कृत्वा पश्चात् तेषामुपक्रमादिद्वाराणां भेद-निरुक्त-क्रम-प्रयोजनानीत्येवं षष्ठीतत्पुरुषसमासो विधेयः। चः समुच्चये । वाच्यानीति यथायोगमर्थतः सर्वत्र । योजितमेव । इति द्वारगाथासंक्षेपार्थः॥२॥
विस्तरार्थं तु भाष्यकार एव दिदर्शयिषुः “यथोद्देशं निर्देशः" इति कृत्वा प्रेक्षावतां प्रवृत्यर्थमावश्यकानुयोगफलपतिपादिका तावद् गाथामाह
नाण-किरियाहिं मोक्खो तम्मयमावस्सयं जओ तेण। तव्वक्खाणारम्भो कारणओ कजसिद्धि त्ति ॥ ३ ॥
व्याख्या-बानं च सम्यगवबोधरूपम् , क्रिया च तत्पूर्वकसावद्या-ऽनवद्ययोगनिवृत्ति-प्रवृत्तिरूपा ज्ञानक्रिये, ताभ्यां तावद् मोक्षोऽशेषकर्ममलकलङ्काभावरूपः साध्यते, इति सर्वेषामपि शिष्टानां प्रमाणसिद्धमेव, दर्शनस्य ज्ञान एवाऽन्तर्निहितत्वादिति । यदि नाम ज्ञान-क्रियाभ्यां मोक्षः, तर्हि आवश्यकानुयोगस्य किमायातम् , येन फलवत्तया प्रेक्षावतां तत्र प्रवृत्तिः स्यात् ?; इत्याह-तन्मयमावश्यकम्-ताभ्यां ज्ञान-क्रियाभ्यां निवृत्तं तन्मयं ज्ञान-क्रियास्वरूपमावश्यकम् , तत्कारणत्वात् । इति भावः। यथा ह्यायुर्वृद्धिकारण| त्वेनोपचाराल्लोके घृतमायुरुच्यते, नडलोदकं पादरोगः कारणत्वात् तथैवाभिधीयते, एवं प्रस्तुतानुयोगविषयीकृतं सामायिकादिषडध्ययनमूत्रात्मकमावश्यकमपि सम्यग्ज्ञान-क्रियाकारणत्वात् तत्स्वरूपमेव, तदध्ययन-श्रवण-चिन्तन-तदुक्ताचरणप्रवृत्तानामवश्यं सम्यरज्ञान-क्रियामाप्तेः। तस्मादुक्तन्यायेन ज्ञान-क्रियाऽऽत्मकं यत आवश्यकम् , अतस्तस्याऽऽवश्यकस्य व्याख्यानमनुयोगस्तद्व्याख्यानं तस्याऽऽरम्भः प्रेक्षावता क्रियमाणो न विरुध्यते, आवश्यकात् सम्यग्ज्ञान-क्रियाप्राप्तिद्वारेण मोक्षलक्षणफलसिद्धेः॥
नन्वित्थं तर्हि आवश्यकात् सम्यग्ज्ञान-क्रियाप्राप्तिः, ताभ्यां च मोक्षलक्षणफलसिद्धिः, इत्येवमावश्यकस्यैव पारम्पर्येण मोक्षात्मकं फलं स्यात् , न पुनस्तदनुयोगस्य; फलचिन्ता त्वस्यैवेह प्रस्तुता, इति चेत् । सत्यम् , किन्त्वावश्यक व्याख्येयम् , तद्व्याख्यानं चानुयोगः, व्याख्याने च व्याख्येयगत एव सर्वोऽभिप्रायः प्रकटीक्रियते। अतो व्याख्येयस्य यत्फलम् , व्याख्यानस्य तत् ॥६॥
ज्ञानक्रियाभ्यां मोक्षस्तन्मयमावश्यकं यतस्तेन । तयाख्यानारम्भः कारणतः कार्यसिद्धिरिति ॥३॥
29
For som
e
Use Only
Page #9
--------------------------------------------------------------------------
________________
विशे०
॥७
॥
For
सुतरामवसेयम् , तयोरेकाभिप्रायत्वात् । तस्माद् मोक्षलक्षणं फलमभिवाञ्छताऽऽवश्यकानुयोगेऽवश्यं प्रवर्तितव्यमेव, ततोऽपि ज्ञानक्रियाप्राप्तेः, ताभ्यां च मोक्षफलसिद्धिरिति ॥ _ यदि नामावश्यकानुयोगतो ज्ञान-क्रियाऽवाप्तिः, ताभ्यां च मोक्षसिद्धिः, तथापि किमिति तत्र प्रवर्तितव्यम् , न पुनर्यत्र कुत्रचित्र पष्टितन्त्रादौ ?; इत्याह- कारणात् कार्यसिद्धिः, नाकारणादिति कृत्वा; कारणे हि सुविवेचिते प्रवर्तमानाः प्रेक्षावन्तः समीहितमप्रतिहतं कार्यमासादयन्ति; नाकारणे, अन्यथा तृणादपि हिरण्य-मणि-मौक्तिकाद्यवाप्तेः सर्व विश्वमदरिद्रं स्यात् । कारणं च पारम्पर्येणावश्यकानुयोग एव मोक्षस्य, न पष्टितन्त्रादिकम् , ज्ञान-क्रियाजननद्वारेण तस्य मोक्षसंसाधकत्वात् , इतरस्य तु पारम्पर्येणाऽपि तदसाधकत्वात् ॥ इति गाथार्थः । उक्तं फलद्वारम् ॥३॥
अथ योगद्वारमभिधित्सुराहभेव्वस्स मोक्खमग्गाहिलासिणो ठियगुरूवएसस्स । आईए जोग्गामिणं बाल-गिलाणरस वाऽऽहारं ॥ ४॥
व्याख्या-यदादौ प्रतिज्ञातम्-शिष्यप्रदानेऽस्य योगोऽवसरो वाच्य इति । तत्रह- समस्तद्वादशाङ्ग्यध्ययनकालस्यादौ प्रथममिदं पड़िधमावश्यक योग्पमपदिशन्ति मुनयः, शेषसमग्रश्रतप्रदानकालस्यादी प्रथममेवाऽऽवश्यकमदानस्याऽवसर इति भावः। कस्य पुनरिदमावश्यकं योग्यमादिशन्ति मुनयः ?, इत्याह- भव्यस्य मुक्तिगमनयोग्यस्य जन्तोः। स च कश्चिद् दूरभव्योऽसंजातमोक्षमार्गाभिलापोऽपि भवति, तद्व्यवच्छेदार्थमाह- मोक्षमार्गः सम्यग्ज्ञान-दर्शन-चारित्ररूपस्तमुत्तरोत्तरविशुद्धिरूपमभिलपितुं शीलमस्य स तथा तस्य । अयं चैवंविधोऽपरिणतगुरूपदेशोऽपि स्यात् , तन्निरासार्थमाह-स्थितः कर्तव्यतया परिणतो गुरूपदेशो यस्याऽसौ स्थितगुरूपदेशस्तस्य । किं यथायोग्यमुपदिशन्ति ?, इत्याह- बालग्लानयोरिवाऽऽहारं यथोपदिशन्ति, भिषज इति गम्यते । इदमुक्तं भवतियथाऽऽदौ बालस्य कोमल-मधुरादिकम् , ग्लानस्य च पेया-मुद्ग-यूषादिकं तत्कालोचितमुत्तरोत्तरबलपुष्टयादिहेतुमाहारं योग्य भिषजः समुपदिशन्ति, तथेहापि भव्यादिविशेषणविशिष्टस्य जन्तोरादाविदमेवाऽऽवश्यकमुत्तरोत्तरगुणवृद्धिहेतुभूतं योग्यमुपदिशन्ति तीर्थकरगणधरा इति । आवश्यकस्य चादौ शिष्यप्रदानावसरे प्रतिपादिते तदनुयोगस्याऽसौ प्रतिपादित एव द्रष्टव्यः, तयोरेकत्वस्याऽनन्तरमेवाऽऽख्यातत्वात् ॥ इति गाथार्थः ॥४॥ आह- ननु यस्य भव्यादिविशेषणविशिष्टस्याऽऽदौ योग्यमिदमावश्यकम् , तस्मै योग्यमित्येतावन्मात्रमेव ज्ञात्वा तद् ददत्या
1 भषस्य मोक्षमार्गाभिलाषिणः स्थितगुरूपदेशस्य । आदौ योग्यमिदं बाल-बलानयोरिवाऽऽहारम् ॥ ४ ॥
88668TOOOOOPPPARAN
सरकार-STER
॥ ७॥
5986000
TOPPERS
1Hemjanelbraryang
Page #10
--------------------------------------------------------------------------
________________
बृहद्वत्तिः
॥८
॥
चार्याः, आहोस्विदन्योऽपि तत्र कश्चिद् विधिरपेक्षणीयः । इति शिष्यवचनमाशङ्कयाऽस्मिन्नेव योगद्वारे तद्दानविधानादि किञ्चिल्लेशतः प्रासङ्गिकमभिधित्सुराह
कयपंचनमोक्कारस्स दिन्ति सामाइयाइयं विहिणा । आवासयमायरिया कमेण तो सेसयसुयं पि ॥ ५॥ __व्याख्या- भव्यादिविशेषणविशिष्टस्यापि शिष्यस्य कृतपञ्चनमस्कारस्य चतुर्थ्यर्थे षष्ठी- कृतपञ्चनमस्काराय मङ्गलार्थमुच्चारितपश्चनमस्कृतिमङ्गलायेत्यर्थः। सामायिकादिकमावासकं विधिना प्रशस्त द्रव्य-क्षेत्र-काल-भावरूपेण, प्रशस्तदिगभिमुखव्यवस्थापनादिरूपेण च समयोक्तेन ददत्याचार्याः, न पुनर्योग्यमित्येतावन्मात्रकमेव ज्ञात्वेति भावः। तत ऊर्ध्वमस्मै किं न किश्चिद् ददति ?, इत्याहक्रमेण ततः शेषकमप्याचारादि श्रुतं प्रयच्छन्ति यावच्छूतोदधेः पारम् ।। इति गाथार्थः ॥५॥
आवश्यकानुयोगप्रदानेऽप्ययमेव विधिरित्यावेदयितुमाहतेणेव याऽणुओगं कमेण तेणेव याऽहिगारोऽयं । जेण विणेयहियत्थाय थेरकप्पक्कमो एसो ॥६॥
चकारोऽपिशब्दार्थः, भिन्नक्रमश्चः ततस्तेनैव पञ्चनमस्कारकरणादिना क्रमेणाऽनुयोगमपि सूत्रव्याख्यानरूपम् , ददत्याचार्या इति वर्तते, अनयोश्च सूत्रप्रदानक्रमा-ऽनुयोगप्रदानक्रमयोर्मध्ये तेनैव प्रस्तुतगाथापक्रान्तेनाऽनुयोगप्रदानक्रमेणाध्यमस्मदभिमतोऽधिकारः, अनुयोगस्यैवेह प्रस्तुतत्वात् , इति भावः । कुतः पुनरिहानुयोगदानक्रमेणैवाधिकारः, इत्याह- येन कारणेन विनेयहितार्थ शिष्यवर्गस्योत्तरोत्तरगुणप्राप्तिमपेक्ष्येत्यर्थः, स्थविराणां गच्छवासिनां साधूनां योऽसौ कल्पः समाचारविशेषस्तस्यैषोऽनन्तरगाथावक्ष्यमाणलक्षणः क्रमः परिपाटीरूपः, तेन कारणेनाऽनुयोगदानक्रमेणैवेहाधिकारोऽयमिति ॥ ६॥
कः पुनरसौ स्थविरकल्पक्रमः ? इत्याहपव्वज्जा-सिक्खावयम-ऽत्थग्गहणं च अनिअओ वासो । निप्फत्ती य विहारो सामायारीठिई चेव ॥ ७॥ इह स्थविराणामयं क्रमो यदुत-प्रथमं तावद् योग्याय विनीतशिष्याय विधिवदापिताऽऽलोचनाय प्रशस्तषु द्रव्यादिषु स्वयं
, कृतपञ्चनमस्काराय ददति सामायिकादिकं विधिना । आवासकमाचार्याः क्रमेण ततः शेषकश्रुतमपि ॥ ५॥ २ तेनैव चानुयोर्ग क्रमेण तेनैव चाऽधिकारोऽयम् । येन विनयहितार्थ स्थविरकल्पक्रम एषः ॥६॥ । प्रवज्या-शिक्षापदम-ऽर्थग्रहणं चानियतो वासः । निष्पत्ति विहारः सामाचारीस्थितित्रैव ॥ ७॥
TOTSACROSPIPEPRESS
STORIES
PRASPASPASSAGESARAS
॥८॥
T
Jan Education Internat
For Personal and Private Use Only
TAwww.jaineltrary.ary
Page #11
--------------------------------------------------------------------------
________________
विशे०
॥ ९ ॥
Jain Educations Internati
गुणसुस्थितेन गुरुणा विधिनैव मत्रज्या प्रदातव्या । ततः शिक्षापदमिति शिक्षायाः पदं स्थानं शिक्षापदम्, शिक्षेव वा पदं स्थानं शिक्षापदम् विधिना प्रत्रजितस्य शिष्यस्य ततः शिक्षाऽधिकारो भवतीत्यर्थः । सा च शिक्षा द्विविधा ग्रहणशिक्षा, आसेवनाशिक्षा च । तत्र द्वादश वर्षाणि यावत् सूत्रं त्वयाऽध्येतव्यमित्युपदेशो ग्रहणशिक्षा, आसेवनाशिक्षा तु प्रत्युपेक्षणादिक्रियोपदेशः । आह च" सा पुण दुविहा सिक्खा गहणे आसेवणे य नायव्या । गहणे सुत्ताहिज्क्षण आसेवण तिप्पकप्पाई " ॥ १ ॥
अन्ये तु - शिक्षाशब्दाद् व्रतमिति पदं पृथक् कृत्वा व्रतमिति कोऽर्थः १ - शिक्षाऽनन्तरं रात्रिभोजनविरमणषष्ठेषु पञ्चसु महात्रतेधूपस्थाप्यते शिष्यः, इत्येतदपि द्वितीयं व्याख्यानं कुर्वन्ति । एतच्च कल्पचूर्ण्यं चिरन्तनटीकायां च न दृष्टम्, इत्यस्माभिरुपेक्षितम् । ततः सूत्रेऽधीते यद् विनेयः कार्यते, तदाह- 'अत्थरगहणं च त्ति' द्वादश वर्षाण्यधीतसूत्रः सन्नसावर्थग्रहणं कार्यते तस्य पूर्वाधीतसूत्रस्य द्वादश वर्षाणि यावदेषोऽर्थं ग्राह्यत इत्यर्थः । यथा हि हलारघट्टगन्त्र्यादेर्मुक्तो बुभुक्षितो बलीवर्दः प्रथमं तावच्छोभनमशोभनं वा तृणादिकमास्वादमनवगच्छन्नपि सर्वमभ्यवहरति पश्चाच्च रोमन्थावस्थायां तदास्वादमवगच्छति एवं विनेयोऽर्थमनवबुध्यमानोऽपि द्वादश वर्षाणि सर्व सूत्रमधीते, अर्थावगमाभावे च तत् तस्याऽनास्वादं भवति; अर्थग्रहणावस्थायां तु तदवगमात् सुस्वादमाप्यायकं च 'जायते, अतोऽधीतसूत्रेण द्वादश वर्षाण्यवश्यमर्थः श्रोतव्यः । यथा वा कृषीवलः शाल्यादिधान्यं प्रथमं वपति, ततः पालयति, लुनाति, मलति, पुनीते, गृहमानयति, पश्चात्तु निराकुलचित्तस्तदुपभोगं करोति, तदभावे वपनादिपरिश्रमस्य निष्फलत्वमसङ्गात् ; एवं शिष्योऽपि सूत्रमधीत्य यदि तदर्थं न शृणुयात्, तदा तदध्ययनप्रयासो विफल एव स्यात्; तस्मात् सूत्राध्ययनानन्तरमवश्यमेव द्वादश वर्षाणि तदर्थः श्रोतव्यः । तस्माद् यत एवं स्थविरकल्पक्रमो यदुत प्रथमं प्रव्रज्या, ततः सूत्राध्ययनम्, ततोऽप्यर्थग्रहणमितिः अतोऽनुयोगप्रदानक्रमेणैवेहाऽधिकार इत्येवं प्रस्तुतमभिसंबध्यते । सूत्राध्ययनानन्तरभावी हि तदर्थव्याख्यानरूपः स्थविरकल्पक्रमदृष्टोऽनुयोग एवावश्यकस्य शास्त्रकृता वक्तुमारब्धः, अतः सूत्राध्ययनकालस्यातिक्रान्तत्वेनेह विवक्षितत्वादनुयोगस्यैवाऽभिधित्सितस्वात् तत्पदानक्रमेणैवाधिकार इति भावः । एतावच्चाऽस्यां गाथायां प्रकृतोपयोगि । यत्पुनरन्यद् व्याख्यास्यते- 'अनिअओ वासो निष्फती य विहारो' इत्यादि, तत् प्रासङ्गिकमित्यवगन्तव्यम् । तत्र 'अनिअओ वासो त्ति' ततोऽस्य गृहीतसूत्रार्थस्य शिष्यस्याऽनियतो वासः क्रियते, ग्रामनगरसंनिवेशादिष्वनियतनिवासेनैष गृहीतमूत्रार्थः शिष्यो यद्याचार्यपद योग्यः, तदा जघन्यतोऽपि सहायद्वयं दत्त्वाऽऽत्मतृ
१ क. 'गुगस्वस्थितेन' ख. ग. 'गुणस्थितेन' |
२ सा पुनद्विविधा शिक्षा ग्रहणमासेवनं च ज्ञातव्ये ग्रहणं सूत्राध्ययनमासेवनं तृप्रकल्पादि ॥ १ ॥
For Personal and Private Use Only
३ क. ख. ग. ततो ।
बृहद्वृत्तिः।
॥ ९ ॥
Page #12
--------------------------------------------------------------------------
________________
SPIRPRISPAPERS एनवार-दरGATGA
RS
HARASHARANG
पसमाही
तीयो द्वादश वर्षाणि यावद् नानादेशदर्शनं नियमेन कार्यत इत्यर्थः, आचार्यपदानहस्य त्वनियमः । आचार्यपदार्थोऽपि किमिति देशदर्शनं कार्यते ? इति चेत् । उच्यते- स हि नानादेशेषु पर्यटस्तीर्थकराणां जन्मादिभूमीः पश्यति; ताश्च दृष्ट्रात जाताः, इह दीक्षा प्रतिपन्नाः, अस्मिंश्च देशे निर्वृता भगवन्तः, इत्यायध्यवसायतो हर्षातिरेकात् तस्य सम्यक्त्वस्थैर्य भवति, अन्येषां च स पश्चात् तस्थिरतामुत्पादयति, श्रुताद्यतिशायिनश्चाचार्यादीन् नानास्थानेषु पश्यतः सूत्रार्थेषु सामाचार्या चाऽस्य विशेषोपलम्भो भवति, नानादेशभाषासमाचारांश्चैष बुध्यते, ततश्च तत्तद्देशजानामपि विनेयानां तत्तद्भाषया धर्म कथयति, ततः प्रतिबोध्य तान् प्रव्राजयति, पूर्वप्रवजितास्तु तदुपसंपदं प्रतिपद्यन्ते, निःशेषास्मद्भाषासमाचारकुशलोऽयमिति शिष्याणां तदुपरि प्रीतियोगश्च जायते, इत्यादिगुणदर्शनादनियतवासः । 'निष्फत्ती य त्ति' एवं चानियतवासेन द्वादश वर्षाणि पर्यटतस्तस्याऽचार्यपदाहशिष्यत्वेनाऽऽत्मनो निष्पत्तिर्भवति, अन्येषां च प्रभूतशिष्याणां तदन्तिके निष्पत्तिर्जायत इति । 'विहारो त्ति' एवं शिष्यत्वेन निष्पत्ता, मरिपदे च प्राप्ते, स्वपरोपकारकरणेन दीर्घ च पर्याये परिपालिते, अन्यस्मिंश्च योग्यशिष्ये आचार्यपदे व्यवस्थापिते, ततोऽनन्तरं विहरणं विशेषेण भगवदभिहितमार्गे पराक्रमणं विहारो विशेषानुष्ठानरूपोऽनेन कर्तव्यः । स च द्विविधः- भक्तपरिशे-गिनी-पादपोपगमनलक्षणमभ्युद्यतमरणम् , जिनकल्प-परिहारविशुद्धिककल्प-यथालन्दिककल्पप्रतिपत्तिर्वा । अस्मिंश्च द्विविधेऽपि विहारे सामाचारी ज्ञात्वाऽनुष्ठेया । सा चाऽऽधे मरणलक्षणे विहारे
"निष्फाइआ य सीसा सउणी जह अण्डयं पयत्तेण । बारससंवच्छरियं सो संलेहं अहं करेइ ॥ १ ॥ चत्तारि विचित्ताई विगईनिज्जूहिआई चत्तारि । संवच्छरे उ दोन्नि उ एगन्तरियं च आयामं ॥२॥ नाइविगिट्ठो य तवो छम्मासे परिमियं च आयामं । अन्ने वि य छम्मासे होइ विगिढ़ तबो कम्मं ॥ ३ ॥
वासं कोडिसहि आयामं कटु आणुपुव्वीए । गिरिकंदरं तु गंतुं पायवगमणं अह करेइ "॥ ४ ॥ इत्यादिका ज्ञातव्या । द्वितीये तु विहारे जिनकल्पादिप्रतिपत्तौ सामाचारी निर्दिश्यते-तत्र जिनकल्पादि प्रतिपित्सुनाऽऽदावेव पूर्वापररात्रकाले तावदिदं चिन्तनीयम्-विशुद्धचारित्रानुष्ठानेन कृतं मयाऽऽत्महितम् , शिष्यायुपकारतः परहितं च, निष्पन्नाश्चेदानी मम
निष्पादिताच शिष्याः शकुनी यथाऽण्डकं प्रयनेन । द्वादशसांवत्सरिकं स संलेखमथ करोति ॥१॥ चश्वारि विचित्राणि विकृतिनियूहितानि चत्वारि (वर्षाणि)। संवत्सरौ तु द्वौ त्वेकान्तरितं चाऽऽयामम् ॥ २॥ नासिविकृष्ट च तपः पण्मासान् परिमितं चाऽऽयामम् । अन्यानपि च षण्मासान् भवति विकृष्टं तपः कर्म ॥३॥ वर्षे कोढिसहितं आयामं कृत्वाऽऽनुपूर्ध्या । गिरिकन्दरां तु गत्वा पादपगमनमथ करोति ॥ ४ ॥
कडाककककराकर
१०॥
Jain Educatoria internatio
For Personal and Private Use Only
Page #13
--------------------------------------------------------------------------
________________
विशे०
वृहद्धत्तिः ।
CHNDERBAR
गच्छपरिपालनक्षमाः शिष्याः, ततो विशेषेणैव सांप्रतं ममाऽऽत्महितमनुष्ठातुमुचितमिति । विचिन्त्य चेदं सति परिज्ञाने आत्मीयमायुःशेष स्वयमेव पर्यालोचयति, तदभावेऽन्यमतिशयिनमाचार्यादिकं पृच्छतिः तत्र स्तोके खायुषि भक्तपरिज्ञादीनामन्यतरद् मरणं प्रति-
पद्यते । अथ दीर्घमायुः, केवलं जङ्घारलपरिक्षीणः, तदा वृद्धवासं स्वीकुरुतेः पुष्टायां तु शक्तौ जिनकल्पादिप्रतिपत्तिमुररीकरोति । तत्र ॥११॥ EPH जिनकल्प प्रतिपित्सुना प्रथममेव तावत् पञ्चभिस्तुलनाभिरात्मा तोलनीयः, तद्यथा
___तैवेण सत्तेण सुत्तेण एगत्तेण बलेण य । तुलणा पंचहा वुत्ता जिणकप्पं पडिवजओ" ॥१॥ तुलना, भावना, परिकर्म चेत्येकार्थानि । तत्राऽऽचार्यो-पाध्याय-प्रवर्तक-स्थविर-गणावच्छेदकलक्षणाः प्रायः पञ्चैव जनाः प्रशस्ताभिरेताभिः पञ्चभिर्भावनाभिर्जिनकल्पं प्रतिपित्सवः प्रथममेवाऽऽत्मानं भावयन्ति । अप्रशस्तास्तु-कन्दर्प-देवकिल्विषका-ऽऽभियोगिका
सुर-संमोहस्वरूपाः पञ्च भावनाः सर्वथा दूरतः परित्यजन्ति । तत्र तपसाऽऽत्मानं भावयंस्तथा बुभुक्षां पराजयते यथा देवाशुपसर्गादिनाऽनेषणादिकरणतो यदि षण्यासान् यावदाहारं न लभते, तथापि न बाध्यते । सत्त्वभावनया तु भयं पराजयते, तत्र भयजयार्थ रात्रौ सुप्तेषु शेषसाधुषूपाश्रय एव कायोत्सर्ग कुर्वतः प्रथमा सत्त्वभावना भवति, द्वितीयादिकास्तूपाश्रयबाह्यादिप्रदेशेषु । आह च
"पंढमा उबस्सयम्मि बीया बाहिं तइया चउक्कम्मि । सुष्णहरम्मि चउत्थी अह पंचमिया मसाणम्मि" ॥१॥ सूत्रभावनया तु स्वनामवत् सूत्रं परिचितं तथा करोति यथा रात्री दिवा चोच्छासप्राणस्तोकलवमुहूर्तादिकं कालं मूत्रपरावर्तनानुसारेणैव सर्व सम्यगवबुध्यते । एकत्वभावनया चाऽऽत्मानं भावयन् सङ्घाटिकसाध्वादिना सह पूर्वप्रवृत्तानालाप-सूत्रार्थ-सुखदुःखादिप्रश्न-मिथःकथादिव्यतिकरान् सर्वानपि परिहरति, ततो बाह्यममत्वे मूलत एव व्यवच्छेदिते पश्चाद् देहो-पध्यादिभ्योऽपि भिन्नमात्मानं पश्यन् सर्वथा तेष्वपि निरभिष्वङ्गो भवति । बलभावनायां बलं द्विविधम् - शारीरम् , मानसधृतिबलं च । तत्र शारीरमपि बलं जिनकल्पार्हस्य शेषजॅनातिशायिकमेष्टव्यम् , तपःप्रभृतिभिस्त्वपकृष्यमाणस्य यद्यपि शारीरं बलं तथाविधं न भवति, तथापि धृतिबलेनाऽऽत्मा तथा भावयितव्यो यथा महद्भिरपि परीषहोपसगर्ने बाध्यते । एताभिः पञ्चभिर्भावनाभिर्भाविताऽऽत्मा जिनकल्पिकप्रतिरूपो गच्छेऽपि प्रतिवसन्नाहारादि परिकर्म प्रथममेव करोति, तत्राहारे तृतीयपौरुष्यामवगाढायां वल्ल-चणकादिकमन्तं प्रान्तं रूक्षं च
तपसा सवेन सूत्रेणकत्वेन बलेन च । तुलना पञ्चधोक्ता जिनकल्पं प्रतिपद्यमानस्य ॥१॥ २ प्रथमा उपाश्रये नितीया बहिस्तृतीया चतुष्के । शून्पगृहे चतुर्थी अध पञ्चमी श्मशाने ॥1॥ 1ग, 'मुत्रअगारे'। ४ ख. घ. छ. 'मनोधृतियलम्'। ५ क. ग. 'जनातिशायक' ।
Jan Eduinema
For Personal and Private Use Only
Page #14
--------------------------------------------------------------------------
________________
विशे० ॥ १२ ॥
"संसट्ठमसंसट्ठा उद्धड तह होइ अप्पलेवा य । उम्गहिआ पग्गहिआ उज्झिअधम्मा य.सत्तमिया" ॥१॥ एतासां सप्तानां पिण्डैषणानां मध्ये आद्यद्वयवर्ज शेषपञ्चानां मध्यादन्यतरैषणाव्याभिग्रहेणाऽऽहारं गृह्णाति- एकया भक्तम् , अपरया त्वेषणया पानकमिति । एवमाद्यागमोक्तविधिना गच्छान्तर्गतः पूर्वमेवाऽऽत्मानं परिकर्म्य ततो जिनकल्पं प्रतिपित्सुः सङ्घ मीलयति, तदभावे स्वगणं तावदवश्यमाहयते । ततस्तीर्थकरसमीपे, तदभावे गणधरसंनिधाने, तदसत्त्वे चतुर्दशपूर्वधरान्तिके, तदसंभवे दशपूर्वधराभ्यणे, तदलाभे तु वटा-ऽश्वत्था-ऽशोकक्षादीनामासत्तौ जिनकल्पमभ्युपगच्छति । निजपदव्यवस्थापितं मूरिम् , सबालवृद्धं गच्छम् , विशेषतः पूर्वविरुद्धांश्च क्षमयति, तद्यथा
"जैइ किंचि पमाएणं न सुटु मे वट्टि मए पुच्विं । तं भे! खामेमि अहं निस्सल्लो निक्कसाओ य ॥१॥ आणंदमंसुपायं कुणमाणा ते वि भूमिगयसीसा । खामंति ते जहरिहं जहारिहं खामिआ तेणं ॥२॥
खातस्स गुणा खलु निस्सल्लयविणयदीवणा मग्गे । लाघवियं एगत्तं अप्पडिबन्धो अ जिणकप्पो" ॥ ३ ॥ निजपदस्थापितमूरिप्रभृतीनामनुशास्ति प्रयच्छति, तद्यथा
“पाँलेज सगणमेयं अप्पडिबद्धो य होज सव्वत्थ । ऎसो हु परंपरओ तुम पि अंते कुणसु एवं" ॥ १॥
नमसमरसत
१ संसृष्टासंसृष्टे उद्धता तथा भवत्यल्पलेपा च । उद्गृहीता प्रगृहीता उज्झितधर्मा च सप्तमी ॥१॥ संसृष्टाभ्यां तत्खरष्टिताभ्यां हस्तपात्राभ्यां भिक्षा संसृष्टा, असंसृष्टाभ्यां तु ताभ्यामसंसृष्टा, स्थाल्यादिभ्यः स्वार्थ भोजनाय उत्क्षिप्ता उद्धता, निलेप पृथुकादि तत्स्वरूपाऽल्पलेपा, भोजनकाले शरावाद्याहितभोज्यवस्तुमध्यादुत्पाटिता, भोजनार्थ करोपात्तभोज्यमध्याद् दातुमिष्टा प्रगृहीता, अन्याऽनभिलव्यमाणा परित्यव्यमानभक्ताद्यन्नरूपा उजिझतधर्मा इति।
२ यदि किञ्चित् प्रमादेन न सुष्टु युष्माकं वर्तितं मया पूर्वम् । तं भगवन् ! क्षमयाम्यहं निःशल्यो निष्कषायश्च ॥ १ ॥
आनन्दाथुपातं कुर्वाणास्तेऽपि (साधवः) भूमिगतः । क्षमयन्ति ते यथाई यथाई क्षमितास्तेन ॥२॥ क्षमयतश्च गुणाः खलु निःशल्यकविनवदीपना मागें । लाघवमेकत्वमप्रतिबन्धन जिनकल्पः ॥३॥
३ पालयेः खगणमेतमप्रतिबद्ध भवेः सर्वत्र । एष खलु परम्परकस्त्वमप्यन्ते कुयों एवम् ॥१॥ ४ "एष च परम्परकः शिष्याचार्यक्रमो यदव्यवच्छित्तिकारकं शिष्यं निष्पाद्य शक्तौ सत्यामभ्युद्यतविहारः प्रतिपत्तव्यः, खमप्यन्ते शिष्यनिष्पादनादिकार्यपवसाने एवमेव कुर्याः" इति बृहत्कल्पभाष्यढीकायां श्रीक्षेमकीर्तिसूरिः ।
RRRRESS
॥१२॥
Edutainer
For Personal and Private Use Only
Page #15
--------------------------------------------------------------------------
________________
विशे०
बृहदत्तिः ।
॥१३॥
पुब्वपउत्तं विणयं मा हु पमाएहि विणयजोग्गेसु । जो जेण पगारेणं उवजुजइ तं च जाणाहि ॥२॥
ओमो समराइणिओ अप्पतरसुओ य मा एणं तुब्भे । परिभवह एस तुम्हवि विसेसओ संपयं पुज्जो ॥ ३ ॥ इत्यादिशिक्षा दत्त्वा गच्छाद् विनिर्गते चक्षुर्गोचरातीते तस्मिन्नानन्दिताः साधवः प्रतिनिवर्तन्ते । उक्तं च
"पैक्खीव पत्तसहिओ सभंडगो वचए निरवक्खो । धीरो घणवन्दाओ च नीहरिओ विज्जुपुंजो व्व ॥ १ ॥ सीहम्मि व मन्दरकन्दराओ गच्छा विणिग्गए तम्मि । चक्खुविसयमइगए अइंति आणंदिआ साहू ॥२॥
आमोएउ खेत्तं निव्वापारण मासनिव्याहिं । गतूण तत्थ विहरे साहू पडिवन्नजिणकप्पो" ॥ ३ ॥ एवं च प्रतिपन्न जिनकल्पो यत्र ग्रामे मासकल्पं चतुर्मासकं वा करिष्यति, तत्र षट् भागान् कल्पयति । ततश्च यत्र भागे एकस्मिन् दिने गोचरचर्यायां हिण्डितस्तत्र पुनरपि सप्तम एव दिवसे पर्यटति, भिक्षाचर्या ग्रामान्तरगमनं च तृतीयपौरुष्यामेव करोति । चतुर्थपौरुषी च यत्राऽवगाहते, तत्र नियमादवतिष्ठते । भक्तं पानकं च पूर्वोक्तैषणाव्याभिग्रहेणाऽलेपकदेव गृह्णाति । एषणादिविषयं मुक्त्वा न केनापि सार्धं जल्पति, एकस्यां च वसतौ यद्यप्युत्कृष्टतः सप्त जिनकल्पिकाः प्रतिवसन्ति, तथापि परस्परं न भाषन्ते । उपसर्गपरीपहान् सर्वानपि सहत एव, रोगेषु चिकित्सा न कारयत्येव, तद्वेदनां तु सम्यगेव विषहते, आपातसंलोकादिदोषरहित एव स्थण्डिले उच्चारादीन् करोति, नाऽस्थण्डिले;
___“अममत्तअपरिकम्मा नियमा जिणकप्पियाण वसहीओ । एमेव य थेराणं मोत्तूण पमजणं एक" ॥ १ ॥
, पूर्वप्रवृत्तं विनयं मा खलु प्रमादयेविनययोग्येषु । यो येन प्रकारेण उपयुज्यते तं च जानीहि ॥१॥
___ अवमः समरान्निकोऽल्पतरश्रुतश्च मा एनं यूयम् । परिभवत एष युष्माकमपि सांप्रत पूज्यः ॥ ३ ॥
"ये च ते बहुश्रुतपर्यायज्येष्ठादयो विनययोग्या गौरवाहास्तेषु पूर्वप्रवृत्तं यथोचितं विनयं मा प्रमादयेः-प्रमादेन परिहारयः, यश्च साधुर्येन तपः-स्वाध्या. य-वैवावृत्त्यादिना प्रकारेणोपयुज्यते-निर्जरी प्रत्युपयोगमुपयाति, तं च जानीहि-तं तथैव प्रवर्तयेरित्यर्थः । अथ साधूनामनुशिष्टिं प्रयच्छति-"ओमो" अबमोऽयं, समरान्निकोऽयम्, अल्पश्रुतो वाऽयमस्मदपेक्षया, अतः किमर्थमस्याऽऽज्ञानिर्देशं वयं कुर्महे ' इति मा यूयमेनं परिभवत, यत एष युष्माकं सांप्रतमस्मरस्थानीयत्वाद् गुरुतरगुणाधिकत्वाच विशेषतः पूज्यः, न पुनरवज्ञातुमुचित इति भावः” इति बृहत्कल्पस्यैतस्या एव गाथाय्याष्टीकायां श्रीक्षेमकीर्तिमूरिः ।
२ पक्षीव पत्रसहितः सभाण्डकः (सपात्रकः) व्रजति निरपेक्षः । धीरो घनवृन्दाच निःसृतो विद्युत्पुब्ज इव ॥1॥
सिंहे इव मन्दरकन्दराया गच्छाद् विनिर्गते तस्मिन् । चक्षुर्विषयमतिगते च यान्त्यानन्दिताः साधवः ॥ २ ॥ भाभोग्य (विज्ञाय) क्षेत्रं निषाघातेन (विघ्नाभावेन) मासनिर्वाहि (मासनिर्वहणसमर्थ)। गत्वा तत्र विहरेत् साधुः प्रतिपन्नजिनकल्पः ॥३॥
३ अममत्वाऽपरिकर्माणो नियमाजिनकल्पिकानां वसतयः । एवमेव च स्थविराणां मुक्त्वा प्रमार्जनमेकम् ॥ १॥
१३॥
Jalodoo
Page #16
--------------------------------------------------------------------------
________________
बृहदत्तिः ।
इति वचनात् परिकर्मरहितायां वसतौ तिष्ठति, यापविशति तदा नियमावुत्कुदुक एव, न तु निषद्यायाम् , औपग्रहिकोपकविशे०रणस्यैवाऽभावादिति । मत्तकरि-व्याघ्र-सिंहादिके च संमुखे समापतत्युन्मार्गगमनादिना ईर्यासमिति न भिनत्ति, इत्याद्यन्याऽपि
जिनकल्पिकानां सामाचारी समयसमुद्रादवगन्तव्या । 'ठिई चेव त्ति तथा पूर्वोक्ते द्विविधेऽपि विहारे स्थितिः श्रुतसंहननादिका ज्ञात१४॥
व्या, तथाहि-जिनकल्पिकस्य तावज्जघन्यतो नवमस्य पूर्वस्य तृतीयमाचारवस्तु, उत्कर्षतस्त्वसंपूर्णानि दश पूर्वाणि श्रुतं भवति । प्रथमसंहननो बज्रकुड्यसमानाऽवष्टम्भश्चायं भवति । स्वरूपेण पञ्चदशस्वपि कर्मभूमिषु, संहृतस्त्वकर्मभूमिष्वपि भवति । उत्सर्पिण्यां व्रतस्थस्तृतीयचतुर्थारकयोरेवः जन्ममात्रेण तु द्वितीयारकेऽपि, अवसर्पिण्यां तु जन्मना तृतीयचतुर्थारकयोरेव, व्रतस्थस्तु पश्चमारकेऽपिः संहरणेन तु सर्वस्मिन्नपि काले प्राप्यते । प्रतिपद्यमानक: सामायिक-च्छेदोपस्थापनीयचारित्रयोः, पूर्वप्रतिपन्नस्तु मूक्ष्मसंपराय- यथाख्यातचारित्रयोरप्युपशमश्रेण्यामवाप्यते । प्रतिपद्यमानानामुत्कृष्टतः शतपृथक्त्वम् , पूर्वप्रतिपन्नानां तु सहस्रपृथक्त्वं जिनकल्पिकानां लभ्यते । | जिनकल्पिकः प्रायोऽपवादं नाऽऽसेवते, जडावलपरिक्षीणस्त्वविहरमाणोऽप्याराधकः । आवश्यिकी-नषेधिकी-मिथ्यादुष्कृत-गृहिविषयपृच्छो-पसंपल्लक्षणाः पञ्च सामाचार्योऽस्य भवन्ति, न विच्छादयः। अन्ये त्वाहुः अवश्यिकी-नैपेधिकी-गृहस्थोपसंपल्लक्षणास्तिस्रएव भवन्ति, आरामादिनिवासिन ओघतः पृच्छादीनामप्यसंभवादिति । लोचं चाऽसौ नित्यमेव करोति, इत्येवमाद्यपराऽपि स्थितिजिनकल्पिकानामागमादवसेया । परिहारविशुद्धिककल्प-सामाचार्यादिवक्तव्यताऽत्रैव ग्रन्थे पुरस्ताद् वक्ष्यते । यथालन्दिकानां तु "तवेण सत्तेण सुत्तेण" इत्यादिका भावनादिवक्तव्यता यथा जिनकल्पिकानाम् । यस्तु विशेषः स लेशतः प्रोच्यते-तत्रोदकाः करो यावता शुष्यति, तत आरभ्योत्कृष्टतः पञ्च रात्रिन्दिवानि यावत्कालोन समयपरिभाषया लन्दमित्युच्यते । ततश्च पञ्चरात्रिन्दिवलक्षणस्योस्कृष्टस्य लन्दस्यानतिक्रमेण चरन्तीति यथालन्दिकाः। पञ्चको हि गणोऽमुं कल्पं प्रतिपद्यते, ग्रामं च गृहपतिरूपाभिः षभिर्वीथीभिजिनकल्पिकवत् परिकल्पयन्ति, किन्त्वेकैकस्यां वीथ्यां पञ्च पश्च दिनानि पर्यटन्तीत्युत्कृष्टलन्दिचारिणो यथालन्दिका उच्यन्ते । एते |च प्रतिपद्यमानका जघन्यतः पञ्चदश भवन्ति; उत्कृष्टतस्तु सहस्रपृथक्त्वम् । पूर्वप्रतिपन्नास्तु जघन्यतः कोटिपृथक्त्वम् , उत्कृष्टतोऽपि BI कोटिपृथक्त्वं भवन्ति । एते च यथालन्दिका द्विविधा भवन्ति-गच्छे प्रतिबद्धाः, अप्रतिबद्धाश्च; गच्छे च प्रतिबन्धोऽमीषां कारणतः, कि
श्चिदश्रुतस्यार्थस्य श्रवणार्थमिति मन्तव्यमिति । पुनरेकैकशो द्विविधाः- जिनकल्पिकाः, स्थविरंकल्पिकाश्च । ये जिनकल्पं प्रतिपत्स्यन्ते ते जिनकल्पिकाः, ये तु पुनरपि स्थविरकल्पं समाश्रयिष्यन्ते ते स्थविरकल्पिकाः। एतेषां च स्थविरकल्पिक-जिनकल्पिकभेदभिन्नानां यथालन्दिकानां परस्परमयं विशेषः, यदाह
१ ख. ग. 'दुत्कुडक'।
in Educa
For Personal and Private Use Only
Page #17
--------------------------------------------------------------------------
________________
विशे०
बृहद्वृत्तिः ।
॥१५॥
"थेराणं नाणत्तं अतरंतं अप्पिणन्ति गच्छस्स । गच्छे निरवजेणं करेन्ति सव्वं पि परिकम ।। १ ।। एकेकपडिग्गहगा सप्पाउरणा हवंति थेराउ | जेसिं उण जिणकप्पे न य तेसिं बत्थपायाणि ॥२॥
निप्पडिकम्मसरीरा अवि अच्छिमलं पि नेअ अवणिति । विसहंति जिणा रोगं कारिंति कयाइ न तिगिच्छं ॥३॥ इत्यलं विस्तरेण, तदर्थिना तु कल्पग्रन्थोऽन्वेषणीय इति । तस्माद् यतः प्रव्रज्या-शिक्षापदानन्तरमर्थग्रहणं विधेयम् , ततोऽर्थव्याख्यारूपेणाऽनुयोगेनाऽयमधिकारः मूत्राध्ययनकालस्यातिक्रान्तत्वेन तस्यैवेह प्रस्तुतत्वादिति स्थितम् ॥ इति गाथार्थः॥७॥
आह-कृतपश्चनमस्काराय शिष्याय सामायिकादिश्रुतं ददत्याचार्याः, तेनैव च क्रमेणाऽनुयोगमित्युक्तम् , यदि नामैवमुक्तं ततः किम् ?, इत्याह
ओईए नमोकारो जइ पच्छाऽऽवासयं तओ पुव्वं । तस्स भाणएऽणुओगे जुत्तो आवसयस्स तओ ॥ ८॥ यदीत्यभ्युपगमे, यद्यादौ नमस्कारो दीयते ततः पश्चात् सामायिकाद्यावश्यकम् , ततस्तर्खेतदनेन न्यायेनाऽऽपतितं यदुत- पूर्व प्रथमं तस्य नमस्कारस्य भणिते कृतेऽनुयोगे व्याख्याने ततो युक्तः कर्तुमावश्यकस्याऽनुयोगः; व्याख्येयाऽनुरोधेनैव हि व्याख्यानं प्रवर्तते, व्याख्येयस्य चावश्यकस्यादौ नमस्कारो देयत्वेन भवद्भिरभ्युपगम्यते, अतस्तस्यानुयोगे कृते आवश्यकस्याऽसौ कर्तुमुचितः, तत आद्यगाथायां 'नमोकाराणुओगपुच्चयं आवस्सयाणुओगं वोच्छं' इति वक्तुं युक्तमिति भावः ॥ इति गाथार्थः ॥८॥
अत्रोत्तरमाहसो सव्वसुअक्खन्धब्भन्तरभूओ जओ तओ तस्स । आवासयाणुओगादिगहणगहिओऽणुओगो वि ॥९॥ स नमस्कारः सर्वेपामप्यावश्यक-दशबैकालिको-त्तराध्ययनादिश्रुतस्कन्धानामभ्यन्तर्भूतोऽन्तर्गतो यतः, ततस्तस्य नमस्कार
१ स्थविराणां नानात्वमशक्नुवन्तमर्पयन्ति गच्छस्य । गच्छे निरवयेन कुर्वन्ति सर्वमपि परिकर्म ॥१॥
एकैकप्रतिग्रहका सप्रावरणा भवन्ति स्थबिरास्तु । येषां पुनर्जिनकल्पो न च तेषां वखपात्राणि ॥२॥ निष्पतिकर्मशरीरा अप्यक्षिमलमपि नैवाऽपनवन्ति । विषहन्ते जिनाः (जिनकल्पिकाः) रोगं कारयन्ति न कदापि चिकित्साम् ॥३॥ २ आदौ नमस्कारो यदि पश्चादावश्यकं ततः पूर्वम् । तस्य भाणितेऽनुयोगे युक्त आवश्यकस्य ततः ॥८॥ ३ नमस्कारानुयोगपूर्वकमावश्यकानुयोगं वक्ष्ये।। ४ स सर्वश्रुतस्कन्धाभ्यन्तरभूतो यतस्ततस्तस्य । आवश्यकानुयोगादिग्रहणगृहीतोऽनुयोगोऽपि ॥९॥
Jan Education inten
For Dev
enty
www.jaineitrary.org
Page #18
--------------------------------------------------------------------------
________________
Aav
विशे० ॥१६॥
PRES
स्य, आदिशब्दो भिन्नक्रमे, आवश्यकादिश्रुतस्कन्धानुयोगग्रहणगृहीतोऽनुयोगोऽपि, न केवलमावश्यकादिश्रुतस्कन्धग्रहणेन तदन्तर्गतत्वाद् नमस्कारः स्वरूपेण गृह्यते, किन्त्वावश्यकादिश्रुतस्कन्धानुयोगग्रहणेन नमस्कारानुयोगोऽपि गृह्यत इत्यपिशब्दार्थः, ततश्चावश्यकानुयोगं वक्ष्य इत्युक्तेन नमस्कारानुयोगोऽपि भणनीयत्वेन प्रतिज्ञातो द्रष्टव्य इति भावः ॥ इति गाथार्थः ॥९॥
कथं पुनर्नमस्कारस्य सर्वश्रुतस्कन्धाभ्यन्तरता विज्ञायते ?, इत्याहतैस्स पुणो सव्वसुयभंतरया पढममंगलग्गहणा । जं च पिहो न पढिजइ नंदीए सो सुयक्खंधो ॥१०॥
तस्य च नमस्कारस्य, सर्वाणि च तानि श्रुतानि चाऽऽवश्यकश्रुतस्कन्धादीनि तदभ्यन्तरता प्रतीयते । कुतः ?, इत्याह-सकलमाङ्गलिकवस्तुनः प्रथमं च तन्मङ्गलं च प्रथममङ्गलं तदध्यवसायेन सर्वश्रुतस्यादौ ग्रहणं प्रथममङ्गलग्रहणं तस्मात् । इदमुक्तं भवति"मङ्गलाणं च सम्वेसिं पढमं हवैइ मङ्गलं" इति वचनात् प्रथममङ्गलत्वाभिप्रायेण सर्वश्रुतानामादौ नमस्कारस्य ग्रहणात् तदभ्यन्तरता प्रतीयत एव । कारणान्तरमप्याह- 'जं चेत्यादि' यद् यस्माच्चाऽसौ नमस्कारो नन्द्यध्ययने आवश्यक-दशवैकालिकादिश्रुतस्कन्धवत् तेभ्यः पृथक् 'सुअक्खंधो त्ति' श्रुतस्कन्धत्वेन न पठ्यते, येनाऽस्य पृथक् तेभ्यः श्रुतस्कन्धरूपता स्यात् , श्रुतरूपश्चाऽसौ, ततः पृथक् श्रुतस्कन्धत्वाभावे सामर्थ्यात् सर्वश्रुताभ्यन्तरतैवाऽस्य न्याय्या । तस्माद् नन्द्यध्ययनेऽप्यस्य श्रुतस्कन्धत्वेन पृथगनुपादानं सर्वश्रुताभ्यन्तरताज्ञापनार्थमेव ॥ इति गाथार्थः ॥१०॥
यतश्चैवं नन्द्यां श्रुतस्कन्धत्वेन पृथगनुपादानात् सर्वश्रुताभ्यन्तरत्वेन ज्ञापितोऽसौ नमस्कारः, तत एवैतत् कृतं भद्रबाहुस्खामिना । किम् ?, इत्याह
तेणे चिय सामाइयसुत्ताणुगमाइओ नमोक्कारं । वक्खाणेउं गुरवो वयंति सामाइयसुयत्थं ॥११॥
येनैवोक्तन्यायेन नन्यामसौ सर्वश्रुताभ्यन्तरतया ज्ञापितः, तेनैव कारणेन सामायिकसूत्रानुगमस्यादौ नमस्कारं व्याख्याय गुरवो भद्रबाहुस्वामिनो वदन्ति-अर्थव्याख्यानद्वारेण प्रकटन्ति सामायिकश्रुतार्थम् । यदि हि पृथगसौ श्रुतस्कन्धः स्यात् तदा"ऑवस्सयस्स
1 तस्य पुनः सर्वधुताभ्यन्तरता प्रथममगलग्रहणात् । यच्च पृथग् न पठ्यते नन्यां स श्रुतस्कन्धः ॥ १० ॥ २ ममालानां च सर्वेषां प्रथमं भवति मगलम् । ३ क. घ. छ. 'होइ'। • तेनैव सामायिकसूत्रानुगमादितो नमस्कारम् । व्याख्यानय्य (व्याख्याय) गुरवो वदन्ति सामायिकस्वार्थम् ॥११॥ ५ मावश्यकस दशवकालिकख तथोत्तराध्ययाना-उचारागयोः, सूत्रकृताङ्गे नियुक्तिम् ॥
For Personal and
Use Oy
Page #19
--------------------------------------------------------------------------
________________
Indian
स
विशे०
॥१७॥
दसकालिअस्स तह उत्तरज्झमा-ऽऽयारे, सूयगडे निज्जुत्ति" इत्यादिग्रन्थे आवश्यकस्य नियुक्तिं प्रतिज्ञाय नमस्कारस्य नियुक्तिकरणमसंगतमेव स्यात् । तस्मात् तत्करणादेव सर्वश्रुताभ्यन्तरताऽस्य प्रतीयते। अतो व्यवस्थितमिदम्- आवश्यकानुयोगप्रतिज्ञाविधानेनैव नम
बृहद्वतिः । स्कारानुयोगः संगृहीत एव, करिष्यते च नमस्कारनियुक्तिव्याख्यानावसरे भाष्यकारोऽपि तदनुयोगम् ; इत्यलं विस्तरेण ।। इति । गाथार्थः ॥ तदेवं सप्रसङ्गमभिहितं योगद्वारम् ॥ ११ ॥ अथ तृतीयं मङ्गलद्वारमधिकृत्याऽऽह
बहुविग्घाई सेयाई तेण कयमंगलोवयारेहिं । घेत्तव्यो सो सुमहानिहित्व जह वा महाविज्जा ॥ १२ ॥ “श्रेयांसि बहुविघ्नानि भवन्ति महतामपि" इति वचनाद् येन बहुविघ्नानि श्रेयांसि भवन्ति तेन कारणेन परमश्रेयोरूपत्वात् कृतमलोपचारैरेव स आवश्यकानुयोगो ग्रहीतव्यः । किंवत् ?, इत्याह- शोभनमहारत्नादिनिधिवद्, महाविद्यावद् वा ॥ इति गाथार्थः॥१२॥
क्व पुनस्तन्मङ्गलं शास्त्रस्येष्यते ?, इत्याह- .
ते मंगलमाईए मज्झे पज्जन्तए य सत्थस्स । पढम सत्थत्थाऽविग्धपारगमणाय निद्दिढें ॥ १३ ॥
तद् मङ्गलं शास्त्रस्यादौ क्रियते, तथा मध्ये, पर्यन्ते चेति । अथैकैकस्य करणफलमाह- प्रथममङ्गलं तावच्छास्त्रार्थस्याऽविघ्नेन पारगमनाय निर्दिष्टम् ।। इति गाथार्थः ॥ १३॥
तेरसेव य थेजत्थं मज्झिमयं, अंतिम पि तस्सेव । अव्वोच्छित्तिनिमित्तं सिरसपसिस्साइवंसस्स ॥१४॥ तस्यैव शास्त्रस्य प्रथममङ्गलकरणाऽनुभावादविघ्नेन परम्परामुपागतस्य स्थैर्यार्थ स्थिरताऽऽपादनार्थ मध्यमं मङ्गलम् , निर्दिष्टमिति वर्तते, 'अन्तिमं पीति' अन्त्यमपि मङ्गलं तस्यैव शास्त्रार्थस्य मध्यममङ्गलसामर्थ्यन स्थिरीभूतस्याऽव्यवच्छित्तिनिमित्तम्, कस्य, योऽसौ शास्त्रार्थः ?, इत्याह- शिष्यपशिष्यादिवंशगतस्येत्यर्थः । शिष्यपशिष्यादिवंशे शास्त्रार्थस्याऽव्यवच्छेदनिमित्तं चरममङ्गलमिति भावः॥ इति गाथार्थः ।। १४॥
१ बहुविघ्नानि श्रेयांसि तेन कृतमझालोपचारैः । ग्रहीतव्यः स सुमहानिधिरिव यथा वा महाविद्या ॥ १२॥ २ तद् मङ्गलमादी मध्ये पर्यन्तके च शाखस्य । प्रथमं शास्त्रार्थाऽविघ्नपारगमनाय निर्दिष्टम् ॥ ५॥ ३ तस्यैव च स्थयाँथ मध्यमकम् , अन्तिममपि तस्यैव । अव्यवच्छित्तिनिमित्तं शिष्यपशिष्यादिवंशस्य ॥१४॥
Form y
Page #20
--------------------------------------------------------------------------
________________
प्रसास्वाlicks
विशे०
बृहद्वत्तिः ।
SERIESCAPERSTARDAR
अत्राह
मंगलकरणा सत्थं न मंगलं, अह च मंगलस्सावि । मंगलमओऽणवत्था न मंगलममंगलत्ता वा ॥१५॥
प्रेरकः पाह- भो आचार्य ! त्वदीयं शास्त्रं न मङ्गलं प्राप्नोति । कुतः ?, इत्याह- मङ्गलकरणात् अमङ्गले हि मङ्गलमुपादीयते, यत्तु स्वयमेव मङ्गलं तत्र कि मङ्गलविधानेन ?, न हि शुक्लं शुक्लीक्रियते, नापि स्निग्धं स्नेह्यते; तस्माद् तन्मङ्गलोपादानान्यथानुपपत्तेः शास्त्रं न मङ्गलम् । अथ मङ्गलं शास्त्रम् , मङ्गलस्याऽपि सतस्तस्याऽन्यद् मङ्गलं क्रियत इत्यभ्युपगम्यते; अंत एवं सति तर्खनवस्था-मङ्गलानामवस्थानं न क्वचित् प्राप्नोति, तथाहि- यथा मङ्गलस्याऽपि सतः शास्त्रस्याऽन्यद् मङ्गलमुपादीयते, तथा मङ्गलस्याऽपि तद्रूपस्य सतोऽन्यद् मङ्गलमुपादेयम् , तस्याऽप्यन्यत् , अपरस्याऽप्यन्यत् , इत्येवमनवस्था आपतन्ती केन वार्यते ? । अथ शास्त्रे यदुपात्तं मङ्गलं तस्यान्यमङ्गलकरणाभावत इयं नेष्यते । तत्र दृषणमाह-'न मङ्गलमिति' शास्त्रमङ्गलीकरणार्थमुपात्तमङ्गलस्याऽनवस्थाभयेनाऽज्यमगलाकरणेन तद् मङ्गलं न स्यात् , अन्यमङ्गलाभावात् , शास्त्रवत् , इत्यर्थः; इदमुक्तं भवति- यदि मङ्गलस्याऽपरमङ्गलविधानाभावेनाऽनवस्था नेष्यते, तर्हि यथा मङ्गलमपि शास्त्रमन्यमङ्गलेऽकृते मङ्गलं न भवति, तथा मङ्गलमप्यन्यमङ्गलेऽविहिते मङ्गलं न भवेत, न्यायस्य समानत्वात् । तथा च किमनिष्टं स्यात् ?, इत्याह- अमगलता मङ्गलाभावः- शास्त्रे यद् मङ्गलमुपात्तं तदन्यमङ्गलशून्यत्वाद् न मङ्गलम् , तस्य च मङ्गलत्वाभावे शास्त्रमपि न मङ्गलम् , इति व्यक्त एव मङ्गलाभाव इति भावः । वाशब्दः पक्षान्तरसूचक:- अनवस्था, मङ्गलाभावो वेत्यर्थः ॥ इति गाथार्थः ॥ १५ ॥
अत्रोत्तरमाह
सत्थत्थन्तरभूयम्मि मंगले होज कप्पणा एसा । सत्थम्मि मंगले किं अमंगलं काऽणवत्था वा ॥१६॥
शास्त्रादावश्यकादेरर्थान्तरभूते भेदवति मङ्गले उपादीयमाने भवेद् घटेत परेण विधीयमाना • मंगलकरणा सत्यं न मंगलं' इत्यादिका कल्पना दोषोत्प्रेक्षालक्षणा; शास्त्रे त्वावश्यकादिके परममङ्गलस्वरूपेऽभ्युपगम्यमाने, तद्भिन्ने मङ्गले चाऽनुपादीयमाने हन्त ! किममङ्गलम् , का वाऽनवस्था त्वया प्रेयते । तस्मादाकाशरोमन्थनमेव परस्य दोषोद्भावनमिति भावः । आह- यदि शास्त्रं स्वयमेव
, मङ्गलकरणाच्छास्त्रं न मङ्गलम् , अथ च मङ्गलस्याऽपि । मङ्गलमतोऽनवस्था न मङ्गलममङ्गलस्वाद वा ॥ १५॥ २ शास्त्रार्थान्तरभूते मङ्गले भवेत् कल्पनैषा । शास्ने मङ्गले (मङ्गलरूपे) किममङ्गलं काऽनवस्था वा ? ॥५॥३ गाथा १५।
॥१८॥
FROOOPRESisir जानवरसम्राका
Jan Education intem
For Personal and Private Use Only
www.jaineltrary.ary
Page #21
--------------------------------------------------------------------------
________________
बृहद्वचिः
मालम् , तर्हि 'तं मंगलमाईए' इत्यादिवचनात मङ्गलं तत्र किमित्युपादीयते । सत्यम् , किन्तु 'सीसमइमंगलपरिग्गहत्थमेत्तं तदभिहाणं' इत्यादिना वक्ष्यते सर्वपत्रोत्तरम् , मा त्वरिष्ठाः ॥ इति गाथार्थः ॥१६॥ अथ समर्थवादितयार्थान्तरभूतत्वमपि मङ्गलस्याऽभ्युपगम्य समर्थयन्नाह
अत्यंतरे वि सइ मंगलम्मि नामंगला-ऽणवत्थाओ । स-पराणुग्गहकारिं पईव इव मंगलं जम्हा ॥ १७॥ ।
शास्त्रादर्थान्तरे भेदवत्यपि मङ्गलेऽभ्युपगम्यमाने सति नाऽमङ्गलता शास्त्रस्य, नाऽप्यनवस्था । कुतः, इत्याह- यस्मात् ख-परानुग्रहकारि मङ्गलम् , प्रदीपवत्-यथा हि प्रदीप आत्मानं प्रकाशयमानः स्वस्याऽनुग्राहको भवति, गृहोदरवर्तिनस्तु घटपटाद्यर्थानाविष्कुवाणः परेषामनुग्राहकः संपद्यते, न तु स्वप्रकाशे प्रदीपान्तरमपेक्षते; यथा च लवणं रसवत्यामात्मनि च सलवणतामुपदर्शयत् खपरानुग्राहकं भवति, न त्वात्मनः सलवणतायां लवणान्तरमपेक्षते । एवमर्थान्तरभूतं मङ्गलमपि निजसामाच्छास्त्रे खात्मनि च मङ्गलतां व्यवस्थापयत् स्व-परानुग्राहकं भवति । ततो मङ्गलाद् मङ्गलरूपताप्राप्तौ शास्त्रस्य तावद् नाऽमङ्गलता। यदा च मङ्गलमात्मनो मङ्गलरूपतायां मङ्गलान्तरं नापेक्षते, तदाऽनवस्थाऽपि दूरोत्सारितैव ॥ इति गाथार्थः ॥१७॥ पुनरन्यथा परः प्रेरयति
मंगलतियंतरालं न मंगलमिहत्थओ पसत्तं ते । जइ वा सव्वं सत्थं मंगलमिह किं तियग्गहणं ॥१८॥ इह मालविचारप्रक्रमे, अर्थतोऽर्थापत्त्या एतत् ते तव आचार्य ! प्रसक्तं प्राप्तम् । किं तत् ?, इत्याह- मङ्गलानामादि-मध्याघसानलक्षणं त्रिकं मङ्गलत्रिकं तस्याऽन्तरालद्वयलक्षणमन्तरालं न मङ्गलमिति । यदा हि "तं मंगलमाईए मज्झे पज्जतए य सत्थस्स' A इत्यादिवचनादादिमध्यावसानलक्षणेषु त्रिष्वेव नियतस्थानेषु मङ्गलमुपादीयते, तदा तदव्याप्तमन्तरालयमर्थापत्त्यैवाऽमङ्गलं प्रामोतीति
भावः । पर एवाह- यदि वा सिद्धान्तवादिन् ! एवं ब्रूयास्त्वं यदुत-सर्वमेव शास्त्रं मङ्गलमिति प्रागेवोक्तम् , अतः किमेवं प्रेर्यते । हन्त ! तर्हि 'तं मंगलमाईए' इत्यादिना किमिह मङ्गलत्रिकग्रहणं कृतम् । न हि सर्वस्मिन्नपि शास्त्रे मङ्गले 'आदौ मध्येऽवसाने च मङ्गलम्' इत्युच्यमानं युक्तियुक्तत्वमनुभवति । तस्मादपान्तरालद्वयस्याऽमङ्गलत्वं वा प्रतिपद्यस्य, मङ्गलत्रयग्रहणं वा मा कृथा इति भावः॥ इति गाथार्थः ॥ १८॥ १ गाथा २०। २ अर्धान्तरेऽपि सति मङ्गले नामङ्गलाऽनवस्थे । स्व-परानुग्रहकारि प्रदीप इव मङ्गलं यस्मात् ॥ १७॥
३ मङ्गलत्रिकान्तरालं न मङ्गलमिहाऽर्थतः प्रसक्तं ते । यदि वा सर्व शास्त्रं मालमिह किं त्रिकमहणम् ॥१८॥४ गाथा १३
Jan Education Internat
For Personal and Private Use Only
www.jaineltrary.org
Page #22
--------------------------------------------------------------------------
________________
मिशेल
बृहद्वतिः ।
आचार्यः माह
सत्थे तिहा विहत्ते तदन्तरालपरिकप्पणं कत्तो ? । सव्वं च निज्जरत्थं सत्थमओऽमंगलमजुत्तं ॥१९॥ ॥२०॥
बुद्ध्या शास्त्रे त्रिधा विभक्त तस्य शाखस्यान्तरालं तदन्तरालं तस्य परिकल्पनं कुतः संभवति-न कुतश्चिदित्यर्थः । यथा । हि संपूर्ण मोदकादिवस्तुनि त्रिखण्डे विकल्पितेऽन्तरालं न संभवति तथाऽत्रापि, इति कस्याऽमङ्गलता स्यात् । इति । यदि नाम
शास्त्रं त्रिधा विभक्तम् , तथापि कथं तस्य सर्वस्याऽपि मङ्गलता ? इत्याह- सर्व चावश्यकादि शास्त्रं निर्जरार्थ कर्मापगमरूपा निजेरा ROH अथेः प्रयोजनमस्येति निर्जरार्थम । तथा च सति तपोवत स्वयमेव मङ्गलमिदमिति सामा गम्यते । यदि नाम निजेरार्थत्वात् तपवित्
खयमेवाऽऽवश्यकादिशास्त्रं मङ्गलम् । ततः किम् , इत्याह-अतोऽमङ्गलमयुक्तम, यतः सर्वमेव शास्त्रं मङ्गलम् । अतो मालास्मान तस्मिंत्रिधा विभक्ते यदुच्यते 'अपान्तरालयममङ्गलम्' तदयुक्तमित्यर्थः । यदि हि शास्त्रं स्वयं मङ्गलं न भवेत् तदाऽन्यमालाडव्याप्तत्वात् कापि तदमङ्गलं भवेत् , यदा तु सर्वमपि स्वयमेव तद् मङ्गलम् , तदा कापि तस्याऽमङ्गलता न युक्तेति भावः॥ इति गाथार्थः ॥ १९॥
अथ प्रेरकः पाहजेइ मंगलं सयं चिय सत्थं तो किमिह मंगलग्गहणं ? । सीसमइमंगलपरिग्गहत्थमेत्तं तदभिहाणं ॥२०॥
यदि हि स्वयमेव शास्खं मङ्गलमिष्यते तदा त मंगलमाईए मज्ने' इत्यादिवचनात किमिह मङ्गलग्रहणं क्रियते', खत एव मङ्गल मालविधानस्याऽनर्थकत्वादिति भावः । इति परेण प्रेरिते गुरुराह- "सिस्सेत्यादि' शिष्यस्य मतिः शिष्यमतिस्तस्या मङ्गलपरिग्रहः सोऽथेः प्रयोजनमस्य तत् तथा तदर्थमेव शिष्यमतिमङ्गलपरिग्रहार्थमात्रं तदभिधानं मङ्गलाभिधानमित्यर्थः । इदमुक्तं भवतिशास्त्रादनथान्तरभूतमेव मङ्गलमुपादीयते, नार्थान्तरमिति मागेवोक्तम , नन्दिर्हि मङ्गलत्वेनाभिधास्यते, सा च पश्चज्ञानात्मिका, ततः शास्त्राण्यावश्यकादीनि सर्वाण्यपि श्रुतज्ञानरूपतया नन्द्यन्तर्गतान्येव. नन्दिरपि श्रतरूपत्वेनाऽऽवश्यकादिशास्त्रान्तर्गतैव । तस्माद् नन्देमङ्गलत्वनाऽभिधाने शास्त्रान्तर्गतमेव मङ्गलमभिहितं भवति । तत्रापि नाऽमङ्गलस्य सतः शास्त्रस्य मङ्गलताऽऽपादनाथ तदभिधानम् ,
१ शाने विधा विभक्त तदन्तरालपरिकल्पनं कुतः । सर्वं च निर्जरार्थ शास्त्रमतोऽमङ्गलमयुक्तम् ॥ १९॥ २.यदि महलं. स्वयमेव शास्त्रम्, तदा किमिह मङ्गलग्रहणम् ।। शिष्यमतिमङ्गलपरिप्रहार्धमानं तदभिधानम् ॥ २०॥ ३ गाथा १३ ।
S
For Personal and
Use Only
Page #23
--------------------------------------------------------------------------
________________
बृहद्वत्तिः ।
किन्तु शिष्यमतिमङ्गलपरिग्रहार्थम् , शिष्यो हि तस्मिन्नभिहिते मङ्गलमैतच्छास्त्रम्' इत्येवं खमतौ तन्मलतापरिग्रहं करोतीति विशे० EP भावः ॥ इति गाथार्थः ॥२०॥
.....आह-कि मङ्गलमपि मङ्गलबुझ्या गृहीतमेव खकार्य करोति, नान्यथा । एवमेतत् , इत्याह॥२१॥
ईह मंगलं पि मंगलबुद्धीए मंगलं जहा साहू । मंगलतियबुद्धिपरिग्गहे वि नणु, कारणं भणिअं ॥२१॥ ..इह लोके, मङ्गलमपि सद् वस्तु मङ्गलबुद्धथा गृह्यमाणमभिनन्द्यमानं वा मङ्गलं भवति । यथा साधुः, साधुर्हि स्वयं मङ्गलभूतोऽपि तद्बुद्ध्या गृह्यमाण एव प्रशस्तचेतोवृत्ते व्यस्य मङ्गलकार्य करोति. अमङ्गलबद्ध्या तु गृह्यमाणं मङ्गलमपि तत्काय न करोति,
यथा स एव साधुः कालुष्योपहतचेतोवृत्तेरभव्यस्य । अत्राह कश्चित्- नन्वेवं सत्यऽमङ्गलमप्यसाध्वादिकं मङ्गलबुझ्या गृह्यमाणं तत्कार्य | करिष्यति, न्यायस्य समानत्वात् । तदयुक्तम् , असाधोः स्वतो मङ्गलरूपताया अभावात , सत्यमणिहि सत्यमणितया गृह्यमाणो ग्रहीतुर्गों रवमापादयति, न त्वसत्यमणिः सत्यमणितया, इत्यलं प्रसङ्गेन । आह- यद्येवम् , तर्खेकमेव मङ्गलमस्तु, तेनापि हि शिष्यमतिमङ्गलपरिग्रहः सेत्स्यति, किं मालत्रयकरणेन, इत्याह- 'मंगलतियेत्यादि' मङ्गलत्रये हि कृते शिष्यस्य बुद्धी तत्परिग्रहो भवति । तेनाऽपि किमिति चेत्, इत्याह-ननु तत्रापि 'पंढर्म सस्थत्थाविग्धपारगमणाय निदिई' इत्यादिना कारणं निमित्तं प्रागेव भणितं किमिति विस्मायते ।। न च वक्तव्यमेकेनैव मङ्गलेन तत् कारणत्रयं सेत्स्यति, यतो यथैव शास्त्रं मङ्गलमपि सद् मङ्गलबुद्धिपरिग्रहमन्तरेण मङ्गलं न भवति साधुवत् , तथा शास्त्रस्याऽऽदि-मध्या-ऽवसानानि मङ्गलरूपाण्यपि मङ्गलबुद्धिपरिग्रहं विना न मङ्गलकार्य कुर्वन्ति, इति मङ्गलप्रयाभिधानम् ।। इति गाथार्थः ॥२१॥ तदेवं मङ्गलाभिधानमुपपत्तिभिर्व्यवस्थाप्य मङ्गलशब्दार्थ निरूपयितुमाह
'मंगिज्जएऽधिगम्मइ जेण हिअं तेण मंगलं होइ । अहवा मंगो धम्मो तं लाइ तयं समादत्ते ॥२२॥ ____ अगि-रगि-लगि-वगि-मगि' इत्यादी मागिर्गत्यर्थो धातुः, अतस्तस्याऽलच्प्रत्ययान्तस्य मङ्ग्यतेऽधिगम्यते साध्यते यतो हितमनेन तेन कारणेन मङ्गलं भवति । अथवा मङ्ग इति धर्मस्याऽऽख्या, 'ला आदाने' धातुः, ततश्च मङ्गं लाति समादत्ते इति मङ्गल
१ इह मङ्गलमपि मङ्गलबुख्या मङ्गलं, यथा साधुः । मङ्गलत्रिकबुद्धिपरिग्रहेऽपि ननु कारणं भणितम् ॥ २७॥ २ गाथा १३ । मयतेऽधिगम्यते येन हितं तेन मार्छ भवति । अथवा मङ्गो धर्मस्त लाति तकं समादत्ते ॥ २२ ॥
Juontato
For Don Pe Use Only
M
ww.jaineltrary.org
Page #24
--------------------------------------------------------------------------
________________
विशे०
॥ २२ ॥
Jain Education Internat
धर्मोपादानहेतुरित्यर्थः ॥ इति गाथार्थः ॥ २२ ॥
अहवा निवायणाओ मंगलमिट्ठत्थपगइपञ्च्चयओ । सत्थे सिद्धं जं जह तयं जहाजोगमाओज्जं ॥ २३ ॥
अथवा निपातनाद् मङ्गलमिति साध्यते । कथम् १, इत्याह- इष्टार्थप्रकृतिप्रत्ययतः, तत्रेष्टो विवक्षितोऽर्थो यासां ता इष्टार्थाः प्रकृतयः तद्यथा - 'मकि मण्डने' 'मन ज्ञाने' 'मदी हर्षे' 'मुद मोद-स्वप्न-गतिषु' 'मह पूजायाम्' इत्येवमादिः प्रत्ययस्त्वेतासां प्रकृतीनां सर्वत्र 'अलच्' एव विधीयते, ततो मङ्गलमिति रूपं निपात्यते । व्युत्पत्तिस्त्वेवम् - मङ्क्यतेऽलंक्रियते शास्त्रमनेनेति मङ्गलम्, तथा मन्यते ज्ञायते निश्चीयते विघ्नाभावोऽनेन, तथा माद्यन्ति हृष्यन्ति मदमनुभवन्ति, मोदन्ते, शेरते विघ्नाभावेन निष्पकम्पतया सुप्ता इव जायन्ते, शास्त्रस्य पारं गच्छन्त्यनेनेति, तथा मह्यन्ते पूज्यन्तेऽनेनेति मङ्गलमिति । एवमादि व्याकरणशास्त्रे यद् यथा निपातनं सिद्धम्, तद् यथायोगं यथासंबन्धमंत्र स्वधियाऽऽयोज्यं लक्षणः ॥ इति गाथार्थः ॥ २३ ॥
मैं गालयइ भवाओ मंगलमिहेवमाइ नेरुत्ता । भासंति सत्थवसओ नामाइ चउन्विहं तं च ॥ २४ ॥
अथवा मां गालयति भवादिति मङ्गलं संसारादपनयतीत्यर्थः । इह मङ्गलविचारे एवमादि नैरुक्ताः शब्दविदः शास्त्रवशतो व्याकरणानुसारेण भाषन्ते मङ्गलशब्दार्थ व्याचक्षते । आदिशब्दात् शास्त्रस्य मा भूद् गलो विघ्नोऽस्मादिति मङ्गलम्, अथवा शास्त्रस्य मा भूद् गलो नाशोऽस्मिन्निति मङ्गलम् सम्यग्दर्शनादिमार्गलयनाद् वा मङ्गलमित्यादि द्रष्टव्यम्, इत्यलं विस्तरेण । इह तत्व-पर्याय - भेदैर्व्याख्या, तत्र तत्त्वं शब्दार्थरूपम्, तत्तावद् निर्णीतम् । पर्यायास्तु मङ्गलं, शान्तिः, विघ्नविद्रावणमित्यादयः स्वयमेव द्रष्टव्याः । भेदस्तु स्वयमेव निरूपयितुमाह- 'नामाइ चउन्विहं तं चेति, तच्च मङ्गलं नामादिभेदतचतुर्विधं भवति । तद्यथा - नाममङ्गलम्, स्थापनामङ्गलम्, द्रव्यमङ्गलम्, भावमङ्गलं च ॥ इति गाथार्थः ॥ २४ ॥
तत्र नाम किमुच्यते ? इत्याशङ्क्य सामान्येन नान्नस्तावल्लक्षणमाह
पैज्जायाऽभिधेयं ठिअमण्णत्थे तयत्थनिरवेक्खं । आइच्छिअं च नामं जावदव्वं च पाएण ॥ २५ ॥
१ अथवा निपातनाद् मंगलमिष्टार्थप्रकृतिप्रत्ययतः । शास्त्रे सिद्धं यद् यथा तद् यथायोगमायोज्यम् ॥ २३ ॥
२ मां गालयति भवाद् मङ्गलमिहेवमादि नैरुक्ताः । भाषन्ते शास्त्रवशतो नामादि चतुर्विधं तच्च ॥ २४ ॥
, पर्यायाऽनभिधेयं स्थितमन्यार्थे (अन्वर्थे वा) तदर्थनिरपेक्षम् । यादृच्छिकं च नाम ग्रावद्द्द्रव्यं च प्रायेण ॥ २५ ॥
For Personal and Private Use Only
बृहद्वृचिः ।
॥२२॥
Page #25
--------------------------------------------------------------------------
________________
यत् कस्मिंश्चिद् भृतकदारकादौ इन्द्रायभिधानं क्रियते, तद्' नाम भण्यते । कथंभूत तत् ?, इत्याह- पर्यायाणां शक्र-पुरन्दरविशे०
पाकशासन-शतमख-हरिप्रभृतीनां समानार्थवाचकानां ध्वनीनामनभिधेयमवाच्यम् , नामवतः पिण्डस्य संबन्धी धर्मोऽयं नाम्न्युपचरितः, स हि नामवान् भृतकदारकादिपिण्डः किलैकेन संकेतितमात्रेणेन्द्रादिशब्देनैवाऽभिधीयते, न तु शेषैः शक्र-पुरन्दर-पाकशासनादिशब्दैः, अतो नामयुक्तपिण्डगतधर्मो नाम्न्युपचरितः पर्यायानभिधेयमिति । पुनरपि कथंभूतं तनाम, इत्याह- 'ठिअमण्णत्थे ति' विवक्षिताद् भृतकदारकादिपिण्डादन्यश्वासावश्चाऽन्यार्थो देवाधिपादिः, सद्भावतस्तत्र यत् स्थितम् ,भृतकदारकादौ तु संकेतमात्रतयैव वर्तते; अथवा सद्भावतः स्थितमन्वर्थे- अनुगतः संबद्धः परमैश्वर्यादिकोऽर्थो यत्र सोऽन्वर्थः शचीपत्यादिः। सद्भावतस्तत्र स्थितं भृतकदारकादौ तर्हि कथं वर्तते , इत्याह- तदर्थनिरपेक्षं तस्येन्द्रादिनाम्नोऽर्थस्तदर्थः परमैश्वर्यादिस्तस्य निरपेक्षं संकेतमात्रेणैव तदर्थशून्ये भृतकदारकादौ वर्तते, इति पर्यायानभिधेयम् , स्थितमन्यार्थे, अन्वर्थे वा; तदर्थनिरपेक्षं यत् कचिद् भृतकदारकादौ इन्द्राद्यभिधानं क्रियते तद् नाम,
इतीह तात्पर्यार्थः । प्रकारान्तरेणाऽपि नाम्नः स्वरूपमाह- यादृच्छिकं चेति, इदमुक्तं भवति-न केवलमनन्तरोक्तम्, किन्त्वन्यत्राऽवबर्तमानमपि यदेवमेव यदृच्छया केनचिद् गोपालदारकादेरभिधानं क्रियते, तदपि नाम, यथा डित्थो डवित्थ इत्यादि । इदं चोभयरूपम
पि कथंभूतम् , इत्याह-यावद् द्रव्यं च प्रायेणेति- यावदेतद्वाच्यं द्रव्यमवतिष्ठते तावदिदं नामाऽप्यवतिष्ठत इति भावः । किं सर्वमपिन, इत्याह-प्रायेणेति, मेरु-द्वीप-समुद्रादिकं नाम प्रभूतं यावद्र्व्यभावि दृश्यते; किश्चित् त्वन्यथाऽपि समीक्ष्यते, देवदत्तादिनामवाच्यानां द्रव्याणां विद्यमानानामप्यपरापरनामपरावर्तस्य लोके दर्शनात् । सिद्धान्तेऽपि यदुक्तम्- "नामं आवकहिअंति" तत् प्र. तिनियतजनपदादिसंज्ञामेवाऽजीकृत्य, यथोत्तराः कुरव इत्यादि । तदेवं प्रकारद्वयेन नाम्नः स्वरूपमत्रोक्तम् , एतच्च तृतीयप्रकारस्योपलक्षणम् , पुस्तक-पत्र-चित्रादिलिखितस्य वस्त्वभिधानभूतेन्द्रादिवर्णावलीमात्रस्याऽप्यन्यत्र नामत्वेनोक्तत्वादिति । एतच्च सामान्येन नानो लक्षणमुक्तम् , प्रस्तुते त्वेवं योज्यते- यत्र मङ्गलार्थशून्ये वस्तुनि मङ्गलमिति नाम क्रियते, तद् वस्तु नाम्ना नाममात्रेण मालमिति कृत्वा नाममङ्गलमित्युच्यते । पुस्तकादिलिखितं च यद् मङ्गलमिति वर्णावलीमात्रम् , तदपि नाम च तद् मङ्गलं चेति कृत्वा नाममङ्गलमित्यभिधीयते ।। इति गाथार्थः ॥ २५॥
अथ सामान्येनैव स्थापनायाः खरूपमाहजे पुण तयत्थसुन्नं तयभिप्पाएण तारिसागारं । कीरइ व निरागारं इत्तरमियरं व सा ठवणा ॥ २६ ॥ नाम यावत्कथिकमिति। २ यत् पुनस्तदर्थशून्यं तदभिप्रायेण तादृशाकारम् । क्रियते वा निराकारमित्वरमितरद् वा सा स्थापना ॥ २६॥
॥२३॥
Jan Educonsinema
For Personal and Private Use Only
www.jaineitrary.ary
Page #26
--------------------------------------------------------------------------
________________
विशे०
बदतिः।
वृहदृत्तिः।
॥ २४ ॥
R
सा स्थापनाऽभिधीयते, यत् किम् , इत्याह-यत् क्रियते इन्द्रादिस्थापनारूपतया विधीयते वस्तु, पुनःशब्दो नामलक्षणात स्थापनालक्षणस्य वैसदृश्यद्योतकः । केन ?, इत्याह- तदभिप्रायेण तस्य सद्भूतेन्द्रस्याऽभिप्रायोऽध्यवसायस्तेन । कथंभूतं तद् वस्तु ?, इत्याह- तदर्थशून्यं स चाऽसावर्थश्च तदर्थः सद्भूतेन्द्रलक्षणस्तेन शून्यं तदर्थशून्यम् । पुनरपि कथंभूतम् ?, तादृशाकारं सद्भूतेन्द्रसमानाकारम् , वाशब्दस्य भिन्नक्रमत्वाद् निराकारं वा सद्भूतेन्द्राकारशून्यमित्यर्थः, चित्र-लेप्य-काष्ठ-पाषाणादिषु तादृशाकारं भवति, अक्षादिषु तु निराकारमित्यर्थः । पुनः किंभूतम् ?, इत्वरम्-अल्पकालीनम् , इतरद्वा यावत्कथिकम् । तत्रत्वरं चित्राक्षादिगतम् , यावत्कथिक | तु नन्दीश्वरचैत्यप्रतिमादिः तदपि हि 'तिष्ठतीति स्थापना' इति स्थापनात्वेन समये निर्दिष्टमेव । तदिदमिह तात्पर्यम्-यद् वस्तु
सद्भूतेन्द्रार्थशून्यं सत् तद्बुद्ध्या तादृशाकारं निराकारं वा, स्तोककालं यावत्कथिकं वा स्थाप्यते सा स्थापनेति । प्रकृते योजना त्वित्थं क्रियते-चित्रकर्मादिगतः परममुनिः स्थापनं स्थापना तया मङ्गलम्, स्थाप्यत इति वा स्थापना तया मङ्गलं स्थापनामङ्गलमिति व्यपदिश्यते ॥ इति गाथार्थः ॥ २६ ॥
अथ भाष्यकारः स्वयमेव नाम-स्थापनामङ्गलयोरुदाहरणमुपदर्शयन्नाह- जैह मंगलमिह नाम जीवा-ऽजीवो-भयाण देसीओ। रूढं जलणाईणं ठवणाए सोत्थिआईणं ॥ २७॥
____ यथाशब्द उदाहरणोपन्यासार्थः । क यथा?, इत्याह- जीवा-ऽजीवोभयानां ज्वलनादीनां देशीतो देशीभाषया मङ्गलमिति नाम रूढम् , तत्र जीवस्याऽर्मङ्गलमिति नाम सूढम् , सिन्धुविषयेऽजीवस्य दवरकवलनकस्य मङ्गलमिति नाम रूढम् , लाटदेशे जीवाजीवोभयस्य तु मङ्गलमिति नाम रूदं वन्दनमालायाः, दवरिकादीनामिहाऽचेतनत्वात् , पत्रादीनां तु सचेतनत्वाज्जीवाजीवोभयत्वं भावनीयम् । स्वस्तिकादीनां तु या स्थापना लोके तस्या रूढं स्थापनामङ्गलत्वमिति शेषः ॥ इति गाथार्थः ।। २७॥ * अथ द्रव्यलक्षणमाह
'देवए दुयए दोरवयवो विगारो गुणाण संदावो। दव्वं भव्वं भावस्स भूअभावं च जं जोग्गं ॥ २८ ॥ ___ 'दुद्रु गतौ' इति धातुः, ततश्च द्रवति तांस्तान् वपर्यायान् प्रामोति मुश्चति वेति तद् 'द्रव्यम्' इत्युत्तरार्धादानीय सर्वत्र संबध्यते, तथा द्रूयते स्वपर्यायैरेव प्राप्यते मुच्यते चेति द्रव्यम् , यान् किल पर्यायान् द्रव्यं प्रामोति तैस्तदपि प्राप्यते, यांश्च मुञ्चति तैस्तदपि
। यथा मझलमिह नाम जीवा-उजीवो-भयानां देशीतः । रूबं ज्वलनादीनां स्थापनायाः स्वस्तिकादीनाम् ॥ २ हवति दूयते दोरवयवो विकारो (वा) गुणानां संद्रावः । द्रव्यं भव्यं भावस्थ भूतभावं च यद मोरया ॥ २८..
||२४॥
हासस
For Peso
Private Use Only
Page #27
--------------------------------------------------------------------------
________________
विशे०
SEPPOSसपर
॥२५॥
मुच्यत इति भावः । तथा द्रवति तांस्तान् पर्यायान् गच्छतीति दुः सत्ता तस्या एवाऽवयवो विकारो वेति द्रव्यम् , अवान्तरसत्तारूपाणि हि द्रव्याणि महासत्ताया अवयवो विकारो वा भवन्त्येवेति भावः । तथा गुणा रूपरसादयस्तेषां संद्रवणं संद्रावः समुदायो घटादिरूपो द्रव्यम् । तथा 'भवं भावस्स त्ति-' भविष्यतीति भावस्तस्य भावस्य भाविनः पर्यायस्य यद् भव्यं योग्यं तदपि द्रव्यम्, बृहद्वाच।। राज्यपर्यायाऽर्हकुमारवत् । तथा भूतभावं चेति-भूतः पश्चात्कृतो भावः पर्यायो यस्य तद् भूतभावं तदपि द्रव्यम् , अनुभूतघृताधारत्वपर्यायरिक्तघृतघटवत् । चशब्दाद् भूतभविष्यत्पर्यायं च द्रव्यमिति ज्ञातव्यम् , भूतभविष्यघृताधारत्वपर्यायरिक्तघृतघटवदिति । एतदपि भूतभावं तथा भूतभविष्यद्भावं च कथंभूतं सद् द्रव्यम् , इत्याह- यद् योग्यम् , भूतस्य भावस्य भूतभविष्यतोश्च भावयोरिदानीमसत्वेऽपि यद् योग्यमई तदेव द्रव्यमुच्यते; नाऽन्यत् , अन्यथा सर्वेषामपि पर्यायानामनुभूतत्वादनुभविष्यमाणत्वाच सर्वस्याऽपि पुद्गलादे व्यत्वप्रसङ्गात् ।। इति गाथार्थः ॥ २८ ॥
आह विनेयः- ननु सामान्येन द्रव्यलक्षणमवगतम् , परं द्रव्यमङ्गलं किमभिधीयते ? इति प्रस्तुतं निवेद्यताम् , इत्याह
औगमओऽणुवउत्तो मंगलसदाणुवासिओ वत्ता । तन्नाणलडिसहिओ वि नोवउत्तो त्ति तो दत्वं ॥ २९॥
इह द्रव्यमङ्गलं तावद् द्विधा भवति- आगमतः- आगममाश्रित्य, नोआगमतश्च-नोआगममाश्रित्य, तत्राऽऽगमो मङ्गलशब्दार्थज्ञानस्वरूपोऽत्राभिप्रेतः, तमाश्रित्य 'द्रव्यं द्रव्यमङ्गलमिति पर्यन्ते संबन्धः । कोऽसौ ?, इत्याह-वक्ता मङ्गलशब्दार्थप्ररूपकः। किं सर्वोऽपि, न, इत्याह- अनुपयुक्तः तदुपयोगशून्यः। किं विशिष्टः, इत्याह- मङ्गलशब्दानुवासितः मङ्गलशब्दार्थज्ञानावरणक्षयोपशमसंस्कारानुरञ्जितमनाः; तज्ज्ञानलब्धिमानिति यावत् । ननु यदि तज्ज्ञानलब्धिास्तहि किमिति द्रव्यम् , इत्याह- 'तन्नाणेत्यादि तज्ज्ञानलब्धिसहितोऽपि मङ्गलशब्दार्थज्ञानावरणक्षयोपशमवानपि नोपयुक्तस्तत्र मङ्गलशब्दार्थे यस्मादसौ, 'तो त्ति तस्माद् द्रव्यमङ्गलम् । इदमुक्तं भवति- 'अनुपयोगो द्रव्यम्' इति वचनाद् मङ्गलशब्दार्थ जाननपि तत्रानुपयुक्तस्तं प्ररूपयंस्तज्ज्ञानलब्धिसहितोऽप्यागमतो द्रव्यमङ्गलमेव ॥ इति गाथार्थः ॥ २९ ॥
___ अत्राह कश्चित्- ननु कोऽयमागमो यमाश्रित्य द्रव्यमङ्गलमिदमभिधीयते । अत्रोच्यते- मङ्गलशब्दार्थज्ञानमत्राऽऽगमः । तर्हि प्रेर्यते, किम् ?, इत्याह१ ग-'भवत्येव' । २ आगमतोऽनुपयुक्तो मङ्गलशब्दानुवासितो वक्ता । तज्ज्ञानलब्धिसहितोऽपि नोपयुक्त इति तस्माद् द्रव्यम् ॥ २९ ॥
FO॥ २५॥ ३ क. स. ग. 'रूपो'। ४ ख. 'मालशब्दार्थज्ञानवानपि ।
Page #28
--------------------------------------------------------------------------
________________
विशे०
॥ २६ ॥
Jain Educations Interna
ts नाणमागमो तो कह दव्वं दव्यमागमो कह णु ? | आगमकारणमाया देहो सदो यतो दव्वं ॥ ३०॥
यदि मङ्गलशब्दार्थज्ञानमागमः तर्हि तद्वक्ताऽसौ कथं द्रव्यमङ्गलम् १, आगमस्य भावमङ्गलत्वेन द्रव्यमङ्गलत्वानुपपत्तेः । अथ द्रव्यम्- द्रव्यमङ्गलमसौ तर्हि आगमः कथम् ? येनाऽऽगमत आगममाश्रित्येत्युच्यतेः द्रव्ये आगमस्याऽभावात् भावे वा भावमङ्गलत्वमसङ्गात् । तस्मादागमतो द्रव्यमङ्गलमिति दूरविरुद्धमिदम् । इति परेणोक्ते आचार्यः प्राह- आगमेत्यादि, इदमुक्तं भवति - आगमत इत्युतेनैतद् भवता बोद्धव्यं यदुत - न साक्षादेवाऽऽगमोऽत्रास्ति, किं तर्हि ?, आगमस्य मङ्गलशब्दार्थज्ञानलक्षणस्य यत् कारणं निमित्तं तदेवेह विद्यत इत्यवगन्तव्यम् । किं पुनस्तदागमस्य कारणमिहाऽवसेयम् ?, इत्याह- अनुपयुक्तस्य वक्तुः संबन्धी आत्मा जीवो देहः शब्दव, जीवशरीरे हि तावदागमस्य कारणम्, तदाधारविरहितस्याऽऽगमस्याऽसंभवात् । शब्दोऽपि प्रत्याय्य शिष्यगताऽऽगमस्य कारणमेव, तमन्तरेण तस्याभावात् । यच्च कारणं तद् द्रव्यं भवत्येव “ भूतस्य भाविनो वा भावस्य हि कारणं तु यल्लोके, तद् द्रव्यम् " इत्यादिवचनात्, इत्याह- 'तो त्ति' यत एवम् तस्माद् द्रव्यं द्रव्यमङ्गलमिदमित्यर्थः । यद्यागमकारणमेवेह विद्यते, तर्हि कथमिदमागमो येनाऽऽगमतो द्रव्यमङ्गलं स्यात् ? इति चेत् । उच्यते- आगमस्य कारणभूता आत्मादयोऽपि कारणे कार्योपचारादागमत्वेनोच्यन्ते, भवति च कारणे कार्यव्यपदेशः, यथा - ' तन्दुलान् वर्षति पर्जन्यः ' । तस्मादागमतो द्रव्यमङ्गलं न विरुध्यते ।। इति गाथार्थः ॥ ३० ॥
अथ - "नैत्थि नयेहिं विहूणं सुत्तं अत्थो य जिणमए किंचि आसज्ज उ सोयारं नयेण य विसारओ बूया " ॥ १ ॥ इति वचनाज्जिनमते सर्वेऽपि पदार्था नयैर्विचारणीयाः, इत्यतो द्रव्यमङ्गलमपि नयैर्विचारयन्नाह
एैगो मंगलमेगं णेगा गाई णेगमनयस्स । संगहनयस्स एकं सव्वं चिय मंगलं लोए ॥ ३१ ॥
वक्ष्यमाणशब्दार्थस्य नैगमनयस्य मतेनैकोऽनुपयुक्तो मङ्गलशब्दार्थप्ररूपक एक द्रव्यमङ्गलम् अनेके त्वनुपयुक्तास्तत्प्ररूपका अनेकानि द्रव्यमङ्गलानि । अयं हि नयः सामान्यं विशेषांश्वाऽभ्युपगच्छत्येव, तत्र विशेषवादित्वपक्षे एकोऽनुपयुक्त एकं द्रव्यमङ्गलम् ; अनेके त्वनुपयुक्ता अनेकानि द्रव्यमङ्गलानीत्युपपद्यत एव विशेषाणां पृथग्भिन्नत्वादिति । संग्रहनयस्य तु वक्ष्यमाणस्वरूपस्य केवलसामान्यवादिनो मतेन
१ यदि ज्ञानमागमस्तस्मात् कथं द्रव्यं द्रव्यमागमः कथं नु ? आगमकारणमात्मा देहः शब्दो यतो द्रव्यम् ॥ ३० ॥
२ नास्ति नयैर्विहीनं सूत्रमर्थ जिनमते किञ्चित् । आसाय तु श्रोतारं नयेन च विशारदो ब्रूयात् ॥ १ ॥
३ एको मङ्गलमेकमनेकेऽनेकानि नैगमनयस्य । संग्रहनयस्यैकं सर्वमेव मङ्गलं लोके ॥ ३१ ॥ ४ ख. 'युच्यते ' ।
For Personal and Private Use Only
बृहद्वृत्तिः ।
॥२६ ॥
Page #29
--------------------------------------------------------------------------
________________
विशे०
बहत्तिः ।
॥२७॥
सर्वस्मिन्नपि लोके एकमेव द्रव्यमङ्गलम् । सर्वेषां द्रव्यमङ्गलत्वसामान्यादव्यतिरिक्तत्वात् , व्यतिरेके चाऽद्रव्यमङ्गलत्वप्राप्तः, सामान्यस्य च त्रिभुवनेऽप्येकत्वात् ॥ इति गाथार्थः ॥ ३१ ॥
एतदेवाह
एवं निच्चं निरवयवमाक्कियं सव्वगं च सामन्नं । निस्सामन्नत्ताओ नत्थि विसेसो खपुष्पं व ॥ ३२ ॥
एकमद्वितीयत्वादेकसंख्योपेतं सामान्यम् । एकमपि क्षणिकं स्यात् , तबाह-नित्यमनायि । नित्यमप्याकाशवत् सावयवं | स्यात् , तन्निरवयवत्वे सवितुरुदयाऽस्तमनाऽयोगात् , इत्यत्राह-निरवयवमनंश, पूर्वापरकोटिशून्यत्वादिति । निरवयवमपि परमाणुवत् | सक्रियं स्यात् , अत आह- अक्रिय क्रियारहितम् , परिस्पन्दविनिर्मुक्तत्वादिति । अक्रियमपि दिगादिवत् सर्वगतं न स्यात् , अत्राहसर्वगं च सकललोकाऽचाप्तसत्ताकम् । इदमित्थंभूतं सामान्यमेवास्ति, न तु विशेषः कश्चनाऽपि विद्यते । कुत इत्याह-निःसामान्यत्वात् सामान्यविरहितत्वात् , खपुष्पवत् , यच्चाऽस्ति तत् सामान्यविरहितं न भवति, यथा घटः । तस्मादेकस्माद् द्रव्यमङ्गलसामान्यादव्यतिरिक्तत्वाद् तव्यतिरेके चाऽद्रव्यमङ्गलताप्रसङ्गात् सामान्यस्य च त्रिभुवनेऽप्येकत्वादेकमेव संग्रहनयमते द्रव्यमङ्गलम्, इति स्थितम् ।। इति गाथार्थः ।। ३२॥
अत्र विशेषवादिनयमतस्थितः कश्चिदाह- ननु कथमनेकानि द्रव्यमङ्गलानि न संभवन्ति ?, यथा हि वनस्पतिरित्युक्ते वृक्ष-गुल्म-लता-वीरुदादयो विशेषा एव प्रतीयन्ते; न पुनस्तदतिरिक्तः कश्चिद् वनस्पतिः, एवमिहाऽपि द्रव्यमङ्गलमित्युक्तेऽनुपयुक्ततत्परूपकलक्षणा विशेषा एवाऽवगम्यन्ते न तु तदधिक किश्चित् सामान्यम् , अतः किं शून्य इवाऽस्मिन् जगत्येवमभिधीयते- 'निस्सामन्नत्ताओ नत्थि विसेसो खपुष्पं व' इति ?, इति विशेषवादिना प्रोक्ते सामान्यवादी संग्रहःपाह-ननु यत एव वनस्पतिरित्युक्ते वृक्षादयः प्रतीयन्ते, अत एव ते तदनन्तरभूताः, हस्तस्येवाऽङ्गुलयः, इह यस्मिन्नुच्यमाने यत् प्रतीयते, तत् ततो व्यतिरिक्तं न भवति, यथा हस्त इत्युक्तेङ्गुल्यादयः प्रतीयमाना हस्ताद्न व्यतिरिक्ताः, प्रतीयन्ते च वनस्पतिरित्युक्ते वृक्षादयः, इत्यमी न वनस्पतिव्यतिरिक्ताः, ततो न सामान्यादतिरिक्तः कोऽपि विशेषः समस्ति, इत्येकमेव सर्वत्र द्रव्यमङ्गलमिति । अथोपपत्त्यन्तरेणापि सामान्यवाद्येव वृक्षादीनां सर्वेषामपि वनस्पतिसामान्यरूपतां समर्थयन्नाह
१ एकं नित्यं निरवयवमक्रियं सर्वगं च सामान्यम् । निःसामान्यत्वाद् नास्ति विशेषः खपुष्पमिव ॥ ३२ ॥ २ ख. 'पायम्' ।
॥२७॥
JainEducationa.Intemat
For Personal and Private Use Only
Folwww.jainelbrary.org
Page #30
--------------------------------------------------------------------------
________________
इस
विशे
क
चूओ वणस्सइच्चिय मूलाइगुणो त्ति तस्समूहो व्य । गुम्मादओ वि एवं सब्वे न वणस्सइविसिटे॥३३॥ ___'चूतः' आम्रो बनस्पतिरेव वनस्पतिसामान्यं न व्यभिचरतीत्यर्थः, इति प्रतिज्ञा, मूल-कन्द-स्कन्ध-त्वक्-शाखा-प्रवाल-पत्र-पुष्पफल-बीजादिगुणत्वादिति हेतुः, चूतसमूहवदिति दृष्टान्तः; इह यो यो मूलादिगुणः स स वनस्पतिसामान्यरूप एव, यथा चूतसमूहः, मूलादिगुणश्च चूतः, तस्माद् वनस्पतिसामान्यरूप एव, गुल्मादयोऽप्येवं वाच्याः, तथाहि-विशेषवादिना विशेषतयाऽभ्युपगम्यमानो गुल्मोऽपि वनस्पतिसामान्यरूप एव, मूलादिगुणत्वात् , गुल्मसमूहवन , इति । एवमन्येषामपि लतादिविशेषाणां वनस्पतिसामान्यादन्यतिरिक्तत्वं साधनीयम् । तद्व्यतिरेके सर्वत्र मुन्मयत्वादिप्रसङ्गो बाधकं प्रमाणम् । तस्मात् सामान्यमेवाऽस्ति, न विशेषाः ॥ इति गाथार्थः॥३३॥
किश्च
सोमन्नाउ विसेसो अन्नोऽणन्नो व होज, जइ अण्णो।सो नत्थि खपुष्फ पिवऽणण्णो सामन्नमेव तयं ॥३४॥
भो विशेषवादिन् ! सामान्यादु विशेषोऽन्यो वा स्यात , अनन्यो वा ?, इति विकल्पद्वयम् । यद्यायो विकल्पः, तर्हि नास्त्येव विशेषः, निःसामान्यत्वात . खपुष्पवत-इह यद यत सामान्यविनिर्मक्तं तत तद नास्ति, यथा गगनारविन्दम् , सामान्यविरहितश्च विशेषवादिना विशेषोऽभ्युपगम्यते, तस्माद् नास्त्येवाज्यामिति । अथाऽनन्य इति द्वितीयः पक्षः कक्षीक्रियते, हन्त ! तर्हि सामान्यमेवाऽसो, तदनन्यत्वात् , सामान्यात्मवत् , यद् यस्मादनन्यत् तत् तदेव, यथा सामान्यस्यैवाऽऽत्मा, अनन्यश्व सामान्याद् विशेषः, इति सामान्यमेवाऽयमिति । यदि चाऽतिपक्षपातितया सामान्येऽपि विशेषोपचारः क्रियते, तर्हि न कॉचित कचित् क्षतिः, न हयुपचारेणीच्यमानो | भेदस्तात्त्विकमेकत्वं बाधितुमलम् , तस्मात् सामान्यमेवाऽस्ति न विशेषः । इति संग्रहनयमतेन सर्वत्रैकमेव द्रव्यमङ्गलम् ।। इति गाथार्थः॥३४॥
तदेवं संग्रहेण वाभिमते सामान्ये प्रतिष्ठिते विशेषवादिनौ नैगमव्यवहारावाहतुःने विसेसत्थंतरभूअमत्थि सामण्णमाह ववहारो। उवलंभववहाराभावाओ खरविसाणं व ॥ ३५॥ -
१ चूतो वनस्पतिरेव मूलादिगुण इति तत्समूह इव । गुल्मादयोऽप्येवं सर्वे न वनस्पतिविशिष्टाः ॥ ३३ ॥ २ सामान्याद् विशेषोऽन्योऽनन्यो वा भवेत् , यद्यन्यः । स नास्ति खपुष्पमिव, अनन्यः सामान्यमेव तत् ॥ ३४॥ ३ क. 'द्वितीयपक्षः' । क. कदाचित् क्षतिः' । ख. ग. 'काचित् क्षतिः । ५न विशेषार्थान्तरभूतमलि सामान्यमाद व्यवहारः । उपतम्भव्यवहाराभावात् परविषाणमिव ॥१५॥
AASHAN
For Peso
Private Use Only
Page #31
--------------------------------------------------------------------------
________________
ERSTORE
बदचिः।
विशे.
॥२९॥
सहसासम्मका स्प
ननु भोः सामान्यवादिन् ! भवताऽपि वनस्पतिसामान्यं बकुलाऽशोक-चम्पक-नाग-पुन्नागा-ऽऽम्र-सर्जा-ऽर्जुनादिविशेषेभ्योऽर्थान्तरं वाऽभ्युपगम्येत, अनर्थान्तरं वा । यद्यर्थान्तरम् , तर्हि नास्त्येव तद् विशेषव्यतिरेकेण, उपलब्धिलक्षणप्राप्तस्य तस्योपलम्भव्यवहाराभावात् , खरविषाणवत् । क एवमाह ?, व्यवहारनयः, उपलक्षणत्वाद् विशेषवादी नैगमश्च । एतौ हि लोकव्यवहारानुयायिनौ, तद्वयवहारश्च प्रायो विशेषनिष्ठ एव, इति विशेषानेव समर्थयत इति भावः। अथानुपलब्धिलक्षणमाप्तं तदभ्युपगम्यते, तथापि नास्ति, विशेषेभ्यः सर्वथाऽन्यत्वात् , गगनकुसुमवदिति । अथ विशेषेभ्योऽनन्तरं तदिति द्वितीयपक्षः, तर्हि विशेषा एव तत् , तेभ्योऽनर्थान्तरभूतत्वात् , विशेषाणामात्मस्वरूपवदिति । यदि च विशेषेष्वपि सामान्योपचारः क्रियते, तर्हि न काचित् क्षतिः, न ह्यौपचारिकमेकत्वं तात्त्विकमनेकत्वं बाधते ॥ इति गाथार्थः ॥ ३५ ॥ एतदेव समर्थयते
याईएहिंतो को सो अण्णो वणस्सई नाम । नत्थि विसेसत्यंतरभावाओ सो खपुप्फ व ॥ ३६॥
चूतादिभ्यो विशेषेभ्योऽन्यः को नाम वनस्पतिः, यो व्रण-पिण्डी-पादलेपादिके लोकव्यवहारे उपयुज्येत? न कोऽपीत्यर्थः । तस्मात् समस्तलोकसंव्यवहारानुपयोगित्वाद् नास्ति सामान्यम् , खपुष्पवत् इति पूर्वोक्तमेवार्थ निगमनद्वारेणाह-'नत्थीत्यादि' तस्माद् नास्त्यसौ सामान्यवादिनाऽभ्युपगम्यमानो वनस्पतिः सद्रूपेभ्यो विशेषेभ्योऽर्थान्तरभावात् खपुष्पवत् । सद्रूपेभ्यो हि विशेषेभ्योऽ| थान्तरं भवत् असद्रूपमेव भवति तथाभूतं च नास्त्येव खपुष्पवत् ।। इति गाथार्थः॥ ३६॥
किं पुनः कारणं येन नैगमव्यवहारौ विशेषान् समर्थयतः ?, इत्याह
जे नेगमववहारा लोअव्ववहारतप्परा सो य । पाएण विसेसमओ तो ते तग्गाहिणो दो वि ॥ ३७॥ ___यद् यस्माद् नैगमव्यवहारौ लोकव्यवहारतत्परौ, स च लोकव्यवहारस्त्यागाऽऽदानादिकः प्रायेण विशेषमयो विशेषनिष्ठ एव दृश्यते, सामान्यस्य व्रणपिण्ड्यादौ लोकेऽनुपयोगात् । 'वनं''सेना' इत्यादौ कचित् कश्चित् कथञ्चित् सामान्यस्याऽपि दृश्यते उपयोगः, इति प्रायोग्रहणम् । यत एवम् , तस्मात् तौ नैगमव्यवहारौ द्वावपि तद्ग्राहिणौ विशेषाभ्युपगमपरौ ॥ इति गाथार्थः ॥३७॥
चूतादिभ्यः कः सोऽन्यो वनस्पतिर्नाम' । नास्ति विशेषार्थान्तरभावात् स खपुष्पभिव ॥ ३६॥ २ यद् नैगमव्यवहारी लोकव्यवहारतत्परौ, स च । प्रायेण विशेषमयस्तस्मात् ती तमाहिणी द्वावपि ॥३७॥
Jan Education Inter
For Personal and Private Use Only
www.jaineltrary.ary
Page #32
--------------------------------------------------------------------------
________________
बृहद्वृत्तिः ।
अत्र पर:पाहविशे० 'तेसिं तुल्लमयत्ते को णु विसेसोऽभिहाणओ अन्नो ? । तुल्लत्ते वि इहं नेगमस्स वत्थंतरे भेओ ॥ ३८ ॥
तयो गमव्यवहारयोस्तुल्यमतत्वे उक्तन्यायेन विशेषवादितया सदृशाभिप्रायत्वे सति 'णु' वितर्के, अभिधानं नाम ततोऽFol न्यस्तद् वर्जयित्वाऽपरः को विशेषः ? न कश्चिदित्यर्थः । एको नैगमः; अपरस्तु व्यवहार इत्येवमनयो मैव भिद्यते न त्वभिप्राय
इति भावः । आचार्य आह- 'तुल्लत्ते' इत्यादि, इह विशेषाऽभ्युपगमे यद्यपि नैगमस्य व्यवहारेण सह तुल्यत्वं सदृशाभिप्रायत्वम् , | तथापि तस्मिन् सत्यपि वस्त्वन्तरे सामान्यादिके भेदो नानात्वमस्त्येव ।। इति गाथार्थः॥ ३८॥
अथवा नैगमव्यवहारयोरनेन तुल्यमतत्वाऽऽख्यापनेन सामान्यविशेषग्राहकस्य नैगमस्य संग्रहव्यवहारनयद्वयेऽन्तर्भावः सूचितो द्रष्टर इति दर्शयन्नाह
जो सामण्णग्गाही स नेगमो संगहं गओ अहवा । इयरो ववहारमिओ जो तेण समाणनिदेसो ॥३९॥ ___ अथवेति प्रकारान्तरेण समाधानमुच्यत इत्यर्थः । तत्र नैगमस्तावत् सामान्यं मन्यते विशेषांश्च । ततो यः सामान्यग्राही नैगमः स संग्रहं गतः प्राप्तोऽन्तर्भूत इति यावत् , इतरस्तु विशेषग्राही स व्यवहारनयमितः प्राप्तोऽन्तर्गतो यो नैगमनयस्तेन सह व्यवहारनयस्याऽयं समाननिर्देशः 'ज नेगमववहारा' इत्यादिना तुल्यनिर्देशः । ततश्च 'तेसि तुल्लमयत्ते को णु विसेसो' इत्यादिना यदेकत्वं परेण | प्रेरितं तदस्माकं न क्षतिमावहति, नैगमस्य संग्रहव्यवहारनयद्वयेऽन्तर्भावस्येष्टत्वेन सिद्धसाधनादिति भावः । यद्येवं नैगमः संख्याया| स्त्रुव्यति, तथा च सति षडेव नयाः प्रसजन्तीति चेत् । मौत्सुक्यं भजख, सर्वमत्रार्थे पुरस्ताद् वक्ष्यामः ॥ इति गाथार्थः ॥ ३९ ॥
अथ ऋजुसूत्रनयमतेन द्रव्यमङ्गलं विचारयितुमाहउज्जुसुअस्स सयं संपयं च जं मंगलं तयं एक्कं । नातीतमणुप्पन्नं मंगलमिटुं परकं व ॥ ४०॥
१ तयोस्तुल्यमतत्वे को नु विशेषोऽभिधानतोऽन्यः । तुल्यत्वेऽपहि नैगमस्य वस्त्वन्तरे भेदः ॥ ३८ ॥ २ यः सामान्यग्राही स नैगमः संग्रहं गतोऽधवा । इतरो व्यवहारमितो यस्तेन समाननिर्देशः ॥ ३९ ॥ ३ गाथा ३७ । ४ गाथा ३८ । मसूत्रस्य स्वकं सांप्रतं च यत् मङ्गलं तदेकम् । नातीतमनुत्पञ्चं मङ्गलमिष्टं परकीयं वा ॥४॥
Jan Education intem
For Personal and Private Use Only
EMAIwww.jaineltrary.ary
Page #33
--------------------------------------------------------------------------
________________
बदत्तिः।
Store
ऋजु अतीताऽनागतपरिहारेण परकीयपरिहारेण वाऽकुटिलं वस्तु सूत्रयतीति ऋजुसूत्रो नयस्तस्य स्खकमात्मीयमेव, तथा सांपतं विशेच वर्तमानक्षणभाव्येव यद् द्रव्यमङ्गलं तदेवैकमभिमतम् । अनभिमतप्रतिषेधमाह-नातीतम् , अतिक्रान्तसमयभावि, नाऽप्यनुत्पन्नं भविष्य-
समयभावि द्रव्यमङ्गलम् , अस्येष्टम् । 'परकं व परकीयं वा यद् द्रव्यमङ्गलं तदप्यस्य नेष्टम् , विवक्षितैकमज्ञापकस्याऽऽत्मानं विहाय यत् ॥३१॥
परस्मिन् वर्तते तदपि द्रव्यमङ्गलमसौ नेच्छतीत्यर्थः । मन्दमतिशिक्षावबोधार्थश्वाऽनभिमतप्रतिषेधः, अन्यथा ह्यभिमते कथितेऽनभिमतमर्यापत्तितो गम्यत एव ॥ इति गाथार्थः॥४०॥
अमुमेवार्थ प्रयोगोपदर्शनद्वारेण समर्थयन्नाह
नौतीतमणुप्पन्नं परकीयं वा पओअणाभावा । दिनैतो खरसिंगं परधणमहवा जहा विफलं ॥४॥
अतीतमनुत्पन्नं वस्तु नास्तीति प्रतिज्ञा, प्रयोजनस्य विवक्षितफलस्य तत्राऽभावात् सर्वप्रयोजनाऽकरणादित्यर्थ इत्ययं हेतुः, दृष्टान्तस्तु खरभृङ्गम् , असत्वे चातीताऽनागतयोर्द्रव्यमङ्गलता दूरोत्सारितैव, धर्मिसत्त्व एव धर्माणामुपपद्यमानत्वादिति । द्वितीयप्रयोगः क्रियते-- परकीयमपि यज्ञदत्तसंबन्ध्यपि वस्तु देवदत्तापेक्षया नास्त्येव, प्रयोजनाऽकरणात् खरविषाणवदिति हेतुदृष्टान्तौ तावेव, अथवा यथा परस्य यज्ञदत्तस्य धनं देवदत्तापेक्षया विफलं प्रयोजनाऽसाधकं सद् नास्ति, तथा सर्वमपि परकीयं नास्तीति द्वितीयो दृष्टान्तः । इति कुतः परकीयस्याऽपि द्रव्यमङ्गलत्वम् ? ॥ इति गाथार्थः ॥४१॥
शब्द-समभिरूलै-वभूतास्तु विशुद्धनयत्वादागेमतो द्रव्यमङ्गलं नेच्छन्त्येव कस्मात् ?, इत्याहजाणं नाणुवउत्तोऽणुवउत्तो वा न याणइ जम्हा । जाणतोऽणुवउत्तोत्ति बिंति सहादयोऽवत्थु ॥ ४२ ॥
जम्हा इति यस्मात् जाननवबुध्यमानो 'मङ्गलं' इति गम्यते, नानुपयुक्तो न तज्ज्ञानोपयोगशून्यो भवति, ज्ञायकस्य ज्ञानोपयोगनान्तरीयकत्वात् । अनुपयुक्तो वा तत्र न तज्जानीते न तस्य ज्ञायकोऽसौ व्यपदिश्यते, अज्ञायकत्वाभिमतवत् , काष्ठादिवद् वेत्यर्थः । तस्माज्जानन्ननुपयुक्तश्चेत्येतदप्यवस्तु असदभाव इति यावत् । एतद् ब्रुवते शब्दादयः शब्द-समभिरूदै-वंभूतनयाः ॥ इति गाथार्थः॥४२॥
नातीतमनुत्पत्रं परकीयं वा प्रयोजनाभावात् । दृष्टान्तः खरचकं परधनमथवा यथा विफलम् ॥ ४१ ॥ २ जानन् नाऽनुपयुक्तः अनुपयुक्तो वा न जानाति यस्मात् । जानसनुपयुक्त इति झुवते शब्दादयोऽवस्तु ॥ ४२ ॥
Foresonant s Only
Page #34
--------------------------------------------------------------------------
________________
विशे० ॥३२॥
अत्राऽर्थे उपपत्तिमाह
'हेऊ विरुद्धधम्मत्तणा हि जीवो व्व चेअणारहिओ। न य सो मङ्गलमिळं तयत्थसुन्नोत्ति पावं व ॥४३॥
जानननुपयुक्तश्चेत्येतदवस्तु इत्यस्यामनन्तरातिक्रान्तगाथापर्यन्तकृतप्रतिज्ञायामयं हेतुः। कः?, इत्याह-विरुद्धधम्मत्तणा हि त्ति' विरुद्धौ धौं यत्र तत् तथा तद्भावस्तस्माद् विरुद्धधर्मत्वादिति । दृष्टान्तमाह- यथा जीवश्चेतनारहितः । इदमुक्तं भवति- यथा जीवश्चेतनारहितश्च, माता च वन्ध्या चेत्यादि विरुद्धधर्माध्यासादवस्तु, एवं ज्ञायकश्चाऽनुपयुक्तश्चेत्येतदप्यवस्त्वेव । भवतु वा ज्ञायकोऽनुपयुक्तश्च, तथापि नास्माकमसौ मङ्गलत्वेनेष्टः, तदर्थशून्यत्वाद् मङ्गलार्थशून्यत्वात् , पापवदिति । भावमङ्गलग्राहिणो कमी कथं द्रव्यमङ्गलमिच्छन्ति ?, इति भावः । इति गाथार्थः ॥४३॥
तदेवं विचारितं नौद्रव्यमङ्गलम् , तथा च सति समर्थितमागमतो द्रव्यमङ्गलम् । अथ नोआगमतस्तदभिधीयते । तच्च ज्ञशरीरभव्यशरीर-तव्यतिरिक्तभेदात् त्रिधा । तत्र ज्ञशरीर-भव्यशरीरलक्षणभेदद्वयमाह
मैंगलपयत्थजाणयदेहो भव्वस्स वा सजीवोत्ति । नोआगमओ दव्वं आगमरहिओ त्ति जं भणिअं॥४४॥
'नोआगमओ दवं त्ति' नोआगमतो ज्ञशरीरं द्रव्यमङ्गलमित्यर्थः । कः ?, इत्याह- मङ्गलपदार्थज्ञस्य देहः, इदमुक्तं भवतिइह मङ्गलपदार्थः पूर्वं येन स्वयं सम्यग् विज्ञातः; परेभ्यश्च प्ररूपितः, तस्य संबन्धी जीवविप्रमुक्तः सिद्धशिलातलादिगतो देहोऽतीतकालनयानुवृत्त्याऽतीतमङ्गलपदार्थज्ञानाऽऽधारत्वाद् नोआगमतो द्रव्यमङ्गलमुच्यते । नोशब्दस्यह सर्वनिषेधवचनत्वात् ; आगमस्य च सर्वथात्राऽभावाद् नोआगमता द्रष्टव्या, अतीतमङ्गलपदार्थज्ञानलक्षणाऽऽगमपर्यायकारणत्वात् तु द्रव्यमङ्गलता, यथाऽतीतघृताधारपर्यायकारणत्वाद् रिक्तघृतकुम्भे घृतघटतेति । 'भव्वस्स व त्ति' वाशब्दो द्वितीयपक्षसमुच्चये, भव्यस्य च मङ्गलपदार्थज्ञानयोग्यस्य संबन्धी 'देहः' इति वर्तते, स जीवः सचेतनो नोआगमतो भव्यशरीरद्रव्यमालमित्यर्थः । इदमत्र हृदयम्- य इदानीं मङ्गलपदार्थ न जानीते, भविष्यति तु काले ज्ञास्यति तस्य संबन्धी सचेतनो देहो भविष्यत्कालनयाऽनुवृत्त्या भविष्यन्मङ्गलपदार्थज्ञानाधारत्वाद् नोआगमतो भव्यशरीरद्रव्यमङ्गलमिति । अत्रापि नोशब्दस्य सर्वनिषेधपरत्वात् ; आगमस्य चेदानीमभावाद् नोआगमता समवसेया । भविष्यत्काले
हेतुर्विरुद्धधर्मत्वाद् हि जीव इच घेतनारहितः । न च स मङ्गलमिष्टं तदर्थशून्य इति पापभिव ॥ ३ ॥ २ मङ्गलपदार्थज्ञायकदेहो भय्यस्य वा सजीव इति । नोआगमतो द्रव्यमागमरहित इति यद् भणितम् ॥ ४५ ॥
DOGSecreoRRP
rammarASTARTER
For Peso
Use Only
Page #35
--------------------------------------------------------------------------
________________
विशे०
पास
H
॥३३॥
मालपदार्थज्ञानलक्षणस्याऽऽगमस्य कारणत्वात् तु द्रव्यमालता, यथा भविष्यद्धृताधारपर्यायकारणत्वाद् रिक्तघृतकुम्भे घृतघटता । नोआगमत इत्येतद् विवृण्वन्नाह-'आगमरहिओ इत्यादि नौशब्दस्य सर्वनिषेधवचनत्वात् नोआगमत इत्यनेनैतदुक्तं भवति, किम् ?, इत्याह-मङ्गलपदार्थज्ञस्य भव्यस्य च संबन्धी अचेतनः सचेतनश्च देहो वर्तमानकाले सर्वथैवाऽऽगमरहितः ॥ इति गाथार्थः ॥४४॥ ___ तदेवं सर्वनिषेधवचनत्वे नोशब्दस्यैवमुदाहरणमुपदर्शितम् , यदिवा देशनिषेधपरेऽपि नोशब्दे एतत् संबध्यत एवेति दर्शयन्नाह
अहवा नो देसम्मि, नोआगमओ तदेगदेसाओ । भूयस्स भाविणो वाऽऽगमस्स जं कारणं देहो ॥ ४५ ॥ ___अथवा 'नो' इति नोशब्दः 'देसम्मि ति देशनिषेधवचनो विवक्ष्यत इत्यर्थः। ततश्च नोआगमत इति कोऽर्थः?, इत्याह-तदेकदेशादागमैकदेशादागमैकदेशमाश्रित्य द्रव्यमङ्गलमित्यर्थः । किं पुनस्तत् ? इति चेत् । मङ्गलपदार्थज्ञस्याऽचेतनः, भव्यस्य तु सचेतनो देहइत्यनुवर्तमानं संबध्यते । कः पुनरिहाऽऽगमस्यैकदेशो यमाश्रित्य नोआगमतो द्रव्यमङ्गलमिदं स्यात् ? इति । अत्रोच्यते-यथोक्तो ज्ञभव्यशरीररूपो देह एवात्राऽऽगमैकदेशः । ननु जडस्य देहस्य कथमागमैकदेशता ?, इति । अत्राह- 'भूयस्सेत्यादि' यद् यस्मादचेतनो देहो भूतस्याऽतीतस्य मङ्गलपदार्थज्ञानलक्षणस्याऽऽगमस्य कारणं हेतुः, सचेतनस्तु भव्यदेहो भाविनो यथोक्तस्याऽऽगमस्य कारणम् ; तस्माद् निजकार्यस्याऽऽगमस्यैकदेशे वर्तत एव; कारणं हि कार्यस्यैकदेशे वर्तत एच, यथा मृत्तिका घटस्य । अभेद एव घट-मृत्तिकयोरिति चेत् । नैवम् , भेदाभेदयोरेव जैनैरिष्टत्वात् , यद् वक्ष्यति
" नत्थि पुढवीविसिट्टो घडो तिजं तेण जुज्जइ अणण्णो । जं पुण घडो ति पुव्वं नासी पुढवी तओ अण्णो" ॥ १ ।।
आह-ननु मङ्गलपदार्थज्ञानस्य परिणामिकारणं जीव एव, ततस्तस्य स्वकार्यैकदेशे वृत्तिरस्तु; यथा मृत्तिकायाः, शरीरं त्वागमस्य परिणामिकारणं न भवति। अतः कथं तस्य तदेकदेशत्तिता? । सत्यम्, किन्तु "अण्णोण्णाणुगयाणं इमं च तं च त्ति विभयणपजुत्तं, जह खीरपाणियाणं" इत्यादिवचनात् संसारिणो जीवस्य शरीरेण सहाऽभेद एवं व्यवहियते, अतो जीवस्य परिणामिकारणत्वे शरीरस्याऽपि तद् विवक्ष्यते, इत्यस्याऽऽगमैकदेशता न विरुध्यते । भवत्वेवम् , तथाप्यागमतो द्रव्यमङ्गलं प्राग् यदुक्तं तेन सहाऽत्य को भेदः, तत्रापि हि “आगमकारणमाया देहो सहो य" इति वचनाच्छरीरमेव द्रव्यमङ्गलमुक्तम् । अत्रापि च तदेव, इति
, अथवा नो देशे, नोआगमतस्तदेकदेशातं । भूतस्य भाविनो वाऽऽगमस्य यत् कारणं देहः ॥ ४५ ॥ २ नास्ति पृथिवीविशिष्टो घट इति यत् तेन युज्यतेऽनम्यः । यत् पुनर्घट इति पूर्व नासीत् पृथिवी ततोऽन्यः ॥1॥ ३ अन्योन्याऽनुगतानामिदं च तचेति विभजनमयुक्तम्, यथा क्षीरपानीययोः । ४ गाथा ३०॥
a
॥३३॥
Page #36
--------------------------------------------------------------------------
________________
SoSorry
विशे
हवत्तिः ।
॥३४॥
कथं नैकत्वम् । सत्यम् , किन्तु प्रागुपयोगरूप एवाऽऽगमो नास्ति, लब्धितस्तु विद्यत एव, अत्र तूभयखरूपोऽपि नास्ति, कारणमात्रस्यैव सत्त्वात् , इति विशेषः ॥ इति गाथार्थः॥४५॥
तदेवं दर्शितं ज्ञशरीर-भव्यशरीरलक्षणं नोआगमतो द्रव्यमङ्गलभेदद्वयम् , सांप्रतं ज्ञशरीर-भव्यशरीरव्यतिरिक्तखरूपं तत्तृतीयभेदमुपदर्शयन्नाह
जाणय-भव्वसरीराऽइरित्तमिह दव्वमङ्गलं होई । जा मङ्गल्ला किरिआ तं कुणमाणो अणुवउत्तो ॥ ४६॥
इह तावद् भावतः परमार्थतो मङ्गलं द्विविधम्-जिनप्रणीत आगमः, तत्पणीता मङ्गल्या प्रत्युपेक्षणादिक्रिया च । इतश्च पूर्वमागमतो नोआगमतश्च यद् द्रव्यमङ्गलमुक्तं तत्सर्वमागममङ्गलापेक्षमेव, ज्ञशरीर-भव्यशरीरव्यतिरिक्तं तु द्रव्यमङ्गलं मङ्गल्यक्रियामेवाऽऽश्रित्य भणिष्यत इति परिभावनीयम् । अथ गाथार्थों व्याख्यायते- तत्र शरीर-भव्यशरीराभ्यां व्यतिरिक्तमिह द्रव्यमङ्गलं भवति । कः?, इत्याह- अनुपयुक्तः, तां कुर्वाणो या । किम् ?, इत्याह-या प्रत्युपेक्षण-प्रमार्जनादिका माल्या क्रिया । इदमुक्तं भपति- योऽनुपयुक्तो जिनप्रणीतां मङ्गलरूपां प्रत्युपेक्षणादिक्रियां करोति, स नोआगमतो ज्ञशरीर-भव्यशरीरातिरिक्तं द्रव्यमङ्गलम् : उपयोगरूपोवाऽऽगमो नास्तीति नोआगमता । ज्ञशरीर-भव्यशरीरयोर्ज्ञानापेक्षा द्रव्यमङ्गलता; अत्र तु क्रियापेक्षा, अतस्तद्व्यतिरिक्तत्वम् , अनुपयुक्तस्य क्रियाकरणात् तु द्रव्यमङ्गलत्वं भावनीयम् , उपयुक्तस्य तु क्रिया यदि गृह्यत तदा भावमङ्गलतैव स्यादिति भावः ।। इति गाथार्थः॥ ४६॥
अथ प्रकारान्तरेणापि प्रस्तुतमङ्गलमाहजें भूयभावमङ्गलपरिणामं तस्स वा जयं जोग्गं । जं वा सहावसोहणवन्नाइगुणं सुवण्णाइ ॥४७॥ तं पि य हु भावमङ्गलकारणओ मङ्गलं ति निद्दिढ । नोआगमओ दव्वं नोसद्दो सव्वपडिसेहे ॥४८॥
नोआगमतो ज्ञशरीर-भव्यशरीरव्यतिरिक्तं द्रव्यं द्रव्यमङ्गलमित्यर्थ इति द्वितीयगाथोत्तरार्धे संबन्धः । किं तत् १, इत्याहयद् भूतभावमङ्गलपरिणामम्, इह भावमङ्गलशब्देन चरणकरणक्रियाकलापोऽभिप्रेतः, तस्य परिणमनं परिणतिः प्रवृत्तिर्भावमङ्गल
१ज्ञायक-भव्यशरीरातिरिक्तमिह द्रव्यमङ्गलं भवति । या मङ्गल्या क्रिया तां कुर्वाणोऽनुपयुक्तः ॥ ४६॥ २ यद् भूतभावमङ्गलपरिणाम, तस्य वा यद् योग्यम् । यद् वा स्वभावशोभनवर्णादिगुणं सुवर्णादि ॥ ७ ॥ तदपि च यस्माद् भावमङ्गलकारणतो मङ्गलमिति निर्दिष्टम् । नोआगमतो व्यं नोशब्दः सर्वप्रतिषेधे ॥ ४ ॥
॥३४॥
Jan Education Internati
For Personal and Private Use Only
www.jaineltrary.ary
Page #37
--------------------------------------------------------------------------
________________
विशे० ॥३५॥
परिणामः, भूतः पूर्व संजातो भावमङ्गलपरिणामो यस्य तद् भूतभावमङ्गलपरिणामम् ; सांपतं तु तच्छ्न्य म् , तत्पुनः कस्यापि शरीर जीवद्रव्यं वा तद् नोआगमतो ज्ञशरीर-भव्यशरीरव्यतिरिक्तं द्रव्यमङ्गलं बोद्धव्यम् । 'तस्स वा जयं जोग्गं ति' अथवा तस्य यथोक्तस्य भावमङ्गलपरिणामस्य यद् योग्यमर्ह शरीरं जीवद्रव्यं वा, तद् नोआगमतो शरीर-भव्यशरीरव्यतिरिक्तं द्रव्यमङ्गलम् । अथवा यत् स्वभावत एव शोभनवर्णादिगुणं सुवर्णादिकं वस्तु, आदिशब्दाद् रत्न-दध्य-ऽक्षत-कुसुम-मङ्गलकलशादिपरिग्रहः, तदेतज्ज्ञ- भव्यशरीरव्यतिरिक्तं द्रव्यमङ्गलम् । ननु कथं तद् मङ्गलम् , इत्याह- 'तं पीत्यादि' हुर्यस्मादर्थे, यस्मात् तदपि सुवर्णादिकं कस्यापि भावमङ्गलकारणत्वाद् मङ्गलं निर्दिष्टम् । यच्च कारणं तद् “भूतस्य भाविनो वा भावस्य हि कारणं तु यल्लोके, तद् द्रव्यम्" इत्यादिवचनाद् द्रव्यतयाऽपि व्यपदिश्यते, अतो द्रव्यमङ्गलं भवति । नोशब्दः सर्वप्रतिषेधे, आगमस्येह सर्वथैवाऽभावादिति । पूर्व ज्ञ-भव्यशरीरयोः केवलमागमाभावापेक्षं द्रव्यमङ्गलत्वमुक्तम् , अत्र तु क्रियाऽभावमाश्रित्येति भावनीयम् ॥ इति गाथादयार्थः ॥४७॥४८॥
तदेवं प्रतिपादितमागमतो नोआगमतश्च द्रव्यमङ्गलम् । अथ भावमङ्गलमुच्यते, तस्य च लक्षणं नाम-स्थापना-द्रव्याणामिव | भाष्यकृता केनापि कारणेन नोक्तम् । तश्चेत्थमवगन्तव्यम्
'भावो विवक्षितक्रियाऽनुभूतियुक्तो हि वै समाख्यातः । सर्वज्ञैरिन्द्रादिवदिहेन्दनादिक्रियाऽनुभवात्" ॥१॥ इति ।
अत्राऽयमर्थः- भवनं विवक्षितरूपेण परिणमनं भावः, अथवा भवति विवक्षितरूपेण संपद्यत इति भावः । कः पुनरयम् , इत्याह-वक्तुर्विवक्षिता इन्दन-ज्वलन-जीवनादिका या क्रिया तस्या अनुभूतिरनुभवनं तया युक्तो विवक्षितक्रियानुभूतियुक्तः, सर्वज्ञैः समाख्यातः । क इव, इत्याह- 'इन्द्रादिवत् ' स्वर्गाधिपादिवत् , आदिशब्दाज्ज्वलन-जीवादिपरिग्रहः । सोऽपि कथं भावः', इत्याह- 'इन्दनादिक्रियानुभवात् ' इति, आदिशब्देन ज्वलन-जीवनादिक्रियास्वीकारः । विवक्षितेन्दनादिक्रियान्वितो लोके प्रसिद्धः पारमार्थिकपदार्थो भाव उच्यते । भावश्चासौ मङ्गलं च भावमङ्गलम् , भावतो वा परमार्थतो मङ्गलं भावमङ्गलमिति प्रस्तुतयोजना ॥ एतदपि द्विविधम्- आगमतः, नोआगमतश्च । तत्राऽऽगमतस्तावदाह
मंगलसुयउवउत्तो आगमओ भावमंगलं होइ । नोआगमओ भावो सुविसुद्धो खाइयाईओ ॥ ४९ ॥ मङ्गलं च तच्छूतं च मङ्गलश्रुतं मङ्गलशब्दार्थज्ञानमित्यर्थः, तस्मिन्नुपयुक्तो 'वक्ता' इति गम्यते, आगमतो भावमङ्गलं भवति ।।॥३५॥
मालश्रुतोपयुक्त आगमतो भावमङ्गलं भवति । नोआगमती भावः सुविशुद्धः क्षायिकादिकः ।। ४९ ॥
PRASIDOTOSहास
www.jaineltrary.org
Edu
Internation
For Personal and Private Use Only
Page #38
--------------------------------------------------------------------------
________________
विशे०
॥३६॥
अत्राह- ननु मङ्गलपदार्थज्ञानोपयोगमात्रेण कथं सर्वोऽपि वक्ता भावमङ्गलमुच्यते ?, तदुपयोगमात्रस्येव तद्रूपताया युक्तिसंगतत्वात् , न याग्निज्ञानोपयुक्तो माणवकोऽग्निरेव भवितुमर्हति, दाह-पाकादिक्रियाकरणप्रसङ्गादिति । अत्रोच्यते- उपयोगः, ज्ञानं, संवेदन, प्रत्यय इतिबृहद्वत्तिः। तावदनान्तरम् , अर्थाभिधानप्रत्ययाश्च लोके सर्वत्र तुल्यनामधेयाः, बाह्यः पृथुबुनोदराऽऽकारोऽर्थोऽपि घट उच्यते, तद्वाचकमभिधानमपि घटोऽभिधीयते, तज्ज्ञानरूपः प्रत्ययोऽपि घटो व्यपदिश्यत इत्यर्थः, तथा हि लोके वक्तारो भवन्ति-किमिदं पुरतो दृश्यते ?, घटा; किमसौ वक्ति, घटम्; किमस्य चेतसि स्फुरति ?, घटः । एवं च सति यद् घट इति ज्ञानं तदव्यतिरिक्तो ज्ञाता तल्लक्षणो गृह्यते, अन्यथा यदि ज्ञानज्ञानिनोरव्यतिरेको न स्यात् तदा ज्ञाने सत्यपि ज्ञानी नोपलभेत वस्तुनिवहम् , अतन्मयत्वात् , प्रदीपहस्तान्धवत् , पुरुषान्तरवद् वा । न चाऽनाकारं तज्ज्ञानम् , पदार्थान्तरवद् विवक्षितपदार्थस्याऽप्यपरिच्छेदप्रसङ्गात् । अपिच, घटादिज्ञान--तद्वतोय॑तिरेके बन्धाद्यभावः पामोति, यथा हि ज्ञाना-ऽज्ञान-सुख-दुःखादिपरिणामस्याऽन्यत्वे आकाशस्य बन्धादयो न भवन्ति, एवं जीवस्यापि न भवेयुरिति भावः ॥ आह-यदि घटोपयोगानन्यवाद् देवदत्तोऽपि घटा, अग्न्युपयोगानन्यत्वाच्च माणवकोऽप्यग्निः, तर्हि जलाहरण-दाह-पाकाद्यर्थक्रियामसङ्गः । तदयुक्तम् , न हि सर्वोऽपि घटो जलाहरणं करोति, नापि समस्तोऽप्यग्निदाह--पाकाद्यर्थक्रियां साधयति, कोणेऽवाङ्मुखीकृतघटेन भस्मच्छन्नवाहिना च व्यभिचारात् । न चासो न घटः, नाग्निा , लोकमतीतिबाधाप्रसङ्गात् । तस्माद् मङ्गलपदार्थज्ञानोपयोगाऽनन्यत्वादागमतस्तदुपयुक्तो भावमालमिति स्थितम् ॥ नोआगमतस्तु आगमस्य सर्वनिषेधमाश्रित्य सुविशुद्धः प्रशस्तः क्षायिक-क्षायोपशामिकादिको भावो भावमङ्गलम् , भाव एव मङ्गलं भावमङ्गलमिति कृत्वा । उपलक्षणव्याख्यानादागमवर्जज्ञानचतुष्टय-दर्शन-चारित्राणि च नोआगमतो भावमङ्गलतया वाच्यानि; भावतः परमार्थतो मङ्गलं भावमङ्गलमिति कृत्वा ॥ इति गाथार्थः ।। ४९॥
प्रकारान्तरेणाऽपि नोआगमतो भावमङ्गलमाह--
अहवा सम्मइंसण-नाण--चरित्तोवओगपरिणामो । नोआगमओ भावो नोसदो मिस्सभावम्मि ॥५०॥
अथवा प्रतिक्रमण-प्रत्युपेक्षणादिक्रियां कुर्वाणस्य यो ज्ञान-दर्शन-चारित्रोपयोगपरिणामः, स नोआगमतो भावो भावमङ्गलं भवति । नोशब्दश्चाऽव मिश्रवचनः, यस्माद् नाऽसौ ज्ञान--दर्शन-चारित्रोपयोगपरिणामः केवल एवाऽऽगमः, चारित्रादेरपि सद्भावात् ,
॥३६॥ नाऽप्यनागम एव, ज्ञानस्याऽपि विद्यमानत्वात् , इति मिश्रता ॥ इति गाथार्थः ॥ ५० ॥
१ अथवा सम्पग्दर्शन-ज्ञान--चारित्रोपये गपरिणामः । नोआगमतो भावो नोशब्दो मिनभावे ॥ ५० ॥
For Pesond
ere
Page #39
--------------------------------------------------------------------------
________________
विशे०
॥ ३७ ॥
अथाऽन्येन प्रकारेणाह-
अहवेह नमुक्काराइनाण - किरिआविभिस्सपरिणामो । नोआगमओ भण्णइ जम्हा से आगमो देसे ॥ ५१ ॥
अथवेह नोआगमतो भावमङ्गलाधिकारे नमस्करणं नमस्कारोऽर्हदादिप्रणतिरित्यर्थः, स आदिर्येषां स्तोत्रादीनां ते नमस्कारादयस्तेषु ज्ञानोपयोगो नमस्कारादिज्ञानम्, क्रिया शिरसि करकमलमुकुल विधानादिका, नमस्कारादिज्ञानं च क्रिया च नमस्कारादिज्ञानक्रियेताभ्यां विमिश्रासौ परिणामश्च । स किम् ?, इत्याह- 'नोइत्यादि' चैत्यवन्दनाद्यवस्थायां यो नमस्कारादिज्ञान - क्रियामिश्रितपरिणामः स नोआगमतो भावमङ्गलं भण्यत इत्यर्थः । कुतः १, इत्याह- यस्मात् ' से ' तस्यैव भावतः परिणामस्याऽऽगमो नमस्कारादिज्ञानोपयोगलक्षणो देशे एकदेशेऽवयवे- वर्तते, नोशब्दश्चे हैकदेशवचनः । इति गाथार्थः ॥ ५१ ॥
तदेवमुपदर्शितं नाम - स्थापना - द्रव्य भावभेदतश्चतुर्विधं मङ्गलम् । एतेषु च नामादिमङ्गलेष्वाद्यत्रय स्याऽन्योऽन्यमभेदं पश्यन् परः प्रेरयति-
अभिहाणं दव्वत्तं तयत्थसुन्नत्तणं च तुल्लाई । को भाववजिआणं नामाईणं पइविसेसो ? ॥ ५२ ॥
भाववर्जितानां भावमेकं वर्जयित्वा शेषाणां नामादीनां नाम स्थापना- द्रव्याणामित्यर्थः कः प्रतिविशेषः १ न कश्चिदित्यर्थः । कुतः १, इति चेत् । उच्यते यत एतानि त्रिष्वपि तुल्यानि । कानि पुनस्तानि ?, इत्याह- अभिधानं तावद् नाम त्रिष्वपि तुल्यम्, नामवति पदार्थे, स्थापनायां द्रव्ये च मङ्गलाभिधानमात्रस्य सर्वत्र भावात् । तथा द्रव्यस्वमपि त्रिष्वपि तुल्यम्, यतो " जैस्स णं जीवस्स वा अजीवस्स वा मंगलं ति नाम कीरइ " इत्यादिवचनाद् नामनि तावद् द्रव्यमेवाऽभिसंबध्यते, स्थापनायामपि " यत् स्थाप्यते " इति वचनाद् द्रव्यमेवाऽऽयोज्यते, द्रव्ये तु द्रव्यत्वं विद्यत एव इति त्रिष्वपि द्रव्यत्वस्य तुल्यता । तथा तदर्थशून्यत्वं च भावार्थशून्यत्वं च त्रिष्वपि समानम्, नाम-- स्थापना - द्रव्येषु भावमङ्गलस्याभावात् । तस्मादभिधान- द्रव्यत्व- भावार्थशून्यत्वानां समानत्वाद् नाम-स्थापना- द्रव्याणां परस्परमभेदः, भावे तु तदर्थशून्यत्वं नास्तिः इत्येतावताऽसौ नामादिभ्यो विशेष्यत इति भावः ॥ इति गाथार्थः ॥ ५२ ॥ परेणैवमविशेषे प्रेरिते यो विशेषः, तमभिधित्सुः मूरिराह
१ अथवेह नमस्कारादिज्ञान क्रियाविमिश्रपरिणामः । नोआगमतो भग्यते यस्मात् तस्याऽऽगमो देशे ॥ ५१ ॥ २ अभिधानं द्रव्यत्वं तदर्थशून्यत्वं च तुल्यानि । को भाववर्जितानां नामादीनां प्रतिविशेषः १ ॥ ५२ ॥
३. यस्य ननु जीवस्य वाऽजीवस्यं वा मङ्गलमिति नाम क्रियते ।
For Personal and Private Use Only
वृहद्वृत्तिः ।
॥ ३७ ॥
Page #40
--------------------------------------------------------------------------
________________
बृहद्वत्तिः ।
SHNAHANA
H३८॥
आगारोऽभिप्पाओ बुद्धी किरिया फलं च पाएण । जह दीसइ ठवणिंदे न तहा नामे न दबिदे ॥ ५३ ॥ विशे० यथा स्थापनेन्द्रे आकारो लोचनसहस्र-कुण्डल-किरीट-शचीसनिधान-करकुलिशधारण-सिंहासनाऽध्यासनादिजनितातिशयो देहसौERन्दर्यभावो दृश्यते; तथा स्थापनाकर्तुश्च यथा सद्भूतेन्द्राभिप्रायो विलोक्यते; तथा द्रष्टुश्च यथा तदाकारदर्शनादिन्द्रबुद्धिरुपजायते; यथा
चैनमुपसेवमानानां तद्भक्तिपरिणतबुद्धीनां नमस्करणादिका क्रिया संवीक्ष्यते; फलं च यथा प्रायेणोपलभ्यते पुत्रोत्पत्त्यादिकम् , न तथा FOR नामेन्द्र नाऽपि द्रव्येन्द्रे । ततो नाम-द्रव्याभ्यां तावद् व्यक्त एव भेदः स्थापनाया इति भावः ।। इति गाथार्थः ।। ५३ ॥
तदेवं स्पष्टतया लक्ष्यमाणत्वादादावेव नाम-द्रव्याभ्यां स्थापनाया भेदमभिधाय नाम-स्थापनाभ्यां द्रव्यस्य भेदमभिधित्सुराहभोवस्स कारणं जह दव्वं भावो अ तस्स पज्जाओ । उवओग-परिणइमओ न तहा नाम नवा ठवणा ॥५४॥
यथाऽनुपयुक्तवक्तृप्रभृतिकं साधुद्रव्येन्द्रादिकं वा द्रव्यं भावस्योपयोगरूपस्य भावेन्द्रपरिणतिरूपस्य वा यथासंख्येन कारणं निमित्तं भवति, यथा च 'उवओग--परिणइमओ त्ति उपयोगमयो भावेन्द्रपरिणतिमयश्च भावो यथासंख्येन तस्याऽनुपयुक्तवक्तृमभृतिकस्य साधुद्रव्येन्द्रादिकस्य वा द्रव्यस्य पर्यायो धर्मो भवति, न तथा नाम, नाऽपि स्थापनेति । इदमुक्तं भवति- यथाऽनुपयुक्तो वक्ता द्रव्यं कदाचिदुपयुक्तत्वकाले तस्योपयोगलक्षणस्य भावस्य कारणं भवति, सोऽपि वोपयोगलक्षणो भावस्तस्याऽनुपयुक्तवक्तृरूपस्य द्रव्यस्य पर्यायो भवति, यथा वा साधुजीवो द्रव्येन्द्रः सन् भावेन्द्ररूपायाः परिणतेः कारणं भवतिः सोऽपि वा भावेन्द्रपरिणतिरूपो भावस्तस्य साधुजीवद्रव्येन्द्रस्य पर्यायो भवति, न तथा नाम-स्थापने । अतस्ताभ्यां द्रव्यस्य भेदः, नाम्नस्तु स्थापना-द्रव्याभ्यां भेदः सामादेवाऽवसीयत इति । तदेवं यद्यपि परप्रेरितप्रकारेण नाम स्थापना-द्रव्याणामभेदः, तथाप्युक्तरूपेण प्रकारान्तरेण भेदः सिद्ध एव, न हि दुग्ध-तक्रादीनां श्वेतत्वादिनाऽभेदेऽपि माधुर्यादिनाऽपि न भेदः, अनन्तधर्माध्यासितत्वाद् वस्तुन इति भावः ॥ इति गाथार्थः ॥५४॥ तदेवं भेदव्याख्यापक्षे समर्थिते भूयोऽप्यपरेण प्रकारेणाऽह परःइह भावो चिय वत्थु तयत्थसुन्नेहिं किं व सेसेहिं ? । नामादओ वि भावा जं ते वि हु वत्थुपज्जाया ॥५५॥
, आदारोऽभिप्रायो बुद्धिः क्रिया फलं च प्रायेण । यथा दृश्यते स्थापनेन्द्रे न तथा नानि न द्रव्येन्द्रे ॥ ५३ ॥ २ भावस्य कारण यथा द्रव्यं भावश्च तस्य पर्यायः । उपयोग-परिणतिमयो न तथा नाम मवा स्थापना ॥ ५५ ॥ ३ इद भाव एष वस्तु तदर्थशून्यैः किं वा शेषः । नामादयोऽपि भावा यत् तेऽपि खलु वस्तुपर्यायाः ॥ ५५ ॥
माफक
पाककसकसकसकसकसकसकस
Page #41
--------------------------------------------------------------------------
________________
विशेष
इह नामादिविचारे प्रक्रान्ते भाव एव वस्तु, विवक्षितार्थक्रियासापकत्वात् , उभयसंमतवस्तुवत् । न हि भावेन्द्रवद् विवक्षितार्थसाधनसमर्था गोपालदारकाद्या नामेन्द्रादयः, अतः किमत्र शेषैर्भावार्थशून्यैर्नामादिभिः ? न किञ्चिदित्यर्थः । अत्रोत्तरमाह-'नामा
दओ इत्यादि' इदमुक्तं भवति- यदि सामान्येनैव भावो वस्तुत्वेनाऽभ्युपगम्यते, तदा सिद्धसाध्यता, यतो नामादयोऽपि, आदिश॥ ३९ ॥
ब्दात् स्थापना-द्रव्यपरिग्रहः, भावाः भावविशेषा इत्यर्थः । कुतः १, इत्याह- यद् यस्मात् तेऽपि नामादयो वस्तुनः पर्याया धर्माः, तथाहि- अविशिष्टे इन्द्रवस्तुन्युच्चरिते नामादिकं भेदचतुष्टयमपि प्रतीयते-किमनेन नामेन्द्रो विवक्षितः, आहोखित् स्थापनेन्द्रः, | द्रव्येन्द्रः, भावेन्द्रो वा ? इति । ततः सामान्यस्येन्द्रवस्तुनश्चत्वारोऽप्यमी पर्यायाः, इति नामादयोऽपि भावविशेषा एव, इति भावस्य
वस्तुत्वसाधने न किश्चिद् नः श्रूयते; पर्यायः, भेदः, भाव इत्यनान्तरत्वात् । अथ विशिष्टार्थक्रियासाधकं भावेन्द्रादिकं भावमाश्रित्य वस्तुत्वं साध्यते, तथापि न काचित् क्षतिः, यतो भावेन्द्रादेर्भावस्य विशिष्टार्थक्रियानिवर्तकत्वे नामेन्द्रादिपर्यायाणामपि तद् द्रष्टव्यमेव, द्रव्यरूपतया पर्यायाणां परस्परमभेदात् ॥ इति गाथार्थः ॥ ५५॥
अथवा भावमङ्गलादिकारणत्वाद् नामादीन्यपि भावमङ्गलादिरूपाण्येव, इति दर्शयन्नाह
अहवा नाम--ठवणा-दव्वाई भावमङ्गलंगाइं । पाएण भावमङ्गलपरिणामनिमित्तभावाओ ॥ ५६ ॥ __ अथवा नाम-स्थापना-द्रव्याणि भावमङ्गलस्यैवाऽङ्गानि कारणानि । कुतः१, इत्याह- 'पारण इत्यादि' भावमङ्गलपरिणामो भावमङ्गलोपयोगो भावमङ्गलसाध्वादिपरिणतिरूपो वा, तनिमित्तभावात् तत्कारणत्वादित्यर्थः । यच्च यस्य कारणं तत् तब्ध| पदेशं लभत एव, यथा 'आयुर्घतम् ' 'रूपको भोजनम्' इत्यादि । क्लिष्टकर्मणां केषाश्चिद् नामादीनि भावमङ्गलकारणानि न भव
त्यपि, इति प्रायो ग्रहणम् । मङ्गलविचारश्चेह प्रक्रान्तः तेन भावमङ्गलकारणानि नामादीन्युक्तानि, यावता भावेन्द्रादेरपि तानि कारण
त्वेन द्रष्टव्यान्येव । तस्माद् भावमङ्गलादिकारणत्वाद् नामादीन्यपि तद्रूपाण्येव, इति भावस्य वस्तुत्वसाधने नामादीनामपि तत्कारAणत्वात् तद् न झूयते ॥ इति गाथार्थः ॥५६॥
अथ नामादीनां भावमङ्गलकारणत्वे उदाहरणान्याहजैह मङ्गलाभिहाणं सिद्ध विजयं जिणिंदनामं च । सोऊण, पेच्छिऊण य जिणपडिमालक्खणाईणि॥५७॥ , अथवा नाम--स्थापना-द्रव्याणि भावमङ्गलाङ्गानि । प्रायेण भावमङ्गलपरिणामनिमित्तभावात् ॥ ५६ ॥
P २ यथा मङ्गलाभिधानं सिद्धं विजयं जिनेन्द्रनाम च । श्रुत्वा, प्रेक्ष्य च जिनप्रतिमालक्षणादीनि ॥ ५७॥
३९॥
Jan Education Internati
For Personal and Private Use Only
HAMww.jaineltrary.ary
Page #42
--------------------------------------------------------------------------
________________
विशे
दृ
परिनिव्वुयमुणिदेहं भव्यजइजनं सुवन्नमलाई । दट्टण भावमङ्गलपरिणामो होइ पाएण ॥ ५८ ॥
यथेत्युदाहरणोपदर्शनार्थः, तद्यथेत्यर्थः । मङ्गलमितिशब्दरूपमभिधानम् , तथा 'सिद्धं' सिद्धाभिधानम् ; विजयाभिधा
नम् : जिनेन्द्रादिनाम च केनचिदुचरितं श्रुत्वा कस्यचित् मायेण सम्यग्दर्शनादिको भावमङ्गलपरिणामो भवति, इति नाम्नो भाव॥४०॥ मङ्गलकारणत्वे उदाहरणम् । तथा प्रेक्ष्य चावलोक्य जिनप्रतिमालक्षणादीनि जिनप्रतिमा-स्वस्तिकादीनीत्यर्थः, आदिशब्दादनगारपदा
दिपरिग्रहः, भावमङ्गलपरिणामो भवतीत्यत्रापि संबध्यते । एतत्तु स्थापनाया भावमङ्गलकारणत्वे उदाहरणम् । अथ द्रव्यस्य तत्कारणत्वे दृष्टान्तमाह- परिनिर्वृतो मुक्तिं गतो योऽसौ मुनिस्तदेहम् , तथा भव्ययतिर्भविष्यद्यतिपर्यायो योऽसौ जनस्तम् , तथा सुवर्णमाल्यादि च दृष्ट्वा प्रायेण सम्यग्दर्शनादिभावमङ्गलपरिणामो भवतीति । अतस्तत्कारणत्वाद् नामादीन्यपि भावमङ्गलानि, इति स्थितम् ।। इति गाथाद्वयार्थः ॥ ५७ ॥ ५८ ॥
ननु नामादीन्यपि यदि भावमङ्गलानि, तर्हि किं तान्यपि तीर्थकरादिवत् पूज्यानि ?, इत्याशक्याह
कि पुण तमणेगंतियमच्चन्तं च न जओऽभिहाणाई । तबिवरीअं भावे तेण विसेसेण तं पुजं ॥ ५९॥
नामादीन्यप्युक्तयुक्त्या भावमङ्गलानि । किं पुनः ?, यो विशेषः स उच्यते- तदभिधानादित्रयमनैकान्तिकम् , समीहितफलसाधने निश्चयाभावात् , तथाऽऽत्यन्तिकं च यतो न भवति, आत्यन्तिकप्रकर्षप्राप्ततथाविधविशिष्टफलसाधकत्वाभावात् । भावे भावविषयं तु मङ्गलमुक्तविपरीतस्वरूपम् , तेन विशेषतो यथा तत् पूज्यम् , नैवमितराणि ॥ इति गाथार्थः ॥ ५९॥ | तदेवं भिन्नवस्तुषु विशेषतश्चिन्त्यमानानां नामादीनां प्रधानेतरभावो दर्शितः, सामान्यतः पुनर्विचिन्त्यमानानां सर्ववस्तुपु प्रत्येक A चतुर्णामप्यमीपां सद्भावः प्राप्यत एव, इति दर्शयन्नाह
अहवा बत्थूभिहाणं नाम, ठवणा य जो तदागारो । कारणया से दव्वं, कज्जावन्नं तयं भावो॥ ६॥ अथवा सर्वस्यापि घट-पटादिवस्तुनो यदात्मीयमभिधानं तद् नाम; यथोर्ध्वकुण्डलेष्वायतवृत्तग्रीवो घटः, आतानक्तिानीभू
२ परिनितमुनिदेहं भव्ययतिजनं सुवर्णमाल्यादि । दृष्ट्वा भावमालपरिणामो भवति प्रायेण ॥ ५ ॥ २किं पुनस्तदनकान्तिकमत्यन्तं च न यतोऽभिधानादि । तद्विपरीतं भावे तेन विशेषेण तत् पूज्यम् ॥ ५९ ॥ । अथवा वस्त्वभिधानं नाम, स्थापना च यस्तदाकारः । कारणता तस्य दृष्य, कार्यापनं तद् भावः ॥ ५॥
RONSTROE
॥४०॥
For Personal and Private Use Only
Page #43
--------------------------------------------------------------------------
________________
विशे० ॥ ४१ ॥
Jain Educationa Internation
ततन्तुसन्तानः पट इत्यादि । स्थापना पुनर्यस्तस्यैव सर्वस्य वस्तुनो निज आकारः । भाविकपालादिकार्यापेक्षया तु या 'स' तस्य सर्वस्यापि वस्तुनः कारणता हेतुतां तद् द्रव्यम्, “भूतस्य भाविनो वा भावस्य हि कारणं तु यल्लोके, तद् द्रव्यम् " इति वचनात् । मृत्पिण्डादिवस्तुनस्तु कार्यापनं जन्यत्वापनं तदेव घटादिकं सर्व वस्तु भावोऽभिधीयते, भवनं भाव इति कृत्वा । इत्थं सर्व वस्तु चतूरूपाऽविनाभूतं दृष्टम् एवमेव सम्यग्दर्शन व्यवस्थानात्, सर्वनयसमूहात्मकत्वाज्जिनमतस्य । तदेवं सर्वस्यापि वस्तुनश्चतूरूपतायां किमुच्यते 'ईह भावो श्चिय वत्युं तयत्थसुन्नेहिं किं व सेसेहिं ' इत्यादि ११ न ह्येकस्मिन्नेव वस्तुन्येककालं विद्यमानानां पर्यायाणां मध्ये 'अयं वस्तु ' 'अपरस्त्ववस्तु' इति वक्तुं शक्यते, द्रव्यरूपतया सर्वेषामपि तेषामेकत्वादिति भावः ॥ इति गाथार्थः ॥ ६०॥ अस्मिंश्च नामादिरूपचतुष्टये नामनयः प्रधानं नामैव मन्यते । तत्र ये सुगतमतानुसारिणो “ न हार्थे शब्दाः सन्ति " इत्यादिवचनाद् नानो वस्तुधर्मत्वमेव नेच्छन्ति, तान् प्रति नामनयः प्राह
वैत्थुसरूवं नामं तप्पच्चयहेउओ सधम्म व्व । वत्युं नाऽणभिहाणा होज्जाऽभावो विवाऽवच्च ॥ ६१ ॥ नामनयस्याऽयमभिप्रायः - वस्तुनः स्वरूपं नाम, तत्प्रत्ययहेतुत्वात्, स्वधर्मवत् इह यद् यस्य प्रत्यर्यहेतुस्तत् तस्य धर्मः, यथा घटस्य स्वधर्मा रूपादयः, यच्च यस्य धर्मो न भवति न तत् तस्य प्रत्ययहेतुः, यथा घटस्य धर्माः पटस्य, संपद्यते च घटाभिधानाद् घटे संप्रत्ययः, तस्मात् तत् तस्य धर्मः सिद्धश्व हेतुरावयोः, घटशब्दात् पटादिव्यवच्छेदेन घट इति प्रतिपत्यनुभूतेः । सर्वे च वस्तु नामरूपतां न व्यभिचरतीति दर्शयन्नाह - 'वत्थुमित्यादि ' यदि वस्तुनो नामरूपता न स्यात् तदा तद् वस्त्वेव न भवेदिति संबन्धः । कुतः १, इत्याहअनभिधानादभिधान रहितत्वादित्यर्थः । अवाच्योऽभिधानरहितत्वेनाऽनभिषेयो योऽसावभावः षष्ठभूतादिलक्षणस्तद्वदिति दृष्टान्तः, इद यदभिधानरहितं तद् वस्त्वेव न भवति, यथाऽभिधानरहितत्वेनाऽवाच्यः षष्ठभूतलक्षणोऽभावः अभिधानरहितं च वस्त्वभ्युपगम्यते परैः, ततोsवस्तुत्वमेवास्य भवेद्, अवस्तुत्वे च कुतस्तत्प्रत्ययहेतुत्वलक्षणस्य हेतोर्वृत्तिः, येनाऽनैकान्तिकता स्यात् ? । तंत्र तद्वृत्तौ वा तस्याऽपि वस्तुत्वमेव भवेत्, स्वप्रत्ययजनकत्वात् घटादिवदिति । विपक्ष एव वृत्तेरभावाद् विरुद्धताऽप्यसंभविनीति । तस्माद् वस्तुधर्म एव नामेति स्थितम् । न च 'नद्यास्तीरे गुडभृतशकटम् ' इत्यादिशब्दात् मवृत्तस्य कदाचिद् वस्त्वमाप्तेरवस्तुधर्मता तस्येत्याशङ्कनीयम्, प्रत्यक्षादिप्रमाणानामपि तत्प्रसङ्गात् - तेभ्योऽपि हि प्रवृत्तस्य कदाचिद् वस्त्वमाप्तेः । अवाधितेभ्यस्तेभ्यः प्रवृत्तौ भवत्येवा
१ प. छ. 'हेतुभूतता'। २ गाथा ५५ । ३ वस्तुस्वरूपं नाम तत्प्रत्ययहेतुतः स्वधर्म इव । वस्तु नाऽनभिधानाद् भवेदभाव इवाऽवाच्यः ॥ ६१ ॥ ४ ख. ग. 'यस्य हेतु' । ५ नानि । ६ तत्प्रत्ययहेतुत्वलक्षणहेतुप्रवर्तने । ७ नाम्नोऽपि ।
For Personal and Private Use Only
बृहद्वृत्तिः ।
॥ ४१ ॥
Page #44
--------------------------------------------------------------------------
________________
विशे० ॥ ४२ ॥
Jain Educationa Internation
ऽर्थप्राप्तिरिति चेत् । तदेतदिहाऽपि समानम्, सुविवेचितादाप्तप्रणीतशब्दाद् वस्तुप्राप्तेरत्राऽप्यवश्यंभावित्वात् इत्यादि वह वक्तव्यम्, तत्तु नोच्यते, ग्रन्थगहनतामसङ्गात्, अन्यत्रोक्तत्वाच्च ।। इति गाथार्थः ॥ ६१ ॥
किश्व
संसयविवज्जया वाऽज्झवसाओऽहवा जदिच्छाए । होज्जत्थे पडिवत्ती न वत्थुधम्मो जया नामं ॥ ६२ ॥ यदा वस्तुधर्मो नाम नेष्यते तदा वक्त्रा घटशब्दे समुच्चारिते श्रोतुः ' किमयमाह ?' इत्येवं संशय एव स्यात्, न घटप्रतिपत्तिः । अथवा घटशब्दे प्रोक्ते पटप्रतिपत्तिलक्षणो विपर्ययः स्यात् । अथवा ' न जाने किमप्यनेनोक्तम् ' इति चित्तव्यामोहेन वस्त्वप्रतिपत्तिरूपोऽनध्यवसायः स्यात् । यदि वा यदृच्छयाऽर्थे प्रतिपत्तिर्भवेत् कदाचिद् घटस्य, कदाचित् पटस्य, कदाचित्तु स्तम्भस्येत्यादिन चैवं भवति । तस्माद् वस्तुधर्म एव नाम ।। इति गाथार्थः ॥ ६२ ॥
अपि च
वैत्थुस्स लक्ख-लक्खण-संववहाराऽविरोहसिद्धीओ । अभिहाणाऽहीणाओ बुद्धी सद्दो य किरिया य ॥६३॥
वस्तुनो जीवादेः । किम् ?, इत्याह- अभिधानाऽधीना नामाऽऽयत्ताः । काः १, इत्याह- लक्ष्यं च लक्षणं च संव्यवहारथ लक्ष्य लक्षण-संव्यवहारास्तेषामविरोधेनाऽविपर्ययेण सिद्धयः प्रतिष्ठाः । तत्र लक्ष्यं जीवत्वादि, लक्षणमुपयोगः, संव्यवहारोऽध्येषण - प्रेषणादिः । तथा बुद्धि-शब्द- क्रियाच 'अभिधानाऽधीना: ' इत्यत्राऽपि संवध्यते । तत्र बुद्धिर्वस्तु निश्चयरूपा, शब्दो घटादिध्वनिरूपः क्रिया चोत्क्षेपणा - ऽवक्षेपणादिका । तस्मादभिधानमेव वस्तु सत्, तदाऽऽयत्ताऽऽत्मलाभत्वात् सर्वव्यवहाराणाम् ॥ इति गाथार्थः ॥ ६३ ॥
तदेवं शब्दनयेन निजमते स्थापिते स्थापनानयः प्राह
आगारो चिय मइ - सद्द-वत्थु-किरिया - फलाऽभिहाणाई । आगारमयं सव्वं जमणागारं तयं नत्थि ॥६४॥ आकार व आकारमात्ररूपाण्येव । कानि १, इत्याह-मतीत्यादि, मतिश्च शब्दश्रेत्यादिद्वन्द्वः । तत्र मतिस्तावज्ज्ञेयाऽऽकारग्रह
१ संशयविपर्ययौ वाऽनध्यवसायोऽथवा यदृच्छया । भवेदर्थे प्रतिपत्तिर्न वस्तुधर्मो यदा नाम ॥ ६२ ॥
२ वस्तुनो लक्ष्य लक्षण-संव्यवहाराऽविरोधसिद्धयः । अभिधानाधीनाः बुद्धिः शब्दश्व क्रिया च ॥ ६३ ॥
३ आकार एव मति-शब्द-वस्तु-क्रिया फला-ऽभिधानानि । आकारमयं सर्वं यदनाकारं तद् नास्ति ॥ ६४ ॥
For Personal and Private Use Only
बृहद्वृत्तिः ।
॥४२॥
Page #45
--------------------------------------------------------------------------
________________
विशे० ॥ ४३ ॥
Jain Educationa Internatio
|णपरिणतत्वादाकारवती, तदनाकारवच्चे तु 'नीलस्येदं संवेदनं न पीतादेः ' इति नैयत्यं न स्यात्, नियामकाभावात् नीलाद्याकारो हि नियामकः, यदा च स नेष्यते तदा 'नीलग्राहिणी मतिर्न पीतादिग्राहिणी' इति कथं व्यवस्थाप्यते ?, विशेषाभावात् तस्माद। कारवत्येव मतिरभ्युपगन्तव्या । शब्दोऽपि पौद्गलिकत्वादाकारवानेव । घटादिकं वस्त्वाकारवच्चेन प्रत्यक्षसिद्धमेव । क्रियायुत्क्षेपणा-यक्षेपणादिका क्रियावतोऽनन्यत्वादाकारवत्येव । फलमपि कुम्भकारादिक्रियासाध्यं घटादिकं मृत्पिण्डादि वस्तुपर्यायरूपत्वादाकारवदेव | अभिधानमपि शब्दः, स च पौगलिकत्वादाकारवानित्युक्तमेव । तस्माद् यदस्ति तत् सर्वमाकारमयमेव यन्त्वनाकारं तद् नास्त्येव, वन्ध्यापुत्रादिरूपत्वात् तस्य ॥ इति गाथार्थः ॥ ६४ ॥
अथ प्रयोगद्वारेणाऽनाकारं वस्तु निराचिकीर्षुराह
रामयं वत्थु आगाराऽभावओ खपुष्पं व । उवलंभ-व्यवहाराऽभावाओ नाणगारं च ॥ ६५ ॥
परस्याऽऽकारवद्वस्तु निषेधकस्याऽनुमतमभिप्रेतं सामर्थ्याद् यदनाकारं वस्तु तद् नास्ति, आकाराभावात् खपुष्पवत् । अपरमपि हेतुद्रयमाह - 'उवलंभेत्यादि' 'नाणागारमिति' नास्त्यनाकारं वस्तु, सर्वथैवाऽनुपलभ्यमानत्वात् तेनाऽणीय सोऽपि व्यवहारस्याSभावाच्च, इति पर्यन्तवर्ती चकारोऽत्र योजनीयः खपुष्पवदिति दृष्टान्तो हेतुद्वयेऽपि स एव ।। इति गाथार्थः ॥ ६५ ॥
तदेवं स्थापनानयेनोक्ते द्रव्यनयः प्राह
देव्वपरिणाममित्तं मोत्तूणाऽऽगारदरिसणं किं तं ? । उप्पायव्वयरहिअं दव्वं चिय निव्वियारं तं ॥ ६६ ॥
को हि नाम स्थापना नयस्याऽऽकारग्रहः ?, यस्माद् द्रवतीति द्रव्यमनादिमदुत्प्रेक्षितपर्यायशृङ्खलाधारं मृदादि पूर्वपर्यायमात्रतिरोभावेऽग्रेत पर्याय मात्राऽविर्भावः परिणामो द्रव्यस्य परिणामो द्रव्यपरिणामः स एव तन्मात्रं तद् मुक्त्वा किमन्यदाऽऽकारदर्शनम्, येनोच्यते ' अंगारो च्चिय मइ सद्द-वत्थु -' इत्यादि । ननु द्रव्यमेव तत् । किंविशिष्टम् १, उत्पाद-व्ययरहितं निर्विकारं उत्फण-विफ- कुण्डलिताकारसमन्वित सर्पद्रव्यवद् विकाररहितम् ; किं हि नाम तत्राऽपूर्वमुत्पन्नम् विद्यमानं वा विनष्टम् येन विकारः स्यात् १, इति भावः ॥ इति गाथार्थः ॥ ६६ ॥
१ न परानुमतं वस्तु आकाराऽभावात् खपुष्पमिव । उपलम्भ-व्यवहाराऽभावाद् नाऽनाकारं च ॥ ६५ ॥
२ द्रव्यपरिणाममा मुक्त्वाऽकारदर्शनं किं तत् ? उत्पादव्ययरहितं द्रव्यमेव निर्विकारं तत् ॥ ६६ ॥ ३ गाथा ६४ ।
For Personal and Private Use Only
वृहद्वृत्तिः ।
॥ ४३ ॥
Page #46
--------------------------------------------------------------------------
________________
विशे० ॥ ४४ ॥
Jain Education Internati
ननु कथमुत्पादादिरहितमुच्यते, यावता सर्पादिके द्रव्ये उत्फण-विफणादयः पर्याया उत्पद्यमाना निवर्तमानाश्च प्रत्यक्षेणैव दृश्यन्ते १, इत्याह
ओविब्भाव-तिरोभावमेन्तपरिणामकारणमचिन्तं । निच्चं बहुरूवं पि य नडो व्व वेसंतरावन्नो ॥ ६७ ॥ आविर्भावश्च तिरोभावश्च तावेव तन्मात्रं तदेव परिणामस्तस्य कारणं द्रव्यम्, यथा सर्प उत्फण-विफणावस्थयोरिति न ह्यत्रापूर्व किञ्चिदुत्पद्यते, किं तर्हि ?, छन्नरूपतया विद्यमानमेवाऽऽविर्भवति । नाप्याविर्भूतं सद् विनश्यति, किन्तु च्छन्नरूपतया तिरोभावमेवाSS सादयति । एवं च सत्याऽऽविर्भाव - तिरोभावमात्र एव कार्योपचारात् कारणत्वमस्यौपचारिकमेव । तस्मादुत्पादादिरहितं द्रव्यमुच्यत इति । आह- ननु यद्येकस्वभावं निर्विकारं द्रव्यम्, तर्ह्यनन्तकालभाविनामनन्तानामप्याविर्भाव - तिरोभावानामेकहेलयैव कारणं किमिति न भवति १, इत्याह- अचिन्त्यमचिन्त्यस्वभावं द्रव्यम्, तेनैकस्वभावस्याऽपि तस्य क्रमेणैवाऽऽविर्भाव तिरोभावप्रवृत्तिः, सर्पादिद्रव्यष्वकस्वभावेष्वप्युत्फण-विफणादिपर्यायक्रममवृत्तेः प्रत्यक्षसिद्धत्वादिति । ननु यद्येवम् उत्फण-विफणादिबहुरूपत्वात् पूर्वावस्था परित्यागेन चोत्तरावस्थाऽधिष्ठानाद् अनित्यता द्रव्यस्य किमिति न भवति ? इति चेत्, इत्याह- वेषान्तरापन्न नटवद् बहुरूपमपि द्रव्यं नित्यमेव, इदमुक्तं भवति - यथा नायक- विदूषक -कपि-राक्षसादिपात्रावसरेषु वेषान्तराण्यापन्नो वेषान्तरापन्नो नटो बहुरूपः, एवमुत्कण-विकणादिभावैर्यद्यपि द्रव्यमपि बहुरूपम्, तथापि नित्यमेव, स्वयमविकारित्वात्, आकाशवत् - यथा हि घटपटादिसंबन्धेन बहुरूपमप्याकाशं स्वयमविकारित्वाद् नित्यम्, एवं द्रव्यमपीति भावः ॥ इति गाथार्थः ॥ ६७ ॥
कारणमेव च सर्वत्र त्रिभुवने विद्यते; न कचित् कार्यम्, यच्च कारणं तत् सर्वे द्रव्यमेव, इति दर्शयन्नाह
पिंडो कारणमिट्ठे पयं व परिणामओ तहा सव्वं । आगाराइ न वत्युं निक्कारणओ खपुष्पं व ॥६८॥
मृदादिपिण्डः कारणमिष्टं कारणमात्रमेवाऽभ्युपगम्यते । कुतः १, इत्याह- परिणामित्वात् परिणमनशीलत्वात् पयोवद् दुग्धवत् । यथा च पिण्डः, तथाऽन्यदपि सबै स्थास- कोश- कुशूलादिकं त्रैलोक्यान्तर्गतं वस्तु कारणमात्रमेव, परिणामित्वात् पयोवत्, यद् यत् कारणं तत् सर्वं द्रव्यमेव, इति द्रव्यनयस्य स्वपक्षसिद्धिः । ननु मृत्पिण्डादीनां कार्यभूताः स्थास - कोश- कुशूल - घटादयः प्रत्यक्षेणैव दृश्यन्ते, संबन्धिशब्दश्व कारणशब्दः सर्वदैव कार्यापेक्ष एव प्रवर्तते, तत् कथं कारणमात्रमेवास्ति, न कार्यम् १, इति चेत् ।
१ आविर्भाव तिरोभावमानपरिणामकारणमचिन्त्यम् । मित्यं बहुरूपमपि च नट इव येषान्तरापः ॥ ६७ ॥
१ पिण्डः कारणमिष्टुं पय इव परिणामतस्तथा सर्वम् । आकारादिर्न वस्तु निष्कारणतः खपुष्पमिव ॥ ६८ ॥ ३ ष. छ. 'यच्च का' ।
For Personal and Private Use Only
बृहद्वृत्तिः ।
॥ ४४ ॥
Page #47
--------------------------------------------------------------------------
________________
SSSS
2GBANA
विशे०
बृहद्वचिः ।
॥४५॥
नैवम् , आविर्भाव-तिरोभावमात्र एव कार्योपचारात् , उपचारस्य चाऽवस्तुत्वात् । इति स्वपक्षं व्यवस्थाप्य परपक्षं दूषयितुमाह-'आगारेत्यादि' द्रव्यमानं विहाय स्थापनादिनयैर्यदाऽऽकारादिकमभ्युपगम्यते, तत् सर्वमवस्तु । कुतः, इत्याह-निष्कारणत्वात् कारणमात्र- रूपतयाऽनभ्युपगमात् , तदभ्युपगमे त्वस्मत्पक्षवर्तित्वप्रसङ्गात् , इह यत् कारणं न भवति तद् न वस्तु, यथा गगनकुसुमम् , अकारणं च परैरभ्युपगम्यते सर्वमाकारादिकम् , अतोऽवस्तु ।। इति गाथार्थः ॥ ६८॥
तदेवं द्रव्यनयेन स्वपक्षे व्यवस्थापिते भावनयः पाह
भांवत्थंतरभूअं किं दव्वं नाम भाव एवायं । भवनं पइक्खणं चिय भावावत्ती विवत्तीय ॥ ६९ ॥
भावेभ्यः पर्यायेभ्योऽर्थान्तरभूतं भिन्नं किं नाम द्रव्यम् , येनोच्यते-'देवपरिणाममित्तमित्यादिननु भाव एवाऽयं यदिदं दृश्यते त्रिभुवनेऽपि वस्तुनिकुरम्बमिति । यदि हि किश्चिदनादिकालीनमवस्थितं सद् वस्तु वस्त्वन्तरारम्भे व्याप्रियेत तदा न्याय्या स्यादियं कल्पना, यावता प्रतिक्षणं भवनमेवाऽनुभूयते । किमुक्तं भवति', इत्याह-भावस्यैकस्य पर्यायस्याऽऽपत्तिरुद्भूतिः, अपरस्य तु विपत्तिविनाशः।
___"निहाणगया भग्गा पुञ्जो नत्थि अणागए । निवुया नेय चिट्ठति आरम्गे सरसवोवमा" ॥ १ ॥ इति वचनात् पूर्वस्य क्षणस्य निवृत्तिः, अपरस्य तूत्पत्तिरित्यर्थः ॥ इति गाथार्थः ॥ ६९ ॥
आह-ननु ये भावस्याऽऽपत्ति-विपत्ती पोच्येते ते तावद्धत्वन्तरमपेक्ष्य भवतः, यच्च हेत्वन्तरमपेक्षते तदेवाऽवस्थितं कारणं, देव द्रव्यम् , अतो 'भोवत्यंतरभूअं किं दव्वं ' इत्यादिनाऽयुक्तमेव द्रव्यमपाक्रियते, इत्याशक्याह
ने य भावो भावन्तरमवेक्खए किन्तु हेउनिरवेक्खं । उपपज्जइ तयणन्तरमवेइ तमहेउ चेव ॥ ७ ॥
न च भावो घटादिरुत्पद्यमानो भावान्तरं मृत्पिण्डादिकमपेक्षते, किन्तु निरपेक्ष एवोत्पद्यते । अपेक्षा हि विद्यमानस्यैव भवति । न च मृत्पिण्डादिकारणकाले घटादि कार्यमस्ति, अविद्यमानस्य चाऽपेक्षायां खरविषाणस्यापि तथाभावप्रसङ्गात् । यदि चो| त्पत्तिक्षणात प्रागपि घटादिरस्ति, तर्हि किं मृत्पिण्डाद्यपक्षया', तस्य स्वत एव विद्यमानत्वात् । अयोत्पन्नः सन् घटादिः पश्चाद्
, भावार्थान्तरभूतं किं व्यं नाम, भाव एवाऽयम् । भवनं प्रतिक्षणमेव भावापत्तिर्विपत्तिश्च ॥ १९ ॥२ गाथा ६६ । ३न निधानगता भग्ना पुजओ नास्वनागते । निर्वृता नैव तिष्ठन्ति आराने सर्पपोपमाः ॥1॥ ४ गाथा ६९। ५न च भावो भावान्तरमपेक्षते किन्तु हेतुनिरपेक्षम् । उत्पद्यते तदनन्तरमपति तदहेतुकं चैव ॥ ५॥
||४५॥
Jan Educcions international
For Personal and Private Use Only
N
um.jaineltrary.org
Page #48
--------------------------------------------------------------------------
________________
विशे०
वृहद्वतिः ।
॥४६॥
मृत्पिण्डादिकमपेक्षते । हन्त ! तदिदं मुण्डितशिरसो दिनशुद्धिपर्यालोचनम् , यदि हि स्वत एव कथमपि निष्पन्नो घटादिः, किं तस्य पश्चाद् मृत्पिण्डाद्यपेक्षया । अथोत्पद्यमानतावस्थायामसौ तमपेक्षते । केयं नामोत्पद्यमानता?। न तावदनिष्पन्नावयवता, स्वयमनिप्पन्नस्य खरविषाणस्येवाऽपेक्षाऽयोगात् । नापि निष्पन्नावयवता, स्वयं निष्पन्नस्य परापेक्षावैयर्थ्यात् । नाप्यनिष्पन्नावयवता, वस्तुनः सांशताप्रसङ्गात् । तत्र चाऽवयविकल्पनादावनेकदोषोपनिपातसंभवात् । किञ्च, सांशतायामपि किमनिष्पन्नोंशः कारणमपेक्षते, निष्पन्नो वा, उभयं वा । न तावदाद्यपक्षद्वयम् , निष्पन्ना-ऽनिष्पन्नयोरपेक्षायाः प्रतिषिद्धत्वात् । उभयपक्षोऽपि न श्रेयान , उभयपक्षोक्तदोपप्रसङ्गात् । तस्माद् मृत्पिण्डाद्युत्तरकालं भवनमेव घटादेस्तदपेक्षा, मृत्पिण्डादेरपि कार्यत्वाभिमताद् घटादेः प्राग्भावित्वमेव कारणत्वम् , न पुनर्घटादिजन्मनि व्याप्रियमाणत्वम् । व्यापारो हि तद्वतो भिन्नः, अभिन्नो वा ?। यदि भिन्नः, तर्हि तस्य निर्व्यापारताप्रसङ्गः । अथाऽभिन्नः, तर्हि व्यापाराऽभावः । कारणब्यापारजन्यं जन्मापि जन्मवतो भिन्नम् , अभिन्नं वा ? | भेदे जन्मवतोऽजन्मप्रसङ्गः । अभेदे तु, जन्माभावः। तस्मात् पूर्वोत्तरकालभावित्वमात्रेणैवाऽयं कार्य-कारणभावो वस्तूनां लोके प्रसिद्धः, न जन्य-जनकभा
वेन । यदपि मृत्पिण्ड-घटादीनां पूर्वोत्तरकालभावित्वम् , तदप्यनादिकालात् तथापत्तक्षणपरम्परारूढम् , न पुनः कस्यचित् केनचिद् निर्व| र्तितम् , इति न कस्यचिद् भावस्य कस्यापि संबन्धिन्यपेक्षा । ततो हेत्वन्तरनिरपेक्ष एव सर्वो भावः समुत्पद्यत इति स्थितम् । विनश्यति तहि कथम् ?, इत्याह-'तयणन्तरमित्यादि' तदनन्तरमुत्पत्तिसमनन्तरमेवाऽपैति विनश्यति भावः । तदपि च विनशनमहेतुकमेव । मुद्गरो. पनिपातादिसव्यपेक्षा एवं घटादयो विनाशमाविशन्तो दृश्यन्ते, न निर्हेतुकाः, इति चेद् । नैवम् , विनाशहेतोरयोगात् , तथाहि- मुद्रादिना विनाशकाले किं घटादिरेव क्रियते, आहोस्वित् कपालादयः, उत तुच्छरूपोऽभावः ? इति त्रयी गतिः। तत्र न तावद् घटादिः, तस्य स्वहेतुभूतकुलालादिसामग्रीत एवोत्पत्तेः । नापि कपालादयः, तत्करणे घटादेस्तदवस्थत्वप्रसङ्गात् , न ह्यन्यस्य करणेऽज्यस्य निवृत्तियुक्तिमती, एकनिवृत्तौ शेषभुवनत्रयस्यापि निवृत्तिप्रसङ्गात् । नापि तुच्छरूपोऽभावः, खरशृङ्गस्येव नीरूपस्य तस्य कर्तुमशक्यत्वात् , करणे वा घटादेस्तदवस्थताप्रसङ्गात् , अन्यकरणेऽन्यनित्यसंभवात् । घटादिसंबन्धेनाऽभावो विहितस्तेन घटादेर्निवृत्तिः, इति चेत् । न, संबन्धस्यैवाऽनुपपत्तेः, तथाहि- किं पूर्व घटः पश्चादभावः, पश्चाद् वा घटः पूर्वमभावः, समकालं वा घटाभावौ ? इति विकल्पत्रयम् । तत्राऽऽद्यविकल्पद्वयपक्षे संवन्धानुपपत्तिरेव, संवन्धस्य द्विष्ठत्वेन भिन्नकालयोस्तदसंभवात् , अन्यथा भविष्यच्छङ्खचक्रवर्त्यादीनामतीतैः सगरादिभिरपि संबन्धप्राप्तेः । तृतीयविकल्पपक्षेऽपि घटा-ऽभावयोर्यदि क्षणमात्रमपि सहावस्थितिरभ्युपगम्यते, तसिं
महामहास
४६॥
१ख, 'वयवविक' । २ क. 'अथ चाऽभिन्नः'।
For Don Peny
Page #49
--------------------------------------------------------------------------
________________
विशे०
बृहद्वत्तिः ।
॥४७॥
सारमप्यसौ स्यात् , विशेषाभावात् । तथा च सति स एव घटादेस्तादवस्थ्यप्रसङ्गः । घटाग्रुपमर्दैनाऽभावो जायते, अतो घटादिनिवृत्तिः, इति चेत् । ननु कोऽयमुपमर्दो नाम ? । न तावद् घटादिः, तस्य स्वहेतुत एवोत्पत्तेः । नापि कपालादयः, तद्भावे घटादेस्तादवस्थ्य- प्रसङ्गात् । नापि तुच्छरूपोऽभावः, एवं हि सति घटाद्यभावेन घटाद्यभावो जायत इत्युक्तं स्यात् , न चैतदुच्यमानं हास्यं न जनयति, आत्मनैवाऽत्मभवनानुपपत्तेः । तस्माद् मुद्गरादिसहकारिकारणवैसदृश्याद् विसदृशः कपालादिक्षण उत्पद्यते, घटादिस्तु क्षणिकत्वेन निर्हेतुकः स्वरसत एव निवर्तते, इत्येतावन्मात्रमेव शोभनम् । अतो हेतुव्यापारनिरपेक्षा एव समुत्पन्ना भावाः क्षणिकत्वेन स्वरसतएव विनश्यन्ति, न हेतुव्यापारात्, इति स्थितम् । तस्माजन्म-विनाशयोर्न किश्चित् केनचिदपेक्ष्यते, अपेक्षणीयाभावाच न किञ्चित् कस्यचित् कारणम् । तथा च सति न किञ्चिद् द्रव्यम् , किन्तु पूर्वापराभूताऽपरापरक्षणरूपाः पर्याया एव सन्त इति । अत्र बहु वक्तव्यम् , तत्तु नोच्यते, ग्रन्थगहनताभयात् , सुगतशास्त्रेषु विस्तरेणोक्तत्वाच ॥ इति गाथार्थः ॥ ७० ॥
__यदपि द्रव्यवादिना 'पिण्डो कारणमिठं पयं व परिणामओ' इत्याद्युक्तम् , तत्राऽस्माभिरप्येतद् वक्तुं शक्यत एवेति । किम् ?,
इत्याह
SEX
BABA
पिण्डो कजं पइसमयभावाउ जह दहिं तहा सव्वं । कज्जाभावाउ नत्थि कारणं खरविसाणं व ॥ ७१॥
मृदादिपिण्डः कार्यमेव, न तु कारणम् । कुतः ?, इत्याह- प्रतिसमयमपरापरक्षणरूपेण भावात् , दध्यादिवदिति । प्रतिसमयमपरापरक्षणभवनमसिद्धमिति चेत् । न, वस्तूनां पुराणादिभावाऽन्यथानुपपत्तेः । उक्तं च__ “प्रतिसमयं यदि न भवेदपरापररूपतेह वस्तूनाम् । न स्यात् पुराणभावो न युवत्वं नापि वृद्धत्वम् ॥ १॥
जन्मानन्तरसमये न स्याद् यद्यपररूपताऽर्थानाम् । तर्हि विशेषाभावाद् न शेषकालेऽपि सा युक्ता" ॥ २ ॥ कि पिण्ड एव कार्यम् ? । न, इत्याह- तथा सर्व, यथा पतिसमयं भावात् पिण्डः कार्य तथा सर्वमपि घटपटादिकं वस्तुनिकुरम्बम् , तत एव हेतोः कार्यत्वमपि द्रष्टव्यमित्यर्थः । अनभिमतप्रतिषेधमाह- 'कजाभावाउ इत्यादि' पराभ्युपगतं कारणं कारणाख्यं वस्तु नास्ति । कुतः ? , इत्याह- कार्याभावात् तत्र कार्यत्वाऽभ्युपगमाभावात् प्रतिसमयभवनानभ्युपगमादित्यर्थः । इह यत् प्रतिसमयमपरापररूपेण न भवति तद् वस्तु नास्ति, यथा खरविषाणम् , प्रतिसमयमभवन्तश्चाऽभ्युपगम्यन्ते परेमृत्पिण्डादयः, तस्माद् न सन्तीति भावः ॥ इति गाथाथैः ॥ ७१॥
१ स्वभावात् । २ गाथा ६८ । ३ पिण्डः कार्य प्रतिसमयभावाद् यथा दधि तथा सर्वम् । कार्याभावाद् नास्ति कारणं खरविषाणमिव ॥ १॥
॥४७॥
For Peso
Private Use Only
Page #50
--------------------------------------------------------------------------
________________
6808oleRSS
विशे०
॥४८॥
तदेवं नामादिनयाना परस्परविप्रतिपत्तिमुपदश्योपसंहारपूर्वकं मिथ्येतरभाव दर्शयितुमाहएवं विवयंति नया मिच्छाभिनिवेसओ परोप्परओ । इयमिह सब्वनयमयं जिणमयमणवज्जमच्चंत ॥७२॥
एवमुक्तप्रकारेण परस्परतो मिथ्याभिनिवेशाद् विवदन्ते विवादं कुर्वन्ति नामनयादयो नयाः। ततश्च मिथ्यादृष्टय एते, असंपूर्णाथेग्राहित्वात् , गजगात्रभित्रदेशसंस्पर्शने बहुविधविवादमुखरजात्यन्धवृन्दवत् । यदि नामते मिथ्यादृष्टयः, तर्हि निर्मियं किम् ?, इत्याह- इदमिहैव लोके वर्तमानमनुभवप्रत्यक्षसिद्धं जिनमतं जैनाभ्युपगमरूपम् । कथंभूतम् १, सर्वनयमयं निःशेषनयसमूहाभ्युपगमनिवृत्तम् , अत्यन्तमनवयं नामादिनयपरस्परोद्भाविताऽविद्यमाननिःशेषदोषं, संपूर्णार्थग्राहित्वात् , चक्षुष्मता समन्तात् समस्तहस्तिशरीरदर्शनोल्लापवत् ॥ इति गाथार्थः ॥ ७२ ॥
तथा च संपूर्णार्थग्रहरूपं जिनमतमेव दर्शयति
नौमाइभेअसद्द-त्थ-बुद्धिपरिणामभावओ निययं । जं वत्थुमत्थि लोए चउपज्जायं तयं सव्वं ॥ ३ ॥
घट-पटादिकं यत् किमपि वस्त्वस्ति लोके, तत् सर्व प्रत्येकमेव नियतं निश्चितं चत्वारः पर्याया नामा-ऽऽकार--द्रव्य-भावलक्षणा यत्र तच्चतुष्पर्यायम् न पुनर्यथा नामादिनयाः प्राहुर्यथा-केवलनाममयं वा, केवलाकाररूपं वा, केवलद्रव्यताश्लिष्टं वा, केवलभावात्मकं वेति भावः । कुतश्चतुष्पर्यायमेव ?, इत्याह-'नामादिभेएत्यादि नामादिभेदष्वेकत्वपरिणतिसंवलितनामा-ऽऽकार-द्रव्य-भावेष्वेवेत्यर्थः, शब्दश्चाऽर्थश्च बुद्धिश्च शब्दा-ऽर्थ बुद्धयस्तासां परिणामस्तस्य भावः सद्भावस्तस्मात् ,नामादिभेदेषु समुदितेष्वेव योऽयं शब्दा-ऽर्थ-बुद्धीनां परिणामसद्भावस्तस्मादेतोः सर्वं चतुष्पर्यायं वस्त्वित्यर्थः । प्रयोगः-यत्र शब्दार्थ चुद्धिपरिणामसद्भावः, तत् सर्वं चतुष्पर्यायम् , चतुष्पर्यायवाभावे शब्दादिपरिणामभावोऽपि न दृष्टः, यथा शशशृङ्गे, तस्माच्छब्दादिपरिणामसद्भावे सर्वत्र चतुष्पर्यायत्वं निश्चितमिति भावः, इदमुक्तं भवति- अन्योऽन्यसंवलितनामादिचतुष्टयात्मन्येव वस्तुनि घटादिशब्दस्य तदभिधायकत्वेन परिणतिर्दृष्टा, अर्थस्यापि पृथुबुध्नोदरायाकारस्य नामादिचतुष्टयात्मकतयैव परिणामः समुपलब्धः, बुद्धरपि तदाकारग्रहणरूपतया परिणतिस्तदात्मन्येव वस्तुन्यवलोकिता। न चेदं दर्शनं भ्रान्तम् , बाधकाभावात् । नाप्यदृष्टाशङ्कयानिष्टकल्पना युक्तिमती, अतिप्रसङ्गात् । न हि दिनकराऽस्त
1 एवं विवदन्ति मया मिथ्याभिनिवेशतः परस्परतः । इदमिह सर्वनयमयं जिनमतमनवद्यमत्यन्तम् ॥ २ ॥ २ नामादिभेदशाब्दा-ऽर्थ-बुद्धिपरिणामभावतो नियतम् । यद् वस्त्वस्ति लोके चतुष्पर्यायं तत् सर्वम् ॥ ॥
FOE
॥४८॥
Taarohare
APPARAPPIPAPASPATH
Page #51
--------------------------------------------------------------------------
________________
Ca
विशे०
॥४९॥
29
मयोदयापलब्धरात्रिन्दिवादिवस्तूनां बाधकसंभावनयाऽन्यथात्वकल्पनासंगतिमावहति । न चेहापि दर्शना दर्शने विहायाऽन्यद् निश्चायकं प्रमाणमुपलभामहे । तस्मादेकत्वपरिणत्यापननामादिभेदज्वेव शब्दादिपरिणतिदर्शनात् सर्वं चतुष्पर्यायं वस्त्विति स्थितम् ॥ इति गाथार्थः ॥ ७३॥
आह- ननु यदि नामादिचतुष्पर्यायं सर्व वस्तु, तर्हि किं नामादीनां भेदो नास्त्येव ?, इत्याह
इय सव्वभेअसंघायकारिणो भिन्नलक्खणा एते । उप्पायर्या इति ये पिव धम्मा पइवत्थुमाउज्जा ॥ ७४ ॥
इत्येवं ये पूर्व भिन्नलक्षणा भिन्नस्वरूपा धर्मा नामादयः मोक्तास्ते प्रतिवस्त्वायोज्या आयोजनीया इति संबन्धः । कथंभूताः सन्तः १, इत्याह- भेदश्च संघातच भेदसंघाती, सर्वस्य स्वाश्रयभूतवस्तुनो भेदसंघातौ तौ कर्तुं शीलं येषां ते सर्वभेदसंघातकारिणो निजाश्रयस्य सर्वस्याऽपि वस्तुनः कथश्चिद् भेदकारिणः, कथञ्चित्वभेदकारिण इत्यर्थः, तथाहि- केनचिदिन्द्र इत्युच्चरितेऽन्यः पाहकिमनेन नामेन्द्रो विवक्षितः, आहोस्वित् स्थापनेन्द्रः, द्रव्येन्द्रः, भावेन्द्रो वा । नामेन्द्रोऽपि द्रव्यतः किं गोपालदारकः, हालिकदारका, क्षत्रियदारकः, ब्राह्मणदारकः, वैश्यदारकः, शूद्रदारको वा ? इत्यादि । तथा क्षेत्रतोऽपि नामेन्द्रः किं भारतः, ऐरवतः, महाविदेहजो वा? इत्यादि । कालतोऽपि किमतीतकोलसंभवी, वर्तमानकालभावी, भविष्यन् वा ? इत्यादि अतीतकालभाव्यपि किमितोऽनन्ततमसमयभावी, असंख्याततमसमयभावी, संख्याततमसमयभावी वा ? इत्यादि । भावतोऽपि किं कृष्णवर्णः, गौरवर्णः, दीर्घः, मन्थरो वा ? इत्यादि । तदेवमेकोऽपि नामेन्द्रस्याऽऽश्रयभूतोऽर्थस्तावद् द्रव्य-क्षेत्र-काल-भावभेदाधिष्ठितोऽनन्तभेदत्वं प्रतिपद्यते । तथा स्थापना-द्रव्य-भावाश्रय स्याऽप्युक्तानुसारतः प्रत्येकमनन्तभेदत्वमनुसरणीयम् । इत्येवमेते नामादयो भेदकारिणः । अभेदकारिणस्तहि कथम् ? इति चेत् । उच्यते- यदैकस्मिन्नपि वस्तुनि नामादयश्चत्वारोऽपि प्रतीयन्ते तदाऽभेदविधायिनः, तथाहि- एकस्मिन्नपि शचीपत्यादौ 'इन्द्र' इति नाम, तदाकारस्तु स्थापना, उत्तरावस्थाकारणत्वं तु द्रव्यत्वम् , दिव्यरूप-संपत्ति-कुलिशधारण-परमैश्वर्यादिसंपन्नत्वं तु भाव इति चतुटयमपि प्रतीयते । तस्मादेवं सर्वस्य स्वाऽऽश्रयभूतस्य वस्तुनो भेद-संघातकारिणो भिन्नलक्षणा एते नामादयो धर्मा उत्पाद-व्यय-धौव्यत्रिकवत् प्रतिवस्तु आयोजनीयाः परस्पराऽविनाभाविनः प्रतिवस्तु द्रष्टव्या इति तात्पर्यम् ।। इति गाथार्थः ॥ ७४॥
B8888888560020652HBT
A-AU४९
1 अन्वयव्यतिरेकापरपर्यायी प्रत्यक्षानुपलम्भावित्यर्थः । ख 'पि दर्शनं विहाय'। २ इति सर्वभेदसंघातकारिणो भिनलक्षणा एते । उत्पादा इति यदिव धर्मा प्रतिवस्त्वायोज्या: 011. 'कारभावी वर्तमानकाळसंभवी' ।
For Pesonal and Private Use Only
Page #52
--------------------------------------------------------------------------
________________
बृहदत्तिः ।
॥५०॥
करकामा
___" नत्थि नएहिं बिहूर्ण सुत्तं अत्थो अजिणमए किंचि । आसज्ज उ सोआर नएण य विसारओ बूया" इति वचनाजिनमते सर्व वस्तु प्रायो नयैर्विचार्यते, अतो नाम-स्थापनादीनपि प्रस्तुतान् नयैर्विचारयन्नाह
नामाइतियं दव्वट्ठियस्स भावो य पजवनयस्स । संगह--व्यवहारा पढमगरस सेसा य इयररस ॥ ७५ ॥
एतेषु नामादिषु मध्ये नाम स्थापना-द्रव्यनिक्षेपत्रयं द्रव्यास्तिकनयस्यैवाऽभिमतं न पर्यायास्तिकस्य, नामादिनिक्षेपत्रयस्य विवक्षितभावशून्यत्वात् । पर्यायास्तिकस्य तु भावग्राहित्वादिति । 'भावो' भावनिक्षेपः पुनः पर्यायास्तिकनयस्याऽभिमतो नेतरस्य, तस्य द्रव्यमात्रग्राहित्वेन भावाऽनवलम्बित्वादिति । आह-ननु नया नैगमादयः प्रसिद्धाः, ततस्तैरेवाऽयं विचारो युज्यते, अथ तेऽत्रैव द्रव्यपर्यायास्तिकनयद्येऽन्तर्भवन्ति, तर्युच्यतां कस्य कस्मिन्नन्तर्भावः ?, इत्याशक्याह- 'संगहेत्यादि ' नैगमस्ताव सामान्यग्राही संग्रहेऽन्तर्भवति, विशेषग्राही तु व्यवहारे संग्रहव्यवहारौ तु प्रस्तुतनयद्वयस्य मध्ये प्रथमकस्य द्रव्यास्तिकस्य मतमभ्युपगच्छतः- द्रव्यास्तिकमतेऽन्तर्भवत इति तात्पर्यम् । शेषास्तु ऋजुमूत्रादय इतरस्य द्वितीयस्य पर्यायास्तिकस्य मतमभ्युपगच्छन्तोऽत्रैवान्तर्भवन्तीति हृदयम् । आचार्यसिद्धसेनमतेन चेह ऋजुसूत्रस्य पर्यायास्तिकेऽन्तर्भावो दर्शितः, सिद्धान्ताभिप्रायेण तु संग्रह व्यवहारवद् ऋजुसूत्रस्याऽपि द्रव्यास्तिक एवाऽन्तर्भावो द्रष्टव्यः, तथा चोक्तं सूत्रे
“उजुसुयस्स एगे अणुवउत्ते आगमओ एगं दव्वावस्सयं पुहत्तं नेच्छइ" इति । तदनेनाऽस्य द्रव्यवादित्वं दर्शितम् , इति कथं पर्यायास्तिकेऽन्तर्भावः स्यात १ ॥ इति गाथार्थः ॥ ७५॥ आह-ननु संग्रहादिनया नामनिक्षेपं सर्वमध्येकत्वेनेच्छन्ति; भेदेन वा ?, एवं स्थापनादिनिक्षेपेष्वपि प्रत्येक वक्तव्यम् , इत्याशङ्कयाह
जं सामन्नग्गाही संगिण्हइ तेण संगहो निययं । जेण विसेसग्गाही ववहारो तो विसेसेइ ॥ ७६ ॥
१ पृष्ठ २६ । २ नामावित्रिक द्रव्यास्तिकस्य भावश्च पर्यवनयस्य । संग्रह-व्यवहारी प्रथमकस्य शेषाश्चेतरस्थ ॥ ७५ ॥ ३ ऋजुसूत्रस्यैकोऽनुपयुक्त आगमत एकं व्यावश्यकं पृथक्तवं नेच्छति । अनुयोगद्वारसूत्रस्थोऽयं पाठः, तट्टीका यम्- " उजुसुयस्सेत्यादि-जु अतीता-मागत-परकीयपरिहारेण प्राजलं वस्तु सूत्रवत्यभ्युपगच्छति ऋजुसूत्रः, अयं हि वर्तमानकालभाब्येव वस्तु अभ्युपगच्छति, नाऽतीतम् , विनष्टत्वात् । नाऽप्यनागतम् , अनुत्पनत्वात् । वर्तमानकालभाव्यपि स्वकीयमेव मन्यते, स्वकार्यसाधकत्वात् , स्वधनवत् ; परकीयं तु नेच्छति स्वकार्याऽप्रसाधकत्वात् , परधनवत् । तस्मादेको देवदत्तादिरनुपयुक्तोऽस्य मते आगमत एक द्रव्यावश्यकमिति । 'पुहत्तं नेच्छह ति' अतीता-ऽनागतभेदतः परकीयभेदतश्च पृभक्तवं पार्थक्य ने छत्यसौ, किं तर्हि ? वर्तमानकालीनं स्वकमेव चाऽभ्युपैति, तचैकमेवेति"।
- यत् सामान्यग्राही संगृह्णाति तेन संग्रहो नियतम् । येन विशेषमाही व्यवहारस्तस्माद् विशेषयति ॥ ७६ ॥
५
For som
e
Use Only
Page #53
--------------------------------------------------------------------------
________________
विशे०
वृहद्वत्तिः ।
॥५१॥
सहुज्जुसुया पज्जायवायगा भावसंगहं बेति । उवरिमया विवरीआ भावं भिंदंति तो निययं ॥ ७७ ॥
यद् यस्मात् कारणात् संग्रहनयः सामान्यग्राही सामान्यवादी, तेन कारणेन संगृहात्येकत्वेनाऽध्यवस्यति प्रत्येकं त्रितयं नाम-स्थापना-द्रव्यनिक्षेपलक्षणं यानि कानिचिद् नाममङ्गलानि तत् सर्वमप्येकं नाममङ्गलम् , तथा स्थापनामङ्गलान्यशेषाण्यप्येकं स्थापनामङ्गलम् , एवं द्रव्यमङ्गलान्यपरिशिष्टान्यप्येकं द्रव्यमङ्गलमित्यर्थः । व्यवहारनयस्तु येन कारणेन विशेषग्राही, ततो नामादिनिक्षेपान् विशेषयति भेदेनेच्छति-नाममङ्गलानि सर्वाण्यपि पृथग् नाममङ्गलत्वेनेच्छति, एवं स्थापनादिनिक्षेपेष्वपि वाच्यम् । 'सदुज्जुसुयेत्यादि शब्द-र्जुसूत्रनयौ पुनः पर्यायरेकार्थभिन्नाभिधानैर्वस्तु वक्तुं शीलं ययोस्तौ पर्यायवाचिनौ सन्तौ नाम-स्थापना-द्रव्यनिक्षेपपरिहारेणैकस्यैव भावस्य भावनिक्षेपस्य संगृहीतिः संग्रहोऽभिन्नत्वमेकत्वं भावसंग्रहस्तं ब्रूतः प्रतिपादयतः, इदमुक्तं भवति- ऋजुमूत्र-शब्दनयौ पूर्वनयेभ्यो विशुद्धत्वाद् नाम-स्थापना-द्रव्यनिक्षेपं तावद् नेच्छतः, किन्त्वेकमेव भावनिक्षेपमभ्युपगच्छतः, केवलं समभिरूढ-वंभूतनयाऽपेक्षयाऽविशुद्धत्वाद् विभिन्नानेकपर्यायाभिधेयत्वेऽपि भावनिक्षेपस्य संग्रहमेकत्वमेव प्रतिपद्यते, न भिन्नत्वमिति भावः । ततश्चैतन्मतेन यदेव मङ्गलशब्दवाच्यं भावमङ्गल प्रत्यूहोपशमका-निष्टविघातकृद्-विघ्नापहरणादिशब्दानामपि तदेव वाच्यम्, न भिन्नम्, इति तात्पर्यम् । 'उवरिमया विवरीएत्यादि उपरितनौ तु समभिरूलै-वंभूतौ नयौ ऋजुसूत्र-शब्दनयाऽपेक्षया विपरीतौ भिन्नानेकपर्यायाऽभिधेयस्य भावस्यैकत्वं नेच्छतः, किन्तु भिन्नत्वमभ्युपगच्छतः, तथाहि-समभिरूढमतेनाऽन्यदेव मङ्गलशब्दवाच्यं भावमङ्गलम् , अन्यच्च प्रत्येकं प्रत्यूहोपशमकादिपर्यायवाच्यम् । एवम्भूतस्याऽप्येवमेव, केवलमयं पूर्वस्माद् विशुद्धत्वादेकपर्यायाभिधेयमपि भावमङ्गलं भावमङ्गलकार्य कुर्वदेव मन्यते, नाऽन्यदा, यथा धर्मोपकरणान्वितः सम्यक्चारित्रोपयोगे वर्तमानः साधुरिति । तदेवमुजुमूत्र-शब्दनयाऽभ्युपगमापेक्षया विपरीताभ्युपगमपरत्वाद् विपरीतावेतौ । 'तो त्ति' तस्माद् भावं भावमङ्गलादिकमर्थं नियतं निश्चितं पर्यायभेदा भिन्तः-भेदेनेच्छतइत्यर्थः, यदि हि पर्यायभेदेऽपि वस्तुनो न भेदः, तर्हि घट-पटादीनामपि स न स्यादित्यादियुक्तः पर्यायभेदेन भिन्नमेव भावमङ्गलमभ्युप| गच्छत इति भावः ॥ इति गाथाद्वयार्थः ॥ ७६ ॥७७॥
तदेवमवसितं प्रासङ्गिकम् । प्रकृतमुच्यते, तच्चेदम्-पूर्व नोआगमतो भावमङ्गलं नोशब्दस्य सर्वनिषेधवचनस्वे विशुद्धः क्षायिकादिर्भाव उक्तः, मिश्रवचनत्वे तस्य ज्ञान-दर्शन-चारित्रोपयोगः, एकदेशवचने पुनस्तस्याऽर्हनमस्कारादिज्ञान-क्रियाविमिश्रपरिणामः प्रोक्तः । सांप्रतं नोशब्दस्यैकदेशवाचित्वे नोआगमतो भावमङ्गलं ज्ञानपञ्चकरूपा नन्द्यपि भवतीति दर्शयन्नाह
पाब्द-सूत्रौ पर्यायवाचकौ भावसंग्रहं ब्रूतः । उपरितनौ विपरीतौ भावं भिन्तस्तस्माद् नियतम् ॥ ७ ॥
॥५१॥
For Dod
ony
Page #54
--------------------------------------------------------------------------
________________
विशे०
॥ ५२ ॥
Jain Educationa International
मङ्गलमहवा नन्दी चव्विहा मङ्गलं च सा नेया । दव्वे तूरसमुदओ भावम्मि य पञ्च नाणाई ॥७८॥
सूत्रस्य सूचकत्वाद् नोआगमतो भावमलङ्गस्यैव च प्रस्तुतत्वाद् मङ्गलशब्देनेह नोआगमतो भावमङ्गलमिति द्रष्टव्यम् । अथवाशब्दस्तु पूर्वोक्तपक्षत्रयापेक्षया विकल्पार्थः, ततश्चायमर्थ:- यदि वा नोआगमतो भावमङ्गलमन्यद् द्रष्टव्यम् । किं तत् ?, इत्याह- 'नंदी' नन्दनं नन्दी, नन्दन्ति समृद्धिमवाप्नुवन्ति भव्यप्राणिनोऽनयेति वा नन्दी, इयं च सूत्रे सामान्योक्तावपि व्याख्यानतो विशेषप्रतिपत्तेरिह ज्ञानपञ्चकरूपा गृह्यते । सामान्यरूपेण तु चिन्त्यमानाऽसौ मङ्गलवद् नामादिचतुर्विधा भवति । एतदेवाह - 'चउब्विहेत्यादि ' तत्र 'नन्दी' इति यत् कस्यचिद् नाम क्रियते सा नामनन्दी | अक्षादिषु स्थापिता स्थापनानन्दी | द्रव्यनन्दी तुद्वविधा - आगमतः, नोआगमतश्च । तत्राssगमतो नन्दीपदार्थज्ञोऽनुपयुक्तः, नोआगमतस्तु ज्ञ भव्यशरीरोभयव्यतिरिक्ता द्रव्यनन्दी द्वादशप्रकारस्तूर्यसमुदयः, तद्यथा—
" भा-मुगुन्द-मद्दल कर्डब-झल्लरि-हुडुक-कंसाला । काहल- तलिमा वंसो संखो पणवो य बारसमो " ॥ १ ॥
इह च ' दव्वे तूरसमुदओ ' इत्यनेन ज्ञ भव्यशरीरव्यतिरिक्ता द्रव्यनन्दी सूत्रेऽपि दर्शिता, नामनन्द्यादिस्वरूपं तु पूर्वोक्तनाममङ्गलाद्यनुसारेण सुज्ञेयत्वाद् नोक्तमिति । भावनन्द्यपि द्विधा - आगमतः, नोआगमतश्च । आगमतो नन्दिपदार्थज्ञस्तत्रोपयुक्तः । नोआगमतस्त्वाह-' भावम्मियेत्यादि ' भावे भावनन्यां विचार्यमाणायां पुनः 'नोआगमतो भावनन्दी ' इति शेषः । का पुनरियम् १, इत्याहपञ्च ज्ञानानि आगमस्य ज्ञानपञ्चकैकदेशत्वात् नोशब्दस्य चेहाप्येकदेशवाचित्वादिति भावः । इयमेव चेह नोआगमतो भावमङ्गलत्वेन प्रस्तुतगाथादौ निर्दिष्टा || इति गाथार्थः ॥ ७८ ॥
कानि पुनस्तानि पञ्च ज्ञानानि १, इत्याह
आभिणिबोहियनाणं सुयनाणं चेत्र ओहिनाणं च । तह मणपज्जवनाणं केवलनाणं च पंचमयं ॥ ७९ ॥ आभिनिबोधिकज्ञानम्, श्रुतज्ञानम्, अवधिज्ञानम्, मन:पर्ययज्ञानम्, केवलज्ञानमिति पञ्च ज्ञानानि । एतानि च भाष्यकारो विस्तरतः स्वयमेव व्याख्यास्यति ॥ ७९ ॥
१ मङ्गलमथवा नन्दी चतुर्विधा मङ्गलं च सा ज्ञेया । द्रव्ये तूर्यसमुदयो भावे च पञ्च ज्ञानानि ॥ ७८ ॥ २ भम्भा मुकुन्द मर्दल-कदम्ब-शहरी-हुडुक-कंसालाः । काहल-तलिमौ वंशः सङ्घः पणवध द्वादशः ॥ १ ॥ ३ भाभिनियोधिकशानं श्रुतज्ञानं चैवाऽवधिज्ञानं च तथा सनः पर्यवज्ञानं केवलज्ञानं च पञ्चमकम् ॥ ७९ ॥
For Personal and Private Use Only
बृहद्वतिः ।
।। ५२ ।।
Page #55
--------------------------------------------------------------------------
________________
Boo
विशे०
तत्राऽभिनियोधिकज्ञानशब्दार्थ दर्शयत्राह
अत्थाभिमुहो नियओ बोहो जो सो मओ अभिनिबोहो । सोचेवाऽऽभिणिबोहिअमहव जहाजोगमाउज ८०॥ बृहद्वा
बोधनं बोधः, 'ऋ गतौ' अर्यते गम्यते ज्ञायत इत्यर्थः, तस्याभिमुखस्तद्ग्रहणप्रवणः अर्थवलाऽऽयातत्वेन तन्नान्तरीयकोद्भव इत्यर्थः, अयमभिशब्दस्याऽर्थो दर्शितः, एवंभूतश्च बोधः क्षयोपशमाद्यपाटवेऽनिश्चयात्मकोऽपि स्यात् , अतो नियतो निश्चित इति निशब्देन विशिष्यते-रसाद्यपोहेन 'रूपमेवेदं' इत्यवधारणात्मक इत्यर्थः । उक्तं च " एवमवग्रहोऽपि निश्चितमवगृह्णाति, कार्यत उपलब्धेः" अन्यथाऽवग्रहकार्यभूतोभायोऽपि निश्चयात्मको न स्यादिति भावः । आह- ननु नियतोऽर्थाभिमुख एव भवति, ततो नियतत्वविशेषणमेवाऽस्तु, किमाभिमुख्यविशेषणेन ? । तदयुक्तम् , द्विचन्द्रज्ञानस्य तैमिरिक प्रति नियतत्वे सत्यप्याभिमुख्याभावादिति । एवं च सति अर्थाभिमुखो नियतो यो बोधः स तीर्थकर-गणधरादीनामभिनिबोधो मतोऽभिप्रेतः। 'सो चेवाभिणिबोहियमिति' स एवाभि| निबोध एवाऽऽभिनिबोधिकम् ,विनयादिपाठादभिनिबोधशब्दस्य"विनयादिभ्यष्ठक्"पा०-५।४।३४]इत्यनेन स्वार्थ एव ठक्प्रत्ययः; यथा विनय एव वैनयिकमिति । 'अहव जहाजोगमाउजं ति' अथवा नेह स्वार्थिकप्रत्ययो विधीयते, किन्तु यथायोगं यथासंबन्धमायोजनीयंघटमानसंबन्धानुसारेण स्वयमेव वक्तव्यमित्यर्थः, तद्यथा- अर्थाभिमुखे नियते बोधे भवमाभिनिबोधिकम् , तेन वा निवृत्तं, तन्मयं वा, तत्मयोजनं वाऽऽभिनिबोधिकम् , तच्च तज्ज्ञानं चाऽऽभिनिवाधिकज्ञानम् ।। इति गाथार्थः ॥ ८॥
तदेवमाभिनिबोधिकशब्दवाच्यं ज्ञानमुक्तम् । अथवा ज्ञानम् , क्षयोपशमः, आत्मा वा तद्वाच्य इति दर्शयन्नाह
ततेण तओ तम्मि व सो वाऽभिणिबुज्झए तओ वा तं । तं तेण तओ तम्मि व सुणेइ सो वा सुअंतेणं ॥८॥
'तं ति' आभिमुख्येन निश्चितत्वेनाऽवबुध्यते संवेदयते आत्मा तदित्यभिनिबोधोऽवग्रहादिज्ञानं, स एवाऽऽभिनिबोधिकम् , अथवा आत्मा तेन प्रस्तुतज्ञानेन, तदावरणक्षयोपशमेन वा करणभूतेन घटादि वस्त्वभिनिवुध्यते, तस्माद् वा प्रकृतज्ञानात् , क्षयोपशमाद्वाभिनिबुध्यते तस्मिन् वाऽधिकृतज्ञाने, क्षयोपशमे वा सत्यभिनिबुध्यतेऽवगच्छतीत्यभिनिबोधो ज्ञान, क्षयोपशमो वा । 'सो वाऽभिणिबुज्झए त्ति' अथवाऽभिनिबुध्यते वस्त्वभिगच्छतीत्यभिनिबोधः । असावात्मैव, ज्ञान-ज्ञानिनोः कथञ्चिदव्यतिरेकादिति, स एवाऽऽभिनिबोधिकम् । 'तओ वा तमिति' न केवलं ' अत्याभिमुहो नियओ' इत्यादिव्युत्पत्त्याऽऽभिनिबोधिकमुक्तम्। किन्तु यतः 'तं तेण ॥५३॥
१ अर्थाभिमुखो नियतो बोधो यः स मतोऽभिनिबोधः । स चवाभिनिबोधिकमथवा यथायोगमायोज्यम् ॥ ८॥ २ तत् तेन ततस्तस्मिन् वा स वाऽभिनिबुध्यते ततो वा तत् । तत् तेन ततस्तम्मिन् वा शृणोति स वा श्रुतं तेन ॥ १ ॥ ३ गाथा ८.।
Jan Education Internat
For Personal and Private Use Only
www.jaineltrary.org
Page #56
--------------------------------------------------------------------------
________________
विशे०
॥ ५४॥
aaaaaaaaaa 58raharatacolor
तओ तम्मि' इत्यादि व्युत्पत्त्यन्तरमस्ति, ततोऽपि कारणात् तदाभिनिवोधिकमुच्यत इत्यर्थः । नन्वात्म-क्षयोपशमयोराभिनियोधिकशब्दवाच्यत्वे ज्ञानेन सह कथं समानाधिकरणता स्यात् ? । सत्यम् , किन्तु ज्ञानस्याऽऽत्माश्रयत्वात् , क्षयोपशमस्य च ज्ञानकारणत्वादुपचारतोत्रापि पक्षे आभिनिबोधिकशब्दो ज्ञाने वतते, ततश्चाऽऽभिनिवाधिकं च तज्ज्ञानं चाभिनिवोधिकज्ञानमिति समानाधिकरणसमास इत्यदोषः॥
अथ श्रुतव्युत्पत्तिमाह- 'तं तेणेत्यादि ' श्रूयत आत्मना तदिति श्रुतं शब्दः, अथवा श्रूयतेऽनेन श्रुतज्ञानावरणक्षयोपशमेन, श्रूयते तस्मात् क्षयोपशमात् , श्रूयते तस्मिन् क्षयोपशमे सतीति श्रुतं क्षयोपशमः । 'सुणेइ सो व त्तिति शृणोतीति श्रुतम् , असावात्मेति वा व्युत्पत्तिरित्यर्थः । 'सुर्य तेणेति' येनैवं व्युत्पत्तिस्तेन कारणेन श्रुतमुच्यत इत्यर्थः । इह च शब्दस्य श्रुतज्ञानकारणत्वात् । क्षयोपशमस्य तद्धेतुत्वादात्मनश्च कथञ्चित् तदव्यतिरेकादुपचारतः श्रुतं च तज्ज्ञानं च श्रुतज्ञानम् ।। इति गाथार्थः ।। ८१॥
अथाऽवधेयुत्पादनार्थमाह
तणाव हीयए तम्मि वाऽवहाणं तओऽवही सोय मज्जाया। जं तीए दव्वाइ परोप्परं मुणइ तओऽवहित्ति॥८२॥
ततः कारणादवधिरित्युच्यते । यतः किम् ?, इत्याह- 'तेणाव हीयए त्ति' अवशब्दस्याऽव्ययत्वेनाऽनेकार्थत्वादधोधो विस्तृतं धीयते परिच्छिद्यते रूपि वस्तु तेन ज्ञानेनेत्यवधिः, अथवा अव-मर्यादया एतावत्क्षेत्रं पश्यन् , एतावन्ति द्रव्याणि, एतावन्तं कालं पश्यतीत्यादिपरस्परनियमितक्षेत्रादिलक्षणया धीयते परिच्छिद्यते रूपि वस्तु तेनेत्यवधिः। 'तम्मि व त्ति' अथवा अवशब्दस्यार्थद्वयं तथैवाऽवधीयते जीवेन तस्मिन् सति वस्त्वित्यवधिः, अकारस्य लुप्तस्याऽदर्शनात् 'अवहाणं' ति वा शब्दोऽनुवर्तते; ततश्चाऽथवाऽवधानमवधिः साक्षादर्थपरिच्छेदनमित्यर्थः, अथवाऽवधीयते तस्माज्जीवेन साक्षाद् वस्त्वित्यवधिरित्युपलक्षणव्याख्यानात् खयमेव द्रष्टव्यम् । 'सो यमज्जायत्ति' स चोक्तस्वरूपोऽवधिर्मर्यादयाऽर्थपरिच्छेदने प्रवर्तमानत्वादुपचारतो मर्यादा । एतदेवाह-'जं तीए इत्यादि'पुंलिङ्गोऽप्यवधिशब्दः प्राकृतत्वात् स्त्रीत्वेन निर्दिष्टः, ततश्च यद् यस्मात् कारणात् तेनाऽनन्तरोक्तेनाऽवधिना जीको द्रव्यादि 'मुणति ' जानाति । कथंभूतं । सत् , इत्याह- परस्परं नियामितमिति शेषः । वक्ष्यति च
"अंगुलमावलिआणं भागमसंखेज दोसु संखेज्जा । अंगुलमावलिअन्तो आवलिआ अंगुलपुहत्तं" ॥१॥ , तेनाऽव धीयते तस्मिन् वाऽवधानं ततोऽवधिः स च मर्यादा । यत् तेन द्रव्यादि परस्परं जानाति ततोऽवधिः ॥ ८२ ॥ २ अलावलिकयोभांगमसंख्येयं दूयोः संख्येयौ । अङ्गुलाबलिकान्तरावलिका अगुलपृषवम् ॥1॥
॥ ५४॥
For Pesona Pe User
Page #57
--------------------------------------------------------------------------
________________
5
विशे०
हत्थम्मि मुहुत्तन्तो दिवसंतो गाउयम्मि बोधव्वे " इत्यादि ।। तस्मादनया परस्परोपनिबन्धलक्षणया मर्यादया यतो जीवस्तेनाऽवधिना द्रव्यादिकं 'मुणति' (जानाति ), ततोऽवधिरप्युपचा- बृहत्तिः । राद् मर्यादति भावः । अवधिश्चासौ ज्ञानं चेत्यवधिज्ञानम् , इति प्रक्रमलब्धेन ज्ञानशब्दन समासः ॥ इति गाथार्थः ।। ८२ ॥
अथ मनःपर्यायज्ञानविषयां व्युत्पत्तिमाह
पेजवणं पजयणं पज्जाओ वा मणम्मि मणसो वा । तस्स व पज्जायादिन्नाणं मणपजैवं नाणं ॥ ८३ ॥
'पज्जवणं ति' 'अव गत्यादिषु' इति वचनादवनं गमनं वेदनमित्यवः, परिः सर्वतोभावे, पर्यवनं समन्तात् परिच्छेदन पर्यवः ।। काऽयम् ?, इत्याह-'मणम्मि मणसो व त्ति' मनसि मनोद्रव्यसमुदाये ग्राह्ये, मनसो वा ग्राह्यस्य संबन्धी पर्यवो मनःपर्यवः, स चासौ ज्ञानं च मनःपर्यवज्ञानम् । अथवा 'पज्जयणं ति' 'अय वय मय'- इत्यादिदण्डकधातुः, अयनं गमनं वेदनमित्ययः, परिः सर्वतोभावे, पर्ययनं सर्वतः परिच्छेदनं पर्ययः । क्व पुनरसौ ?, इत्याह-'मणम्मि मणसो व त्ति' मनास ग्राह्ये, मनसो वा ग्राद्यस्य संबन्धी पर्ययो मनःपर्ययः स चासौ ज्ञानं च मनःपर्ययज्ञानम् । 'पज्जाओ व त्ति' अथवा 'इण् गतौ' अयनं, आयः, लाभः, प्राप्तिरिति पर्यायाः, परिस्तथैव, समन्तादायः पर्यायः । क्व ?, इत्याह- 'मणम्मि मणसो व त्ति' मनास ग्राह्ये, मनसो वा ग्राह्यस्य पर्यायो मनःपर्यायः, स चासौ ज्ञानं च मनःपर्यायज्ञानम् । एवं तावज्ज्ञानशब्देन सह सामानाधिकरण्यमङ्गीकृत्योक्तम् ।।
अथ वैयधिकरण्यमङ्गीकृत्याह- 'तस्स वेत्यादि' वाशब्दः पक्षान्तरमूचकः, तस्येति मनसः, पर्यायाः, पर्यवाः, पर्ययाः, धर्मा इत्यनान्तरमिति आदिशब्दात् पर्यव-पर्ययपरिग्रहः, ततश्चायमर्थः- अथवा तस्य मनसो ग्राह्यस्य संबन्धिनो बाह्यवस्तुचिन्तनानुगुणा ये पर्यायाः, पर्यवाः, पर्ययास्तेषां तेषु वा 'इदमित्थंभूतमनेन चिन्तितम्' इत्येवंरूपं ज्ञानं मनःपर्यायज्ञानं, मनःपर्यवज्ञानं, मनःपूर्णा चेति ज्ञानशब्देन सह व्यधिकरणः समासः। अत एव “ पायं च नाणसद्दो नामसमाणाहिगरणोऽयं " इत्यत्र साम ॥ इति गाथार्थः ॥८३॥
अथ केवलज्ञानविषयं शब्दार्थमाह
केवलमेगं सुद्धं सगलमसाहारणं अणतं १ हस्ते मुहूर्तान्तर्दिवसान्तर्गत
तस्य या पर्यायाविज्ञानं मनःपर्यवं ज्ञानम् ॥१३॥ ३ ख ग 'दि ना .
सालमसाधारणमनन्तं च । प्रायश्च नामशब्दो नामसमानाधिकरणीऽयम् ॥४॥
समासससस
ऽथ ॥ ८४ ॥
SHRA
From
Jan Edutain
For Personal and Private Use Only
Page #58
--------------------------------------------------------------------------
________________
PAPAR
पदार
विशे०
परसव
केवलमिति व्याख्या
पहायमिन्द्रियादिसाहाय्यानपेक्षित्वात् , तद्भावे शेषच्छाअस्थिकज्ञाननिवृत्तेर्वा शुद्धं निर्मलं सकलाप
पर्णज्ञयग्राहित्वात, असाधारणमनन्यसदृशं तादृशाऽपरज्ञानाभावात् , अनन्तम् , अप्रतिपातित्वना
व वर्तते, केवलं च तज्ज्ञानं च केवलज्ञानमिति समासः । आह- नन्वाभिनिबोधिकादीनि ज्ञानवापा इत्यादी सर्वत्र व्युत्पादितानि, ज्ञानशब्दस्तु न कचिदुपात्तः, स कथं लभ्यते ?, इत्याशङ्कयाहआभिनिबोधिक-श्रुतादिभिर्ज्ञानाभिधायकैनामभिः समानाधिकरणः स्वयमेव योजनीयः, स च योजित एवं च तज्ज्ञानं च, श्रुतं च तज्ज्ञानं चेत्यादि । कचिद् वैयधिकरण्यसमासोऽपि संभवतीति प्रायोग्रहणम् । स च मनःपर्यायज्ञान दास अन्यत्राऽपि च यथासंभवं द्रष्टव्यः ।। इति गाथार्थः ।। ८४ ॥
तदेवं ज्ञानपञ्चकस्याप्यभिधानार्थे कथिते आह कश्चित्- नन्वादौ मतिश्रुतोपन्यासः किमर्थः ? इति । अत्राऽचार्यः प्राह
जं सामि-काल-कारण-विसय-परोक्खत्तणेहिं तुल्लाइं । तब्भावे सेसाणि य तेणाईए मइ-सुयाई ॥ ८५ ॥
तेन कारणेनादौ मति-श्रुते निर्दिष्टे । येन, किम् ?, इत्याह- 'जं सामीत्यादि' इति संटङ्कः । मतिशब्दोऽत्राऽऽभिनिवोधिकसमानार्थो द्रष्टव्यः, आभिनिबोधिकं ह्यौत्पत्तिक्यादिमतिप्रधानत्वाद् मतिरित्यप्युच्यते । यद् यस्मात् कारणात् स्वामि--काल-कारण-विषयपरोक्षत्वैस्तुल्ये समानखरूपे मति-श्रुते, तेनाऽऽदौ निर्दिष्टे इत्यर्थः । तत्र स्वामी तावदनयोरेक एव " जत्थ मइनाणं तत्थ सुयनाणं" इत्याद्यागमवचनादिति । कालोऽपि द्विधा- नानाजीवापेक्षया, एकजीवापेक्षया च । स चाऽयं द्विविधोऽप्यनयोस्तुल्य एव, नानाजीवावापेक्षया द्वयोरपि सर्वकालमनुच्छेदान्ः एकजीवापेक्षया तूभयोरपि निरन्तरसातिरेकसागरोपमषट्पष्टिस्थितिकत्वेनाऽत्रैवाऽभिधास्यमानत्वादिति । कारणमपीन्द्रिय-मनोलक्षणं वावरणक्षयोपशमस्वरूपं च योरपि समानम् । उभयस्याऽपि सर्वद्रव्यादिविषयत्वाद् विषयतुल्यता । परनिमित्तत्वाञ्च परोक्षत्वसमता। ननु यद्येवमनयोः परस्परं तुल्यता, तकत्र द्वयोरप्युपन्यासोऽस्तु, आदावेव तु तदुपन्यासः कथम् , इत्याह-'तब्भावे इत्यादि तद्भावे मति-श्रुतज्ञानसद्भाव एव शेषाण्यवध्यादीनि ज्ञानान्यवाप्यन्ते; नान्यथा, न हि स कश्चित् | प्राणी भूतपूर्वः, अस्ति, भविष्यति वा, यो मति-श्रुतज्ञाने अनासाद्य प्रथममेवाऽवध्यादीनि शेषज्ञानानि प्राप्तवान् , प्राप्नोति, प्राप्स्यति वेति भावः । ततस्तदवाप्तौ शेषज्ञानाध्याप्तेश्चादौ मति-श्रुतोपन्यासः।। इति गाथार्थः ।। ८५॥
१ यत् स्वामि-काल-कारण-विषय--परोक्षस्वस्तुल्यानि । तद्भावे शेषाणि च तेनाऽऽदौ मति-श्रुते ॥ ५ ॥
HII ५६
CONSTARA
Jan Education Interat
For Personal and Private Use Only
Page #59
--------------------------------------------------------------------------
________________
SadSM
विशे०
बृहद्वत्तिः ।
भवतु तादौ मति-श्रुतोपादानम् , केवलं पूर्व मतिः, पश्चात्तु श्रुतमित्यत्र कि कारणम् , यावता विपर्ययोऽपि कस्माद् न भवति ?, इत्याह
मेइपुव्वं जेण सुयं तेणाईए मई, विसिट्ठो वा । मइभेओ चेव सुर्य तो मइसमणंतरं भणियं ॥ ८६ ॥
मतिः पूर्व प्रथममस्येति मतिपूर्व येन कारणेन श्रुतज्ञानं, तेन श्रुतस्यादौ मतिः, तीर्थकर-गणधरैरुक्तेति शेषः, न ह्यवग्रहादिरूपे मतिज्ञाने पूर्वमप्रवृत्ते कापि श्रुतप्रवृत्तिरस्तीति भावः । 'विसिहो वा मइभेओ चेव सुयं ति' यदि वा इन्द्रियाऽनिन्द्रियनिमित्तद्वारेणोपजायमानं सर्व मतिज्ञानमेव, केवलं परोपदेशादागमवचनत्वाच्च भवन् विशिष्टः कश्चिद् मतिभेद एव श्रुतं; नान्यत् । ततो मूलभूताया मतेरादौ विन्यासः, तद्भेदरूपं तु श्रुतज्ञानं तत्समनन्तरं भणितमित्यदोषः। 'मइपुव्वं जेण सुर्य' इत्यादिकश्चाऽर्थः पुरंतः प्रपञ्चेन भणिष्यते ॥ इति गाथार्थः ॥८६॥
अथ मतिश्रुतानन्तरमवधेः, तत्समनन्तरं च मनःपर्यायज्ञानस्योपन्यासे कारणमाहकाल-विवजय-सामित्त-लाभसाहम्मओऽवही तत्तो । माणसमित्तो छउमत्थ-विसय-भावादिसामण्णा ॥७॥
ततो मति-श्रुताभ्यामनन्तरमवधिनिर्दिष्टः । कुतः ?, इत्याह- काल-विपर्यय-स्वामित्वलाभसाधर्म्यात् । तत्र नानाजीवापेक्षया, एकजीवापेक्षया च मति-श्रुताभ्यां सहाऽवधेः समानस्थितिकालत्वात् कालसाधर्म्यम् । यथा च मिथ्यात्वोदये मति-श्रुतशाने अज्ञानरूपं विपर्ययं प्रतिपद्येते, तथाऽवधिरपि, इति विपर्ययसाधर्म्यम् । य एव च मति-श्रुतयोः स्वामी स एवाऽवधेरपि, इति स्वामिसाधर्म्यम् । लाभोऽपि कदाचित् कस्यचिदमीषां त्रयाणामपि ज्ञानानां युगपदेव भवति, इति लाभसाधर्म्यम् । 'माणसमित्तो इत्यादि ' इतोऽवधेरनन्तरं मनोविषयत्वाद् मनसि भवं मानसं मनःपर्यायज्ञान युक्तम् । कुतः, इत्याह-छद्मस्थ-विषय-भावादिसामान्यात् । आदिशब्दात् प्रत्यक्षत्वादिसामान्यं गृह्यते, समानस्य भावः सामान्य साम्यं तस्मादित्यर्थः । तत्र यथाऽवधिनानं छद्मस्थस्यैव भवति तथा मन:पर्यायज्ञानमपीति च्छमस्थसाम्यम् । उभयोरपि पुद्गलमात्रविषयत्वाद् विषयसाम्यम् । द्वयोरपि क्षायोपशमिकभाववृत्तित्वाद् भावसाम्यम् । द्वितयस्यापि साक्षाद्दर्शित्वात् प्रत्यक्षत्वसाम्यम् । एवमन्यापि प्रत्यासत्तिरभ्यूद्या ॥ इति गाथार्थः॥ ८७ ॥
१ मतिपूर्व येन श्रुतं तेनादौ मणिपशिष्टों वा । मतिभेदश्चैव श्रुतं तस्माद् मतिसमनन्तरं भाणितम् ॥ ८६ ॥ २ काल-
किमवामित्व-लाभसाधर्थतोऽवधिस्ततः । मानसमितः मास्थ-विषय- भावादिसामान्यात् ॥ ८ ॥
Page #60
--------------------------------------------------------------------------
________________
विशे०
॥ ५८॥
Jain Educations Internation
अथ केवलज्ञानस्य सर्वोपरिनिर्देशे कारणमाह
अन्ते केवलमुत्तम- जइसामित्तावसाणलाभाओ । एत्थं च मइ सुयाई परौक्खमियरं च पच्चक्खं ॥ ८८ ॥
अन्ते सर्वज्ञानानामुपरि केवलज्ञानमभिहितम् । कुतः १, इत्याह- भावप्रधानत्वाद् निर्देशस्य - उत्तमत्वात् सर्वोत्तमं हि केवलज्ञानम्, अतीतानागत- वर्तमान निः शेषज्ञेय स्वरूपावभासित्वादिति । यथा च मनःपर्यायज्ञानस्य यतिरेव स्वामी, तथा केवलज्ञानस्यापि ततो यतिस्वामित्वसाम्याद् मनःपर्यायज्ञानानन्तरं केवलज्ञानमभिहितम् । तथा समस्तापरज्ञानानामवसान एवास्य लाभादबसान एव निर्देश इति । तदेवमुपन्यासक्रमे समर्थिते सत्याह कश्चित् - नन्वेतानि पञ्च ज्ञानानि किं परोक्षस्वरूपाणि, आहोखित् प्रत्यक्षण ? इति । अत्राह - 'एत्थं चेत्यादि एतेषु पञ्चसु ज्ञानेषु मध्ये मति श्रुते परोक्षे, इतरत् त्ववध्यादि ज्ञानत्रयं प्रत्यक्षम् ॥ इति गाथार्थः ॥ ८८ ॥
तत्र प्रत्यक्षस्य लक्षणमाह
जीवो अक्खो अत्थव्वावण- भोयणगुणण्णिओ जेण । तं पइ वट्टइ नाणं जं पञ्चक्खं तयं तिविहं ॥ ८९ ॥
अक्षस्तावज्जीव उच्यते । केन हेतुना १, इत्याह- ' अत्थव्वावणेत्यादि ' अर्थव्यापन-भोजनगुणान्वितो येन, तेनाऽक्षो जीवः, इदमुक्तं भवति - 'अशू व्याप्तौ ' अश्नुते ज्ञानात्मना सर्वार्थान् व्याप्नोतीत्युणादिनिपातनादक्षो जीवः, अथवा ' अश भोजने ' अश्नाति | समस्त त्रिभुवनाऽन्तर्वर्तिनो देवलोक समृद्ध्यादीनर्थान् पालयति भुझे वेति निपातनादक्षो जीवः, अश्नातेर्भोजनार्थत्वाद्, भुजेश्व पालनाभ्यवहारार्थत्वादिति भावः । इत्येवमर्थव्यापन- भोजनगुणयुक्तत्वेन जीवस्याऽक्षत्वं सिद्धं भवति । तमक्षं जीवं प्रति साक्षाद्गतमिन्द्रि यनिरपेक्षं वर्तते यज्ज्ञानं तत् प्रत्यक्षम् । तच्चाऽवधि- मनःपर्याय- केवलज्ञानभेदात् त्रिविधं त्रिमकारम्, तस्यैव साक्षादर्थपरिच्छेदकत्वेन जीवं प्रति साक्षाद् वर्तमानत्वात् || इति गाथार्थः ॥ ८९ ॥
अथ परोक्षज्ञानस्वरूपमाह
अक्खस्स पोग्गलकया जं दव्विन्दिय-मणा परा तेणं । तेहिं तो जं नाणं परोक्खमिह तमणुमाणं व ॥९०॥
१ अन्ते केवलमुत्तम-- यतिस्वामित्वाऽवसानलाभात् । अत्र च मति श्रुते परोक्षमितरच प्रत्यक्षम् ॥ ८८ ॥
२ जीवोऽक्षोऽर्थब्यापन- भोजनगुणान्वितो येन । तं प्रति वर्तते ज्ञानं यत् प्रत्यक्षं तकत् त्रिविधम् ॥ ८९ ॥
३ अक्षस्य पुलकृतानि यद् द्रव्येन्द्रिय-मनांसि पराणि तेन । तैस्तस्माद् यज्ज्ञानं परोक्षमिह तदनुमानमिव ॥ ९० ॥
For Personal and Private Use Only
बृहद्वृत्तिः ।
॥ ५८ ॥
Page #61
--------------------------------------------------------------------------
________________
वृहद्वात्तिः।
यद् यस्माद् द्रव्येन्द्रियाणि द्रव्यमनश्च, अक्षस्य जीवस्य पराणि भिन्नानि वर्तन्ते । कथंभूतानि पुनद्रव्येन्द्रिय-द्रव्यमनांसि ?, विशे० इत्याह-पुद्गलकृतानि पुद्गलस्कन्धनिचयनिष्पन्नानि, हेतुद्वारेण चेदं विशेषणं द्रष्टव्यम्-पुद्गलकृतत्वाद्, येन द्रव्येन्द्रिय-मनांसि जीवस्य
परभूतानि, तेन तेभ्यो यद् मति-श्रुतलक्षणं ज्ञानमुत्पद्यते, तत् तस्य साक्षादनुत्पतेः परोक्षम् , अनुमानवदिति । इदमुक्तं भवतिअपौद्गलिकत्वादमूर्तो जीवः, पौद्गलिकत्वात् तु मूर्तानि द्रव्यन्द्रिय-मनांसि, अमूर्ताच्च मूर्त पृथगभूतम् , ततस्तेभ्यः पौगलिकेन्द्रिय-मनोभ्यो यद् मति-श्रुतलक्षणं ज्ञानमुपजायते, तद् धूमादेरग्न्यादिज्ञानवत् परनिमित्तत्वात् परोक्षमिह जिनमते परिभाष्यते ।। इति गाथार्थः ॥१०॥
ये तु वैशेषिकादयोऽक्षमिन्द्रियं प्रति गतं प्रत्यक्षम् , शेषं तु परोक्षमिति मन्यन्ते, तद्दर्शनमपाकर्तुमाह. केसिंचि इंदिआइं अक्खाइं, तदुवलद्धि पच्चक्खं । तन्नो, ताइं जमचेअणाइं जाणंति न घडो व्व॥ ९१ ॥
केषांचिद् वैशेषिकादीनां मतेनाऽक्षाणि स्पर्शनादीनीन्द्रियाण्युच्यन्ते, न जीव इति भावः । 'तदुवलद्धि पञ्चक्खं ति' तेषामिन्द्रियाणां येयं साक्षाभूटाद्यर्थोपलब्धिर्घटादिज्ञानं तत् प्रत्यक्षम् , अन्यत् तु परोक्षमिति । अङ्गीक्रियतां तर्हि तन्मतमित्याह-'तन्नो इत्यादि' तिदेतद् वैशेषिकादिमतं न युक्तम् , यतस्तानीन्द्रियाण्यचेतनानि, ततश्च न जानन्ति न वस्तुस्वरूपमुपलभन्ते, घटवत् , तथाहि-यदचेतनं
तत् सर्वमपि न जानाति, यथा घटादि, अचेतनानि चेन्द्रियाणि, इति कुतस्तेषामुपलब्धिः? या प्रत्यक्षं स्यादिति भावः । तथा इन्द्रियाणां EMS ज्ञानशून्यत्वे मूर्तिमत्त्व-स्पर्शादिमत्वादयोऽपि हेतवो वाच्याः॥ इति गाथार्थः ॥ ९१ ।।
नन्विन्द्रियाणि न जानन्ति, इति प्रत्यक्षविरोधिनी प्रतिज्ञा, तेषां साक्षात्कारेणार्थोपलब्धेरनुभवप्रत्यक्षेण प्रतिपाणि प्रसिद्धत्वात् , इत्याशक्याह
उवलडा तत्थाऽऽया तविगमे तदुवलद्धसरणाओ। गेहगवक्खोवरमे वि तदुवलडाणुसरिया वा ॥ ९२ ॥
'तत्थ त्ति' तत्र चक्षुरादीन्द्रिये करणतया व्याप्रियमाणे उपलब्धा वस्तूनां बोद्धा आत्मैव द्रष्टव्यः, न त्विन्द्रियम् । कुतः, इत्याह- 'तविगमेत्यादि' तस्य चक्षुरादीन्द्रियस्य विगमेऽभावेऽपीत्यर्थः, तदुपलब्धस्य पराभ्युपगमेनेन्द्रियोपलब्धस्याऽर्थस्य स्मरणात् । क इव ?, इत्याह-तेन गृहगवाक्षेण करणभूतेनोपलब्धस्य योषिदाद्यर्थस्य योऽनुस्मर्ता देवदत्तादिः स इव, वाशब्दस्येवार्थत्वात् । क सति ?, इत्याह- गृहगवाक्षस्योपरमेऽप्यभावेऽपि सतीत्यर्थः । अत्र प्रयोगः- इह यो येषूपरतेष्वपि तदुपलब्धानाननुस्मरति स तत्रो
१ केषांचिदिन्द्रियाणि अक्षाणि, तदुपलब्धिः प्रत्यक्षम् । तन्न, तानि यदचेतनानि जानन्ति न घट इव ॥ ११ ॥ १ उपलब्धा तत्राऽऽत्मा तद्विगमे तदुपलब्धस्मरणात् । गेहगवाक्षोपरमेऽपि तदुपलब्धाऽनुस्मर्ता वा (इव)॥ १२ ॥
॥५९॥
Jan Education Inter
For Personal and Private Use Only
www.jaineltrary.org
Page #62
--------------------------------------------------------------------------
________________
विशे०
दत्तिः ।
॥६
| पलब्धा दृष्टः, यथा गृहगवाक्षोपलब्धानामर्थानां तद्विगमेऽप्यनुस्मा देवदत्तादिः, अनुस्मरति चेन्द्रियविगमेऽपि तदुपलब्धमर्थमात्मा,
तस्मात् स एवोपलब्धा, यदि पुनरिन्द्रियाण्युपलम्भकानि स्युः, तदा तद्विगमे कस्याऽनुस्मरणं स्यात् । न ह्यन्येनोपलब्धेऽर्थेऽन्यस्य स्मरणं ॥ युक्तम् , अतिप्रसङ्गात् , अस्ति चाऽनुस्मरणम् । तस्माद् 'न जानन्तीन्द्रियाणि' इति स्थितेयं प्रतिज्ञा, तद्बाधकत्वेनोक्तस्याऽनुभवप्रत्यक्षस्य यथोक्तानुमानवाधितत्वेन भ्रान्तत्वादिति ॥
अत्राह-कस्येदं दर्शनं यत् स्वतन्त्राणीन्द्रियाण्युपलब्धिमन्ति ?, वयं हि ब्रूमः- यदिन्द्रिय-मनोनिमित्तमात्मनो ज्ञानमुत्पद्यते तत् | प्रत्यक्षम् “आत्मा मनसा युज्यते, मन इन्द्रियेण, इन्द्रियं चार्थेन" इति वचनादिति । हन्त ! एवं सति परनिमित्तत्वादनुमानवत् परोक्षत्वमस्य प्रागेव · अक्खस्स पोग्गलकया जं दविदिय-मणा परा तेणं' इत्यादिग्रन्थेनोक्तम् , इति कुतस्तस्य प्रत्यक्षता । अथ ज्ञानशून्येऽपीन्द्रियज्ञाननिमित्तत्वेन साक्षाद् व्याप्रियमाणत्वादुपचारेण 'अक्षमिन्द्रियं प्रति वर्तते' इति प्रत्यक्षता प्रोच्यते । हन्त ! तर्हि
'इन्द्रियोपलब्धिः प्रत्यक्षम्' इत्येतल्लक्षणमिह न घटते, जीवोपलब्धित्वादस्याः । संव्यवहारमात्रेण तु प्रत्यक्षत्वमस्याऽस्माभिरग्यनन्तरRAमभ्युपगंस्यते, इति सिद्धसाध्यतैव ।। इति गाथार्थः ॥ ९२ ॥
तदेवमिन्द्रिय-मनोनिमित्तज्ञानस्य परोक्षता प्रतिपाद्य प्रयोगोपन्यासेन तामेव द्रढयवाह
इंदिय-मणोनिमित्तं परोक्खमिह संसयादिभावाओ। तक्कारणं परोक्खं जहेह साभासमणुमाणं ॥ ९३ ॥ ।
यदिन्द्रिय-मनोनिमित्तं ज्ञानमुपजायते तदात्मनः परोक्षम् । कुतः?, इत्याह-संशयादिभावादिति, आदिशब्दाद् विपर्यया-ऽनध्यवसाय-निश्चयपरिग्रहः । तत्कारणमिति तानीन्द्रिय-मनांसि कारणं यस्य साभासानुमानस्य सम्यगनुमानस्य च तत् तत्कारणं ज्ञानमन्यत्रापि परोक्षं दृष्टम्, यथा साभासमनुमानं सम्यगनुमान चेत्येवं लुप्तचकारस्य दर्शनाद् दृष्टान्तद्वयमिह द्रष्टव्यम् । तत्र संशय-विपर्ययाऽनध्यवसायसंभवलक्षणे हेतौ प्रथमो दृष्टान्तः, निश्चयसंभवस्वरूपे तु हेतौ द्वितीयो दृष्टान्तः, तथाहि प्रयोगः-यदिन्द्रिय-मनोनिमित्तं ज्ञानं । तत् परोक्षम् , संशय-विपर्यया ऽनध्यवसायानां तत्र संभवात् , इन्द्रिय-मनोनिमित्ताऽसिद्धा-नैकान्तिक-विरुद्धानुमानाभासवत्, इति प्रथमः प्रयोगः, यदिन्द्रिय-मनोनिमित्तं ज्ञानं तत् परोक्षम् , तत्र निश्चयसंभवात्, धूमादेरग्न्याधनुमानवत् , इति द्वितीयः, यत् पुनः प्रत्यक्षं तत्र संशय-विपर्ययाऽनध्यवसाय-निश्चया न भवन्त्येव, यथाऽवध्यादिषु, इति विपर्ययः। नन निश्रयसंभवलक्षणो हेतुरवध्यादिष्वपि वर्तत
१ गाथा ९० । २ च. 'मस्मा'। ३ इन्द्रिय-मनोनिमित्तं परोक्षमिह संशयादिभावात् । तत्कारणं परोक्षं बथेद साभासमनुमानम् ॥ १३ ॥
॥ ६
॥
For Personal and eve
ry
Page #63
--------------------------------------------------------------------------
________________
विशे० ॥ ६१॥
बृहद्वत्तिः ।
इत्यनैकान्तिक इति चेत् । नैवम् , अभिप्रायाऽपरिज्ञानात्, संकेत स्मरणादिपूर्वको हि निश्चयोऽत्र विवक्षितः, तादृशश्चाऽयमवध्यादिषु नास्ति, ज्ञानविशेषत्वात् तेषाम् , इत्यदोषः ।। इति गाथार्थः ॥९३ ॥
तदेवमविशेषितमिन्द्रिय-मनोनिमित्तं ज्ञानं पक्षीकृत्य संशयादिसंभवहेतुद्वारेण परोक्षत्वं साधितम् । सांपतं विशेषत एव मति-श्रुते । पक्षीकृत्य हेत्वन्तरेणापि तत् सिसाधयिषुराह
होन्ति परोक्खाई मइ-सुयाई जीवस्स परनिमित्ताओ। पुव्वोवलद्धसंबंधसरणाओ वाणुमाणं व ॥९॥ मति-श्रुते जीवस्य परोक्षे, परनिमित्तत्वात् , पूर्वोपलब्धसंबन्धस्मरणद्वारेण जायमानत्वाद् वा, अनुमानवत् ॥ इति गाथार्थः।।९४॥
आह- नन्विन्द्रिय-मनोनिमित्तं ज्ञानं परोक्षमिति यदुक्तं तदुत्सूत्रमेव, यतः सूत्रे प्रोक्तम्- " पंचक्खं दुविहं पन्नत्तं, तं जहाइन्दियपच्चक्खं च नोइंदियपञ्चक्खं च" इति । सत्यम् , किन्तु येयमिन्द्रियजज्ञानस्य प्रत्यक्षता प्रोक्ता सा संव्यवहारमात्रत एव, परमार्थतस्तु परोक्षमेवेदम् । तथाच भाष्यकारो विषयविभागमुपदर्शयन्निदमेवाह
एगतेण परोक्खं लिंगियमोहाइयं च पच्चक्खं । इंदिय-मणोभवं जं तं संववहारपच्चक्खं ॥ ९५ ॥
'एगंतेण परोक्खं लिंगियमिति' बाह्ये धूमादौ लिङ्गे भवं लैङ्गिकं यज्ज्ञानं तदेकान्तेनाऽऽत्मन इन्द्रिय-मनसा चाऽसाक्षात्कारेणोपजायमानत्वादेकान्तपरोक्षम्- इन्द्रिय मनोभिहीते वाह्ये धूमादौ लिङ्गेऽग्न्यादिविषयं यज्ज्ञानमुत्पद्यते तदेकान्तेन परोक्षम् , इन्द्रियमनसामात्मनश्च तद्ग्राह्यार्थस्यैकान्तेन परोक्षत्वात् , इति भावः । 'ओहाइयं च पञ्चक्खमिति ' 'एकान्तेन' इत्यत्राऽपि वर्तते, ततश्चाऽवधिमनःपर्याय केवललक्षणं ज्ञानत्रयमेकान्तेनाऽऽत्मनः प्रत्यक्षम् , बाह्यलिङ्गमन्तरेणेन्द्रिय-मनोनिरपेक्षत्वेन च जीवस्य वस्तुसाक्षात्कारित्वादिति । 'इंदियमणोभवमित्यादि ' यत्पुनरिन्द्रिय-मनोभवं ज्ञानं तत् संव्यवहारप्रत्यक्षम् , लिङ्गमन्तरेणैव यदिन्द्रिय-मनसा वस्तुसाक्षात्कारित्वेन ज्ञानमुपजायते तत् तेषां प्रत्यक्षत्वाल्लोकव्यवहारमात्रापेक्षया प्रत्यक्षमुच्यते, न परमार्थत इत्यर्थः, इन्द्रिय-मनःसु अचेतनत्वेन ज्ञानवृत्तेरभावादिति प्रागेवोक्तम् । एतामेव च संव्यवहारप्रत्यक्षतामपेक्ष्याऽऽगमेऽपीन्द्रियप्रत्यक्षमित्युक्तम् , परमार्थतस्त्ववध्यादिकमेव प्रत्यक्षम् , आत्मनः प्रत्यक्षत्वात् । इदं तु तस्य परोक्षम् , परनिमित्तत्वात् , अनुमानादिवत् , इत्यनेकधा प्रोक्तमेव ।।
१ भवतः परोक्षे मति-श्रुते जीवस्य परनिमित्तात् । पूर्वोपलब्धसंबन्धस्मरणात् वाऽनुमानमिव ॥ १४ ॥ २ भन्यध्ययने । ३ प्रत्यक्षं द्विविधं प्रज्ञप्तम् , तद्यथा-इन्द्रियप्रत्यक्षं च नोइन्द्रियप्रत्यक्षं। . एकान्तेन परोक्षं लैङ्गिकमक्यादिकं च प्रत्यक्षम् । इन्द्रिय-मनोभवं यत् तत् संध्यवहारप्रत्यक्षम् ॥ १५॥
Jan Education interna
For Personal and Private Use Only
www.jaineltrary.org
Page #64
--------------------------------------------------------------------------
________________
परसराम
पर
विशे०
॥६२॥
कामपनर हरभरा
आह-ननु भाष्यकारेणाऽपि कुत एतल्लब्धं यदुत-इन्द्रियमनोभवं ज्ञानं संव्यवहारत एव प्रत्यक्षम् , न परमार्थतः ?; न ह्यत्र सूत्रे किमप्येवं विशेषतः प्रोक्तमस्ति 'इन्द्रियप्रत्यक्षम्' इति सामान्येनैव निर्देशात् । सत्यम्, किन्तु प्रदेशान्तरे प्रोक्तम्-" पेरोक्खं दुविहं पन्नत्तं, तं जहा- आभिणियोहिअनाणं परोक्खं च, सुयनाणं परोक्खं च " इति । न चाऽऽभिनिबोधिक-श्रुताभ्यामन्यदिन्द्रियनिमित्तं ज्ञानमस्ति यत् परमार्थतः प्रत्यक्षं स्यादिति ॥
___ आह-ययेवम् , तर्हि यल्लिङ्गमन्तरेणैव साक्षादिन्द्रियनिमित्तं ज्ञानमुत्पद्यते तत् परमार्थतः प्रत्यक्षमस्तु, यत्तु धूमादिलिङ्गादग्न्यादिविषयं लैङ्गिकं ज्ञानं तत् परोक्षस्वरूपे आभिनिवोधिक-श्रुते इष्यताम् , इत्यागमस्य प्रदेशद्वयोक्तमपि समर्थितं भवति । तदयुक्तम् , धूमादिलिङ्गादग्न्यादिविषयलैङ्गिकज्ञानस्येन्द्रियनिमित्तत्वाभावात् , इन्द्रियं हि प्रत्युत्पन्नकालमात्रभाव्येव वस्तु गृह्णाति, लिङ्गात् तु वढ्यादिरर्थस्त्रिकालविषयोऽप्यनुमीयते । तस्माल्लैङ्गिक ज्ञानं मनोनिमित्तमेव भवति, नेन्द्रियनिमित्तम् , इन्द्रिय-मनोनिमित्ते च मति-श्रुते अत्रैव वक्ष्येते, इति कथं केवलमनोविषयस्य लैङ्गिकज्ञानस्यैव मति-श्रुतरूपता स्यात् । किश्च, इन्द्रियजज्ञानस्य मति-श्रुताभ्यां पार्थक्ये षष्ठज्ञानप्रसङ्गः स्यात् । तस्मादिन्द्रियजज्ञानस्य मति-श्रुतयोरेवाऽन्तर्भावः, तथा च सति मति-श्रुतयोः परोक्षत्वे तस्याऽपि पारमार्थिकं परोक्षत्वमेव, मनोनिमित्तस्यापि ज्ञानस्य परनिमित्तत्वादनुमानवत् परोक्षत्वं प्रागेवोक्तम् । न च वक्तव्यम्-आगमे तत् तस्य न कचिद् विशेपतोऽभिहितम् , यतो मति-श्रुतयोरागमे परोक्षत्वस्य विशेषतोऽभिधानात्, मनोनिमित्तस्याऽपि च ज्ञानस्य तदन्तःपातित्वादिन्द्रियजज्ञानस्येव परोक्षत्वं सिद्धमेव ।।
आह-ननु " इंदियपच्चक्खं च नोइंदियपञ्चक्खं च " इत्यत्र मनोनिमित्तज्ञानस्य सिद्धान्ते प्रत्यक्षत्वमुक्तम् , यतो नोइन्द्रियं तत्र मन उच्यते, तस्येन्द्रियैकदेशवृत्तित्वात् , नोशब्दस्य चैकदेशवचनत्वात् । ततश्च नोइन्द्रियनिमित्तं प्रत्यक्षं नोइन्द्रियप्रत्यक्षमिति व्युत्पल्या मनोनिमित्तज्ञानस्य प्रत्यक्षतैव स्यात् , कथं परोक्षता ? इति । तदयुक्तम् , आगमार्थाऽपरिज्ञानात् , तत्र हि नोशब्दः सर्वनिषेधवचनः, ततश्चेन्द्रियाभाव एव नोइन्द्रियमुच्यते, तथा च सति नोइन्द्रियेणेन्द्रियाभावेनाऽऽत्मनः प्रत्यक्षं नोइन्द्रियप्रत्यक्षमिति समासः, सर्वथेन्द्रियप्रवृत्तिरहितानि चाऽऽत्मनः प्रत्यक्षाण्यवधि-मनःपर्याय-केवलान्येव भवन्ति, न पुनर्मनोनिमित्तं ज्ञानम् । यदि पुनर्नोइन्द्रियं तत्र मनो व्याख्यायेत, तदा नोइन्द्रियनिमित्तं प्रत्यक्षमिति मनोनिमित्तमेवाञ्चध्यादि ज्ञानं प्रत्यक्षं स्यात्, तथा च सति मनःपर्याप्त्याऽपर्याप्तस्य मनुष्य-देवादेरवधिज्ञानं न स्यात् , मनसोऽभावात् , तच्चाऽयुक्तम् , “चुएमि त्ति जाणइ" इति वचनेन सिद्धान्ते तस्याऽवधिज्ञानाभ्युपगमा
नन्दीसूत्रस्येति गम्यते । २ परोक्षं द्विविधं प्रज्ञप्तम् , तद्यथा-- आभिनियोधिकज्ञानं परोक्षं च श्रुतज्ञानं परोक्षं च । ३ च्यवे इति जानाति ।
कामकलाकार कर
Jan Education interna
For Personal and Private Use Only
www.jaineltrary.ary
Page #65
--------------------------------------------------------------------------
________________
विशे०
॥
P
BreaPPS
त् । किंच, सिद्धानामपि प्रत्यक्षज्ञानाभावः स्यात् , अमनस्कत्वात् तेषाम् । अपरं च, मनोनिमित्तं ज्ञानं मनोद्रव्यद्वारेणैव जायते; ततश्च परनिमित्तत्वादनुमानवत् परोक्षमेव तत् कथं प्रत्यक्षं स्यात् । किञ्च, यद्येतत् परमार्थतः प्रत्यक्षं स्यात् तदा परोक्षत्वेनोक्तयोमति-श्रुतयोर्नान्तर्भवेत् , ततश्च मतेरष्टाविंशतिभेदभिन्नत्वं न स्यात्, मनोज्ञानसंबन्धिनामवग्रहादिभेदानां पार्थक्यप्रसङ्गात् , तत्पार्थक्ये षष्ठज्ञानाप्राप्तिश्च स्यादिति । तस्मादिन्द्रिय-मनोभवं ज्ञानं परनिमित्तत्वात् परोक्षम् , मति-श्रुतान्तर्भावाच्च परमार्थतः परोक्षम्। संव्यवहारतस्तु प्रत्यक्षमिति स्थितम् ।। इति गाथार्थः ॥ ९५ ॥
तदेवं ज्ञानपञ्चके यत् प्रत्यक्षं यच्च परोक्षं तद् दर्शितम् , सांप्रतं " 'जं सामि-काल-कारण-विसय-परोक्खत्तणेहिं तुल्लाई " इति यदुक्तं प्राक् , तदुपजीव्य परः पाह
सौमित्ताइविसेसाभावाओ मइसुएगया नाम । लक्खण-भेआदिकयं नाणत्तं तयबिसेसे वि ॥ ९६ ॥
परः पाह- ननु पूर्व मति-श्रुतयोः स्वामि-कालादिभिस्तुल्यत्वमभिदधानैर्भवद्भिः स्वहस्ताङ्गाराकर्षणमनुष्ठितम् , यत एवं सति स्वामित्वादिभिर्विशेषाभावाद् मति-श्रुतयोरेकतैव प्राप्ता, न भेदः स्यात् । तथा च न ज्ञानपञ्चकसिद्धिः, धर्मभेदे हि वस्तूनां भेदः स्यात् । तदभेदे तु घट-तत्स्वरूपयोरिवाऽभेद एव श्रेयानिति भावः । अत्राऽऽचार्यः प्रत्युत्तरमाह-- 'लक्खणेत्यादि' तेषां खामित्वादीनामविशेषस्तदविशेषस्तत्र सत्यपि मति-श्रुतयो नात्वं भिन्नत्वमस्ति । किंकृतम् ?, इत्याह-- लक्षणभेदादिकृतं, आदिशब्दाद् वक्ष्यमाणकार्यकारणभावादिपरिग्रहः, इदमुक्तं भवति- यद्यपि स्वामि-कालादिभिर्मतिश्रुतयोरेकत्वम् , तथापि लक्षण-कार्यकारणभावादिभिर्नानात्वमस्त्येव, घटाकाशादीनामपि हि सत्त्व-प्रमेयत्वा-ऽर्थक्रियाकारित्वादिभिः साम्येऽपि लक्षणादिभेदाद् भेद एव । यदि पुनर्बहुभिर्धर्भेदे सत्यपि कियद्धर्मसाम्यमात्रादेवार्थानामेकत्वं प्रेर्यते, तदा सर्व विश्वमेकं स्यात् , किं हि नाम तद् वस्त्वस्ति यस्य वस्त्वन्तरैः सह कैश्चिद् धमैंने साम्यमस्ति । तस्मात् स्वाम्यादिभिस्तुल्यत्वेऽपि लक्षणादिभिर्मति-श्रुतयोर्भेदः ॥ इति गाथार्थः ॥९६ ॥
तान्येव लक्षणादीनि पुरतो विस्तराभिधेयात् संपिण्डयैकगाथया दर्शयतिलैक्खणभेआ हेऊफलभावओ भेयइन्दियविभागा । वाग-क्खर-मूए-यरभेआ भेओ मइ-सुयाणं ॥ ९७ ॥ लक्षणभेदाद् भिन्नलक्षणत्वाद् मति-श्रुतयोर्भेदः । तथा मतिज्ञानं हेतुः, श्रुतं तु तत्फलं तत्कार्यम् । इति हेतुफलभावात् तयो
१ गाथा ८५ । २ स्वामित्वादिविशेषाभावाद् मति-श्रुतैकता नाम । लक्षण-भेदादिकृतं नानात्वं तदविशेषेऽपि ॥ १६ ॥ लक्षणभेदाद् हेतुफलभावाद् भेदेन्द्रियविभागात् । वल्काक्षरमूकेतरभेदाद् भेदो मति-श्रुतयोः ॥ ९७ ॥
purm.jaineltrary.org
Page #66
--------------------------------------------------------------------------
________________
भेंदः । तथा 'भेअति' विभागशब्दोवापि योज्यते, ततश्च भेदानां विभागो विशेषो भिन्नत्वं भेदविभागः, तस्मादपि मति-श्रुतयोर्भेदः, विशेअवग्रहादिभेदादष्टाविंशत्यादिभेदं हि मतिज्ञानं दश्यते 'अक्खर सन्नी सम्म' इत्यादि वक्ष्यमाणवचनाच्चतुर्दशादिभेदं च थुतज्ञानम् ,
इति भेदविभागात् तयोर्भेद इति भावः । 'इंदियविभाग ति' तत्त्वतः श्रोत्रविषयमेव श्रुतज्ञानम् , शेषेन्द्रियविषयमपि मतिज्ञानम् , इत्येवं ॥६४॥
| वक्ष्यमाणादिन्द्रियविभागाच्च तयोर्भेदः । 'वागेत्यादि' बल्कश्चाऽक्षरं च मूकं च वल्कादिप्रतिपक्षभूतानीतराणि च वल्का-ऽक्षर मूकेतराणि | तैर्योऽसौ भेदस्तस्मादपि मति-श्रुतयोर्भेद इत्यर्थः, तथाहि-“अन्ने मग्गंति मई वग्गसमा सुंबसरिसयं तु सुत्तं" इत्यादिना ग्रन्थेन का| रणत्वाद् वल्कसदृशं मतिज्ञानं, सुंबसदृशं तु श्रुतज्ञानं कार्यत्वादित्यत्रैव वक्ष्यते । तत्र वल्कः पलाशादित्वगरूपः, शुम्ब वितरशब्देनेहोपात्तं तज्जनिता दवरिकोच्यते । ततश्चायमभिप्रायः- यथा बलनादिसंस्कृतो विशिष्टावस्थापन्नः सन् वल्को 'दवरिका' इत्युच्यते, तथा परोपदेशाईद्वचनसंस्कृतं विशिष्टावस्थाप्राप्त सद् मतिज्ञानं श्रुतमभिधीयते, इत्येवं वल्केतरभेदाद् मति-श्रुतयोर्भेदः । तथा
'अन्ने अणक्खर-क्खरविसेसओ मइ-सुयाई भिन्दन्ति । जं मइनाणमणक्खरमक्खरमियरं च सुयनाणं' ॥१॥ इत्यादिग्रन्थेन वक्ष्यमाणादक्षरेतरभेदात् तयोर्भेदः । तथा
संपरप्पञ्चायणओ भेओ मूर्य-यराण वाऽभिहिओ । जं सुयं मइनाणं सपरप्पञ्चायगं सुत्तं ' ॥१॥. इत्याद्यभिधास्यमानवचनाद् मृकेतरभेदाद् मति-श्रुतयोर्भेदः। इति गाथासंक्षेपार्थः, विस्तरार्थं तु भाष्यकारः स्वत एव वक्ष्यति । इयं च गाथा बहुष्वादशेषु न दृश्यते, केवलं कचिदादर्शेऽपि दृष्टा, अतीव सोपयोगा च, इत्यस्माभिः किश्चिद् व्याख्यातेति॥९७ ___तत्र “यथोद्देशं निर्देशः" इति कृत्वा लक्षणभेदं तावदाह
मभिनिबुज्झइ तमभिनिबोहो जं सुणइ तं सुयं भणियं । सदं सुणइ जइ तओ नाणं तो नाऽऽयभावो तं॥९८॥
यज्ज्ञानं कर्तृ, वस्तु कर्मताऽऽपन्नमभिनिबुध्यतेऽवगच्छति तज्ज्ञानमभिनिबोधस्तदाभिनिबोधिकं तद् मतिज्ञानमिति यावत् , EAT 'जं सुणईत्यादि' यत् पुनर्जीवः शृणोति तच्छ्रुतम् , इत्येवं सूत्रोक्तलक्षणभेदाद् मति-श्रुतयोर्भदः। तथा च सूत्रम्- "जइ वि सामिताईहिं अविसेसो, तह वि पुणोऽत्थाऽऽयरिआ नाणत्तं पण्णवयंति, तं जहा- अभिनिबुज्झइ ति आभिणिबोहियं, सुणेइ ति सुयं"
१ अक्षरं संज्ञि सम्यक् । २ गाथा १५४ । ३ गाथा १६२। " गाथा १७१। ५ यदभिनिचुध्यते तदभिनिबोधः, यह ऋणोति तत् श्रुतं भणितम् । शब्द शृणोति यदि सको ज्ञानं ततो नात्मभावस्तत् ॥ १८ ॥ ६ यद्यपि स्वामित्वादिभिरविशेषः, तथापि पुनरत्राऽऽचार्या नानात्वं प्रज्ञपयन्ति, तद्यथा- अभिनिबुध्यते इत्याभिनियोधिकम् , शृणोतीति श्रुतम् ।
कमसकककककककककककामकर
६४॥
JainEducaticaria Intemation
For Personal
AON
Private Use Only
sa
Page #67
--------------------------------------------------------------------------
________________
विशे०
॥ ६५ ॥
Jain Education Internat
इत्यादि । अत्राह प्रेरकः- यदि नाम यदाऽमा शृणोति तच्छ्रुतमिति श्रुतज्ञानस्य लक्षणमुच्यते हन्त ! तर्हि शब्दमेव शृणोति जीव इति सकलजगत्प्रतीतमेव । ततः किं श्रूयते ?, इत्याह- 'जइ तओ इत्यादि' यदि च सकः स शब्दो ज्ञानं श्रुतरूपम्, 'तो त्ति' ततो नात्मनो जीवस्य भावः परिणामस्तच्छ्रतं प्राप्नोति, शब्दस्य श्रुतत्वेनेष्टत्वात् तस्य च पौगलिकत्वेन मूर्तत्वात्, आत्मनस्त्वमूर्तत्वात् मूर्तस्य चामूर्तपरिणामत्वायोगात्, आत्मनः परिणामथ श्रुतज्ञानमिष्यते तीर्थकरादिभिः इति कथं न विरोधः ? इति भावः ॥ इति गाथार्थः ॥ ९८ ॥
अत्राचार्यः प्रत्युत्तरयति
सुयकारणं जओ सो सुर्य च तक्कारणं ति तो तम्मि । कीरइ सुओत्रयारो सुर्य तु परमत्थओ जीवो ॥ ९९ ॥ यतो यस्मात् कारणात् स शब्दो वक्त्राऽभिधीयमानः श्रोतृगतस्य श्रुतज्ञानस्य कारणं निमित्तं भवति, श्रुतं च वक्तगतश्रुतोपयोगरूपं व्याख्यानकरणादौ तस्य वक्त्राऽभिधीयमानस्य शब्दस्य कारणं जायते, इत्यतस्तस्मिन् श्रुतज्ञानस्य कारणभूते कार्यभूते वा शब्दे श्रुतोपचारः क्रियते । ततो न परमार्थतः शब्दः श्रुतम्, किन्तूपचारत इत्यदोषः । परमार्थतस्तर्हि किं श्रुतम् ?, इत्याह-'सुयं त्वित्यादि' परमार्थतस्तु जीवः श्रुतम्, ज्ञान -ज्ञानिनोरनन्यभूतत्वात् । तथा च पूर्वमभिहितम् शृणोतीति श्रुतमात्मैवेति । तस्मात् श्रूयत इति श्रुतमिति कर्मसाधनपक्षे द्रव्यश्रुतमेवाभिधीयते शृणोतीति श्रुतमिति कर्तुसाधनपक्षे तु भावश्रुतमात्मैवः इति न काचिदनात्मभावता श्रुतज्ञानस्य ॥ इति गाक्षार्थः ॥ ९९ ॥
अथ प्रकारान्तरेणापि मति श्रुतयोर्लक्षणभेदमाह
'इंदिय-मणोनिमित्तं जं विण्णाणं सुयानुसारेणं । निययत्युत्तिसमत्थं तं भावसुर्य मई सेसं ॥ १०० ॥ इन्द्रियाणि च स्पर्शनादीनि मनश्च इन्द्रिय-मनांसि तानि निमित्तं यस्य तदिन्द्रियमनोनिमित्तम्, इन्द्रिय-मनोद्वारेण यद् विज्ञानमुपजायत इत्यर्थः । तत् किम् ?, इत्याह- तद् भावश्रुतं श्रुतज्ञानमित्यर्थः । इन्द्रिय-मनोनिमित्तं च मतिज्ञानमपि भवति, अतस्तद्व्यवच्छेदार्थमाह'श्रुतानुसारेणेति' श्रूयत इति श्रुतं द्रव्यश्रुतरूपं शब्द इत्यर्थः, स च संकेतविषयपरोपदेशरूपः, श्रुतग्रन्थात्मकश्वेह गृह्यते, तदनुसारेणैव यदुत्पद्यते तत् श्रुतज्ञानम्, नान्यत् । इदमुक्तं भवति- संकेतकालप्रवृत्तं श्रुतग्रन्थसंबन्धिनं वा घटादिशब्दमनुसृत्य वाच्यवाचकभावेन
१ श्रुतकारणं यतः स श्रुतं च तत्कारणमिति ततस्तस्मिन् क्रियते श्रुतोपचारः श्रुतं तु परमार्थतो जीवः ॥ ९९ ॥ २ इन्द्रिय-मनोनिमित्तं यद् विज्ञानं श्रुतानुसारेण । निजकार्थेक्तिसमर्थं तद् भावश्रुतं मतिः शेषम् ॥ १०० ॥
For Personal and Private Use Only
बृहद्वृत्तिः ।
॥ ६५ ॥
www.janelbrary.org
Page #68
--------------------------------------------------------------------------
________________
HOL
विशे०
संयोज्य घटो घटः' इत्याद्यन्त ल्पाकारमन्तःशब्दोल्लेखान्वितमिन्द्रियादिनिमित्तं यज्ज्ञानमुदेति तच्छूतज्ञानमिति । तच कथंभूतम् ?, इत्याह- 'निजकाऽर्थोक्तिसमर्थमिति' निजकः स्वस्मिन् प्रतिभासमानो योऽसौ घटादिरर्थस्तस्योक्तिः परस्मै प्रतिपादनं तत्र समर्थ शमं बृहद्वृत्तिः । निजकाऽर्थोक्तिसमर्थम् , अयमिह भावार्थः- शब्दोल्लेखसहितं विज्ञानमुत्पन्नं स्वप्रतिभासमानार्थप्रतिपादकं शब्दं जनयति, तेन च परः प्रत्याय्यते, इत्येचं निजकार्योक्तिसमर्थमिदं भवति, अभिलाप्यवस्तुविषयमिति यावत् । स्वरूपविशेषणं चैतत् , शब्दानुसारेणोत्पन्नज्ञानस्य निजकार्थोक्तिसामर्थ्याऽव्यभिचारादिति । 'मई सेसं ति' शेषमिन्द्रिय-मनोनिमित्तमश्रुतानुसारेण यदवग्रहादिज्ञानं, तद् मतिज्ञानमित्यर्थः ।।
अत्राह कश्चित्-ननु यदि शब्दोल्लेखसहितं श्रुतज्ञानमिष्यते, शेपं तु मतिज्ञानम् , तदा वक्ष्यमाणस्वरूपाऽवग्रह एव मतिज्ञानं स्यात्, न पुनरीहा-ऽपायादयः, तेषां शब्दोल्लेखसहितत्वातः मतिज्ञानभेदत्वेन चैते प्रसिद्धाः, तत् कथं श्रुतज्ञानलक्षणस्य नातिव्याप्तिदोषः?, कथं च न मतिज्ञानस्याव्याप्तिप्रसङ्गः । अपरं च, अङ्गा-ऽनङ्गप्रविष्टादिषु "अक्खर सन्नी सम्म साईअं खलु सपज्जवसियं च" इत्यादिषु । च श्रुतभेदेषु मतिज्ञानभेदस्वरूपाणामवग्रहे हादीनां सद्भावात् सर्वस्यापि तस्य मतिज्ञानत्वप्रसङ्गात् , मतिज्ञानभेदानां चेहा-ऽपायादीनां साभिलापत्वेन श्रुतज्ञानत्वप्राप्तरुभयलक्षणसंकीर्णतादोषश्च स्यात् । अत्रोच्यते यत् तावदुक्तम्- अवग्रह एव मतिज्ञानं स्यात्, न त्वीहादयः, तेषां शब्दोल्लेखसहितत्वात् । तदयुक्तम्, यतो यद्यपीहादयः साभिलापाः, तथापि न तेषां श्रुतरूपता, श्रुतानुसारिण एव साभिलापज्ञानस्य श्रुतत्वात । अथावग्रहादयः श्रूतनिश्रिता एव सिद्धान्ते प्रोक्ताः, युक्तितोऽपि चेहादिषु शब्दाभिलापः सङ्केतकालाद्याकर्णितशब्दानुसरणमन्तरेण न सङ्गच्छते, अतः कथं न तेषां श्रुतानुसारित्वम् । तदयुक्तम् , पूर्वं श्रुतपरिकर्मितमतेरेवैते समुपजायन्त इति श्रुतनिश्रिता उच्यन्ते, न पुनर्व्यवहारकाले श्रुतानुसारित्वमेतेष्वस्ति, वक्ष्यते च- 'पुव्वं सुयपरिकम्मियमइस्स जं संपर्य सुयाइयं, तं सुयनिस्सिय' इत्यादि । यदपि युक्तितोऽपि चेत्यायुक्तम्, तदपि न समीचीनम् , संकेतकालाद्याकर्णितशब्दपरिकर्मितबुद्धीनां व्यवहारकाले तदनुसरणमन्तरेणाऽपि विकल्पपरम्परापूर्वकविविधवचनप्रवृत्तिदर्शनात् , न हि पूर्वप्रवृत्तसंकेताः, अधीतश्रुतग्रन्थाश्च व्यवहारकाले प्रतिविकल्पन्ते- एतच्छब्दवाच्यत्वेनैतत्पूर्व मयाऽवगतमित्येवरूपं संकेतम् , तथाऽमुकास्मन् ग्रन्थे एतदित्थमभिहितमित्येवं श्रुतग्रन्थं चाऽनुसरन्तो दृश्यन्ते, अभ्यासपाटववशात् तदनुसरणमन्तरेणाऽप्यनवरतं विकल्पभाषणप्रवृत्तेः। यत्र तु श्रुतानुसारित्वं तत्र श्रुतरूपताऽमाभिरपि न निषिध्यते । तस्मात् श्रुतानुसारित्वाभावेन श्रुतत्वाभावादीहा-ऽपाय-धारणानां सामस्त्येन मतिज्ञानत्वाद् न मतिज्ञानलक्षणस्याऽव्याप्तिदोषः, श्रुतरूपतायाश्च श्रुतानुसारिष्वेव साभिलापज्ञानविशेषेषु भावाद् न थुतज्ञानलक्षणस्याऽतिव्याप्तिकृता ॥६६॥ दोषः। अपरं चाङ्गा-ऽनङ्गप्रविष्टादिश्रुतभेदेषु मतिपूर्वमेव श्रुतमिति वक्ष्यमाणवचनात् प्रथमं शब्दाद्यवग्रहणकालेऽवग्रहादयः समुपजायन्ते, एते
१ ख. घ. छ 'नुसारिणो शा'। २ अक्षरं सज्ञ सम्यक् सादिकं खलु सपर्यवसितं च। ३ पूर्व श्रुतपरिकमितमतेर्यत् सांप्रतं श्रुतातीतम् , तत् श्रुतनिश्रितम् ।
For Pesond
ere
Page #69
--------------------------------------------------------------------------
________________
चाऽश्रुतानुसारित्वाद् मतिज्ञानम् , यस्तु तेष्वङ्गा-ऽनङ्गप्रविष्टश्रुतभेदेषु श्रुतानुसारी ज्ञानविशेषः स श्रुतज्ञानम् । ततश्चाङ्गा-ऽनङ्गप्रविष्टादिश्रुतभेदानां सामस्त्येन मतिज्ञानत्वाभावात् , ईहादिषु च मतिभेदेषु श्रुतानुसारित्वाभावेन श्रुतज्ञानत्वासंभवाद् नोभयलक्षणसंकीर्णतादोषोऽप्युपपद्यत इति सर्व सुस्थम् । न चेह मति-श्रुतयोः परमाणु करिणोरिवाऽऽत्यन्तिको भेदः समन्वेषणीयः, यतः प्रागिहैवोक्तम्-विशिष्टः कश्चिद् मतिविशेष एव श्रुतम् , पुरस्तादपि च वक्ष्यते- वल्कसदृशं मतिज्ञानं तज्जनितदवरिकारूपं श्रुतज्ञानम् , न च वल्क-शुम्बयोः परमाणुकुञ्जरवदात्यन्तिको भेदः, किन्तु कारणकार्यभावकृत एव, स चेहापि विद्यते, मतेः कारणत्वेन, श्रुतस्य तु कार्यत्वेनाभिधास्यमानत्वात् । न च कारण-कार्ययोरैकान्तिको भेदः, कनककुण्डलादिषु, मृत्पिण्डकुण्डादिषु च तथाऽदर्शनात् । तस्मादवग्रहापेक्षयाऽनभिलापत्वात् , ईहाद्यपेक्षया तु सामिलापत्वात् साभिलापा-ऽनभिलापं मतिज्ञानम् , अश्रुतानुसारि च; संकेतकालप्रवृत्तस्य श्रुतग्रन्थसंबन्धिनो वा शब्दस्य व्यवहारकालेऽननुसरणात् । श्रुतज्ञानं तु साभिलापमेव, श्रुतानुसार्येव च, संकेतकालप्रवृत्तस्य श्रुतग्रन्थसंबन्धिना वा शब्दरूपस्य श्रुतस्य व्यवहारकालेऽवश्यमनुसरणादिति स्थितम् ॥ इति गाथार्थः ॥१०॥
अथ श्रुतज्ञानलक्षणस्याऽव्याप्तिदोषमुद्भावयन्नाह परः
जइ सुयलक्खणमेयं तो न तमेगिंदियाण संभवइ । दव्वसुयशावम्मि वि भावसुयं सुत्तजइणो व्व ॥१०॥
यदि श्रुतज्ञानस्येदमनन्तरगाथोक्तं लक्षणामिष्यते- श्रुतानुसारि ज्ञानं यदि श्रुतमभ्युपगम्यत इत्यर्थः, तदा तदेकेन्द्रियाणां न सम्भवति न घटते , शब्दानुसारित्वस्य तेष्वसम्भवात् । तदसम्भवश्च मनःप्रभृतिसामाग्यभावात् , इष्यते चाऽऽगमे “एगिन्दिया नियमं दुयनाणी, तं जहा-मइअन्नाणी य सुयअन्नाणी य" इति वचनादेकेन्द्रियाणामपि श्रुतमात्रम् , इत्यव्यापकमेवैतद् लक्षणम् । अत्रोत्तरमाह-'दव्वसुयेत्यादि' द्रव्यश्रुतं शब्दस्तस्याऽभावेऽप्येकेन्द्रियाणां भावश्रुतमभ्युपगन्तव्यम्, सुप्तयतेरिव; इदमुक्तं भवति-यद्यप्येकेन्द्रियाणां कारणवैकल्याद् द्रव्यश्रुतं नास्ति, तथापि स्वापाद्यवस्थायां साध्वादेरिवाऽशब्दकारणं, अशब्दकार्य च श्रुतावरणक्षयो
पशममात्ररूपं भावश्रुतं केवलिदृष्टममीषा मन्तव्यम् : न हि स्वापाद्यवस्थायां साध्वादिः शब्दं न शृणोति, न विकल्पयतीत्येतावन्मात्रेण तस्य Po1 श्रुतज्ञानाभावो व्यवस्थाप्यते, किन्तु स्वापाद्यवस्थोत्तरकालं व्यक्तीभवद् भावश्रुतं दृष्ट्वा पयसि सर्पिरिव प्रागपि तस्य तदासीदिति व्यवहियते, एवमेकेन्द्रियाणामपि सामग्रीवैकल्याद् यद्यपि द्रव्यश्रुताभावः, तथाऽप्यावरणक्षयोपशमरूपं भावश्रुतमवसेयम् , परमयोगिभिदृष्ट
FF|६७॥ १ यदि श्रुतलक्षणमेतत् ततो न तदेकेन्द्रियाणां संभवति । द्रव्यश्रुताभावेऽपि भावश्रुतं सुप्तयतेरिव ॥ 1.1॥ २ एकेन्द्रिया नियमतो अज्ञानाः, तद्यथा-मत्वज्ञानाच श्रुताज्ञानाश्च ।
HOO
For Personal and Prevate Une Grey
Page #70
--------------------------------------------------------------------------
________________
विशे
बृहद्वात्तः।
त्वाद्, वल्ल्यादिध्याहार-भय-परिग्रह-मैथुनसंज्ञादेस्तल्लिङ्गस्य दर्शनाचेति ॥
आह-ननु सुप्तयतिलक्षणदृष्टान्तेऽपि तावद् भावश्रुतं नावगच्छामः, तथाहि- श्रुतोपयोगपरिणत आत्मा शृणोतीति श्रुतम्, श्रूयते तदिति वा श्रुतमित्यनयोर्मध्ये कया व्युत्पत्त्या सुप्तसाधोः श्रुतमभ्युपगम्यते ? । तत्राद्यः पक्षो न युक्तः, सुप्तस्य श्रुतोपयोगाऽसंभवात् । द्वितीयोऽपि न संगतः, तत्र शब्दस्य वाच्यत्वात् , तस्यापि च स्वपतोऽप्तंभवादिति । सत्यम्, किन्तु शृणोत्यनेन, अस्माद्, अस्मिन् वेति व्युत्पत्तिरिहाश्रीयते, एवं च श्रुतज्ञानावरणक्षयोपशमो वाच्यः संपद्यते, स च सुप्तयतेः, एकेन्द्रियाणां चाऽस्तीति न किश्चित् परिहीयते ॥ इति गाथार्थः॥१०१॥ अथ दृष्टान्त-दान्तिकयोवैषम्याऽऽपादनेनैकेन्द्रियाणां श्रुतसद्भावं विघटयन्नाह--
भावसुयं भासा-सोयलद्धिणो जुज्जए न इयरस्स । भासाभिमुहस्स जयं सोऊण य ज हवेज्जाहि ॥१०२॥
भावश्रुतं युज्यत इति संवन्धः । कस्य युज्यते ?, इत्याह- भाषा-श्रोत्रलब्धिमतः भाषालब्धिमतः, श्रवणेन्द्रियलब्धिमतश्चेत्यर्थः । कथंभूतं यद्भावश्रुतम् ?, इत्याह- भाषाभिमुखस्य शब्दमभिधित्सोः 'प्रथममेव मध्ये एतत् प्रतिपादयामि' इत्युपयोगरूपं यद् भवेत् , श्रुत्वा वा परोदीरितां भाषां यद् भवेत् 'एतदनेन प्रतिपादितम्' इति; इह च यथासंख्यमवगन्तव्यम्- भाषालब्धिमतः प्रथमं भवेत् , श्रवणेन्द्रियलब्धिमतस्तु द्वितीयं भवेदिति । 'न इयरस्स त्ति' इतरस्य तु भाषा-श्रोत्रलब्धिरहितस्य भावश्रुतं न युज्यते, अयमभिप्रायः- यस्य सुप्तसाधोभाषा-श्रोत्रलब्धिरस्ति, तस्योत्थितस्य परप्रतिपादन-परोदीरितशब्दश्रवणादिलक्षणं भावश्रुतकार्य दृश्यते, तद्दर्शनाच्च सुप्तावस्थायामपि तस्य लब्धिरूपतया तदाऽऽसीदित्यनुमीयते, यस्य त्वेकेन्द्रियस्य भाषा-श्रोत्रलब्धिरहितत्वेन कदाचिदपि भावश्रुतकार्य नोपलभ्यते, तस्य कथं तदस्तीति प्रतीयेत? ॥ इति गाथार्थः ॥ १०२ ।।
अत्रोत्तरमाह
जेह सुहुमं भाविंदियनाणं दबिदियावरोहे वि । तह दब्बसुयाभावे भावसुयं पत्थिवाईणं ॥ १०३ ॥
इह केवलिनो विहाय शेषसंसारिजीवानां सर्वेषामप्यतिस्तोक-बहु-बहुतर-बहुतमादितारतम्यभावन द्रव्येन्द्रियेष्वसत्स्वपि लब्धीन्द्रियपश्चकावरणक्षयोपशमः समस्त्येवेति परममुनिवचनम् । ततश्च यथा येन प्रकारेण पृथिव्यादीनामेकेन्द्रियाणां श्रोत्र-चक्षुर्घाण
, भावभुतं भाषा-श्रोत्रलब्धिमतो युज्यते नेतरस्य । भाषाभिमुखस्य यत् श्रुत्वा च यद् भवेताम् ॥ १०२ ॥ २ यथा सूक्ष्मं भावन्दियज्ञानं मग्पोन्द्रयावरोधेऽपि । तथा दव्यश्रुताभावे आवश्रुतं पृथ्षादीनाम् ॥ १०३ ॥
|६८॥
Jan Education Internat
For Personal and Private Use Only
www.jaineltrary.org
Page #71
--------------------------------------------------------------------------
________________
सपासका
रसनलक्षणानां प्रत्येक निर्दृत्यु-पकरणरूपाणां द्रव्येन्द्रियाणां तत्प्रतिबन्धककर्मादृतत्वादवरोधेऽप्यभावेऽपि सूक्ष्ममव्यक्तं लब्ध्युपयोगरूपं विशे०
श्रोत्रादिभावेन्द्रियज्ञानं भवति, लब्धीन्द्रियावरणक्षयोपशमसंभूताऽणीयसी ज्ञानशक्तिर्भवतीत्यर्थः। तथा तेनैव प्रकारेण द्रव्यश्रुतस्त्र द्रव्येन्द्रियस्थानीयस्याऽभावेऽपि भावश्रुतं भावेन्द्रियज्ञानकल्पं पृथिव्यादीनां भवतीति प्रतिपत्तव्यमेव । इदमुक्तं भवति-एकेन्द्रियाणां । तावच्छ्रोत्रादिद्रव्येन्द्रियाभावेऽपि भावेन्द्रियज्ञानं किश्चिद् दृश्यत एवं, वनस्पत्यादिषु स्पष्टतल्लिङ्गोपलम्भात् , तथाहि-कलकण्ठोद्गी
णमधुरपश्चमाद्गारश्रवणात् सद्यः कुसुम-पल्लवादिप्रसवो विरहकवृक्षादिषु श्रवणेन्द्रियज्ञानस्य व्यक्तं लिङ्गमवलोक्यते । तिलकादितरुषु पुनः FA कमनीयकामिनीकमलदलदीर्घशरदिन्दुधवललोचनकटाक्षविक्षेपात् कुसुमाद्याविर्भावश्चक्षुरिन्द्रियज्ञानस्य , चम्पकाद्यहिपेषु तु विविधसुग
न्धिगन्धवस्तुनिकुरम्बोन्मिश्रविमलशीतलसलिलसेकात् तत्मकटनं घ्राणेन्द्रियज्ञानस्य, बकुलादिभूरुहेषु तु रम्भातिशायिप्रवररूपवरतरुणभामिनीमुखप्रदत्तस्वच्छसुस्वादुसुरभिवारुणीगण्डूषास्वादनात् तदाविष्करणं रसनेन्द्रियज्ञानस्य, कुरवकादिविटपिष्वशोकादिद्रुमेषु च घनपीनोन्नतकठिनकुचकुम्भविभ्रमापभ्राजितकुम्भीनकुम्भरणन्मणिवलयक्वणकङ्कणाभरणभूषितभव्यभामिनीभुजलताऽवगृहनसुखाद् निष्पिष्टपमरागचूर्णशोणतलतत्पादकमलपाणिप्रहाराच्च झगिति प्रसून--पल्लवादिप्रभवः स्पर्शनेन्द्रियज्ञानस्य स्पष्टं लिङ्गमभिवीक्ष्यते । ततश्च यथतेषु द्रव्येन्द्रियासत्त्वेऽप्येतद् भावेन्द्रियजन्यं ज्ञानं सकलजनप्रसिद्धमस्ति, तथा द्रव्यश्रुताभावे भावश्रुतमपि भविष्यति । दृश्यते हि जलाद्याहारोपजीवनाद् वनस्पत्यादीनामाहारसंज्ञा, संकोचनवल्ल्यादीनां तु हस्तस्पर्शादिभीत्याऽवयवसंकोचनादिभ्यो भयसंज्ञा, विरहक-तिलकचम्पक-केशरा-ऽशोकादीनां तु मैथुनसंज्ञा दर्शितैव, बिल्वपलाशादीनां तु निधानीकृतद्रविणोपरिपादमोचनादिभ्यः परिग्रहसंज्ञा । न चैताः संज्ञा भावश्रुतमन्तरेणोपपद्यन्ते । तस्माद् भावेन्द्रियपञ्चकावरणक्षयोपशमाद् भावेन्द्रियपश्चकज्ञानवद् भावश्रुतावरणक्षयोपशमसद्भावाद् द्रव्यश्रुताभावेऽपि यच्च यावच्च भावश्रुतमस्त्येवैकेन्द्रियाणाम् , इत्यलं विस्तरेण । तर्हि ''जं विण्णाण सुयाणुसारेणं' इति श्रुतज्ञानलक्षणं व्यभिचारि पामोति, श्रुतानुसारित्वमन्तरेणाप्येकेन्द्रियाणां भावश्रुताभ्युपगमादिति चेत् । नैवम् , अभिप्रायाऽपरिज्ञानात् , शब्दोल्लेखसहितं विशिष्टमेव भावश्रुतमाश्रित्य तल्लक्षणमुक्तम् , यत्त्वेकेन्द्रियाणामौधिकमविशिष्टभावश्रुतमात्रं तदावरणक्षयोपशमस्वरूपम् , तच्छृतानुसारित्वमन्तरेणापि यदि भवति, तथापि न कश्चिद् व्यभिचारः ॥ इति गाथार्थः ।। १०३ ॥
पुनरप्याह पर:___ऐवं सवपसंगो, न तदावरणाणमक्खओवसमा । मइ-सुयनाणावरणक्खओवसमओ मइ-सुयाइं ॥१०॥ क. ग. घ. छ, 'यज्ञानं' । २ गाथा १००।३ एवं सर्वप्रसङ्गः, न तदावरणानामक्षयोपशमात् । मति-क्षुतज्ञानावरणक्षयोपशमतो मति-श्रुते ॥ १०४ ॥
For Personal and Private Use Only
Page #72
--------------------------------------------------------------------------
________________
विशे०
dardPOS
- यदि भाषा-श्रोत्रलब्धिरहितानामपि काष्ठकल्पानां पृथिव्यायेकेन्द्रियाणां स्पष्ट किमप्यनुपलभ्यमानमपि केनापि वागाडम्बरमात्रेण ज्ञानं व्यवस्थाप्यते, तर्हि सर्वेषामपि केवलज्ञानपर्यन्तानां पञ्चानामपि ज्ञानानां प्रसङ्गः सद्भावस्तेषां प्राप्नोतीत्यर्थः-- पश्चापि ज्ञानान्येकेन्द्रियाणां सन्ति, इत्येतदपि कस्माद् नोच्यते ?, स्पष्टानुपलम्भस्य विशेषाभावादिति भावः । अत्रोत्तरमाह-तदेतन्न । कुतः, इत्याहतदावरणानामवधि-मनःपर्याय-केवलज्ञानावारककर्मणामक्षयोपशमादिति, अक्षयाचेति स्वयमपि द्रष्टव्यम् । इदमुक्तं भवति-केवलज्ञानं तावत् खाऽऽवारककर्मणः क्षय एव जायते, अवधि-मनःपर्यायज्ञाने तु तस्य क्षयोपशमे भवतः, एतच्चैकेन्द्रियाणां नास्ति, तत्कार्यादर्शनात् , आगमेऽनुक्तत्वाचः इति न सर्वज्ञानप्रसङ्गः । मति श्रुते अपि तर्हि मा भूताम् , इति चेत् । इत्यत्राह-मईत्यादि' मति-श्रुतज्ञानावरणक्षयोपशमस्त्वेकेन्द्रियाणामस्त्येव, तत्कार्यदर्शनात् , सिद्धान्तेऽभिहितत्वाच्च । ततश्च तत्क्षयोपशमसद्भावाद् मति-श्रुते भवत एव तेषाम् ॥ इति गाथार्थः ॥ १०४॥
तदेवं सप्रसङ्गः प्रदर्शितो लक्षणभेदाद् मति-श्रुतयोर्भेदः, सांप्रतं हेतुफलभावात् तमुपदर्शयन्नाह
मइपुव्वं सुयमुत्तं न मई सुयपुब्बिया विसेसोऽयं । पुव्वं पूरण-पालणभावाओ जं मई तस्स ॥ १.५॥
“ मैइपुब्बग सुत्तं" इति वचनादागमे मतिः पूर्वं यस्य तद् पतिपूर्व श्रुतमुक्तम् , न पुनर्मतिः श्रुतपूर्विका, इत्यनयोरयं विशेषः । यदि ह्येकत्वं मति-श्रुतयोर्भवेत् , तदैवंभूतो नियमेन पूर्व-पश्चाद्भावो घट-तत्स्वरूपयोरिव न स्यात् , अस्ति चायम् , ततो भेद इति भावः । किमिति पुनमंतिपूर्वमेव श्रुतमुक्तम् ?, इत्याह- यद् यस्मात् कारणात् तस्य श्रुतस्य मतिः पूर्व प्रथममेवोपपद्यते । कुतः १, इत्याह'पूरणेत्यादि' पृधातुः पालन-पूरणयोरर्थयोः पठ्यते, तस्य च पिपतींति पूर्वम् , इति निपात्यते । ततश्च तस्य पूरणात् पालनाच्च मतिर्यस्मात् पूर्वमेव युज्यते , तस्माद् मतिपूर्वमेव श्रुतमुक्तम् , पूर्वशब्दश्चायमिह कारणपर्यायो द्रष्टव्यः, कार्यात् पूर्वमेव कारणस्य भावात् , “सम्यग्ज्ञानपूर्विका (सर्व) पुरुषार्थसिद्धिः" इत्यादौ तथादर्शनाच्च । ततश्च मतिपूर्व श्रुतामति कोऽर्थः ?, श्रुतज्ञानं कार्यम् , मतिस्तु तत्कारणम् , कार्य-कारणयोश्च मृत्पिण्ड-घटयोरिव कथश्चिद् भेदः प्रतीत एवेति भावः ॥ इति गाथार्थः ॥१०५ ॥
पूर्णादिधर्मानेव मतेर्भावयन्नाहपूरिज्जइ पाविजइ दिजइ वा जं मईए नाऽमइणा । पालिज्जइ य मईए गहियं इहरा पणस्सेजा ॥ १०६ ॥
मतिपूर्व श्रुतमुक्त न मतिः श्रुतपूर्विका, विशेषोऽयम् । पूर्व पूरण-पालनभावात् यत् मतिस्तस्य ॥ १०५॥ २ मतिपूर्वकं श्रुतम् ॥ ३ धर्मोत्तराचार्यस्य न्यायविन्दो प्रथमपरिच्छेदे आदिम सूत्रम् । ५ पूर्यते प्राप्यते दीयते वा यद् मत्या नाऽमत्या । पाल्यते च मत्या गृहीतमितरथा प्रणश्येत् ॥१०६॥
Jan Education inten
For Personal and Private Use Only
www.jaineltrary.ary
Page #73
--------------------------------------------------------------------------
________________
विशे०
॥ ७१ ॥
Jain Educationa Internati
अनुप्रेक्षादिकालेऽभ्यु श्रुतपर्यायवर्धनेन मत्यैव श्रुतज्ञानं पूर्यते पोष्यते पुष्टिं नयित इत्यर्थः तथा मत्यैवाऽन्यतस्तत् प्राप्यते गृह्यते, तथा मत्यैव तदन्यस्मै दीयते व्याख्यायते, नामत्या न मतिमन्तरेणेत्यर्थः, प्राकृतत्वात् पुंलिङ्गनिर्देशः । तथा गृहीतं सदेतत् परावर्तन-चिन्तनद्वारेण मत्यैव पाल्यते स्थिरीक्रियते, इतरथा मत्यभावे तद् गृहीतमपि प्रणश्येदेवेत्यर्थः । श्रुतज्ञानस्यैते पूरणादयोऽथ विशिष्टाभ्यूहधारणादीनन्तरेण कर्तुं न शक्यन्ते, अभ्यूहादयश्च मतिज्ञानमेव इति सर्वथा श्रुतस्य मतिरेव कारणम्, श्रुतं तु कार्यम्, कार्य-कारणभावश्च भेदे सत्येवोपपद्यते, अभेदे पट- तत्स्वरूपयोरिव तदनुपपत्तेः । तस्मात् कारण --कार्यरूपत्वाद् मति - श्रुतयोर्भेदः ॥ इति गाथार्थः ॥ १०६ ॥
अथ तस्य मतिपूर्वतां विघटयन्नाह
णाणाणण्णाणाणि य समकालाई जओ मइ-सुयाई । तो न सुयं मइपुव्वं मइणाणे वा सुयन्नाणं ॥ १०७ ॥
इह मति श्रुते वक्ष्यमाणयुक्त्या द्विविधे सम्यग्दृष्टेर्ज्ञानस्वरूपे, मिथ्यादृष्टेस्त्वज्ञानस्वभावे । तत्र ज्ञाने अज्ञाने चैते प्रत्येकं समकालमेव भवतः, तत्क्षयोपशमलाभस्यागमे युगपदेव निर्देशात् । यतश्चैते ज्ञाने अज्ञाने च मति श्रुते पृथक् समकाले भवतः, ततो न श्रुतं मतिपूर्व युज्यते, न हि सममेवोत्पन्नयोः सव्येतरगोविषाणयोरिव पूर्व-पश्चाद्भावः संगच्छते । अथोत्सूत्रोऽप्यसदाग्रहवशात् स न त्यज्यते, इत्याह- ' मइणाणे वा इत्यादि' इदमुक्तं भवति - मतिज्ञाने समुत्पन्ने तत्समकालं च श्रुतज्ञानेऽनभ्युपगम्यमाने श्रुताज्ञानं जीवस्य प्रसज्यते, श्रुतज्ञानानुत्पादेऽद्यापि तदनिवृत्तेः न च ज्ञाना--ज्ञानयोः समकालमवस्थितिरागमे क्वचिदप्यनुमन्यते, विरोधात् ज्ञानस्य सम्यग्दृष्टिसंभवित्वात्, अज्ञानस्य तु मिथ्यादृष्टिभावित्वात् ।। इति गाथार्थः ॥ १०७ ॥
अत्र प्रतिविधानमाह -
हम-सुयाई समकालाई, न तूवओगो सिं । मइपुव्वं सुयमिह पुण सुओवओगो मइप्पभवो ॥१०८॥ ननु ध्यान्ध्यविजृम्भितः पदं परस्य, अभिप्रायापरिज्ञानात्, तथाहि द्विविधे मति श्रुते तदावरणक्षयोपशमरूपलब्धितः, उपयोगतश्च । तत्रेह लब्धितो ये मति श्रुते ते एव समकालं भवतः, यस्त्वनयोरुपयोगः स युगपद् न भवत्येव, किन्तु केवलज्ञान-दर्शनयोरिव तथास्वाभान्यात् क्रमेणैव प्रवर्तते । अत्र तर्हि लब्धिमङ्गीकृत्य मतिपूर्वता श्रुतस्योक्ता भविष्यतीति चेत् । नैवम्, इत्याह- मतिपूर्वं श्रुतम्, इह
१ ज्ञाने अज्ञाने च समकाले यतो मति श्रुते। ततो न श्रुतं मतिपूर्व मतिज्ञाने वा श्रुताऽज्ञानम् ॥ १०७ ॥ २ इह लब्धिमति श्रुते समकाले न तूपयोगोऽनयोः । मतिपूर्वं श्रुतमिह पुनः श्रुतोपयोगो मतिप्रभवः ॥ १०८ ॥
For Personal and Private Use Only
बृहद्वृत्तिः ।
॥ ७१ ॥
Page #74
--------------------------------------------------------------------------
________________
विशे०
॥ ७२ ॥
Jain Education Internat
तु श्रुतोपयोग एव मतिप्रभवोऽङ्गीक्रियते, न लब्धिरिति भावः श्रुतोपयोगो हि विशिष्टमन्तर्जल्पाकारं श्रुतानुसारि ज्ञानमभिधीयते, तच्चाऽवग्रहे-हादीनन्तरेणाऽऽकस्मिकं न भवति, अवग्रहादयश्च मतिरेव, इति तत्पूर्वता श्रुतस्य न विरुध्यते ।। इति गाथार्थः ॥ १०८ ॥
तदेवं मतिपूर्वं श्रुतमिति समर्थितम् परस्तु मतेरपि श्रुतपूर्वताऽऽयादनेनाऽविशेषमुद्भावयन्नाह -
सयपुत्र त्ति तेण न विसेसो । सा दव्वसुयप्पभवा भावसुयाओ मई नत्थि ॥ १०९ ॥
परस्माच्छब्दं श्रुत्वा तद्विषया 'भे' भवतामपि या मतिरुत्पद्यते सा श्रुतपूर्वा श्रुतकारणैव, शब्दस्य श्रुतत्वेन प्रागुक्तत्वात् तस्याश्र मतस्तत्प्रभवत्वेन भवतामपि सिद्धत्वात् । ततश्च न विसेसो त्ति' अन्योन्यपूर्वभावितायां मति श्रुतयोर्न विशेष इत्यर्थः । तथा च सति' ने मई सुपुब्बियति' यदुक्तं प्राक्, तदयुक्तं प्राप्नोतीति भावः । अत्रोत्तरमाह- परस्माच्छन्दमाकर्ण्य या मतिरुत्पद्यते, सा हन्त ! शब्दस्य द्रव्यश्रुतमात्रत्वाद् द्रव्यश्रुतप्रभवा, न भावश्रुतकारणा, एतत् तु न केनापि वार्यते, किन्त्वेतदेव वयं ब्रूमो यदुत- भावश्रुताद् मतिर्नास्ति, भावश्रुतपूर्विका मतिर्न भवतीत्यर्थः, द्रव्यश्रुतप्रभवा तु भवतुः को दोषः १ ॥ इति गाथार्थः ।। १०९ ।।
ननु भावश्रुतादूर्ध्वं मतिः किं सर्वथा न भवति ?, इत्याह
कैज्जतया, न उ कमसो कमेण को वा मई निवारेइ ? । जं तत्थावत्थाणं सुयस्स कुत्तावओगाओ ॥ ११० ॥
भावाद् मतिः कार्यतयैव नास्तीत्यनन्तरोक्तगाथावयवेन संबन्धः । 'न उ कमसो ति' क्रमशस्तु मतिर्नास्तीत्येवं न किं तर्हि ?, क्रमशः साऽस्ति इत्येतत् सर्वोऽपि मन्यते, अन्यथा आमरणावधि श्रुतमात्रोपयोगप्रसङ्गात् । यदि क्रमशः साऽस्ति, तर्हि क्रमेण भवन्त्यास्तस्या भवन्तः किं कुर्वन्ति ?, इत्याह-' कमेणेत्यादि' वाशब्दः पातनार्थे, सा च कृतैव क्रमेण भवन्तीं मतिं को निवारयति मत्या श्रुतोपयोगो जन्यते, तदुपरमे तु निजकारणकलापात् सदैव प्रवृत्ता पुनरपि मतिरवतिष्ठते, पुनस्तथैव श्रुतं तथैव च मतिः इत्येवं क्रमेण भवन्त्या मतेर्निषेधका वयं न भवाम इत्यर्थः । किमिति ?, इत्याह-यद् यस्मात् कारणात् तत्र तस्यां मतौ अवस्थानं स्थितिर्भवति, श्रुतोपयोगाच्च्युतस्य ततः क्रमेण मतिं न निषेधयामः । इदमुक्तं भवति यथा सामान्य भूतेन सुवर्णेन स्वविशेषरूपाः कङ्कणा-ऽङ्गुलीयकादयो जन्यन्ते, अतस्ते तत्कार्यव्यपदेशं लभन्त एव, सुवर्ण त्वतज्जन्यत्वात् तत्कार्यतया न व्यवहियते, तस्य कारणान्तरेभ्यः सिद्धत्वात्, कङ्कणादिविशेषोपरमे तु सुवर्णावस्थानं क्रमेण न निवार्यते; एवं मत्याऽपि सामान्यभूतया स्वविशेषरूपश्रुतोपयोगो जन्यते, अतस्तत्कार्य स उच्यते,
१ श्रुत्वा या मतिर्भवतां सा श्रुतपूर्वेति तेन न विशेषः । सा द्रव्यश्रुतप्रभवा भावश्रुताद् मतिर्नास्ति ॥ १०९ ॥ २ गाथा १०५ ३ कार्यतया, मैं तु क्रमशः क्रमेण को वा मतिं निवारयति । यत् तत्रावस्थानं श्रुतस्य श्रुतोपयोगतः ॥ ११० ॥
For Personal and Private Use Only
बृहद्वृत्तिः ।
॥ ७२ ॥
Page #75
--------------------------------------------------------------------------
________________
विशे
बृहद्वृत्तिः ।
|७३॥
मतिस्त्वतज्जन्यत्वात् तत्कार्यतया न व्यपदिश्यते, तस्या हेत्वन्तरात् सदा सिद्धत्वात् , स्वविशेषभूतश्रुतोपयोगोपरमे तु क्रमायातं मत्यवस्थानं न निवार्यते, आमरणान्तं केवलश्रुतोपयोगप्रसङ्गात् ।। इति गाथार्थः ॥ ११ ॥
तदेवं भावश्रुतं मतिपूर्व व्यवस्थाप्य मतान्तरमुपदर्शयन्नाह
देवसुयं मइपुव्वं भासइ जं नाविचिंतियं केइ । भावसुयस्साभावो पावइ तेसिं न य विसेसो ॥१११॥
'केइ त्ति' 'मतिपूर्व श्रुतम् ' इत्यत्रागमवचने केचिदेवं व्याचक्षते । किम् ?, इत्याह- द्रव्यश्रुतं शब्दरूपं मतिपूर्वम् , न भावश्रुतम् । तत्र युक्तिमाह- 'भासइ जं नाविचिंतियं ति' यद् यस्मात् कारणात् अविचिन्तितमविवक्षितं न कोऽपि भाषते न शब्दमुदीरयति, यच्च विवक्षाज्ञानं तत् किल मतिरिति तेषामभिप्रायः, ततश्च मतिपूर्व द्रव्यश्रुतं सिद्धं भवति । एतस्मिन् व्याख्याने दोषमाह-तेषामेवं व्याख्यातृणां भावश्रुतस्य सर्वथैवाऽभावः प्राप्नोति, यतो वक्तृगतं विवक्षोपयोगज्ञानं तैरेव मतित्वेन व्याख्यातम् , अन्यथा शब्दस्य मतिपूर्वकत्वाभावात् , श्रोतुरपि शब्दं श्रुत्वा प्रथमं यदवग्रहादिज्ञानं तत् तावद् मतिरेव, ऊर्ध्वमपि च तस्या भावश्रुतं नाभ्युपगन्तव्यम् , 'मतिपूर्व भावश्रुतम्' इत्यस्मत्पक्षवर्तित्वप्रसङ्गात् । यदशृण्वतोऽभाषमाणस्य चाऽनुप्रेक्षादिष्वन्तर्जल्पारूषितं ज्ञानं विपरिवर्तते तद् भावश्रुतं भविष्यतीति चेत् । तदयुक्तम् , यतस्तदपि यद्यवग्रहाद्यात्मकमतिपूर्वं तदा भावश्रुतं नेष्टव्यम् , अस्मत्पक्षाभ्युपगमप्राप्तेरेव । अथ मतिपूर्वं तद् नेष्यते, तथापि तत् सविकल्पकत्वेन मतिरेव, शब्दविवक्षाज्ञानवत् ; शब्दविवक्षाज्ञानेऽपि हि शब्दविकल्पोऽस्ति, तमन्तरेण शब्दाभिधानासंभवात् , न चासौ भावश्रुतत्वेनेष्टः; तस्माद् मतेरनन्तरं सर्वत्र शब्दमात्रस्येवोत्थानम् , न भावश्रुतस्य; अस्मत्पक्षाङ्गीकरणप्रसङ्गात् , विकल्पज्ञानानि च विवक्षाज्ञानवद् मतित्वेनोक्तान्येव, इति सर्वत्र भावश्रुताभावः प्रसजति । भवतु स तर्हि, इति चेत् । इत्याह- 'न य विसेसो त्ति' भावश्रुताभावे मति-श्रुतयोर्विशेषो भेदश्चिन्तयितव्यो न स्यात् , स हि द्वयोरेवोपपद्यते । यदा च मतिरेवास्ति, न भावश्रुतम् , तदा तस्याः केन सह भेदचिन्ता युज्यत ? इति भावः। द्रव्यश्रुतरूपेण शब्देन सह मतेर्भेदचिन्ता भविष्यतीति चेत् । तदयुक्तम् , ज्ञानपञ्चकविचारस्येहाधिकृतत्वात् , तदधिकारे च शब्देन सह भेदचिन्ताया अप्रस्तुतत्वात् । चिन्त्यतां वा 'मतिपूर्व द्रव्यश्रुतम् ' इत्येवं मतेः शब्देनापि सह विशेषः, किन्तु सोऽपि न घटते ।। इति गाथार्थः ।। १११॥ कुतो न घटते ?, इत्याह
१ द्रव्यश्रुतं मतिपूर्व भाषते यद् नाऽविचिन्तिसं केचित् । भावश्रुतस्याभावः प्राप्नोति तेषां न च विशेषः ॥ ७॥
कामताडARASHAN
For Personal and Private Use Only
Realwww.jaineltrary.org
Page #76
--------------------------------------------------------------------------
________________
दव्वसुयं बुद्धीओ सा वि तओ जमविसेसओ तम्हा । भावसुयं मइपुव्वं दव्वसुयं लक्खणं तस्स ॥११२॥ विशे० यदिति यस्मात् कारणाद् यथा द्रव्यश्रुतं शब्दो बुद्धेमतेः सकाशाद् भवतीति भवद्भिः प्रतिपाद्यते, तथा हन्त ! साऽपि बुद्धिस्ततः शब्दात
श्रोतुर्भवत्येव । ततश्च 'मइपुग्वं सुयमुत्तं न मई सुयपुब्बिया विसेसोऽयं' इति मति-श्रुतयोर्भेदप्रतिपादनार्थं योऽसौ विशेषोत्र प्रतिपाद
यितुं प्रस्तुतः, स द्वयोरप्यन्योन्यं पूर्वभावितायाः समानत्वाद् न प्राप्नोति, इत्यनन्तरगाथापर्यन्तावयवेन संबन्धः । तस्मात् तेषां मतेTA विशेषतः कारणाद् यदस्माभिः प्राक् समर्थितम्-भावश्रुतं मतिपूर्वमिति, तदेव युक्तियुक्तम् । शब्दलक्षणं तु द्रव्यश्रुतं तस्य भावश्रुतस्य लक्ष्यते गम्यतेऽनेनेति लक्षणं लिङ्गम् ।। इति गाथार्थः ॥ ११२॥
कुतस्तत् तस्य लक्षणम् , इत्याह
सुयविण्णाणप्पभवं दव्वसुयमियं जओ विचिंतेउं। पुव्वं, पच्छा भासइ लक्खिज्जइ तेण भावसुयं ॥११३॥
श्रुतविज्ञानप्रभवं सविकल्पकविवक्षाज्ञानकार्य शब्दरूपं द्रव्यश्रुतमिदं यत् परैर्मतिपूर्वदेनेष्यते, कथं पुनस्तद्भावश्रुतप्रभवं | विज्ञायते ?, इत्याह- यतः सर्वोऽपि पूर्व विचिन्त्य वक्तव्यमर्थ चित्ते विकल्प्य पश्चात् शब्दं भापते, यच्च तचिन्ताज्ञानं तच्छृतानुसारित्वाद् भावश्रुतम् , इति भावश्रुतप्रभवता द्रव्यश्रुतस्य विज्ञायते; यञ्च यस्मात् प्रभवति तत् तस्य कार्यम् , अतस्तेन कार्यभूतेन द्रव्यश्रुतेन स्वकारणभूतं भावश्रुतं लक्ष्यत इति तत् तस्य लक्षणमुक्तम् , अस्ति भावश्रुतमत्र, तत्कार्यस्य शब्दस्य श्रवणात् , इत्येवं तेन भावश्रुतस्य लक्ष्यमाणत्वादिति । द्रव्यश्रुतस्य च भावश्रुतलक्षणता मतान्तरवादिनां विपर्यस्तत्वप्रतिपादनार्थमुपदर्शिता, भावश्रुतप्रभवस्यापि शब्दस्य तैमतिपूर्वत्वप्रतिपादनात् ।। इति गाथार्थः ।। ११३ ॥
अथ यथा मति-श्रुतयोः कार्य कारणभावाद् भेदः, तथा तयोः प्रत्येक स्वस्थानेऽपि सम्यक्त्व-मिथ्यात्वपरिग्रहाद् भेद एवेत्यनुषङ्गतो दर्शयितुं नन्द्यध्ययनागमे मति-श्रुतयोः कार्य-कारणभावेन भेदप्रतिपादनानन्तरमिदं मूत्रमस्ति, तद् यथा “अविसेसिया मई
इण्यश्रुतं बुद्धः साऽपि ततो यदविशेषतस्तस्मात् । भावश्रुतं मतिपूर्व द्रव्यश्रुतं लक्षण तस्य ॥ १२॥ २ गाथा १०५ । ३ च. 'पूर्वभावयोः'। ४ श्रुतविज्ञानप्रभवं दग्यश्रुतमिदं यतो विचिन्त्य । पूर्व, पश्चाद् भाषते लक्ष्यते तेन भावथुतम् ॥ ११३ ॥ ५ अविशेषिता मतिमंतिज्ञानं च मत्यज्ञानं च, विशेषिता मतिः-सम्यग्दृष्टेमतिमंतिज्ञानम् , मिथ्यादृष्टेमतिर्मत्यज्ञानं; एवं अविशेषितं श्रुतं
भुतज्ञानं धुताज्ञानं च, विशेषितं श्रुतम्-सम्यग्दृष्टेः श्रुतं श्रुतज्ञानम् , मिथ्यादृष्टेः श्रुतं श्रुताज्ञानम् ।
11७४॥
For Pesos and Private Use Only
Page #77
--------------------------------------------------------------------------
________________
विशे०
Aru
॥७५॥
MARPATRAPAPERPRIORS
स
मइनाणं च मइअनाणं च, विसेसिया मई-सम्मद्दिहिस्स मई मइनाणं, मिच्छादिहिस्स मई मइअन्नाणं; एवं अविसेसियं सुयं सुर्यनाणं सुयअन्नाणं च, विसेसियं सुर्य-सम्मद्दिहिस्स सुयं सुयनाणं, मिच्छादिहिस्स सुयं सुयअन्नाणं" सम्यग्दृष्टि-मिथ्यादृष्टिसंवन्धतोऽविशेपितेन मातिशब्देन मतिज्ञानं मत्यज्ञानं च द्वे अपि प्रतिपाद्यते, सम्यगाष्टित्वविशेषितेन तु मतिध्वनिना मतिज्ञानमेवोच्यते, मिथ्यादृष्टित्वविशेषितेन तु तेनैव मत्यज्ञानमेवाऽभिधीयते, एवं श्रुतेऽपि वाच्यमिति सूत्रभावार्थः। तदेतदानुषङ्गिक सूत्रोक्तमनुवर्तमानो भाष्यकारोऽप्याह
अविसेसिया मइ च्चिय सम्मद्दिहिस्स सा मइण्णाणं । मइअन्नाणं मिच्छद्दिहिस्स सुयं पि एमेव ॥ ११४ ॥
सम्यग्दृष्टि-मिथ्यादृष्टिभावेनाऽविशेषिता मतिर्मतिरेवोच्यते, न तु मतिज्ञानं मत्यज्ञानं चेति निर्धार्य व्यपदिश्यते, सामान्यरूपायां | तस्यां ज्ञाना-ज्ञानविशेषयोयोरप्यन्तर्भावात् । यदा तु सम्यग्दृष्टेरेव संबन्धिनी सा मतिर्विवक्ष्यते, तदा मतिज्ञानमिति निर्दिश्यते । यदा तु मिथ्यादृष्टिसंबन्धिनी तदा मत्यज्ञानम् । एवं श्रुतमप्यविशोषितं श्रुतमेव, विशेषितं तु सम्यग्दृष्टेः श्रुतज्ञानं, मिथ्यादृष्टस्तु श्रुताज्ञानम् , सम्यग्दृष्टिसंबन्धिनो बोधस्य सर्वस्यापि ज्ञानत्वात मिथ्यादृष्टिसत्कस्य त्वज्ञानत्वात् ।। इति गाथार्थः ॥ ११४॥
ननु यथा मति-श्रुताभ्यां सम्यग्दृष्टिर्घटादिकं जानीते, व्यवहरति च; तथा मिथ्यादृष्टिरपि, तत् किमिति तस्य सत्कं सर्वमप्यज्ञानमुच्यते, इत्याशङ्कयाह
सेद-सदविसेसणाओ भवहेउजदिच्छिओवलम्भाओ। नाणफलाभावाओ मिच्छद्दिहिस्स अण्णाणं ॥११५॥
सच्चाऽसच्च सद-सती तयोरविशेषणमविशेषस्तस्माद् हेतोः, मिथ्यादृष्टेः संबन्धि व्यवहारमात्रेण ज्ञानमपि निश्चयतोऽज्ञानमुच्यते, सतो ह्यसत्त्वेनाऽसद् विशिष्यते, असतोऽपि च सत्वेन सद् भिद्यते । मिथ्यादृष्टिश्च घटे सत्त्व-प्रमेयत्व-मूर्तत्वादीन् , स्तम्भ-रम्भा-ऽम्भोरुहादिव्यावृत्त्यादींश्च पटादिधर्मान् सतोऽप्यसत्वेन प्रतिपद्यते, 'सर्वप्रकारैर्घट एवायम्' इत्यवधारणात् । अनेन ह्यवधारणेन सन्तोऽपि सत्त्व-प्रमेयत्वादयः पटादिधर्मा न सन्तीति प्रतिपद्यते, अन्यथा सत्त्व-प्रमेयत्वादिसामान्यधर्मद्वारेण घटे पटादीनामपि सद्भावात् 'सर्वथा घट एवायम्' इत्यवधारणानुपपत्तेः, 'कथञ्चिद् घट एवाऽयम्' इत्यवधारणे त्वनेकान्तवादाभ्युपगमेन सम्यग्दृष्टित्वप्रसङ्गात , तथा पट-पुट-नट-शकटादिरूपं घटेऽसदपि सत्त्वेनाऽयमभ्युपगच्छति 'सर्वैः प्रकारैर्घटोऽस्त्येव' इत्यवधारणात् , 'स्यादस्त्येव घटः' इत्यव
1 भाविशेषिता मतिरेव सम्यग्दष्टेः सा मतिज्ञानम् । मत्यज्ञानं मिध्यादृष्टेः श्रुतमध्येवमेव ॥ १४ ॥ २. सदसदविशेषणाद् भवहेतुयदृच्छोएकम्भात् । ज्ञानफलाभावाद् मिथ्यादृष्टेरज्ञानम् ॥ १५ ॥
॥७५॥
san
Page #78
--------------------------------------------------------------------------
________________
विशे०
बृहद्वत्तिः ।
॥७६ ॥
धारणे तु स्याद्वादाश्रयणात् सम्यग्दृष्टित्वप्राप्तेः । तस्मात् सद-सताविशेषाभावादुन्मत्तकस्येव मिथ्यादृष्टोधोऽज्ञानम् । तथा विपर्यस्तत्वादेव भवहेतुत्वात् तद्बोधोऽज्ञानम् । तथा पशुवधहेतुत्वात् तद्बोधोऽज्ञानम् । तथा पशुवध-तिलादिदहन-जलाधवगाहनादिषु संसारहेतुषु मोक्षहेतुत्वबुद्धेः, दया-प्रशम-ब्रह्मचर्या-ऽऽकिञ्चन्यादिषु तु मोक्षकारणेषु भवहेतुत्वाध्यवसायतो यदृच्छोपलम्भात् तस्याऽज्ञानम् । तथा विरत्यभावेन ज्ञानफलाभावाद् मिथ्यादृष्टेरज्ञानम् ॥ इति गाथार्थः ॥ ११५॥
तदेवं समसङ्गः प्रतिपादितो हेतु-फलभावादपि मति-श्रुतयोर्भेदः, सांप्रतं भेदभेदात् तयोस्तमभिधातुमाह
'भेयकयं च विसेसणमट्ठावीसइविहंगभेयाइ । इंदियविभागओ वा मइ-सुयभेयो जओऽभिहियं ॥११६॥
भेदा अवग्रहादयः, अङ्गा-ऽनङ्ग्यविष्टत्वादयश्च, तत्कृतं वा मति-श्रुतयोर्विशेषणं भेदः, यतोऽवग्रहादिभेदादष्टाविंशत्यादिविध मतिज्ञानं वक्ष्यते' इति शेषः, श्रुतज्ञानं त्वङ्गाऽनङ्गप्रविष्टत्वादिभेदमभिधास्यते । अथवा इन्द्रियविभागाद् मति-श्रुतयोर्भेदः, यतोऽन्यत्र पूर्वगतेऽभिहितम् ॥ इति गाथार्थः ॥११६ ॥
किमभिहितम् ?, इत्याह__ सौइंदिओवलद्धी होइ सुयं सेसयं तु मइनाणं । मोत्तूणं दव्वसुयं अक्खरलंभो य सेसेसु ॥ ११७ ॥
इन्द्रो जीवस्तस्येदमिन्द्रियम् , श्रूयतेऽनेनेति श्रोत्रम् , तच्च तदिन्द्रियं चेति श्रोत्रेन्द्रियम् , उपलम्भनमुपलब्धिानम् , श्रोत्रेन्द्रियेणोपलब्धिः श्रोत्रेन्द्रियोपलब्धिरिति तृतीयासमासः, श्रोत्रेन्द्रियस्य वोपलब्धिः श्रोत्रेन्द्रियोपलब्धिरिति षष्ठीसमासः, श्रोत्रेन्द्रियद्वारकं ज्ञानमित्यर्थः, श्रोत्रेन्द्रियेणोपलब्धिर्यस्येति बहुव्रीहिणाऽन्यपदार्थे शब्दोऽप्यधिक्रियते । ततश्चाद्यसमासद्वये श्रोत्रेन्द्रियद्वारकमाभिलापप्लावितोपलब्धिलक्षणं भावश्रुतमुक्तं द्रष्टव्यम् , बहुव्रीहिणा तु तस्यां भावश्रुतोपलब्धावनुपयुक्तस्य वदतो द्रव्यश्रुतम् , तदुपयुक्तस्य तु बदत उभयश्रुतमाभिहितं वेदितव्यम् । इह च व्यवच्छेदफलत्वात् सर्वे वाक्यं सावधारणं भवति, इष्टश्वाऽवधारणविधिः प्रवर्तते; ततः 'चैत्रो धनुर्धर एव' इत्यादिष्विवेहाऽयोगव्यवच्छेदेनाऽवधारणं द्रष्टव्यम् , तद्यथा- श्रुतं श्रोत्रेन्द्रियोपलब्धिरेच, न तु श्रोत्रेन्द्रियोपलब्धिः श्रुतमेवेति श्रोत्रेन्द्रियोपलब्धिस्तु श्रुतं मतिर्वा भवति, यथा धनुर्धरश्चैत्रोऽन्यो वेति, श्रोत्रेन्द्रियोपलब्धेरवग्रहे-हादिरूपाया मतित्वात् ,
E १ भेदकृतं च विशेषणमष्टाविंशतिविधानभेदादि । इन्द्रियविभागतो वा मति-श्रुतभेदो यतोऽभिहितम् ॥ १६॥ २ श्रोनेन्द्रियोपलब्धिर्भवति पुतं शेषकं तु मतिज्ञानम् । मुक्त्वा गच्यभुतमक्षरलाभश्च शोषेषु ॥10॥
OPPPS
|| ७६ ॥
For Personal and
Use Oy
Page #79
--------------------------------------------------------------------------
________________
विशे०
॥ ७७॥
श्रुतानुसारिण्यास्तु श्रुतत्वादितिः यदि पुनः श्रोत्रेन्द्रियोपलब्धिः श्रुतमेवेत्यवधार्यते, तदा तदुपलब्धेर्मतित्वं सर्वथैव न स्यात् , इध्यते च कस्याश्चित् तदपीति भावः । यदि श्रोत्रेन्द्रियोपलब्धिः श्रुतम् , तर्हि शेषं किं भवतु ?, इत्याह- 'सेसयं वित्यादि' श्रोत्रेन्द्रियोपलब्धि विहाय शेषकं यच्चक्षुरादीन्द्रियचतुष्टयोपलब्धिरूपं तद् मतिज्ञानं भवति' इति वर्तते । तुशब्दः समुच्चये, स चैवं समुचिनोति न केवलं शेषेन्द्रियोपलब्धिर्मतिज्ञानम् , किन्तु श्रोत्रेन्द्रियोपलब्धिश्च काचिदवग्रहे-हादिमात्ररूपा मतिज्ञानं भवति; तथा च सत्यनन्तरमवधारणव्याख्यानमुपपन्नं भवति । 'सेसयं तु मइनाणं' इति सामान्येनैवोक्ते शेषस्य सर्वस्याऽप्युत्सर्गेण मतित्वे प्राप्ते सत्यपवादमाह'मोत्तूणं दब्बसुयं ति' पुस्तकादिलिखितं यद् द्रव्यश्रुतं तद् मुक्त्वा परित्यज्यैव शेषं मतिज्ञानं द्रष्टव्यम् , पुस्तकादिन्यस्तं हि भावश्रुतकारणत्वात् शब्दवद् द्रव्यश्रुतमेव, इति कथं मतिज्ञानं स्यात् ?, इति भावः। न केवलं श्रोत्रेन्द्रियोपलब्धिः श्रुतम् , किन्तु यश्च शेपेषु चतुषु चक्षुरादीन्द्रियेषु श्रुतानुसारिसाभिलापविज्ञानरूपोऽक्षरलाभः सोऽपि श्रुतम् , न त्वक्षरलाभमात्रम्। तस्येहा-ऽपायाद्यात्मके मति| ज्ञानेऽपि सद्भावादिति ॥
आह- यदि चक्षुरादीन्द्रियाक्षरलाभोऽपि श्रुतम् , तर्हि यदाद्यगाथावयवे 'श्रोत्रेन्द्रियोपलब्धिरेव श्रुतम् ' इत्यवधारणं कृतम् , तद् नोपपद्यते, शेषेन्द्रियोपलब्धेरपीदानी श्रुतत्वेन समर्थितत्वात् । नैतदेवम् , शेषेन्द्रियाक्षरलाभस्यापि श्रोत्रेन्द्रियोपलब्धिरूपत्वात् , स हि श्रुतानुसारिसाभिलापज्ञानरूपोत्राधिक्रियते, श्रोत्रेन्द्रियोपलब्धिरपि चैवंभूतैव श्रुतमुक्ता । ततश्च साभिलापविज्ञानं शेषेन्द्रियद्वारेणाऽप्युत्पन्न योग्यतया श्रोत्रेन्द्रियोपलब्धिरेव मन्तव्यम् , अभिलापस्य सर्वस्यापि श्रोत्रेन्द्रियग्रहणयोग्यत्वादिति ॥
अत्राह- ननु 'सोइंदिओवलद्धी होइ सुयं ' ' तथा 'अक्खरलम्भो य सेसेसु' इत्युभयवचनाच्छूतज्ञानस्य सर्वेन्द्रियनिमित्तता सिद्धा, तथा 'सेसयं तु मइनाणं' इति वचनात् , तुशब्दस्य समुच्चयाच्च मतिज्ञानस्यापि सर्वेन्द्रियकारणता प्रतिष्ठिता: भवद्भिस्त्विन्द्रियविभागाद् मति-श्रुतयोर्भेदः प्रतिपादयितुमारब्धः, स चैवं न सिध्यति, द्वयोरपि सर्वेन्द्रियनिमित्ततायास्तुल्यत्वप्रतिपादनादिति । अत्रोच्यते- साधूक्तं भवता, किन्तु यद्यपि शेषेन्द्रियद्वाराऽऽयातवात् तदक्षरलाभः शेषेन्द्रियोपलब्धिरुच्यते, तथाऽप्यभिलापास्मकत्वादसौ श्रोत्रेन्द्रियग्रहणयोग्य एव, ततश्च तत्त्वतः श्रोत्रेन्द्रियोपलब्धिरेवाऽयम् । तथा च सति परमार्थतः सर्वं श्रोत्रविषयमेव श्रुतज्ञानम् , मतिज्ञानं तु तद्विषयं शेषेन्द्रियविषयं च सिद्धं भवतिः अत इत्थमिन्द्रियविभागाद् मति-श्रुतयोर्भेदो न विहन्यते; इत्यलं विस्तरेण ।। इति पूर्वगतगाथासंक्षेपार्थः॥ ११७॥
अथ विस्तरार्थमभिधित्सुर्भाष्यकार एव परेण पूर्वपक्षं कारयितुमाह
AN॥ ७७
SSES
For Personal d
e
sem
Page #80
--------------------------------------------------------------------------
________________
सोओवलद्दी जइ सुर्य न नाम सोउग्गहादओ बुद्धी । अह बुद्धीओ न सुयं अहोभयं संकरो नाम ॥११॥ विशे० 'श्रोत्रोपलब्धिरेव श्रुतम्' इत्यवधारणार्थमनवगच्छतः 'श्रुतमेव तदुपलब्धिः ' इत्येवं च तदर्थमवबुध्यमानस्य परस्य वचनमि- बृहदृषि
दम् , तद्यथा- यदि श्रोत्रोपलब्धिः श्रुतमेव, तर्हि 'नाम' इति कोमलामन्त्रणे, अहो ! श्रोत्रेन्द्रियद्वारोत्पन्ना अवग्रहे-हादयो बुद्धिर्मतिज्ञानं
न प्राप्नुवन्ति, तदुपलब्धेः सर्वस्या अपि श्रुतत्वेनाऽवधारणात् । मा भूवंस्ते मतिज्ञानम् , किं नः श्रूयते ? इति चेत् । नैवम् , तथा - सति तस्य वक्ष्यमाणाऽष्टाविंशतिभेदभिन्नत्वहानेः। अथैतद्दोषभयाद् बुद्धिस्तेऽभ्युपगम्यन्ते, ततस्तर्हि न ते श्रुतम् , तथा च सति
| 'सोइन्दिओवलद्धी होइ सुर्य' इत्यसंगतं पामोति । अथोभयदोषपरिहारार्थ 'उभयं' बुद्धिश्च श्रुतं च ते इष्यन्ते । तयेवं सत्येकRA स्थानमीलितक्षीर-नीरयोरिव संकरः संकीर्णता मति-श्रुतयोरामोति, न पृथग्भावः । अथवा 'यदेव मतिस्तदेव श्रुतं, यदेव च श्रुतं तदेव |मतिः' इत्येवमभेदोऽप्यनयोः स्यात् , इति खयमेव द्रष्टव्यम् । भेदचेह तयोः प्रतिपादयितुं प्रस्तुतः, तदेतच्छान्तिकरणप्रवृत्तस्य वेतालोत्थानम् ॥ इति प्रेरकगाथार्थः ॥ ११८ ॥
तदेतत् प्रेर्य केचिद् यथा परिहरन्ति , तथा तावद् दर्शयन्नाह
केई बेन्तस्स सुयं सद्दो सुणओ मइ ति, तं न भवे । जं सव्वो च्चिय सद्दो दव्वसुयं तस्स को भेयो ? ॥११९॥
'सोइंदिओवलद्धी' इत्यत्र श्रोत्रेन्द्रियेणोपलब्धिर्यस्येति केवलबहुव्रीह्याश्रयणात् श्रोत्रेन्द्रियोपलब्धिः शब्द एवेति केचिद् । मन्यन्ते, स च प्रज्ञापकस्य ब्रुवतः श्रूयत इति कृत्वा श्रुतम् , शृण्वतस्तु श्रोतुरवग्रहे-हा-पायादिरूपेण मन्यते ज्ञायत इति मतिः । एवं च सत्युभयमुपपन्नं भवति, श्रोतृगताऽवग्रहादीनां च श्रुतत्वं परिहृतं भवति । आचार्यः प्राह- 'तं न भवे त्ति' तदेतत् केषाश्चिद् मतं युक्तं न भवति । कुतः१, इत्याह- यद् यस्मात् कारणाद् ब्रुवतः श्रोतुश्च संबन्धी सर्व एव शब्दो द्रव्यश्रुतम् , द्रव्यश्रुतमात्रत्वेन च सर्वत्र तुल्यस्य सतस्तस्य शब्दस्य को भेदः को विशेषः, येनासौ वक्तरि श्रुतं, श्रोतरि तु मतिः स्यात् ? । यदपि 'श्रूयत इति श्रुतं' 'मन्यत इति मतिः उच्यते, तत्रापि धात्वन्तरमात्रकृत एव विशेषः, शब्दस्तु स एव श्रूयते स एव मन्यते, इति न कचिदुभयं दृश्यते ॥ इति गाथार्थः ॥ ११९ ॥
श्रोत्रोपलब्धियदि श्रुतं न नाम श्रोत्रावग्रहादयो बुद्धिः । अथ बुद्धयो न श्रुतमयोभयं संकरो नाम ॥ १८ ॥२ गाथा ११७। ३ केचिद् ब्रुवतः श्रुतं शब्दः शृण्वतो मतिरिति, तद् न भवेत् । यत् सर्व एव शब्दो द्रव्यधुतं तस्य को भेदः ॥ १९॥
सकसकालमा
॥ ७८॥
Forsonal
Prese Only
Page #81
--------------------------------------------------------------------------
________________
विशे०
बृहद्वतिः ।
॥ ७९ ॥
सससससाखाका
दूषणान्तरमप्याह
'किंवा नाणेऽहिगए सद्देणं जइ य सद्दविन्नाणं । गहियं तो को भेयो भणओ सुणओव जो तस्स ?॥१२०॥
यदि वा ज्ञाने ज्ञानविचारधिकृते किं पुद्गलसङ्घातरूपेण शब्देन गृहीतेन कार्यम् , अप्रस्तुतत्वात् ।। अथ श्रोत्रेन्द्रियोपलब्धिशब्देन शब्दविज्ञानं गृह्यत इति । अत्राह- 'जइ येत्यादि' यदि च श्रोत्रेन्द्रियोपलब्धेः शब्दस्य कारणभूतत्वात् कार्यभूतत्वाच्चोपचारतो वक्तगतं श्रोतृगतं च शब्दविज्ञानं श्रोत्रेन्द्रियोपलब्धिशब्दवाच्यत्वेन गृहीतम् , तच्च ब्रुवतः श्रुतं शृण्वतस्तु मतिरित्युच्यते । हन्त ! ततस्तर्हि तस्य विज्ञानस्य ब्रुवतः शृण्वतो वा यो भेदो विशेषः, स कः? इति कथ्यताम् , येन तद् ववतुः श्रुतं, श्रोतुश्च मतिः स्यात् ? इति नास्त्यसौ विशेषः, शब्दज्ञानत्वाविशेषादिति भावः । किञ्च, एवं सति श्रोतुरपि कदाचिच्छृत्यनन्तरमेव ब्रुवतः सैव शब्दजनिता तन्मतिरखशिष्टा श्रुतं प्रसजति 'बेन्तस्स सुयं' 'सुणओ मई' इत्यभ्युपगमात् । ततश्च तदेवैकत्वं मति-श्रुतयोः, इति कोऽतिशयः कृतः स्यात् ? इति । किश्न, यदि शृण्वतः सर्वदैव मतिरित्ययमेकान्तः, तर्हि यदेतद् व्यक्तं सर्वत्रोच्यते- आचार्यपारम्पर्येणेदं श्रुतमायातमिति, तदसत् प्राप्नोति, तीर्थकरादर्वाक् सर्वेषामपि श्रोतृत्वेन मतिज्ञानस्यैवोपपत्तेः । अथ नैवम् , तर्चेकत्वं मति-श्रुतयोः ॥ इति गाथार्थः ।। १२०॥
तदेवं केई बेन्तस्स सुर्य' इत्यादि दूषयित्वा प्रस्तुतप्रकरणोपसंहारव्याजेन परमेव शिक्षयन्नाह
भणओ सुणओ व सुयं तं जमिह सुयाणुसारि विण्णाणं । दोण्हं पि सुयाईयं जं विन्नाणं तयं बुद्धी ॥१२१॥
तस्माद् ‘ब्रुवतः श्रुतं, शृण्वतस्तु मतिः' इत्येतद् न युक्तम् , उक्तदूषणात् , अनागमिकत्वाच्च । किं तर्हि युक्तम् ? इति चेत् । उच्यते- भणतः शृण्वतो वा यत् किमपि श्रुतानुसारि परोपदेशाहद्वचनानुसारि विज्ञानं, तदिह सर्व श्रुतम् , यत् पुनयोरपि वक्तृश्रोत्रोः श्रुतातीतं हृषीक-मनोमात्रनिमित्तमवग्रहादिरूपं विज्ञानं, तत् सर्व बुद्धिर्मतिज्ञानमित्यर्थः । तदेवं द्वयोरपि वक्तृ-श्रोत्रोः प्रत्येक मति-श्रुते यथोक्तस्वरूपे अभ्युपगन्तव्ये, न पुनरेकैकस्यैकैकमिति भावः ॥ इति गाथार्थः ॥ १२१ ॥
भवत्वेवम् , किन्तु 'सोओवलद्धी जइ सुयं न नाम सोउग्गहादओ बुद्धी' इत्यादिना यः परेण पूर्वपक्षो व्यधायि, तस्य तर्हि का परिहारः ? इत्याशक्य भाष्यकार एवेदानीं 'सोइंदिओवलद्धी होइ सुयं' इत्यादिमूलगायां विवृण्वन्नाह१ किंवा ज्ञानेऽधिकृते शब्देन, यदि च शब्दविज्ञानम् । गृहीतं ततः को भेदो भणतः शृण्वतश्च यस्तस्य ? ॥ १२० ॥ २ गाथा ११९ ।
- ३ भणतः शृण्वतो वा श्रुतं तद् यदिह श्रुतानुसारि विज्ञानम् । द्वयोरपि श्रुतातीतं यद् विज्ञानं तद् बुद्धिः॥ २१ ॥ ४ गाथा ११८ । ५ गाथा ११७ ।
॥७९॥
8AOORDAR
J
unonin
For Personal and Private Use Only
www.janeltrary.org
Page #82
--------------------------------------------------------------------------
________________
विशे
बदत्तिः।
॥८
॥
सोइंदिओवलद्धी चेव सुयं न उ तई सुयं चेव । सोइंदिओवलद्धी वि काइ जम्हा मइन्नाणं ॥ १२२॥
इह श्रोत्रेन्द्रियोपलब्धिशब्दस्य तृतीया-षष्ठीसमासः, बहुव्रीहिश्च आद्यसमासयन भावश्रुतम् , बहुव्रीहिणा तु भावश्रुतानुपयुक्तस्य वदतो द्रव्यश्रुतम् , तदुपयुक्तस्य तु ब्रुवत उभयश्रुतं गृहीतमिति प्राग्वृत्तौ दर्शितं सर्व द्रष्टव्यम् । अवधारणविधिमपि प्रागुपदर्शितमाह- 'श्रोत्रेन्द्रियोपलब्धिरेच श्रुतं ' इत्येवमवधारणीयम् । 'न उ तई ति ' न पुनः ‘सा श्रोत्रेन्द्रियोपलब्धिः श्रुतमेव' इति । कुतो | नैवमवधार्यते ?, इत्याह- यस्माच्छ्रोत्रेन्द्रियोपलब्धिरपि काचिदश्रुतानुसारिणी अवग्रहे-हादिमात्ररूपा मतिज्ञानमेव, अतः 'श्रोत्रेन्द्रियोपलब्धिः श्रुतमेव' इति नावधार्यत इति भावः । एवं च सति ‘ने नाम सोउग्गहादओ बुद्धी' इत्यादि परेण यत् प्रेरितं, तत् परिहृतं भवति, श्रोत्रावग्रहादीनामपि बुद्धिरूपतायाः समर्थितत्वात् ।। इति गाथार्थः ।। १२२ ॥
तदेवमवधारणविधिना श्रोत्रावग्रहादीनां मतित्वं समर्थितम् , यदि वा 'सेसयं तु मइनाणं' इत्यत्र योऽसौ तुशब्दः, ततोऽपि तेषां तत् समर्थ्यत इति दर्शयन्नाह
तुसमुच्चयवयणाओ व काई सोइन्दिओवलद्धी वि । मइरेवं सइ सोउग्गहादओ हुन्ति मइभेया ॥ १२३ ॥
सेसयं तु मइनाणं' इत्यत्र योऽसौ तुशब्दः समुच्चयवचनः, ततश्च किमुक्तं भवति ?-शेष मातिज्ञानं, काचिदनपेक्षितपरोपदेशाद्वचना श्रोत्रेन्द्रियोपलब्धिश्च मतिज्ञानमित्येवं वा श्रोत्रावग्रहादयो भवन्ति मतिभेदाः । तथा च सति मतेरष्टाविंशतिभेदत्वं न परिहीयते, ततश्च 'नं नाम सोउम्गहादओ बुद्धी' इत्यादि परप्रेर्य प्रतिक्षिप्तमेव ॥ इति गाथार्थः ॥ १२३ ॥
मूलगाथाया व्याख्यातशेष व्याख्यानयनाह
पत्ताइगयं सुयकारणं ति सद्दो व्व तेण दव्वसुयं । भावसुयमक्खराणं लाभो सेसं मइन्नाणं ॥ १२४ ॥
मूलगाथायां 'श्रोत्रावग्रहादयः, शेषकं च मतिज्ञानम् , इत्युक्ते शेषस्य सर्वस्याऽप्युत्सर्गतो मतित्वे प्राप्ते, अपवादः- मोत्तूणं दव्वसुयं ति' इत्युक्तम् । तत्र किं तद् द्रव्यश्रुतं यदिह वय॑ते ?, इत्याह भाष्यकार:-पत्रादिगतं पुस्तक-पत्रादिलिखितम् , तेन कारणेन द्रव्यश्रुतं, येन किं ?, इत्याह- श्रुतकारणमिति । किंवत् ?, इत्याह-शब्दवदिति यथा भावश्रुतकारणत्वाच्छब्दो द्रव्यश्रुतम् ,
१ श्रोत्रेन्द्रियोपलब्धिश्चैव श्रुतं न तु सा श्रुतं चैव । श्रोत्रेन्द्रियोपलब्धिरपि काचिद् यस्मात् मतिज्ञानम् ॥ १२२॥ २ गाथा ११८ । ३ गाथा ११७ । ४ तुसमुच्चयवचनाद् वा काचिच्छोनेन्द्रियोपलब्धिरपि । मतिरेवं सति श्रेत्रावग्रहादयो भवन्ति मतिभेदाः ॥ १२३ ॥ ५ पत्रादिगतं श्रुतकारणमिति शब्द इव तेन द्रव्यश्रुतम् । भावभुतमक्षराणां लाभः शेष मतिज्ञानम् ॥ १२४ ॥
Forsonal
Prese Only
व
w w.jaineltrary.org
Page #83
--------------------------------------------------------------------------
________________
LA
HOM
बहतचिः ।
विशे ॥८१॥
तथा पुस्तक-पत्रादिन्यस्तमपि तत्कारणत्वाद् द्रव्यश्रुतमित्यर्थः। तद् मुक्त्वा शेषं शेषचक्षुरादीन्द्रियोपलब्धिरूपं मतिज्ञानम् । 'भावसुयमक्खराणमित्यादि न केवलं श्रोत्रेन्द्रियोपलब्धिःश्रुतम् , यश्च श्रुतानुसारित्वाद् भावश्रुतं भावश्रुतरूपः शेषेषु चक्षुरादीन्द्रियेष्वक्षराणां लाभः परोपदेशाहद्वचनानुसारिण्यक्षरोपलब्धिरित्यर्थः, सोऽपि श्रुतम् , इत्येवं मूलगाथायां संबन्धः कार्य इति हृदयम् , स च प्राग वृत्ती | कृत एव । तस्माचाक्षरलाभाच्चक्षुरादीन्द्रियेषु यच्छेषमश्रुतानुसार्यवग्रहे-हाद्युपलब्धिरूपं, तद् मतिज्ञानम् , इत्येवमिहाऽप्येतत् संबध्यते ॥ इति गाथार्थः ॥ १२४ ॥
अथ परः पूर्वापरविरोधमुद्भावयन्नाह
जइ सुयमक्खरलाभो न नाम सोओवलद्धिरेव सुयं । सोओवलद्धिरेवक्खराइं सुइसंभवाउ त्ति ॥ १२५ ॥
इयमपि प्राग मूलगाथावृत्तौ दर्शिताथैव, तथापि विस्मरणशीलानामनुग्रहार्थ किश्चिद् व्याख्यायते । ननु याक्तन्यायेन शेषेन्द्रियाक्षरलाभोऽपि श्रुतम् , तर्हि 'श्रोत्रेन्द्रियोपलब्धिरेव श्रुतम्' इति यदवधारणं कृतं, तदसङ्गतं पामोति, शेषेन्द्रियाक्षरलाभस्यापि श्रुतत्वात् । अत्रोत्तरमाह- 'सोओवलद्धिरेवेत्यादि' यद्यसौ शेषेन्द्रियाक्षरलाभोऽपि श्रोत्रेन्द्रियोपलब्धिर्न स्यात् , तदा स्यादेवावधारणमसंगतम् , तच्च नास्ति, यतः शेषेन्द्रियद्वाराऽऽयातज्ञानेऽपि प्रतिभासमानान्यक्षराणि श्रोत्रेन्द्रियोपलब्धिरेव ॥
अहो ! महदाश्चर्य, यतो यदि शेषेन्द्रियाक्षरलाभः, कथं श्रोत्रोपलब्धिः?; सा चेत्, कथं शेषेन्द्रियाक्षरलाभः ?, इत्या| शङ्कयाह-'सुइसंभवाउ त्ति' शेषेन्द्रियज्ञानप्रतिभासभाञ्जि अक्षराणि श्रोत्रोपलब्धिरेव । कुतः१, इत्याह- तेषां श्रुतेः श्रवणस्य संभवात् , इदमुक्तं भवति- अभिलापरूपाणि ह्येतान्यक्षराणि, अभिलापश्च तस्मिन् वा विवक्षिते काले, अन्यदा वा तत्र वा विवक्षिते पुरुषे, अन्यत्र वा श्रवणयोग्यत्वाच्छ्रोत्रेणोपलभ्यते । अतः श्रोत्रोपलम्भयोग्यत्वेन श्रुतिसंभवात् सर्वोऽप्यभिलापः श्रोत्रोपलब्धिरेव; इति न किश्चिदवधारणं विरुध्यते ॥ इति गाथार्थः ॥ १२५॥
किं सर्वोऽपि शेषेन्द्रियाक्षरलाभः श्रुतम् , आहोस्वित् कश्चिदेव ?, इत्याहसोऽवि हु सुयक्खराणं जो लाभो तं सुयं मई सेसा। जइ वा अणक्खरच्चिय सा सव्वान प्पवत्तेज्जा ॥१२६॥
, यदि श्रुतमक्षरलाभो न नाम श्रोत्रोपकब्धिरेव श्रुतम् । श्रोत्रोपलब्धिरेवाऽक्षराणि श्रुतिसंभवादिति ॥ १२५ ॥ २ सोऽपि खलु श्रुताक्षराणां यो लाभस्तत् श्रुतं मतिः शेषः । यदि वाऽनक्षरव सा सर्वा न प्रवर्तेत ॥ १२६ ॥
॥८॥
For on Present
Page #84
--------------------------------------------------------------------------
________________
विशे०
द्वत्तिः ।
॥८२॥
सोऽपि च शेषेन्द्रियाक्षरलाभः स एव श्रुतं, यः किम् ?, इत्याह- यः श्रुताक्षराणां लाभः, न सर्वः, यः संकेतविषयशब्दानुसारी, सर्वज्ञवचनकारणो वा विशिष्टः श्रुताक्षरलाभः, स एव श्रुतम् , न त्वश्रुतानुसारी; इहा-पायादिषु परिस्फुरदक्षरलाभमात्रमित्यर्थः । 'जइ व त्ति' यदि पुनरक्षरलाभस्य सर्वस्यापि श्रुतेन क्रोडीकरणादनक्षरैव मतिरभ्युपगम्येत, तदा सा यथाऽवग्रहे-हा-ऽपायधारणारूपा सिद्धान्ते प्रोक्ता, तथा सर्वाऽपि न प्रवर्तेत सर्वापि मतित्वं नानुभवेदित्यर्थः, किन्त्वनक्षरत्वादवग्रहमात्रमेव मतिः स्यात् , न त्वीहादयः, तेषामक्षरलाभात्मकत्वात् । तस्माच्छूतानुसार्येवाऽक्षरलाभः श्रुतम् , शेषं तु मतिज्ञानम् ॥ इति गाथार्थः ।। १२६ ॥
तदेवं व्याख्याता भाष्यकृताऽपि 'सोइंदिओवलद्धी' इत्यादिगाथा; सांप्रतं त्वस्यां यः श्रुतविषयः पर्यवसितोऽर्थः प्रोक्तो । भवति, तं संपिण्डयोपदर्शयति
देव्वसुयं भावसुयं उभयं वा किं कहं व होज्ज त्ति । को वा भावसुयंसो दवाइसुयं परिणमेज्जा ? ॥१२७॥
इह 'सोइंदिओवलद्धी' इत्येतस्यां गाथायां 'मोत्तूणं दव्वसुर्य' इत्यनेन पुस्तकादिन्यस्तं द्रव्यश्रुतमुक्तम् , अक्षरलाभवचनातु भावश्रुतम् , श्रोत्रेन्द्रियोपलब्धिवचनेन तु शब्दः, तद्विज्ञानं चेत्युभयश्रुतमुक्तम् । तत्राऽनन्तरवक्ष्यमाणपूर्वगतगाथायामेतचिन्त्यते-किं तद् द्रव्यादिश्रुतम् ?, कथं वा तद् भवति ?, को वा कियान् वेत्यर्थः, भावश्रुतस्यांशो भागो द्रव्यश्रुतं द्रव्यश्रुतरूपतया, आदिशब्दादुभयश्रुतरूपतया वा परिणमेत् । ॥ इति गाथार्थः ॥ १२७ ॥
का पुनरसौ पूर्वगतगाथा ?, इत्याह
बुद्धिद्दिढे अत्थे जे भासइ तं सुयं मईसहियं । इयरत्थ वि होज सुयं उवलद्धिसमं जइ भणेजा ॥१२८ ॥
मति-श्रुतयोर्भेदोत्र विचार्यत्वेन प्रस्तुतः, इत्यतः केचिदेतां गाथां तदनुयायित्वेन व्याख्यानयन्ति; भाष्यकारस्तु तेनाऽपि प्रकारण पश्चाद् व्याख्यास्यति, सांप्रतं तु प्रस्तावनाऽनुयायित्वेन तावद् व्याख्यायते- तत्र बुद्धिः श्रुतरूपेह गृह्यते, तया दृष्टा गृहीताः पर्यालोचिता बुद्धिदृष्टा अभिलाप्या अर्थाः पदार्थाः, ते च बहवः सन्ति, अतस्तन्मध्याद् वक्ता यान् भाषते वक्ति तच्छ्रुतम् । कथं यान् भाषते ?, इत्याह- मतिः श्रुतोपयोगरूपा तत्सहितं यथा भवति, एवं यान् भावान् भाषते तच्छूतमुभयरूपमित्यर्थः । इदमुक्तं भवति
१ गाथा ११७। २ अन्यधुतं भावभुतमुभयं वा किं कथं वा भवेदिति । को या भावभुतांशी द्रव्यादिश्रुतं परिणमेत् ॥ १२ ॥ ३ बुद्धिरष्टेऽर्थे यान् भाषते तत् श्रुतं मतिसहितम् । इतरत्राऽपि भवेत् श्रुतमुपलब्धिसमं यदि भणेत् ॥ १२८ ॥
For Pesem Pre Use Only
Page #85
--------------------------------------------------------------------------
________________
विशे०
॥ ८३ ॥
Jain Educations Internation
श्रुतात्मकबुद्ध्युपलब्धानर्थास्तदुपयुक्तस्यैव वदतो द्रव्यश्रुतभावश्रुतरूपमुभयश्रुतं भवति, तच्छ्रुतमित्युक्तेऽपि सामर्थ्यादुभयश्रुतं लभ्यते 'जे भासइ' इत्यनेन शब्दरूपस्य द्रव्यश्रुतस्य सूचितत्वात् 'बुद्धिद्दिद्वे अत्थे' इत्यनेन, 'मईसहियं' इत्यनेन च भावश्रुतस्याऽभिधित्सितत्वादिति । तदेतावता 'सोइंदिओवलद्धी' इत्यादिगाथोक्तस्योभयश्रुतस्य स्वरूपमुक्तम्; यान् पुनः प्रथमं श्रुतबुद्ध्या दृष्टानपि पश्चादभ्यासवला देवाऽनुपयुक्तो वक्ति तद् द्रव्यश्रुतम् इत्येतावद् गाथायामनुक्तमपि सामर्थ्याद् गम्यते ; तथा यान् श्रुतबुद्ध्या पश्यत्येव, न तु मनसि स्फुरतोऽपि भाषते तद् भावश्रुतम् इतीदमपि स्वयमेवाऽवगन्तव्यम् । तदेतावता किं तद् द्रव्यादिश्रुतम् १, कथं वा तद् भवति ?, इत्येवं चिन्तितम् । अथ 'को वा भावसुयंसो' इत्यादि चिन्त्यते तत्र भावश्रुतमुभयश्रुताद् द्रव्यश्रुताच्चाऽनन्तगुणम्, एतस्मात्तूभयश्रुतं द्रव्यश्रुतं चानन्ततमे भागे वर्तत इति भावनीयम्, वाचः क्रमवर्तित्वात्, आयुषश्च परिमितत्वात् सर्वेषामपि भावश्रुतविषयभूतानामर्थानामनन्ततममेव भागं वक्ता भाषत इति भावः । ततश्च भावश्रुतस्याऽनन्ततम एव भागो द्रव्यश्रुतत्वेनोभयश्रुतत्वेन च परिणमतीत्युक्तं भवति । एतच्च सर्वमनन्तरमेव भाष्यकारः स्वयमेव विस्तरतो भणिष्यतीत्यलं विस्तरेण ॥
आह- ननु यानुपयुक्तो भाषते तदुभयश्रुतम्, यांस्त्वनुपयुक्तो वक्ति तद् द्रव्यश्रुतमित्युक्तम् ; यांस्तर्हि न भाषते, केवलं श्रुतबुद्ध्या पश्यत्येव, तत्रापि द्रव्यश्रुतरूपता, उभयश्रुतरूपता च किमिति नेष्यते ? ; इत्याशङ्क्याह-' इयरत्थ वीत्याद्युत्तरार्ध' 'जे भासइ तं सुयं ' इत्युक्ते तत्प्रतियोगिस्वरूपमभाषमाणावस्थाभावि भावश्रुतमेव इतरत्र शब्दवाच्यं भवति । ततश्चायमर्थः- द्रव्यश्रुतोभयश्रुताभ्यामितरत्रापि भावश्रुते भवेत् श्रुतं द्रव्यश्रुतरूपता, उभयश्रुतरूपता वा भवेदित्यर्थः । यदि किं स्यात् ?, इत्याह-उपलम्भनमुपलब्धिस्तत्समं तत्प्रमाणं यदि भणेत् यावद् वस्तुनिकुरम्यमुपलभते तावत्सर्वमुपयुक्तोऽनुपयुक्तो वा यदि वदेदित्यर्थः एतच्च नास्ति, श्रुतोपलब्ध्या उपलब्धानामर्थानामनन्तत्वात्, वाचः क्रमवर्तित्वात्, आयुषश्च परिमितत्वादिति । तस्मादभिलाप्यानां श्रुतोपलब्ध्या समुपलब्धानां भावानां मध्यात् सर्वेणापि जन्मनाऽनन्ततममेव भागं भाषते वक्ता, अतस्तत्रैवाऽनुपयुक्तस्य वदतो द्रव्यश्रुतरूपता, उपयुक्तस्य तु वदतउभयश्रुतरूपता भवेत्, नेतरत्र भावश्रुते, भाषणस्यैवाऽसंभवात् । इति पूर्वगतगाथार्थः ॥ १२८ ॥
वृहद्वृत्तिः।
तदेवं व्याख्याताऽस्माभिरियं गाथा, सांप्रतं भाष्यकारस्तत्र्याख्यानमाह
जे सुबुद्धिद्दिट्ठे सुयमइसहिओ पभासई भावे । तं उभयसुयं भन्नइ दव्वसुयं जे अनुवउत्तो ॥ १२९ ॥ गतार्थैव, नवरं सुखार्थं किञ्चिद् व्याख्यायते श्रुतरूपा यका बुद्धिस्तया दृष्टाः पर्यालोचिता ये भावास्तन्मध्याद् 'मॅईसहियं ' १ गाथा ११७ । २ गाथा १२७ । ३ यान् श्रुतबुद्धिदृष्टान् श्रुतमतिसाहितः प्रभाषते भावान् । तदुभयश्रुतं भण्यते द्रव्यश्रुतं याननुपयुक्तः ॥ १२९ ॥ ४ गाथा १२८ ।
१॥ ८३ ॥
For Personal and Private Use Only
Page #86
--------------------------------------------------------------------------
________________
बृहद
विशे०
. ।। ८४॥
इत्यस्य तात्पर्यव्याख्यानमाह- श्रुतात्मकमतिसहितः श्रुतोपयुक्त इति यावत् , यान् भावान् प्रभाषते तद् द्रव्य-भावरूपमुभयश्रुतं भण्यते । यान् पुनरनुपयुक्तो भाषते तद् द्रव्यश्रुतं शब्दमात्रमेवेत्यर्थः । यांस्तु श्रुतबुद्ध्या पर्यालोचयत्येव केवलं, न तु भाषते, तद् भाव- श्रुतमित्यर्थाद् गम्यते ॥ इति गाथार्थः ।। १२९ ॥
उत्तरार्धव्याख्यानमाह
'इयरत्थ वि भावसुये होज तय तस्सम जइ भणिज्जा । न य तरइ तत्तियं सो जमणेगगुणं तयं तत्तो॥१३०॥
यद् भाषते तदुभयश्रुतं द्रव्यश्रुतं वेत्युक्ते भावश्रुतमेवेतरत्रशब्दवाच्यं गम्यते । ततश्चेतरत्राऽपि भावश्रुते भवेत् तद् द्रव्यश्रुतमुभयश्रुतं वा, यदि तत्सममुपलब्धिसम भणेत् , तच्च नास्ति, यस्माच्छुतज्ञानी स्वबुद्ध्या यावदुपलभते तावद् वक्तुं 'न तरति' न शक्नोति। कुतः, इत्याह-यद् यस्मात् कारणात् ततो भाषाविषयीकृताच्छूतात् तदशक्यभाषणक्रियं भावश्रुतमनेकगुणमनन्तगुणम् , अतो नोपलब्धिसम भणति ॥ इति गाथार्थः ॥ १३० ॥
उपलब्धिसममित्येतस्य समासविधिमाह
सेह उवलडीए वा उवलद्धिसमं तया व जं तुल्लं । जं तस्समकालं वा न सव्वहा तरइ वोत्तुं जे ॥१३॥
यद् भाषणमुपलब्ध्या सह वर्तते तदुपलब्धिसमम् , प्राकृतशैलीनिपातनात् सहस्य समभावः, या या श्रुतोपलब्धिस्तया तया सह यद् भाषणं तदुपलब्धिसममित्यर्थः, 'तया व जं तुलं ति' तया वोपलब्ध्या यत्तुल्यं समानं तदुपलब्धिसम-यावती काचिच्छ्रतोपलब्धिस्तत्तुल्यं तत्संख्यं यद्भाषणं तद् वोपलब्धिसममित्यर्थः । 'जं तस्समकालं वेति' तयोपलब्ध्या समकालं वा यद् भाषणं तदुपलब्धिसमम् , यथा मध्ये शूलं वेदयतस्तत्समकालमेवाऽन्यस्मै तन्यथाकथनम् , एवमन्तः सर्वामपि श्रुतोपलब्धिमनुभवतस्तत्समकालमेव यद् भाषणं तद् वोपलब्धिसममिति भावः। किंबहुना, सर्वथा सर्वस्मिन्नपि समासविधावयं तात्पयार्थः। कः?, इत्याह-श्रुतज्ञानी यावच्छूतबुद्धया समुपलभते, तावत् सर्वं न तरति न शक्नोति वक्तुम् । 'जे' इत्यलङ्कारमात्रे ॥ इति गाथार्थः ॥१३१॥ अथ कथं पुनरन्ये एतां गाथां मति-श्रुतभेदार्थे व्याख्यानयन्ति ?, इत्याह
इतरत्राऽपि भावभुते भवेत् तत् तत्समं वदि भणेत् । न च तरति (शक्नोति) तावत् स यदनेकगुण तत् ततः ॥ १३०॥ १ सहोपलब्ध्या वोपलब्धिसमं तथा वा अत् तुल्यम् । यत् तत्समकालं वा न सर्वथा तरति (शक्नोति) वक्तुम् ॥ १३ ॥
SOSORO
॥ ८४॥
प्रह
Saro
For Personal and Private Use Only
Page #87
--------------------------------------------------------------------------
________________
HOOolrala
विशे०
बृहद्वत्तिः ।
॥८५॥
See
केई बुद्धिद्दिढे मइसहिए भासओ सुयं, तत्थ । किं सदो मइरुभयं भावसुयं सव्वहाऽजुत्तं ॥ १३२॥ . इह केचनाऽप्याचार्या मति-श्रुतयोर्भेदं प्रतिपिपादयिषवो 'बुद्धिद्दिढे अत्थे जे भासइ' इत्यादिमूलगाथायां 'बुद्धिः श्रुतबुद्धिः' इति न व्याख्यानयन्ति, किन्तु 'बुद्धिर्मतिः' इति व्याचक्षते । ततश्च बुझ्या मत्या दृष्टेषु बहुष्वर्थेषु मध्ये कांश्चित् तदृष्टानर्थान् मतिसहितान् भाषमाणस्य श्रुतं भवति ॥
आह- ननु मतिज्ञान्येव मतिसहितो भवति, तत् कथमर्थानां मतिसहितत्वं विशेषणम् । सत्यम् , किन्तु मूलगाथायां मईसहियं' इति वचनाद् मत्युपयोगे वर्तमानोऽत्र वक्ता गृह्यते, अतस्तस्य मत्युपयोगसहितत्वादनामप्युपचारतस्तत्सहितत्वमुच्यते । तस्माद् पतिज्ञानदृष्टानस्तदुपयुक्तस्यैव भाषमाणस्य श्रुतं भवतीति तात्पर्यम् ; अनुपयुक्तस्य तु वदतो द्रव्यश्रुतम् , पारिशेष्यादभाषमाणस्य पदार्थपर्यालोचनमात्ररूपं मतिज्ञानम् , इति मति-श्रुतयोर्भेदः । तदेवं कैश्चिद् मूलगाथायाः पूर्वार्धे व्याख्याते त्रिषणमाह-'तत्थ किं सद्दो इत्यादि' तत्र तैरेवं व्याख्याते भावश्रुतं सर्वथैवाऽयुक्तं स्यात् सर्वथा तदभावः प्रामोतीत्यर्थः, तथाहि- किं भाष्यमाणः शब्दो भावश्रुतम् , मतिर्वा, उभयं वा ? इति त्रयी गतिः । अस्य च त्रितयस्य मध्ये नैकमपि भावश्रुतं युक्तमिति भावः।।इति गाथार्थः॥१३२॥
कथम् ?, इत्याह
सैदो ता दव्वसुयं मइराभिणिबोहियं नवा उभयं । जुत्तं, उभयाभावे भावसुयं कत्थ तं किंवा ? ॥१३३॥
मत्युपयुक्तस्य शब्दमुदीरयतो यस्तावच्छब्दः स द्रव्यश्रुतमेव, इति कथं भावश्रुतं स्यात् ?, मतिस्त्वाभिनिबोधिकज्ञानम् । भवतु तर्हि मति-शब्दलक्षणमुभयं समुदितं भावश्रुतम् , इत्याह- 'नवा उभयं जुत्तं ति' नैव यथोक्तमुभयं समुदितमपि भावश्रुतं युक्तम्, प्रत्येकावस्थायां तद्भावाभावात् , न हि प्रत्येकं सिकताकणेष्वसत् तैलं समुदितावस्थायामपि भवतीति भावः । तदेवमुभयस्य खतन्त्रस्याऽस्वतन्त्रस्य वा भावश्रुतत्वेनाऽभावे सति तद् भावश्रुतं क शब्दादौ ?, किंवा तत् ?, न किञ्चिदिति भावः ॥ इति गाथार्थः ॥ १३३॥ ___ अथ भाषापरिणतिकाले मतेः किमप्याधिक्यमुपजायते, इत्युभयस्य श्रुतत्वं न विरुध्यते; इत्याह
केचिद् बुद्धिष्टान् मतिसहितान् भाषमाणस्य श्रुतं, तत्र । किं शब्दो मतिरभवं भावभुतं सर्वधाऽयुक्तम् ॥ १३२॥ २ गाथा १२८ । ३ शब्दस्तावद् प्रष्यश्रुतं मतिराभिनिबोधिकं नवोभयम् । युक्तं, उभयाभावे भावभुतं क तत् किंवा ! ॥ १२ ॥
॥८५॥
सपटकसमसालय
For Pesond
ere
Page #88
--------------------------------------------------------------------------
________________
विशे०
गतिकाले शब्दमावत' अथवा अन्य विशेषः
बृहद्वृत्तिः ।
॥८६॥
भासापरिणइकाले मईए किमहियमहण्णहत्तं वा । भासासंकप्पविसेसमेत्तओ वा सुयमजुत्तं ॥१३॥
मतेरन्तर्विज्ञानविशेषस्य भाषापरिणतिकाले शब्दप्रारम्भवेलायां पूर्वावस्थातः किमधिकं रूपं संपद्यते ?, येनोभयावस्थायां सा ज्ञानान्तरं स्यात् श्रुतव्यपदेशः स्यादित्यर्थः । 'अहण्णहत्तं वेति' अथवा अन्यथात्वं किं मतेर्भाषापरिणतिकाले निर्मूलत एवाऽन्यथाभावः कः, येन श्रुतत्वं स्यात् , न कश्चिदिति भावः । भाषाऽऽरम्भ एवात्र विशेषः, इति चेत् । इत्याह-'भासेत्यादि' भाषायाः संकल्पप्रारम्भः स एव विशेषमात्र, मात्रशब्दो मनागपि विकारभवननिषेधार्थः, तस्माद् भाषासंकल्पविशेषमात्राद् मतेः श्रुतत्वमयुक्तम् । एतदुक्तं भवति-- अन्तर्विज्ञानस्य स्वयमविशिष्टस्य बाह्यक्रियारम्भादत्यन्तजातिभेदाभ्युपगमे धावन-वल्गन-करास्फोटनादिबाह्यक्रियाऽऽनन्त्याद् मतेरानन्त्यमेव स्यात् , स्वयं चाऽनुपजातविशेषाणां ज्ञानानां शब्दपरिणतिसंनिधानमात्रत एव ज्ञानान्तरत्वेऽतिप्रसङ्गः स्यात् , अवध्यादिष्वपि तथाप्राप्तेः ॥ इति गाथार्थः ।। १३४ ॥
तदेवं कैश्चिद् विहितं मूलगाथायाः पूर्वार्धव्याख्यानं दुषितम् , अथोत्तरार्धव्याख्यानमुपदर्य दूषयितुमाह
ईयरत्थ वि मइनाणे होज सुयं ति किह तंसुयं होइ?। किह व सुयं होइ मई सलक्खणावरणभेयाओ॥१३५॥
'बुद्धिद्दिष्टे अत्थे' इत्यत्र बुद्धिमतिज्ञानं व्याख्यातम् , तन्मतेन ' ईयरत्य वि होज सुयं उवलद्धिसमं जइ भणेज्जा' इत्युत्तरार्धगतस्येतरत्रशब्दस्य मतिज्ञानमेव वाच्यम् , शब्दसहितमते व्यभावश्रुतत्वेनोक्तत्वात् , तदितरस्य मतिज्ञानस्यैव तत्र संभवात् । ततश्च तद्व्याख्यानमनूद्य दूषयति- इतरत्रापि मतिज्ञाने श्रुतं भवेद् यापलब्धिसमं भाषेत इति यत्तरुच्यते, तदयुक्तम् , यतो हन्त ! यद् मतिज्ञानं, तत् कथं श्रुतं भवितुमर्हति ? । श्रुतं चेत् , कथं वा तद् मतिभवेत् । । कुतः पुनरित्थं न भवति ?, इत्याह-मति-श्रुतयोर्यत् खकीयं लक्षणं, कर्म चाऽऽवारकं, तयोर्भदेनाऽऽगमे प्रतिपादनात् । यदि च यदेव मतिज्ञानं तदेव श्रुतम् , यदेव च श्रुतं तदेव मतिज्ञानं स्यात्, तदा लक्षणा-ऽऽवरणभेदोऽपि तयोर्न स्यात् ।। इति गाथार्थः ॥ १३५ ॥
तदेवं 'बुद्धिद्दिढे अत्थे जे भासइ ' इत्यादिमूलगाथां मति-श्रुतभेदप्रतिपादनपरतया व्याचिख्यासोः परस्य ‘मति वश्रुतं न युज्यते ' इति प्रतिपादितम् । यदि तु द्रव्यश्रुतं साऽभ्युपगम्यते तदा न दोषः, इत्युपदर्शयन्नाह
१ भाषापरिणतिकाले मत्या किमधिकमथाऽन्यथात्वं वा ? । भाषासंकल्पविशेषमात्रतो वा श्रुतमयुक्तम् ॥ १३ ॥ २ इतरत्रापि मतिज्ञाने भवेत् श्रुतमिति कथं तत् श्रुतं भवति ? । कथं वा श्रुतं भवति मतिः स्खलक्षणाऽऽवरणभेदात् ? ॥ १३५ ॥ ३ गाथा १२८ ।
Jan Education intem
For Personal and Private Use Only
www.jaineltrary.ary
Page #89
--------------------------------------------------------------------------
________________
विशे०
॥८७॥
अहव मई दव्वसुयत्तमेउ भावेण सा विरुज्झेज्जा । जो असुयक्खरलाभो तं मइसहिओ पभासेजा॥१३६॥
अथवा मतिद्रव्यश्रुतत्वमेतु- आगच्छतु न तत्र वयं निषेद्धारः, केवलमेतदेव निर्बन्धेनाऽभिदध्मो यदुत- भावेन भावश्रुतत्वेन सा मतिर्विरुध्येत दर्शितन्यायेन विरोधमनुभवेत् , इदमुक्तं भवति- 'केई बुद्धिद्दिढे मइसहिए भासओ सुयं' इत्यत्र गाथार्धे योऽसौ श्रुतशब्दः स यदि द्रव्यश्रुतवाचित्वेन व्याख्यायते तदा विरोधो न भवति । कथम् ?, इति चेत् । उच्यते- बुद्धिमतिस्तदृष्टान् मत्युपयोगसहितानर्थान् भाषमाणस्य सा मतिः शब्दलक्षणस्य द्रव्यश्रुतस्य कारणत्वाद् द्रव्यश्रुतम् , अभाषमाणस्य तु मतिज्ञानम् , इत्येवं मति-द्रव्यश्रुतयोर्भेदः प्रोक्तो भवति, न तु मति-श्रुतज्ञानयोः केवलं विरोधपरिहारमात्रमित्थमुपकल्पितं भवति ॥
अत्राह कश्चित्- ननु यदि मत्युपयोगे वर्तमानो भाषेत कश्चित् , तदा द्रव्यश्रुतकारणत्वाद् मतिः स्याद् द्रव्यश्रुतम् , एतच न भविष्यति; इत्याह- 'जो असुयेत्यादि ' योऽश्रुतानुसार्यक्षरलाभः, तं मत्युपयोगे वर्तमानो भाषेत वक्ता, नात्र कश्चित् संदेहः, यस्तु श्रुतानुसार्यक्षरलाभस्तं श्रुतोपयोगे एव वर्तमानो भाषेत, अतो न तच्छब्दस्य मतिः कारणम् , श्रुतपूर्वत्वात् तस्येति भावः इदमुक्तं भवति- यः परोपदेशाद्वचनलक्षणं श्रुतमनुसृत्याऽक्षरलाभोऽन्तः स्फुरति तं श्रुतोपयोगे एव वर्तमानो भाषते, यस्त्वश्रुतानुसारी स्वमत्यैव पर्यालोचित इहा-ऽपायेषु स्फुरत्यक्षरलाभः, तं यदा मत्युपयोगसहित एव भापते, तदा तस्य शब्दलक्षणस्य द्रव्यश्रुतस्य कारणत्वाद् भवत्येव मतिद्रव्यश्रुतम् ।। इति गाथार्थः ॥ १३६ ॥
अथाऽस्मिन्नेव मते व्यश्रुतत्वपक्षे 'ईयरत्थ वि होज सुयं' इत्यादौ मूलगाथाया उत्तरार्धे योऽर्थः संपद्यते तमाचार्यः प्रदर्शयन्नाह
ईयरम्मि वि मइनाणे होज तयं तस्समं जइ भणेजा । न य तरइ तत्तियं सो जमणेगगुणं तयं तत्तो॥१३७॥
भाषमाणस्य मतिद्रव्यश्रुतमित्युक्तम् , अतोऽभाषमाणावस्थाभावि मतिज्ञानमितरत्रशब्दवाच्यं भवति । ततश्चेतरत्राप्यभाषमाणावस्थाभाविनि मतिज्ञाने भवेत् तद् द्रव्यश्रुतं यदि तत्सम मतिज्ञानोपलब्धिसमं भणेत् , यावद् मतिज्ञानेनोपलभते तावत् सर्व वदेदित्यर्थः एतच्च नास्ति । कुतः ? इत्याह-- न च नैव 'तरति' शक्नोति स यावद् मतिज्ञानेनोपलभते तावद् वक्तुम् । कुतः । इत्याह
१ अथवा मतिईग्यश्रुतत्वमेतु भावेन सा विरुध्येत । योऽश्रुताक्षरलाभस्तं मतिसहितः प्रत॥ १३६॥ २ गाथा १३२ । ३ गाथा १२८ । ४ इसरस्मिन्नपि मतिज्ञाने भवेत् तत् तत्समं यदि भणेत् । न च ताशक्नोति) तावत् स यदेनकगुणं तत् ततः ॥ १३ ॥
Jan Education Interat
For Personal and Private Use Only
www.jaineltrary.org
Page #90
--------------------------------------------------------------------------
________________
विशे०
बृहद्वृत्तिः ।
॥८८॥
यद् यस्मात् ततो वक्तुं शक्यात् तत् सर्वमपि मतिज्ञानोपलब्धमनेकगुणमनन्तगुणम् ।। इति गाथार्थः ।। १३७ ।।
अत्र विनेयः प्राह
कह मइ-सुओवलद्धा तीरंति न भासिउं, बहुत्ताओ । सव्वेण जीविएण वि भासइ जमणंतभागं सो ॥१३॥
नन्वनन्तरगाथायां मत्युपलब्धाः सर्वेऽपि वक्तुं न शक्यन्त इत्युक्तम् , पूर्वं तु श्रुतोपलब्धा अपि सर्वेऽभिधातुं न पार्यन्त इत्यभिहितम् । तदेतत् कथं, यद् मति-श्रुतोपलब्धा भावा न तीर्यन्ते भाषितुम् । अत्राह- बहुत्वात् प्राचुर्यात् । तत्रैतत् स्यात्- कुतः पुनरेतावद् बहुत्वं तेषां निश्चितम् ? इत्याह- यद् यस्मात् कारणात् सर्वेणाऽप्यायुषा स मति-श्रुतज्ञानी समुपलब्धानामर्थानामनन्ततममेव भागं भापत इत्यागमे निर्णीतम् , तस्माद् बहुत्वावगमः ॥ इति गाथार्थः ।। १३८ ।
अथ मत्याद्युपलब्धार्थानां सामस्त्येनाऽभिधानाशक्यत्वे पूर्वोक्तम् , अपरमपि च हेतुं विषयविभागेनाऽभिधित्सुराह
तीरंति न वोत्तुं जे सुओबलहा बहुत्तभावाओ । सेसोवलद्धभावा साभवबर्हत्तओऽभिहिया ॥१३९॥
सर्वेऽपि श्रुतोपलब्धा भावा न तीर्यन्ते न पार्यन्ते वक्तुम् । 'जे' इति पूर्ववदेव । कुतस्ते वक्तुं न पार्यन्ते , इत्याह-बहुत्वभावाद् बहुत्वसद्भावादेवेत्यवधारणीयम् , न तु तत्स्वाभाव्यादित्यभिप्रायः । ' सेसोवलद्धभावा साभव्वत्ति' शेषं श्रुतादन्यत् प्रस्तुतं मतिज्ञानं, समानवक्तव्यताप्रस्तावलब्धानि मत्य-ऽवधि-मनःपर्याय-केवलानि वा शेषाणि तेन तैर्वा उपलब्धा ज्ञाताः शेषोपलब्धास्ते च ते भावाश्चेति समासः, स्वाभाव्यादेवाऽनभिलाप्यात्मकत्वादेव न तीर्यन्ते भाषितुम् ॥
आह- नन्वेते यथाऽनभिलाप्यत्वादभिधातुं न शक्यन्ते, तथा बहुत्वादपि, तत् किमित्यनभिलाप्यस्खभाक्त्वमेवैकमत्र हेतुत्वेनोच्यते । सत्यम् , किन्त्वभिलाप्यत्वे सति बहुत्वा-ऽज्यत्वचिन्ता क्रियमाणा विभ्राजते, ये तु मूलत एवाऽनभिलाप्यास्तेषु बहुत्वलक्षणो हेतुरुच्यमानोऽपि निष्फल एव, अनभिलाप्यात्मकत्वेनैवाऽभिधानाशक्यत्वस्य सिद्धत्वादिति ।। किञ्च, 'बहुत्तओऽभिहिय त्ति' | बहुत्वाच्छेषोपलब्धा भावा यथा वक्तुं न शक्यन्ते तथा 'केह मइसुओवलद्धा तीरन्ति न भासिउं, बहुत्ताओ' इत्याद्यनन्तरगाथायामभिहिता एव, इति किं बहुत्वहेतूपन्यासेन ?, पौनरुक्त्यप्रसङ्गात् । शेषज्ञानेषु मध्ये मतिरेव स तत्र प्रोक्तः, अत्र त्ववध्यादीन्यपि गृहीतानि सन्ति, अतस्तदर्थमयमिहापि वक्तव्य इति चेत् । नैवम् , मतेरुपलक्षणत्वेनाऽवध्यादिष्वप्यसौ तत्र द्रष्टव्य इत्यदोषः । यद्येवम् , तर्हि
, कथं मतिश्रुतोपलब्धा तीर्यन्ते न भाषितुं, बहुत्वात् । सर्वेण जीवितेनाऽपि भाषते यदनन्तभागं सः ॥ १३८ ॥ २ तीर्यन्ते न वक्तुं श्रुतोपलब्धा बहुत्वात् । शेषोपलब्धभावा स्वाभाव्य-बहुत्वतोऽभिहिताः ॥ १३९॥ ३ गाथा १३८ ।
॥८८
JanEducational Interme
For Personal and Private Use Only
Page #91
--------------------------------------------------------------------------
________________
बृहद्वत्तिः ।
विशे० ॥ ८९॥
श्रुतस्यापि बहुत्वलक्षणो हेतुः प्रागुक्त एव, किमितीह पुनरप्युच्यते ? इति चेत् । सत्यम् , किन्तु श्रुतोपलब्धा बहुत्वात् , शेषोपलब्धास्तु तत्स्वाभाव्याद् न शक्यन्तेऽभिधातुम् , इति विषयविभागदर्शनार्थ तस्येह पुनरुपन्यासः ।।
अपरस्त्वाह-ननु मत्याधुपलब्धानामपि केषाञ्चिदभिलाप्यत्वात् किमुच्यते 'सेसोवलद्धभावा साभव्यत्ति' ? | सत्यम् , किन्तु तेषां श्रुतविषयत्वेनैवाऽभिधानाशक्यत्वस्योक्तत्वाददोषः ॥ इति गाथार्थः ।। १३९ ।।
विनेयः पृच्छति
केत्तो एत्तियमेत्ता भावसुय-मईण पज्जया जेसिं ? । भासइ अणंतभागं, भण्णइ जम्हा सुएऽभिहियं ॥१४॥
कुतः पुनरेतावन्तो भावश्रुत-मत्योः पर्याया उपलब्धार्थविषया विशेषाः , येषां सर्वेणापि जन्मनाऽनन्तभागमेव भाषत इति मागुक्तम् । अत्र गुरुराह--भण्यतेऽत्रोत्तरम् -- यस्मात् सूत्रे आगमे वक्ष्यमाणमभिहितम् , तस्मात्तयोरेतावन्तः पर्यायाः ।। इति गाथार्थः।।१४०॥
किं तत् सूत्रेऽभिहितम् ? इत्याह
पेण्णवणिज्जा भावा अणंतभागो उ अणभिलप्पाणं । पण्णवणिजाणं पुण अणंतभागो सुयनिबद्धो ॥१४१॥
प्रज्ञाप्यन्ते प्ररूप्यन्त इति प्रज्ञापनीया वचनपर्यायत्वेन श्रुतज्ञानगोचरा इत्यर्थः । के ?, भावा ऊर्ध्वाधस्तिर्यग्लोकान्तर्निविष्टभूभवन-विमान-ग्रह-नक्षत्र-तारका-
ऽन्द्रादयस्ते सर्वेऽपि मिलिताः । किम् ? इत्याह-अनन्ततम एव भागे वर्तन्ते । केषाम् ?, अत्राह- अनभिलाप्यानामर्थपर्यायत्वेनाऽवचनगोचरापन्नानामित्यर्थः, अनभिलाप्यवस्तुराशेरभिलाप्यपदार्थसार्थः सर्वोऽप्यनन्ततम एव भागे वर्ततइत्यर्थः । प्रज्ञापनीयपदार्थानां पुनरनन्तभाग एव चतुर्दशपूर्वलक्षणे श्रुते निबद्धो भगवद्भिर्गणधरैः साक्षाद् ग्रथितः ॥ इति गाथार्थः ॥१४१॥
कुतः पुनरेतद् विज्ञायते यदुत- प्रज्ञापनीयानामनन्तभाग एव श्रुतनिबद्धः १, इत्याह--
जं चोदसपुव्वधरा छट्ठाणगया परोप्परं होति । तेण उ अणंतभागो पण्णवणिजाण, जं सुत्तं ॥१४२॥ यद् यस्मात् कारणाच्चतुर्दशपूर्वधराः षट्स्थानपतिताः परस्परं भवन्ति, हीनाधिक्येनेति शेषः, तथाहि-- सकलाभिलाप्यवस्तु
, कुत एतावन्मात्रा भावभुत-मत्योः पर्याया येषाम् ? । भाषतेऽनन्तभागं, भण्यते यस्मात् श्रुतेऽभिहितम् ॥ १४ ॥ २ प्रज्ञापनीया भावा अनन्तभागस्तु अनभिलाप्यानाम् । प्रज्ञापमीयानां पुनरनन्तभागः श्रुतनिबद्धः ॥ ११ ॥ ३ यच्चतुर्दशपूर्वधराः षट्स्थानगताः परस्परं भवन्ति । तेन तु अनन्तभागः प्रज्ञापनीयाना, यत् सूत्रम् ॥ १४२ ॥
।
॥८९॥
JanEducationatemation
For Pesond
er
Page #92
--------------------------------------------------------------------------
________________
पर
वृहद्वात्तः।
विशे० ॥९॥
वेदितया य उत्कृष्टश्चतुर्दशपूर्वधरः, ततोऽन्यो हीन-हीनतरादिः, आगमे इत्थं प्रतिपादितः,तद्यथा-"अणंतभागहीणे वा, असंखेज्जभागहीणे वा, संखेजभागहीणे वा, संखेजगुणहीणे वा, असंखेजगुणहीणे वा, अर्णतगुणहणि वा" । यस्तु सर्वस्तोकाभिलाप्यवस्तुज्ञायकतया सर्वजघन्यः, ततोऽन्य उत्कृष्ट उत्कृष्टतरादिरप्येवं प्रोक्तः, तद्यथा “ अणंतभागभहिए वा, असंखेज्जभागभहिए वा, संखेज्जभागभाहए वा; संखेजगुणब्भहिए वा, असंखेजगुणब्भाहए वा, अणंतगुणब्भहिए वा" । तदेवं यतः परस्परं पदस्थानपतिताश्चतुर्दशपूर्वविदः, तस्मात् कारणात् यत् मूत्रं चतुर्दशपूर्वलक्षणं तत् प्रज्ञापनीयानां भावानामनन्तभाग एवेति । यदि पुनर्यावन्तः प्रज्ञापनीया भावास्तावन्तः सर्वेऽपि सूत्रे निबद्धा भवेयुः, तदा तद्वदिनां तुल्यतैव स्यात् , न षट्स्थानपतितत्वमिति भावः ॥ इति गाथार्थः ॥१४२॥
आह-ननु यदि सर्वेऽपि चतुर्दशपूर्वविदः, तर्हि कथं तेषां परस्परं हीनाधिक्यम् ? इत्याह
अक्खरलंभेण समा ऊणहिया होति मईविसेसेहिं । ते वि य मईविसेसे सुयनाणभंतरे जाण ॥१४३॥
चतुर्दशपूर्वगतमूत्रलक्षणेनाऽक्षरलाभेन समास्तुल्याः सर्वेऽपि चतुर्दशपूर्वविदः, ऊनाधिकौस्ते मतिविशेषैर्भवन्ति क्षयोपशमवैचिच्याद् यथोक्ताक्षरलाभानुसारिभिरेव तैस्तैर्गम्याविषयैर्विचित्रैर्बुद्धिविशेपै-नाधिका भवन्तीत्यर्थः । इह च मतिशब्दोपादानविभ्रमात् ते मतिविशेषा मा भूवनाभिनिबोधिकज्ञानविशेषाः, इत्यत आह- ' ते वि येत्यादि । इदमुक्तं भवति- मतिशब्देनेह श्रुतमतिर्विवक्षिता, न त्वाभिनिबोधिकमतिः। ततश्च यैश्चतुर्दशपूर्वविदो हीनाधिकास्तानपि च मतिविशेषान् श्रुतज्ञानाभ्यन्तरे जानीहि श्रुतज्ञानान्तभोविनएव विद्धि, न स्वाभिनिबोधिकान्तर्वतिन इति भावः । यद्येवं ते वि य मईविसेसे सुयनाणं चेव जाणाहि' इत्येवमेव प्रगुणं कस्माद् नोक्तम् , किमभ्यन्तरशब्दोपादानक्लेशेन ? । नैतदेवम् , अस्यापि न्यायस्य दृष्टत्वात् , अङ्गाभ्यन्तरादिव्यपदेशवत् , यथा ह्यङ्गमेवाङ्गाभ्यन्तरम् , एवं श्रुतमेव श्रुताभ्यन्तरमित्युक्तं भवति; अथवा छन्दोभङ्गभयादभ्यन्तरग्रहणम् , यदि वा 'सुयनाण-' इत्यनेन चतुर्दशपूर्वलक्षणं श्रुतमधिक्रियते, ततश्च तानपि गम्यान् मतिविशेषांश्चतुर्दशपूर्वाक्षरलाभरूपस्य श्रुतस्यैवाऽभ्यन्तरे जानीहि त्वं, न व्यतिरितानिति शिष्योपदेशः, चतुर्दशभिरपि हि पूर्वैः कश्चित् साक्षात् , कश्चित्तु गम्यतया सर्वोऽप्यभिलाप्यः पदार्थोऽभिधीयत एवः ततश्च गम्या अपि मतिविशेषास्तदन्त विन एव, तदनुसारित्वात् ॥ इति गाथार्थः॥१४३॥
१ अनन्तभागहीना वा, असंख्येयभागहीना वा, संख्येयभागहीना वा; संख्येयगुणहीना वा, असंख्येयगुणहीना वा, अनन्तगुणहीना वा। २ अनन्तभागाभ्यधिका वा, असंख्येयभागाभ्यधिका बा, संण्येयभागाभ्यधिका वा, संख्येषगुणाभ्यधिका वा, असंख्येषगुणाभ्यधिका बा, अनन्सगुणाभ्यधिका वा । ३ अक्षरलाभेन समा ऊनाधिका भवन्ति मतिविशेषैः । तानपि च मतिविशेषान् श्रुतज्ञानाभ्यन्तरे जानीहि ॥ १४३ ॥ ४ घ. छ 'कास्तु'।
CRP
॥ ९
॥
ForsTower
For Persone el
Page #93
--------------------------------------------------------------------------
________________
विशे०
॥९
॥
चतुर्दशपूर्वलक्षणश्रुतानुसारित्वेन यदेतद् मतिविशेषाणां तदन्त वित्वमुक्तम् , तदेव समर्थयन्नाह
जे अक्खराणुसारेण मईविसेसा तयं सुयं सव्वं । जे उण सुयनिरवेक्खा सुखै चिय तं मइन्नाणं ॥१४॥
येऽक्षरानुसारेण श्रुतग्रन्थमनुसृत्य जायन्ते मतिविशेषास्तत् सर्वं श्रुतमेव, इत्यसकृदुक्तम् । ये तु यथोक्तश्रुतनिरपेक्षाः स्वयमेवोलेक्षितवस्तुतत्त्वा मतिविशेषाः समुत्पद्यन्ते तच्छुद्धं मतिज्ञानमेव, इत्येतदप्यनेकधा प्रागप्यभिहितम् । तस्माच्चतुर्दशपूर्वगताक्षरानुसारेण जायमानाः प्रस्तुतमतिविशेषाः सर्वे श्रुतमेव ॥ इति गाथार्थः ॥ १४४ ॥
. तदेवं द्रव्यश्रुतादिश्रुतस्वरूपप्रतिपादनप्रकारेण 'बुद्धिदिहे अत्थे जे भासइ' इत्यादिमूलगाथा व्याख्याय 'केई बुद्धिद्दिढे मइ. सहिए भासओ' इत्यादिना दर्शितमपि विशेषदूषणाभिधित्सया पुनरपि मतान्तरमुपदर्शयन्नाह
केइ अभासिजन्ता सुयमणुसरओ वि जे मइविसेसा । मन्नति ते मइच्चिय भावसुयाभावओ, तन्नो॥१४५॥
केचिद् व्याख्यातारः ' मन्नति ते मइ चियत्ति' तान् मतिविशेषान् श्रुतमनुसरतोऽपि मतिरेवेति मन्यन्ते । ये किम् ? इत्याहयेऽभाष्यमाणा येषु शब्दप्रवृत्तिर्नास्तीत्यर्थः, श्रुतानुसारिणोऽपि मतिविशेषा ये शब्दप्रवृत्तिरहिताः केवलं हृद्येव विपरिवर्तन्ते ते मतिज्ञानमेवेति केचिद् मन्यन्त इति भावः । तदेतद् न । कुतः १, इत्याह- भावश्रुताभावप्रसङ्गात् , तदभावश्च ''किं सद्दो मइरुभयं भावसुर्य सव्वहाऽजुत्तं'' सद्दो ता दबसुयं मइराभिणिवोहियं नवा उभयं' इत्यादिपूर्वोक्तग्रन्थाद् भावनीयम् ॥ इति गाथार्थः ॥ १४५ ॥
किश्च,
किर्ह मइ-सुयनाणविऊ छट्ठाणगया परोप्परं होजा? । भासिजंतं मोत्तुं जइ सव्वं सेसयं बुद्धी ॥ १४६ ॥
यदि भाष्यमाणं मुक्त्वा शेषकं सर्वमपि बुद्धिर्मतिज्ञानमित्यर्थः, तर्हि मति-श्रुतज्ञानाभ्यां विदन्तीति मति-श्रुतज्ञानवेदिनः परस्परं स्वस्थाने परस्थाने च कथं पदस्थानपतिताः स्युः न कथश्चिदित्यर्थः, तथाहि-सर्वेणाऽपि जन्मना मति-श्रुतोपलब्धानामनामनन्तभागएव भाष्यत इति प्रागिहैवोक्तम् । ततश्च मतिज्ञानी श्रुतज्ञानिनः सकाशात् सदैवाऽनन्तगुणाधिकः, श्रुतज्ञानी वितरस्माद् नित्यमनन्त
येऽक्षरानुसारेण मतिविशेषास्तत् श्रुतं सर्वम् । वे पुनः श्रुतनिरपेक्षाः शुद्धमेव तद् मतिज्ञानम् ॥ १४ ॥ २ गाथा १२८ । ३ गाथा १३२ ।
४ केचिदभाष्यमाणाः श्रुतमनुसरतोऽपि ये मतिविशेषाः । मन्यन्ते तान् मतिरेव, भावभुताभावतः, तद् न ॥१४५॥५ क.ग. 'स्ते मति'।६ गाथा १३२॥ ७ गाथा १३३ । ८ कथं मति-श्रुतज्ञानविदः षट्स्थानगताः परस्परं भवेयुः । भाष्यमाणं मुक्त्वा यदि सर्व शेषकं बुद्धिः ॥ १४६॥
Page #94
--------------------------------------------------------------------------
________________
विशे०
हाम्नास
बृहद्वा
॥ ९२॥
BR- 6
राइस
गुणहीन एव पामोति, इति न तावत् परस्थाने पदस्थानपतितत्वम् । स्वस्थानेऽपि श्रुतज्ञानी अन्यस्मात् श्रुतज्ञानिनः संख्यातेनैव हीनोऽधिको वा स्यात् , न त्वसंख्यातेन, अनन्तेन वा, भाषकचतुर्दशपूर्वविदा संख्येयवर्षायुष्कत्वेनाऽसंख्येयस्याऽनन्तस्य वा भाषणस्यैवा- ऽसंभवादिति । अस्यैव च विशेषणदूषणस्याऽभिधानार्थ पुनरत्रेदं मतान्तरमुपन्यस्तम् , अन्यथा हि 'केई बुद्धिदिढे मइसहिए भासओ सुयं' इत्यादिना सर्वमिदं प्रागभिहितमेव ।। इति गाथार्थः ॥ १४६ ॥
तदेवं 'बुद्धिद्दिढे अत्थे इत्यादिपूर्वगतगाथा श्रुतस्वरूपाभिधायिना प्रकारेण व्याख्याता, मति-श्रुतयोश्च भेदस्य व्याख्येयत्वेन प्रस्तुतत्वात् तदभिधायकत्वेनापि मतान्तरेण व्याख्याता, तच्च व्याख्यानमयुक्तत्वाद् दुषितम् । अथाऽऽत्माभिमतेन निरवद्यमति-श्रुतभेदपकारणैतां व्याख्यातुमाह
सामन्ना वा बुद्धी मइ-सुयनाणाई तीए जे दिट्ठा । भासइ, संभवमेत्तं गहियं न उ भासणामेत्तं ॥१४७॥ मइसहियं भावसुयं तं निययमभासओ वि मइरन्ना । मइसहियं ति जमुत्तं सुओवउत्तस्स भावसुयं ॥१४८॥
खविहितप्रथमव्याख्यानापेक्षया वाशब्दो यदिवेत्यर्थः, 'बुद्धिद्दिष्टे अत्थे' इत्यत्र येयं बुद्धिः, असौ सामान्या गृह्यते; ततः किम् ? इत्याह-'मइ-सुयनाणाई ति' मति-श्रुतज्ञाने द्वे अपि बुद्धिरिहेत्यर्थः, तया मतिश्रुतज्ञानात्मिकया बुद्ध्या ये दृष्टा भावास्तेषु मध्ये यान् भाषते तद् भावश्रुतमित्युत्तरगाथायां संबन्धः। भाषत इत्यत्र च भाषणस्य संभवमात्रं गृहीतम् , न तु भाषणमात्रम् । ततश्चेदमुक्तं भवति-तत्राऽन्यत्र वा देशे, तदाऽन्यदा वा काले, स चाऽन्यो वा पुरुषः, सति सामग्रीसंभवे निश्चयेनैतान् भाषत एव, इत्येवं यान् भावानन्तर्विकल्पे प्लवमानान् भाषणयोग्यतायां व्यवस्थापयति, तेऽभाष्यमाणा अपि भाषणयोग्याः सन्तो भावश्रुतं भवन्ति, न तु भाष्यमाणा एवेति भावः । एवं च सति मत्युपलब्धानामनभिलाप्यानामर्थानां भाषणायोग्यत्वाद् भावश्रुतत्वमपाकृतं भवति, भाषणयोग्यानां त्वभाष्यमाणानामपि सर्वेषां विकल्पप्रतिभासिनामर्थानां भावश्रुतत्वमावेदितं भवति । अत एव पर्यवसितमर्थ द्वितीयगाथायामाह-नियतं निश्चितं तद् भावश्रुतमभाषमाणस्यापि भवति, योग्यतामात्रेणैव भाषणस्य गृहीतत्वादिति भावः ।।
आह- ये सामान्यबुद्धिदृष्टा अर्था ये भाषणयोग्याः, यदि तेषां भावश्रुतत्वम् , तर्हि मतिज्ञानान्तर्वर्त्यपायविकल्पावभासिनामपि तत्पसङ्गः, न हि तेऽपि न भाषणयोग्याः, इत्याशङ्कयाह-'मतिसहितमिति' । अस्य व्याख्यानमाह-'मइसहियं तीत्यादि' मतिसहितमिति १ गाथा १३२ । २ गाथा १२८। ३ सामान्या वा बुद्धिमात-श्रुतज्ञाने तया ये रष्टाः । भाषते, संभवमानं गृहीतं न तु भाषणामात्रम् ॥ १४७ ॥
मतिसहितं भावभुतं तद् निषतमभाषमाणस्याऽपि मतिरन्या । मतिसहितमिति यदुक्तं श्रुप्तोपयुक्तस्य भाषश्रुतम् ॥ १८ ॥
॥९२॥
Jan Education Internat
For Personal and Private Use Only
Nwww.jaineltrary.org
Page #95
--------------------------------------------------------------------------
________________
विशे०
॥ ९३ ॥
Jain Educationis Internati
यदुक्तं तस्य कः तात्पर्यार्थः १ इत्याह- श्रुतोपयुक्तस्यैव भाषमाणस्याभाषमाणस्य वा भावश्रुतं भवति, नाऽन्यस्य; इदमुक्तं भवति - मतिसहितमिति श्रुतमतिसहितं यथा भवति, एवं यान् भाषते त एव भावश्रुतम्, नाऽन्ये । ततश्च श्रुतोपयुक्तस्यैव भाषणयोग्यानर्थान् विकल्पयतो भावश्रुतं सिद्धं भवति । एवं च सति श्रुतानुसारित्वाभावेन श्रुतोपयुक्तत्वस्यासंभवाद् मतिविकल्पस्य भाषणयोग्यत्वे सत्यपि कुतोभावत्वम् इति ॥
आह- ननु सामान्या बुद्धिरिह गृहीता, श्रुतोपयुक्तत्वे च गृह्यमाणे कथं मतिदृष्टत्वमर्थानां संभवति, श्रुतबुद्धिदृष्टत्वस्यैव तत्र संभवात् । नैतदेवम् मतिपूर्व हि श्रुतम्, ततो यत्र श्रुतबुद्धिदृष्टत्वं तत्र मतिदृष्टत्वमस्त्येव, इति न काचित् क्षतिः, इत्यलमतिचर्चितेन । तदेवं श्रुतज्ञानोपयुक्तः सामान्य बुद्धिदृष्टानर्थान् संभवतो यान् भाषते तद् भावश्रुतमिति स्थितम् । नन्वर्थानां कथं भावश्रुतत्वम् ? ज्ञानस्यैव तत्संभवात् । सत्यम्, किन्तु विषय-विषायणोरभेदोपचाराद् भावश्रुते प्रतिभासमाना अर्था अपि भावश्रुतम् इत्यदोषः । ' महरन्नत्ति ' यथोक्ताद् भावश्रुतादन्या व्यतिरिक्ता मतिर्द्रष्टव्या, इदमुक्तं भवति - येऽभिलाप्या अपि सन्तो घटादयः श्रुतानुसारिवाभावेन श्रुतोपयुक्तैर्न विकल्प्यन्ते ये चार्थपर्यायत्वेन वाचकध्वनेरभावाद् मूलत एवाऽभिलपितुमशक्या अनभिलाप्याः, ते यस्यां विज्ञप्तौ प्रतिभासन्ते, सा मतिरित्यवगन्तव्या न तु श्रुतम्, अभिलाप्यवस्तुविषयायां श्रुतानुसारित्वाभावात्, अनभिलाप्यवस्तुविषयायां तु भाषणायोग्यत्वात् ।। इति गाथाद्वयार्थः ॥ १४७ ॥ १४८ ॥
अष्टोऽवधारणविधिमुपदर्शयन्नाह -
'जे भासइ चेय तयं सुयं तु न उ भासओ सुयं चैव । केई मईए वि दिट्ठा जं दव्वसुयत्तमुवयंति ॥१४९॥
' बुद्धिदिट्ठे अत्थे जे भासइ' इत्यत्र यान् कदाचित् संभवमात्रेण भाषत एव तच्छ्रुतमित्येवमेवावधारणीयम्, न तु भाषमाणस्य श्रुतमेवेतिया भाषते तच्छ्रुतैमेवेत्येवं नावधार्यत इत्यर्थः । कुतः ? इत्याह- यद् यस्मात् कारणात् केचिदभिलाप्याः पदार्था मत्याऽपि दृष्टा अवग्रहेणावगृहीताः, ईहया त्वीहिताः, अपायविकल्पेन तु निश्चिता इत्यर्थः, द्रव्यश्रुतत्वमुपयान्ति शब्दलक्षणेन द्रव्यश्रुतेन भाष्यन्त इत्यर्थः । यदि च भाषमाणस्य श्रुतमेवेत्यवधार्येत, तदैषामपि श्रुतत्वं स्यात्, न चैतदिष्यते श्रुतानुसारित्वाभावेन श्रुतोपयुक्तत्वस्य तेष्वसंभवात् तस्माद् यथोक्तमेवाऽवधारणम् ।। इति गाथार्थः ॥ १४९ ॥
१ यान् भाषत एव तत् श्रुतं तु न तु भाषमाणस्य श्रुतमेव । केचिद् मत्याऽपि दृष्टा यद् द्रव्यश्रुतव्यमुपयान्ति ॥ १४९ ॥ २ गाथा १२८ । ३ ख 'तमित्येतदवधा' ।
For Personal and Private Use Only
बृहद्वतिः ।
॥ ९३ ॥
308
Page #96
--------------------------------------------------------------------------
________________
विशे०
॥ ९४ ॥
Jain Educationa Internatio
अथ यथोक्तव्याख्यानलब्धमति श्रुतभेदोपदर्शनपूर्वकमुपसंहरन्नाह-
ऐवं धणिपरिणामं सुयनाणं उभयहा मइन्नाणं । जं भिन्नसहावाई ताई तो भिन्नरूवा ॥ १५० ॥
एवं प्रागुक्तप्रकारेण केवलाऽभिलाप्यार्थविषयत्वात् सर्वमपि श्रुतज्ञानं ध्वनिपरिणाममेव ध्वनेः शब्दस्य परिणमनं विपरिवर्तनं परिणामो यत्र तद् ध्वनिपरिणामं भवत्येव, श्रुतानुसारित्वेनोत्पन्नमेव ह्येतदिष्यते श्रुतं च संकेतकालभाविपरोपदेशरूपः श्रुतग्रन्थरूपश्च द्विविधः शब्दोऽधिकृतः, तदनुसारेण चोत्पन्ने ज्ञाने ध्वनिपरिणामो भवत्येवेति । मतिज्ञानं तूभयथाऽपि भवति - शब्दपरिणामम्, अशब्दपरिणामं च, अभिलाप्यानभिलाप्यपदार्थविषयं ह्येतत् । ततश्च श्रुतानपेक्षस्वमत्यैव विकल्प्यमानेष्वभिलाप्येषु ध्वनिपरिणामोऽस्मिन्नपि प्राप्यते । अनभिलाप्यविषयतायां तु नासौ तत्र लभ्यते, अनभिलाप्यपदार्था हि स्वयमेव बुध्यमाना अपि वाचकध्वनेरभावाद् विकल्पयितुं, परस्मै प्रतिपादयितुं वा न शक्यन्ते, यथा नालिकेरद्वीपाऽज्यातस्य वहयादयः क्षीरे-क्षु-गुड-शर्करादिमाधुर्यतारतम्यादयो वा ; इति कुतस्तद्विषयतायां ध्वनिपरिणामः ? । अभिलाप्य पदार्थेभ्योऽनन्तगुणाश्चाऽनभिलाप्याः सन्ति । ततोऽभिलाप्या ऽनभिलाप्यवस्तुविषयत्वाच्छब्दा-शब्दपरिणामं मतिज्ञानमिति स्थितम् । अथोपसंहरति--'तो ति' तस्मात् ते मतिश्रुते स्वामि- कालादिभिरविशेषेऽपि भिन्नरूपे भेदवती मन्तव्ये । कुतः ? इत्याह- यद् यस्मात् कारणाद् द्वे अपि भिन्नस्वभावे- उक्तन्यायेनैकस्य ध्वनिपरिणामित्वात्, अपरस्य तूभयस्वभावत्वात् ॥ इति गाथार्थः ।। १५० ।।
तदेवं मूलगाथायां 'बुद्धिद्दि अत्थे जे भासइ तं सुयं मईसहियं' इत्येतत् पूर्वार्ध 'सामण्णा वा बुद्धी' इत्यादिना व्याख्यातम् । अथ 'ईयरत्थ वि होज्ज सुयं उवलद्धिसमं जइ भणेज्जा' इत्येतदुत्तरार्धं व्याचिख्यासुराह
रति मन्नाणं तओ वि जइ होइ सहपरिणामो । तो तम्मि वि किं न सुयं भासइ जं नोवलद्धिसमं ? ॥ १५१ ॥
' ईयरत्थ वि होज्ज सुर्य' इति मूलगाथोत्तरार्धे इतरशब्दस्य किं वाच्यम् ?, इत्याह- इतरदिति मतिज्ञानं तत्राऽभिसंबध्यते, इत्याचार्येणोक्ते परः प्राह- 'तओ वि जइ होइ सदपरिणामो तो तमिवि किं न सुयं ति' तत इति सप्तम्यन्तात् तस्प्रत्ययः, ततश्च
१ ख. घ. छ 'हारमाह' २ एवं ध्वनिपरिणामं श्रुतज्ञानमुभयथा मतिज्ञानम् । यद् भिन्नस्वभावे ते ततो भिन्नरूपे ॥ १५० ॥
३ क. ग. 'षयित्वात्' । ४ घ. छ. 'णामं श्रुता' ५ गाथा १२८ । ६ गाथा १४७१
७ इतरदिति मतिज्ञानं ततोऽपि यदि भवति शब्दपरिणामः । ततस्तस्मिन्नपि किं न श्रुतं भाषते यद् नोपलब्धिसमम् ? ॥ १५१ ॥
For Personal and Private Use Only
बृहद्वृत्तिः ।
॥ ९४ ॥
Page #97
--------------------------------------------------------------------------
________________
विशे०
॥ ९५ ॥
Jain Educationa Internati
'उभयहा मइनाणं' इति वचनाद् यदि तस्मिन्नपि मतिज्ञाने शब्दपरिणामो भवति, ततस्तस्मिन्नपि किं न श्रुतं तदपि भावश्रुतरूपतां किं न प्रतिपद्यते ? इत्यर्थः, शब्दपरिणामस्य श्रुतत्वेनोक्तत्वादिति भावः । अत्राऽऽचार्य उत्तरमाह - ' भासइ जं नोवलद्धिसमं ति' यद् यस्मात् कारणादुपलब्धिसमं मतिज्ञानी न भाषते, ततो न मतिज्ञानस्य श्रुतरूपता । इति गाथार्थः ॥ १५१ ॥
कथं पुनरुपलब्धिसममसौ न भणति ? इत्याह
अभिलप्पा ऽणभिलप्पा उवलद्धा तस्समं च नो भणइ । तो होउ उभयरूवं उभयसहावं ति काऊ ॥ १५२॥ प्रागुक्तन्यायेनाऽभिलाप्या ऽनभिलाप्याः पदार्था मतिज्ञानोपलब्धाः, एवंभूतोपलब्ध्या च समं भणितुं न शक्नोत्येव, अनभिलाप्यानां सर्वथैव वक्तुमशक्यत्वादिति भावः ॥
अत्र परः प्राह - ' तो होउ इत्यादि ततस्तर्हि भवतु मतिज्ञानमुभयरूपं श्रुत- मतिरूपम् । कुतः ?, इत्याह- उभयस्वभावमिति कृत्वा, अभिलाप्या-ऽनभिलाप्यवस्तुविषयत्वेन द्विस्वभावत्वादित्यर्थः इदमुक्तं भवति - यदभिलाप्यपदार्थानुपलभते भाषते च तत् श्रुतज्ञानमस्तु ; अनभिलाप्यपदार्थास्तु भाषणाऽयोग्यान् यदवगच्छति, तद् मतिज्ञानं भवति ।। इति गाथार्थः ॥ १५२ ॥
अत्रोत्तरमाह
भाइ तं पिजओ न सुयादेसेण किन्तु समईए । न सुओवलद्धितुलं ति वा जओ नोवलद्धिसमं॥१५३॥ यदपि किञ्चिदभिलाप्य वस्तूपलब्धं मतिज्ञानी भाषते तदपि यतो न श्रुतादेशेन, किन्तु स्वमत्या, अतो न तत् श्रुतमिति । इदमुक्तं भवति - परोपदेशः, श्रुतग्रन्थश्च श्रुतमिहोच्यते, तदादेशेन तु तदनुसारेण विकल्प्य यदा भाषते, तदा श्रुतोपयुक्तस्य भाषणात् श्रुतमुपपद्यत एव यत्र तु स्वमत्यैव पर्यालोच्य भाषते न तु श्रुतानुसारेण तत्र श्रुतोपयुक्तत्वाभावाद् मतिज्ञानमेव । तदेवं 'भासइ जं नोवलद्धिसमं ' इत्यस्य गाथावयवस्य 'अभिलप्पा णभिलप्पा उवलद्धा' इत्यादिना व्याख्यानं कुर्वताऽऽचार्येण मतिज्ञानी मतिज्ञानोपलध्या समं न भाषते, अतस्तत्रोपलब्धिसमं भाषणं न भवति, इत्यतो न मतिज्ञाने श्रुतरूपतेत्युक्तम् ; श्रुतज्ञानी त्वभिलाप्यानुपलभते, तांश्च भाषते, अतस्तत्रैवोपलब्धिसमत्वस्य सद्भावात् श्रुतरूपतेति भावः ॥
१ गाथा १५० | २ अभिलाप्या ऽनभिलाप्या उपलब्धास्तत्समं च न भणति । ततो भवतूभयरूपमुभयस्वभावमिति कृत्वा ॥ १५२ ॥
३ यद् भाषते तदपि यतो न श्रुतादेशेन किन्तु स्वमत्या । न श्रुतोपलब्धितुल्यमिति वा यतो नोपलब्धिसमम् ॥ १५३॥ ४ गाथा १५१ । ५ गाथा १५२ ॥
For Personal and Private Use Only
बृहद्वृत्तिः ।
।। ९५ ।।
www.jainellibrary.pro
Page #98
--------------------------------------------------------------------------
________________
विशे०
सांप्रतं तु मतिज्ञानी श्रुतोपलब्ध्या तुल्यं समं न भाषत इत्येवमुपलब्धिसमत्वाभावमुपदर्शयन्नाह-'न सुओवलद्धीत्यादि' वाशब्दः प्रकारान्तरद्योतकः, ततश्च न श्रुतोपलब्ध्या तुल्यं मतिज्ञानी भाषत इति वा, यतो यस्मात् कारणाद् नोपलब्धिसमं मतिज्ञानिनो भा
पणम् , तस्माद् न तत्र श्रुतरूपता, इदमुक्तं भवति- श्रुतोपलब्धौ परोपदेशा-हद्वचनलक्षणश्रुतानुसारेणोपलब्धानर्थान् भाषते, मत्युप॥९६लब्धौ तु तदुपलब्धानेव, इत्यतो न मतिज्ञानिनो भाषणं श्रुतोपलब्धिसमम् । ततश्च न तत्र श्रुतसंभवः ॥ इति गाथार्थः॥ १५३ ॥
तदेवं ' सोइंदिओवलद्धी होइ सुर्य' इत्यादिमलगाया तत्त्वतः श्रोत्रेन्द्रियविषयमेव श्रुतज्ञानम् , सर्वेन्द्रियविषयं च मतिज्ञानमित्येवं मति-श्रुतयोर्भेदः प्रतिपादितः, तत्प्रतिपादनक्रमे च 'बुद्धिद्दिढे अत्थे जे भासई' इत्यादिगाथा समायाता, सा च द्रव्य-भावोभय
श्रुतरूपाऽभिधायकत्वेन मति-श्रुतयोर्भेदाभिधानपरतया च व्याख्याता, तव्याख्याने चाऽवसित इन्द्रियविभागादपि मति- श्रुतयोर्भेदः । | सांप्रतं बल्क-शुम्बोदाहरणात् तमभिधित्सुराह
अन्ने मन्नति मई वग्गसमा सुंबसरिसयं सुत्तं । दिट्ठन्तोऽयं जुत्तिं जहोवणीओ न संसहइ ॥ १५४ ॥
अन्ये केचनाऽप्याचार्या मन्यन्ते । किम् ?, इत्याह- वल्कसमा वल्कसदृशी मतिः, ततः सैव यदा शब्दतया संदर्भिता भवतितजनितो यदा शब्द उत्तिष्ठतीत्यर्थः, तदा तदुत्थशब्दसहिता श्रुतमुच्यते, तच शुम्बसदृशं वल्कजनितदवरिकातुल्यं श्रुतं भवा | तदभ्युपगमः शोभन इति चेत् । नैवमित्याह- 'दिहतोऽयमित्यादि' अयं वल्कशुम्बदृष्टान्तो यथा तैरुपनीतः- उक्तमकारेण प्रकृते
योजितः, तथा युक्तिं न सहते-न क्षमते, अन्यथा त्वस्मदभिमतवक्ष्यमाणप्रकारेणोपनीयमान एषोऽपि युक्तिक्षमो भविष्यतीति भावः ॥ | इति गाथार्थः॥१५४॥
कुतो न संसहते ? इत्याह
भाँवसुयाभावाओ संकरओ निविसेसभावाओ । पुव्वुत्तलक्खणाओ सलक्खणावरणभेयाओ ॥१५५।। नैष दृष्टान्तो युक्ति क्षमत इति सर्वत्र साध्यम् , मतेरनन्तरं शब्दमात्रस्यैव भावेन भावश्रुतस्याऽभावप्रसङ्गात् । अथ मतिसहितोऽयं
१ गाथा ११७ । २ ख. सूत्रगा'। ३ गाथा १२८ । ४ ख. 'णतस्तम'। ५ अन्ये मन्यन्ते मतिर्वल्कसमा शुम्बसदशं श्रुतम् । रष्टान्तोऽयं, युक्ति यथोपनीतो न संसहते ॥ १५ ॥
C९६॥ ६ ख. 'गमे शोभनं' । ७ भावश्रुताभावात् संकरतो निर्विशेषभावात् । पूर्वोकलक्षणात् स्वलक्षणा-ऽऽवरणभेदात् ॥ १५५ ॥
For Pesond
er
Page #99
--------------------------------------------------------------------------
________________
विशे०
1199 11
Jain Educationa International
शब्दो न केवल इति तत्र भावश्रुतत्वं भविष्यति । तदयुक्तम् । कुतः ? इत्याह- संकरः सांकर्य, संकीर्णत्वम्, मिश्रत्वमिति यावत्, मति श्रुतयोस्तस्य प्राप्तेः । निविशेषभावाद् वा यदेव मतिज्ञानम्, तदेव भावश्रुतमिति प्रतिपादनादेकमेव किञ्चित् स्यात्, नोभयमिति भावः । अस्तु विशेषाभाव इति चेद् । नैवम् । कुतः ? इत्याह- स्वलक्षणावरणभेदात् । कथंभूतात् ? इत्याह- पूर्वोक्तलक्षणात् 'किह व सुर्य होइ मई सलक्खणावरणभेयाओं' इति पूर्वाभिहितगाथावयवोक्तस्वरूपात् इदमुक्तं भवति - अभिनिवुध्यत इत्याभिनियोधिकम्, श्रूयत इति श्रुतम् इत्यादिकं मति श्रुतयोर्यत् स्वकीयं स्वकीयं लक्षणम्, आवारकं च कर्म, तयोर्भेदात् पूर्वाभिहितस्वरूपाद् मतिश्रुतयोर्निर्विशेषभावो न युज्यते । यदि हि तयोर्निर्विशेषता एकत्वं स्यात्, तदा लक्षणभेदः, आवरणभेदश्व पूर्वोक्तस्वरूपो न स्यादिति भावः ॥ इति गाथार्थः ॥ १५५ ॥
अथ द्रव्य-भावश्रुतयोरनेन दृष्टान्तेन भेदः प्रतिपाद्यते, सोऽपि न युक्त इति दर्शयन्नाह -
कंप्पेजेज्ज व सो भाव - दव्वसुतेसु तेसु वि न जुत्तो । मइ सुयभेयावसरे जम्हा किं सुयविसेसेणं ? ॥ १५६ ॥ यदि वा भाव द्रव्यश्रुतयोः सः - बल्क- शुम्बोदाहरणाद्भेदः कल्प्येत भावश्रुतं हि कारणत्वात् किल वल्कसदृर्श, शब्दलक्षणं तु द्रव्यश्रुतं कार्यत्वात् शुम्बप्रतिमम् इत्येवमनयोर्भेद इष्येतेति भावः । तयोरप्यसौ न युक्तः । कुतः ? इत्याह- यस्माद् मति श्रुतयोभाव 'किं सुयविसेसेणं ति' श्रुतयोर्द्रव्य-भावश्रुतलक्षणयोविंशेषो भेदः श्रुतविशेषस्तेनाऽभिहितेन किं ?- असंबद्धत्वाद् न किञ्चिदित्यर्थः । इति गाथार्थः । १५६ ।।
अथाऽन्यथा पराभिप्रायमाशङ्कमानः माह
असुयक्खरपरिणामा व जा मई वग्गकपणा तम्मि । दव्वसुयं सुम्बसमं किं पुण तेसिं विसेसेणं ? ॥ १५७॥ श्रुतानुसार्यक्षर परिणामो यस्यां सा श्रुतानुसार्यक्षर परिणामा न तथा श्रुतानुसारित्वरहितशब्दमात्र परिणामाऽन्विता या मतिरित्यर्थः, तस्यां वा वल्ककल्पना क्रियते, तज्जनितशब्दरूपं तु द्रव्यश्रुतं शुम्बसदृशम्, अतस्तयोः प्रस्तुतोदाहरणाद् भेदो युक्तियुक्तो भवियति । श्रुतानुसार्यक्षर परिणामा मतिर्भावश्रुतमेव स्यात्, अतः पूर्वस्माद् न विशिष्येत, इत्यश्रुताक्षरपरिणामित्वं विशेषणम् । सा च
१३
१ गाथा १३५ | २ कल्प्येत वा स भाव द्रव्यश्रुतयोस्तयोरपि न युक्तः । मति श्रुतभेदावसरे यस्मात् किं श्रुतविशेषेण ? ॥१५६॥ ३ अश्रुताक्षरपरिणामा वा या मतिर्वकल्पना तस्याम् । द्रव्यश्रुतं शुम्बसमं किं पुनस्तयोविशेषेण ? ॥ १५७ ॥
For Personal and Private Use Only
बृहद्वृत्तिः।
॥९७॥
Page #100
--------------------------------------------------------------------------
________________
विशे०
॥ ९८ ॥
Jain Educationa Internation
पर्युदासाश्रयणादश्रुतानुसारिणा शब्देनैवाऽन्विता गृह्यते, न तु शब्दपरिणामरहिताऽवग्रहरूपा, तस्याः शब्दजनकत्वाभावेनाऽनन्तरं शुम्बसदृशद्रव्यश्रुताभावादिति ॥
अत्रोत्तरमाह - 'किं पुण तेसिं विसेसेणं ति' किं पुनस्तयोर्यथोक्तमति द्रव्यश्रुतयोर्विशेषेण भेदेनोक्तेन ? - अप्रस्तुतत्वाद् न किञ्चिदित्यर्थः । श्रुतज्ञानेनैव सहाऽत्र मतेर्भेदो विचारयितुं प्रक्रान्तः, इत्यतः किं द्रव्यश्रुतेन सह तच्चिन्तया ? इति भावः । इति गाथार्थः ॥ १५७॥
एतदेव भावयन्नाह
ईहइं जेणाहिकओ नाणविसेसो न दव्य-भावाणं । न य दव्व-भावमेत्ते वि जुज्जए सोऽसमंजसओ ॥ १५८॥
इहास्मिन् प्रक्रमे येन कारणेन ज्ञानयोरेव मति श्रुतलक्षणयोर्विशेषो भेदोऽधिकृतो न तु द्रव्य-भावयोर्मतिज्ञान- द्रव्यश्रुतलक्षणयोः, इत्यतः किं तद्भेदाभिधानेन ? इति । नच यथोक्तद्रव्य-भावयोरप्यसौ युज्यते । कुतः ? इत्याह- असमञ्जसतो दृष्टान्त-दान्तिकयोदृश्यात् ।। इति गाथार्थः ।। १५८ ।।
तथाहि
जैह वग्गा सुबत्तणमुर्वेति सुंबं च तं तओऽणण्णं । न मई तहा धणित्तणमुवेइ जं जीवभावो सा ॥ १५९ ॥
यथा वल्काः शुम्बत्वमुपयान्ति-आत्माऽव्यतिरिक्तशुम्ब परिणामापन्नाः शुम्वमित्युच्यन्ते, न तु शुम्बाद् व्यतिरिक्ताः तदपि च शुम्ब तेभ्यो वल्केभ्योऽनन्यरूपमव्यतिरिक्तम् ; न तथा मतिर्ध्वनित्वमुपैति यद् यस्मात् कारणात् सा मतिराभिनिवोधिकज्ञानत्वेन जीवभावो जीवपरिणामः, शब्दस्तु मूर्तत्वाद् न जीवभावः, इत्यतः कथममूर्त परिणामा मतिर्मूर्तध्वनिपरिणाममुपगच्छेत् ? अमूर्तस्य मूर्तपरिणामविरोधात् । तस्माद् दृष्टान्त-दाष्टन्तिकयोर्वैपम्यादिदमपि व्याख्यानमुपेक्षणीयम् ।। इति गाथार्थ: ।। १५९ ।।
पुनः परवचनमाशङ्कय तस्यैव शिक्षणार्थमाह
अह उवयारो कीरs पभवइ अत्यंतरं पिजं जत्तो । तं तम्मयं ति भण्णइ, तो मइपुव्वं जओ भणियं ॥ १६० ॥
१ ख. 'तयेत् इति' । २ इह येनाऽधिकृतो ज्ञानविशेषो न द्रव्य भावयोः । न च द्रव्य भावमात्रेऽपि युज्यते सोऽसम असतः ॥ १५८ ॥ ३ यथा बल्काः शुम्बत्वमुपयान्ति शुम्बं च तत् ततोऽनन्यत् । न मतिस्तथा ध्वनित्वमुपैति यज्जीवभावः सा ॥ १५९ ॥
४ अथोपचारः क्रियते प्रभवत्यर्थान्तरमपि यद् यस्मात् । तत् तन्मयमिति भण्यते, ततो मतिपूर्वं यतो भणितम् ॥ १६० ॥
For Personal and Private Use Only
बृहद्वत्तिः ।
।। ९८ ।।
www.jainelltrary.org
Page #101
--------------------------------------------------------------------------
________________
विशे०
NEPARADIOPICADAINIROPADHANDED
MAHARASसनाका
BarooEARISTRIBHATARTSCRIMER
भावसुयं, तेण मई वग्गसमा सुंबसरिसयं तं च । जं चिंतिऊण तया तो सुयपरिवाडिमणुसरइ ॥१६॥
अथोपचारः क्रियते उपचारविधिराधीयते, ततश्वार्थान्तरमपि यद् यस्माद् प्रभवति तत् तन्मयमिति भण्यते, यथा “तदपथ्यमियन्तं विक्रियाविस्तरमुपगतम्" "तदेकं वचनमेतावन्तं विपाकमापन्नम्" इत्यादि । ततश्चाऽजन्मयेऽपि ध्वनौ मतिगता ज्ञानमयतोपचर्यते । तथा च सति वल्क-शुम्बसादृश्येन मति-श्रुतयोरयं भेदः सिद्धो भवति ।।
एवमुक्त आचार्यः सुहृद् भूत्वा परं शिक्षयति- ' तो मइपुव्वमित्यादि ' हन्त ! यापचारवादी भवान् , ततो मतिपूर्व भावश्रुतं यस्मादागमे भणितं, तेन कारणेन मतिर्वरकसमा, तच्च भावश्रुतं शुम्बसदृशम् , इत्येवं दृष्टान्तोपनयं कुरु, येनोपचारमन्तरेणाऽपि सर्वं सुस्थं भवति, यथा हि वल्काः शुम्बकारणं, तथा मतिरपि भावश्रुतस्य, यथा च शुम्बं बल्कानां कार्य तथा भावश्रुतमपि मतेः । कुतः इत्याहयद् यस्मात् कारणात् तया मत्या चिन्तयित्वा ततः श्रुतपरिपाटिमनुसरति-वाच्यवाचकभावेन परोपदेशश्रुतग्रन्थयोजनां वस्तुनि करोति; तस्माद् मतिश्रुतयोबल्कशुम्बयोरिव कार्यकारणभावाद् भेदसिद्धिः, इत्येवं दृष्टान्तोपनयो युक्तिं संसहते, न तु परोक्तप्रकारेण ॥ इति गाथाद्वयार्थः ॥ १६० ॥ १६१ ।।
तदेवं वल्क-शुम्बोदाहरणादप्यभिहितो मति-श्रुतयोर्भेदः, सांप्रतं त्वक्षरा-ऽनक्षरभेदात् तमभिधित्सुः पराभिप्राय तावदुपन्यस्यन्नाह
अन्ने अणक्खर-क्खरविसेसओ मइ-सुयाइं भिंदति । जं मइनाणमणक्खरमक्खरमियरं च सुयनाणं ॥१६॥
अन्ये केचनापि मूरयोऽनक्षरा-ऽक्षरवद्विशेषतो मति-श्रुते भिन्दन्ति, यद् यस्मात् किल मतिज्ञानमनक्षरम् , श्रुतज्ञानं त्वक्षरवद् भवति, इतरचाऽनक्षरवदुच्छसितादीत्यर्थः ।। इति गाथार्थः ।। १६२ ॥
अत्राचार्यो दूषणमाह
जैइ मइरणक्खरच्चिय भवेज नेहादओ निरभिलप्पे । थाणु-पुरिसाइपज्जायविवेगो किह णु होजाहि ?॥१६३॥ यदि हन्त ! मतिरनक्षरैव स्यात्-अक्षराभिलापरहितैव भवताऽभ्युपगम्यते, तर्हि निरभिलाप्येऽप्रतिभासमानाभिलापे स्थावा
१ भावश्रुतं, तेन मतिर्वल्कसमा शुम्बसदशं तच्च । वञ्चिन्तयित्वा तवा ततः श्रुतपरिपाटिमनुसरति ॥ ११ ॥ २ ख. 'मुपेतम् । ३ अन्येऽनक्षरा-ऽक्षरविशेषतो मति-श्रुते भिन्दन्ति । यद् मतिज्ञानमनक्षरमक्षरमितरच श्रुतज्ञानम् ॥ १२ ॥ ४ यदि मतिरनक्षरैच भवेद् नेहादयो निरभिलाष्ये । स्थाणु-पुरुषादिपर्यायविवेकः कथं न भवेत् ॥ १३ ॥
॥९९॥
For Pesonal and Private Use Only
Page #102
--------------------------------------------------------------------------
________________
विशे०
॥१००॥
Jain Educationa International
|दिके वस्तुनि ईहादयो न वर्तेरन् । ततः किम् ? इत्युच्यते तस्यां मतावनक्षरत्वेन स्थाण्वादिविकल्पाभावात् 'स्थाणुरयं पुरुषो ' इत्यादिपर्यायाणां वस्तुधर्माणां विवेको वितर्कोऽन्वयव्यतिरेकादिना परिच्छेदो न स्यात्, तथाहि यदनक्षरं ज्ञानं न तत्र स्था- पुरुषपर्यायादिविवेक:, यथाऽवग्रहे तथा चेहादयः, तस्मात् तेष्वपि नासौ प्राप्नोति ।। इति गाथार्थः ।। १६३ ।।
अथ विभ्रान्तस्य परस्योत्तरमाह -
सुनिस्सियवयणाओ अह सो सुयओ मओ न बुद्धीओ । जइ सो सुयवावारो तओ किमन्नं मइन्नाणं ॥ १६४॥ आगमे मतिज्ञानं द्विधा प्रोक्तम्- श्रुतनिश्रितमवग्रहे हादिचतुष्कम्, अश्रुतनिश्रितं चौत्पत्तिक्यादिबुद्धिचतुष्टयम् । ततश्च सूरिरित्थं पराभिप्रायमाशङ्कते अथैवं परो ब्रूयात् आगमे श्रुतनिश्रितत्वेनापि मतिज्ञानस्य भणनात् श्रुतात् श्रुततोऽक्षरात्मकादसौ स्थाणु-पुरुपादिपर्यायविवेको मतः, न बुद्धेर्न मतेः सकाशात्, तस्याः स्वयमनक्षररूपत्वात् । अत्रोत्तरमाह- 'जड़ सो इत्यादि ' यदि हन्त ! स स्थाणु-पुरुषादिपर्यायविवेकः श्रुतव्यापारः तवग्रहं मुक्त्वा किमन्यद् मतिज्ञानम् ? न किञ्चिदित्यर्थः । यदि स्थाणु- पुरुषादिपर्यायविवेकोऽक्षरात्मकत्वात् श्रुतव्यापार इष्यते, तदेहा-पायादयो मतिभेदाः सर्वेऽप्यक्षरात्मकत्वात् श्रुतत्वमापन्नाः इत्यतोऽक्षराऽभिलापरहि तमवग्रहं मुक्त्वा शेषस्येहादिभेदभिन्नस्य सर्वस्याऽपि मतिज्ञानस्याभावप्रसङ्ग इति भावः । इति गाथार्थः ।। १६४ ।।
अथाऽन्यथा परस्य वचनमाशङ्कय दूषयितुमाह
अह सुयओ वि विवेगं कुणओ न तयं सुयं सुयं नत्थि । जो जो सुयवावारो अन्नो वि तओ मई जम्हा ॥ १६५॥
अथापि स्थाणु-पुरुषादिविवेकं कुर्वतः प्रमातुर्न तत् श्रुतम्, किन्तु मत्यभावभीत्या मतित्वेनाऽभ्युपगयस्ते हन्त ! तर्हेकत्र संधित्सतोऽन्यतः प्रच्यवते, यत एवं सति श्रुतं क्वचिदपि नास्ति श्रुताभावः प्राप्नोतीत्यर्थः । कुतः ? इत्याह- यो यश्चरणक रणादिप्रतिपादन लक्षणोऽन्योऽपि श्रुतस्याऽऽचारादेर्व्यापारः सकोऽसौ यस्माद् मतिज्ञानमेत्र, अक्षरात्मकत्वात्, स्थाणु-पुरुषादिपर्यायविबेकवत् ॥ इति गाथार्थः ॥ १६५ ।।
अथ स्थाणु-पुरुषादिपर्यायविवेको मतिय, श्रुतं च भविष्यतिः अतो नैकस्याऽप्यभावप्रसङ्ग इत्याह
२ श्रुतनिचितवचनादथाऽसौ श्रुततो मतो न पुढेः । यदि स श्रुतव्यापारस्ततः किमन्यद् मतिज्ञानम् ? ॥ १६४ ॥ ३ अथ श्रुततोऽपि विवेकं कुर्वतो न तच्तं श्रुतं नास्ति । यो यः श्रुतव्यापारोऽभ्योऽपि सको मतिर्यस्मात् ॥ १६५ ॥
For Personal and Private Use Only
बृहद्वत्तिः ।
1120011
Page #103
--------------------------------------------------------------------------
________________
विशे०
॥१०१॥
Jain Educationa Internat
इकाले विजइ सुयं तो जुगवं मइ सुअवओगा ते । अह नेवं एगयरं पवज्जओ जुज्जए न सुयं ॥ १६६॥ स्थाणु-पुरुषादिपर्यायविवेकलक्षणे मतिकालेऽपि यदि श्रुतव्यापार- इष्यते, ततो युगपदेव मति-श्रुतोपयोग ते तव प्रसज्येते, न चैतद्युक्तम्, समकालं ज्ञानद्वयोपयोगस्य निषिद्धत्वात् । अथैतदोषभयाद् नैवमुपयोगद्वयं युगपदभ्युपगम्यते, ततरं प्रतिपद्यमानस्य स्थाणु-पुरुषादिपर्यायविवेककाले मतिज्ञानं श्रुतज्ञानं वेच्छतो भवत इत्यर्थः किम् ? इत्याह- ' जुज्जए न सुयं ति ' श्रुतमिह प्रतिपत्तुं न युज्यते, किन्तु मतिज्ञानमेव, इदमुक्तं भवति- “ सावकाशा नवकाशयोरनवकाशो विधिर्बलवान् " इति न्यायादन्यत्रानवकाशं मतिज्ञानमेवैकं तवैकतरं प्रतिपद्यमानस्येह प्रतिपत्तुं युज्यते न तु श्रुतम् तस्याऽन्यत्र श्रुतानुसारिण्याचारादिज्ञानविशेषे सावकाशत्वात् । एवं च सति स्थाणु- पुरुषादिपर्यायविवेको मतेरेव, न तु श्रुतात् स चाडक्षराभिलापसमनुगत एव इति नैकान्तेन मतिज्ञानमनक्षरमिति भावः ॥ इति गाथार्थः ॥ १६६ ॥
किश्ञ्च, अक्षरानुगतत्वमात्रमुपलभ्य स्थाणु-पुरुषादिपर्यायविवेको भवताश्रुतनिश्रित उक्तः, एवं चातिप्रसङ्गः प्राप्नोतीति दर्शयतिजैइ सुयनिस्सियमक्खर मणुसरओ तेण मइचउक्कं पि । सुयनिस्सियमावन्नं तुह तं पि जमक्खरप्पभवं ॥ १६७॥ यदि स्थाणु- पुरुषादिपर्यायविवेकविधानेनाऽक्षरमनुसरतः प्रमातुर्ज्ञानं श्रुतनिश्रितं भवता मोच्यते, तेन तत्पत्तिक्यादिमतिचतुष्कमपि तव श्रुतनिश्रितमापन्नम् यस्मात् तदप्यक्षरप्रभवं वर्णाऽऽलिङ्गितमित्यर्थः- तदपि हि नेहादिविरहेण जायते, ईहादयश्च न वर्णाभिलापमन्तरेण संभवन्ति । तस्माद् मतिचतुष्कमपि त्वदभिप्रायेण श्रुतनिश्रितमायातम्, न चैतदस्ति, आगमेऽश्रुतनिश्रितत्वेन तस्याSभिधानात् । तस्माद् देवानांप्रियेणाज्यापि श्रुतनिश्रितस्य स्वरूपमेव नाऽवगम्यते, तत् किं वयं ब्रूमः १ ।। इति गाथार्थः ॥ १६७ ॥ तदेवं श्रुतनितिवचनश्रवणमात्राद् विभ्रान्तस्तत्स्वरूपमजानानः परो युक्तिभिर्निराकृतोऽपि विलक्षीभूतः प्राहजैइ तं सुरण न तओ जाणइ सुयनिस्सियं कहं भणियं ? । जं सुयकओवयारं पुव्वि इण्हि तयणवेक्खं ॥ १६८ ॥ यदि तं स्थाणु-पुरुषादिपर्यायसंघातं श्रुतेन न जानाति सकोऽसौ ज्ञानी, तर्हि श्रुतनिश्रितमेवावग्रहादिकं सूत्रे कथं केन प्रका
१ मतिकालेऽपि यदि श्रुतं ततो युगपद् मति श्रुतोपयोगी ते । अथ नैवमेकतरं प्रपद्यमानस्य युज्यते न श्रुतम् ॥ १६६ ॥
२ यदि श्रुतनिश्रितमक्षरमनुसरतस्तेन मतिचतुष्कमपि श्रुतनिश्रितमापन्नं तव तदपि यदक्षरप्रभवम् ॥ १६७ ॥
३. यदि तत् श्रुतेन न सको जानाति श्रुतनिधितं कथं भणितम् ? यत् श्रुतकृतोपचारं पूर्वमिदानीं तदनपेक्षम् ॥ १६८ ॥
For Personal and Private Use Only
०००००००
बृहद्वत्तिः ।
॥१०१॥
Page #104
--------------------------------------------------------------------------
________________
वृहदा
विशे० ॥१०२॥
मस्यामानान्सनसम्म
रेण भणितम् ?- मतिः स्वयमनक्षरैव, यस्त्विहाऽक्षरोपलम्भः स यदि श्रुतनिश्रितो नेष्यते, तर्हि कथमन्यथाऽसौ घटिष्यते ?। इति विस्मयभयाऽऽपूरितहृदयस्य परस्याऽयं प्रश्न इति भावः ॥
अत्रोच्यते- ननु भवानेव प्रष्टव्यो योऽसमीक्षितमित्थं प्रभाषते- योऽक्षरोपलम्भः स सर्वोऽपि श्रुतनिश्रयेति । अथ न ज्ञायते भवता, तर्हि वयमेव ब्रूमः, श्रूयताम्- 'जं सुयेत्यादि ' श्रुतं द्विविधम् - परोपदेशः, आगमग्रन्थश्च । व्यवहारकालात् पूर्व तेन श्रुतेन कृत उपकारः संस्काराधानरूपो यस्य तत् कृतश्रुतोपकारं, यज्ज्ञानमिदानीं तु व्यवहारकाले तस्य पूर्वप्रवृत्तस्य संस्काराधायकश्रुतस्याऽनपेक्षमेव प्रवर्तते तत् श्रुतनिश्रितमुच्यते, न त्वक्षराभिलापयुक्तत्वमात्रेणेति भावः ॥ इति गाथार्थः ॥ १६८ ॥
एतदेव भावयन्नाहपुव्वं सुयपरिकम्मियमइस्स जं संपयं सुयाईयं । तं निस्सियमियरं पुण आणिस्सियं मइचउक्कं तं ॥ १६९ ॥
व्यवहारकालात् पूर्व यथोक्तरूपेण श्रुतेन परिकर्मिता- आहितसंस्कारा मतिर्यस्य स तथा तस्य साध्वादेर्यत् सांप्रतं व्यवहारकाले श्रुतातीतं श्रुतनिरपेक्षं ज्ञानमुपजायते तच्छुतनिश्रितमवग्रहादिकं सिद्धान्ते प्रतिपादितम् । इतरत् पुनरश्रुतनिश्रितम् , तच्चौत्पत्तिक्यादिमतिचतुष्कं द्रष्टव्यम् , श्रुतसंस्कारानपेक्षया सहजत्वात् तस्य । अत्राह-ननु
“ भैरनित्थरणसमत्था तिवम्गसुत्तत्थगहियपेयाला । उभओलोगफलबई विणयसमुत्था हवइ बुद्धी" ॥१॥ इत्यादिवचनात् तत्रापि मतिचतुष्के वैनयिकी मतिः श्रुतनिश्रिता समस्ति । सत्यम् , किन्तु सकृच्छूतनिश्रितत्वे सत्यपि बाहुल्यमङ्गीकृत्याऽश्रुतनिश्रितं तदुच्यत इत्यदोषः *। तस्माद् यदुक्तम्-'जं मइनाणमणक्खरमक्खरमियरंच सुयनाणं' इति । तदयुक्तम् , मतेरनक्षरत्वे
. पूर्व श्रुतपरिकर्मितमतेर्यत सांप्रत धुतातातम् । तद् निश्रितमितरत् पुनरनिश्रितं मतिचतुष्कं तत् ॥ १९॥
२ भरनिस्तरणसमर्था त्रिवर्गसूत्रार्थगृहीतप्रमाणा । उभयलोकफलवती विनयसमुत्था भवति बुद्धिः ॥१॥ ३ गाथा १६२।। * इममेवाऽभिप्राय नन्यध्ययनेऽस्या एव गाथाया विवरणस्थले श्रीमन्मलयगिरिसूरिरप्याह-तधाहि-"नन्वश्रुतनिधिता बुद्धयो वक्तुमभिप्रेताः, ततो यद्यस्याखिवर्गसूत्रार्थगृहीतसारत्वम् , ततोऽश्रुतनिश्रितत्वे नोपपद्यते, न हि श्रुताभ्यासमन्तरेण त्रिवर्गसूत्रार्थगृहतिसारत्वं संभवति । अत्रोच्यते-इह प्रायोवृत्तिमाश्रित्या:श्रुतनिश्रितत्वमुक्तम् , ततः स्वल्पश्रुतभावेऽपि न कश्चिदोषः" इति।
___ "इहातिगुरुकाय निर्वहत्वाद् भर इव भरस्तशिस्तरणे समर्धा भरनिस्तरणसमर्थाः, यो बर्गाखिवर्गा लोकरुया धर्मा-ऽर्थ-कामास्तदर्जनोपायप्रतिपादकं यत् सूर्य यश्च तदर्थस्ती त्रिवर्गसूत्राधी, तयोहीतं पेयालं प्रमाण सारो वा यया सा तथाविधा" इति नन्दिदीकायां व्याख्यातोऽस्या अर्थः ॥
१०२॥
Jin Education
For Personal
Private Use Only
Page #105
--------------------------------------------------------------------------
________________
बृहदृत्तिः ।
विशे० ॥१०॥
स्थाणु-पुरुषादिपर्यायविवेकाभावप्रसङ्गात् , श्रुतनिश्रितत्वस्य चाऽन्यथा समर्थितत्वादिति स्थितम् ।। इति गाथार्थः ॥ १६९ ॥
यद्यनक्षरा मतिर्न भवति, तर्हि ' लक्खणभेया हेऊफलभावओ' इत्यादिगाथायां प्रतिज्ञातोऽक्षरा-ऽनक्षरभेदाद् मति- श्रुतयो- भेदः कथं गमनीयः ? इत्याह
उभयं भावक्खरओ अणक्खरं होज वंजणक्खरओ। मइनाणं सुत्तं पुण उभयं पि अणक्खरक्खरओ॥१७॥
इहाऽक्षरं तावद् द्विविधम्-द्रव्याक्षरम् , भावाक्षरं च । तत्र द्रव्याक्षरं पुस्तकादिन्यस्ताऽकारादिरूपम् , ताल्वादिकारणजन्यः शब्दो वा; एतच्च व्यज्यतेऽर्थोऽनेनेति व्यञ्जनाक्षरमप्युच्यते । भावाक्षरं त्वन्तःस्फुरदकारादिवर्णज्ञानरूपम् । एवं च सति 'भावक्खरओ त्ति' भावाक्षरमाश्रित्य मतिज्ञानं भवेत् । कथंभूतम् ? इत्याह- 'उभयं ति' उभयरूपम्- अक्षरवत् , अनक्षरं चेत्यर्थः; मतिज्ञानभेदे ह्यवग्रहे भावाक्षरं नास्तीति तदनक्षरमुच्यते, ईहादिषु तु तद्भेदेषु तदस्तीति मतिज्ञानमक्षरवत् प्रतिपाद्यत इति भावः । 'अणक्खरं होज वंजणक्खरओ त्ति' व्यञ्जनाक्षरं द्रव्याक्षरमित्यनान्तरम् , तदाश्रित्य मतिज्ञानमनक्षरं भवेत् , न हि मतिज्ञाने पुस्तकादिन्यस्ताकारादिकं शब्दो वा व्यञ्जनाक्षरं विद्यते, तस्य द्रव्यश्रुतत्वेन रूढत्वात् , द्रव्यमतित्वेनाप्रसिद्धत्वादिति । 'सुत्तं पुणेत्यादि सूत्रं श्रुतज्ञानं, पुनरुभयमपि- द्रव्यश्रुतम् , भावश्रुतं चेत्यर्थः, प्रत्येकमनक्षरतः, अक्षरतश्च भवेत् । इदमुक्तं भवति
___"ऊँससियं नीससियं निच्छूढं खासियं च छीयं च । निस्सिंघियमणुसार अणक्खरं छेलियाईअं" ॥१॥
इत्यादिवचनाद् द्रव्यश्रुतमनक्षरम् - पुस्तकादिन्यस्ताक्षररूपम् , शब्दरूपं च; तदेव साक्षर भावश्रुतमपि श्रुतानुसार्यकारादिवर्णविज्ञानात्मकत्वात् साक्षरम् , पुस्तकादिन्यस्ताकाराद्यक्षररहितत्वाच्छब्दाभावाच्च तदेवाऽनक्षरम् , पुस्तकादिन्यस्ताक्षरस्य शब्दस्य च द्रव्यश्रुतान्तःपातित्वेन भावभुतेऽसत्चाततदेवं मते वश्रुतस्य च साक्षरा-ऽनक्षरकृतो नास्ति विशेषः, प्रत्येकं द्वयोरप्यक्षरानक्षररूपत्वेनोक्तत्वात् । केवलं सामान्येन 'श्रुतं' इत्युक्ते तन्मध्ये द्रव्यश्रुतं लभ्यत इति कृत्वा तत्र द्रव्यश्रुतमाश्रित्य द्रव्याक्षरमस्ति, मतौ तु तन्नास्ति, तस्या द्रव्यमतित्वेनाऽरूढत्वादिति । एवमनयोर्द्रव्याक्षरापेक्षया साक्षरा-ऽनक्षरत्वकृतो भेदः ।। इति गाथार्थः ।। १७० ।। तदेवमक्षरे-तरभेदाद् मति-श्रुतयोर्भेदमभिधाय मृके तरभेदात् तमभिधित्सुराह
१ गाथा ९७।२ उभयं भावाक्षरतोऽनक्षरं भवेद् व्यञ्जनाक्षरतः । मतिज्ञानं सूत्रं पुनरुभयमपि अनक्षरा-ऽक्षरतः ॥ १७ ॥ ३ उच्छ्वसितं निःश्वसितं निक्षिप्त कासितं च क्षुतं च । निःसिद्धितमनुस्वारमनक्षरं सेण्टितादिकम् ॥1॥
॥१०३॥
Strolo
For Pesos and Private Use Only
Page #106
--------------------------------------------------------------------------
________________
विशे० ॥१०॥
Osmaroo
सै-परप्पञ्चायणओ भेओ मूअयराण वाऽभिहिओ। जं मूयं मइनाणं स-परप्पच्चायगं सुत्तं ॥ १७१ ॥
अन्यैस्तु कैश्चिदाचार्यैः स्व-परप्रत्यायनतो मति श्रुतयोर्भेदोऽभिहितः । कयोरिव ? इत्याह- मूके-तरयोरिव- यथा हि मूकः खमात्मानमेव प्रत्याययति प्रतीतिपथं नयति, न तु परम् , तत्प्रत्यायनहेतुवचनाभावात् ; इतरस्त्वमूकः स्वं परं च प्रत्याययति, वचनसद्भावात् । तथा च सति यथा मूक-मुखरयोर्भदः, एवं मति-श्रुतयोरपि, यद् यस्मात् परप्रत्यायनहेतुद्रव्याक्षराभावाद् मूकं मतिज्ञानम् , मुखरं तु श्रुतज्ञानम् , कुतः ?, स्व-परप्रत्यायकत्वात् - द्रव्याक्षरसद्भावेन परप्रत्यायकत्वस्याऽपि तत्र लभ्यमानत्वादिति भावः ॥ इति गाथार्थः ॥ १७१॥ एतदाचार्यो मति-श्रुतयोस्तुल्यताऽऽपादनेन किश्चिद् दूषयितुमाह
सुयकारणं ति सदो सुयमिह सो य परबोहणं कुणइ । मइहेयवो वि हि परं बोहति कराइचिट्ठाओ ॥ १७२ ॥
इह तावद् भवन्तं पृच्छामः- हन्त ! शब्दः श्रुतमुच्यते, उपलक्षणत्वात् पुस्तकादिन्यस्ताऽक्षरविन्यासश्च श्रुतमभिधीयते ' सुयकारणं ति' श्रुतकारणत्वात् - कारणे कार्योपचारादिति भावः । स च शब्दः, पुस्तकादिन्यस्ताक्षरविन्यासश्च परबोधनं परप्रत्यायन करोतीत्येवं परतः श्रुतज्ञानं परप्रत्यायकमुच्यते, न तु स्वतः; इति तावद् भवतोऽभिप्रायः । एतच्च मतिज्ञानेनाऽपि समानम् । कुतः ? इत्याह- हि यस्माद् मतिहेतवोऽपि मतिजनका अपि करादिचेष्टाविशेषाः परं बोधयन्त्येव, तथाहि- अक्षरात्मकत्वात् किल शब्दः, पुस्तकादिन्यस्ताक्षरविन्यासश्च श्रुतस्य कारणम् , कर-शीर्षादिचेष्टास्तु अक्षररहितत्वात् किल मतिज्ञानस्य हेतवः- कर-वक्त्रसंयोगे हि कृते भुजिक्रियाविषया किल मतिरुत्पद्यते, शीर्षे च धृनिते निवृत्ति-प्रवृत्तिविषया सा समुपजायते, इत्येवं मतिहेतवः करादिचेष्टा अपि परमबोधिका एव ।। इति गाथार्थः ॥ १७२ ॥
यदि मतिहेतवोऽपि परं प्रबोधयन्ति, ततः किम् ? इत्याह
न परप्पबोहयाइं जं दो वि सरूवओ मइ-सुयाइं । तकारणाई दोण्ह वि बोहेति तओ न भेओ सिं ॥१७॥
१ स्व-परप्रत्यायनतो भेदो मूक-तरयोरिवाऽभिहितः । यद् मूकं मतिज्ञानं स्व-परप्रत्यायकं श्रुतम् ॥ ११ ॥ २ श्रुतकारणमिति शरदः श्रुतमिह स च परबोधनं करोति । मतिहेतवोऽपि हि परं बोधयन्ति करादिचेष्टाः ॥ १७२ ॥ ३ न परमबोधके यत् दे अपि स्वरूपतो मति-श्रुते । तत्कारणानि द्वषोरपि बोधयन्ति ततो न भेदोऽनयोः ॥ १७ ॥
॥१०४॥
STRETIRece
For Personal and Private Use Only
Page #107
--------------------------------------------------------------------------
________________
19
विशे० ॥१०५॥
मतिहेतूनामपि परप्रबोधकत्वे सति 'न भेओ सिं' अनयोर्मति-श्रुतयोन भेदः । कुतः? इत्याह- 'तउत्ति' ततस्तस्मात् । कारणात् । कस्मात् ? इत्याह-यद् यस्माद् द्वे अध्येते मति-श्रुते स्वरूपतो विज्ञानाऽऽत्मना न परप्रबोधके, विज्ञानस्य मूकत्वेन परप्रबो- बृहद्वत्तिः । धकत्वायोगात् , अवध्यादिवदिति । अथ श्रुतस्य यत् कारणं शब्दादिकं तत् परप्रबोधकम् , इत्येतावता मतिज्ञानाद् विशिष्यते श्रुतज्ञानम् । नन्वेतद् मतिज्ञानेऽपि समानम् , तत्कारणस्याऽपि करचेष्टादेः परावबोधकत्वादिति । एतदेवाह- तानि च तानि पूर्वोक्तरूपाणि कारणानि च तत्कारणानि द्वयोरपि मति-श्रुतज्ञानयोर्यथासंख्यं शब्दादीनि, करचेष्टादीनि च परं बोधयन्त्येव, इति कोऽनयोर्विशेषः १, न कश्चिदित्यर्थः । इति किमुच्यते- मूके तरभेदाद् भेदः ॥ इति गाथार्थः ॥ १७३ ॥ तदेवं परोक्ते व्यभिचारिते ततो निरुत्तरं विलक्षीभूतं तूष्णीम्भावमापन्नं परमवलोक्य संजातकारुण्यः स्वयमेव मूरिरुत्तरमाह
देव्वसुयमसाहारणकारणओ परविबोहयं होज्जा । रूढं ति व दव्वसुयं सुयं ति रूढा न दव्यमई ॥१७४॥
द्रव्यश्रुतं पुस्तकन्यस्ताक्षरशब्दरूपं श्रुतज्ञानस्यैव कारणम् , न तु मतेः, इति श्रुतज्ञानं प्रत्यसाधारणकारणत्वाद् द्रव्यश्रुतं परप्रबोधकं भवेत् , न तु करादिचेष्टाः, तासां मति-श्रुतोभयकारणत्वेन साधारणकारणत्वादिति भावः इदमुक्तं भवति-पुस्तकादिन्यस्ताक्षररूपं, शब्दात्मकं च द्रव्यश्रुतम्, श्रुतज्ञानस्य मतिपूर्वकत्वाद् यद्यप्यानन्तर्येणाऽवग्रहे-हादीन् जनयति, तथाऽप्यक्षररूपत्वाद् मुख्यतया श्रुतज्ञानस्यैव किलाऽसाधारणं कारणमुच्यते, कारणत्वेनोपचारतः श्रुतज्ञानेऽन्तर्भवति, परप्रबोधकत्वेन च तत् सर्वस्यापि विदितमिति । एवं कारणस्य परप्रबोधकत्वाच्छूतज्ञानं परप्रबोधकं घटते, करादिचेष्टास्तु मतिज्ञानस्याऽसाधारणकारणं न भवन्ति, श्रुतज्ञानहेतुत्वादपि कर-वक्त्रसंयोगादिकायां हि करचेष्टायां दृष्टायां न केवलं तद्विषया अवग्रहादय उत्पद्यन्ते, किन्तु 'भोक्तुमिच्छत्ययम्' इत्यादिश्रुतानुसारिविकल्पात्मकं श्रुतज्ञानमप्युपजायत इति । अतोऽसाधारणकारणत्वाभावात् करादिचेष्टाः परमार्थतो मतिज्ञानस्य कारणमेव न संभवन्ति, ततश्च न तत्रान्तर्भवन्ति; तथा च सति न मतिज्ञानं परप्रबोधकम् । अथवा 'दब्बसुयमसाहारणकारणउ त्ति' द्रव्यश्रुतं पुस्तकादिन्यस्ताऽऽचारादिग्रन्थाक्षररूपम् , गुरुजनोदीरितदेशनाशब्दस्वरूपं च परमबोधकं भवेत् । कुतः ? इत्याहA असाधारणस्य मोक्षं प्रत्यनन्यसाधारणकारणस्य क्षायिकज्ञान-दर्शन-चारित्रलक्षणस्य वस्तुकलापस्य कारणत्वाद् हेतुत्वात् । ततश्च
तवारेण श्रुतज्ञानमपि परप्रबोधकं घटते; करादिचेष्टास्तु यद्यपि मतिज्ञानस्य कारणम् , तथापि यथोक्तो विशिष्टः परप्रबोधस्तासु प्रायो B ॥१०५॥
१ दव्यश्रुतमसाधारणकारणतः परविबोधकं भवेत् । रूढमिति वा द्रव्यश्रुतं श्रुतमिति रूढा न अन्यमतिः ॥ १७ ॥
For som
e
Use Only
Page #108
--------------------------------------------------------------------------
________________
विशे
बृहद्वात्तिः।
॥१०६॥
न संभवति, अतो विशिष्टपरप्रबोधाभावाद् न ताः परप्रबोधिकाः, तथा च सति न तद्द्वारेणाऽपि मतिज्ञानं परमबोधकम् । इति सूत्रस्य सूचकत्वात् सोपस्कारः पूर्वार्धस्याऽर्थोऽवसेयः ।। ___ अथोत्तरार्धस्य व्याख्या प्रस्तूयते- 'रूढं ति वेत्यादि' वेत्यथवा, भवतु मतिज्ञानस्य कारणं करादिचेष्टा, तथापि सा 'द्रव्यमतिः' इत्येवमागमे कचिदपि न रूढा द्रव्यश्रुतं पुनः पूर्वोक्तस्वरूपं 'श्रुतं' इत्येवं सर्वत्र रूढम् । ततश्च यद्यपि करादिचेष्टा मतिज्ञानस्य कारणं, परप्रबोधिका च; तथापि द्रव्यमतित्वेनाऽरूढत्वात कारणे कार्योपचारतो मतिरूपतया न व्यवह्रियते । अतो मतिज्ञानात् तस्याः पृथग्भूतत्वाद् न तद्द्वारेण तस्य परप्रबोधकत्वम् , द्रव्यश्रुतं तु कारणे कार्योपचारतः श्रुतज्ञानत्वेन प्ररूप्यते, इति तद्द्वारेणाऽस्य परप्रबोधकत्वमुपपद्यत एव । इति युक्तो मूके-तरभेदाद् मति-श्रुतयोर्भेदः। ततश्च 'तकारणाई दोण्ह वि बोहेति तओ न भेओ सिं' इत्येतदपास्तं भवति ॥ इति गाथार्थः ।। १७४ ।।
तदेवं करादिचेष्टाया मतिकारणत्वमभ्युपगम्योक्तम् , सांप्रतं सा मतेः कारणमेव न भवति, किन्तु श्रुतस्येति दर्शयन्नाह
सौ वा सदत्थो च्चिय तया वि जं तम्मि पच्चओ होइ। कत्ता वि हु तदभावे तदभिप्पाओ कुणइ चिट्ठ॥१७५॥
यदिवा सा करादिचेष्टा कर-चक्त्रसंयोगादिलक्षणा । किम् ? इत्याह-शब्दार्थ एव शब्दो वक्तृसमुदीरितवचनरूपस्तस्याऽर्थः शब्दार्थः श्रोतृगतज्ञाने प्रतिभासमानतदभिधेयवस्तुरूपः श्रुतज्ञानमिति तात्पर्यम् । किमित्यसौ शब्दार्थ एव ? इत्याह- यद् यस्मात् कारणात् तयाऽपि क; विहितया तस्मिन् शब्दार्थे भोजनेच्छादिलक्षणे प्रतिपत्तुः प्रत्ययो भवति । तथा कर्तापि तदभावे शब्दाभावे जिहारोगादिसद्भावात् शब्दोदीरणसामर्थ्याभाव इत्यर्थः, 'तदभिप्पाउ त्ति' तस्मिन् शब्दार्थे भोजनेच्छादिलक्षणे परस्मै प्रतिपादयितव्येऽभिप्रायो मनोविकल्पो यस्याऽसौ तदभिप्रायः करोति चेष्टां कर-वक्त्रसंयोगादिलक्षणाम् । इदमुक्तं भवतियद्यपि करादिचेष्टाऽनन्तरभावेनाऽवग्रहादीन् जनयति, तथापि शब्दार्थ एव सा श्रुतज्ञानमेवेत्यर्थः, यस्मात् तयापि विहितया तत्र शब्दार्थप्रत्ययो भवति । अतः शब्दार्थप्रत्ययजनकत्वात् कारणे कार्योपचारात् शब्दार्थप्रत्यय एव सा, न पुनर्मतिः, तथा कर्तापि 'भोक्तुमिच्छत्यसौ' इत्यादि प्रतिपत्ता जानात्वित्यभिप्रायवानेव भाषणशक्त्यभावे करादिचेष्टां करोति । ततश्च केाऽपि शब्दार्थद्योतनाभिप्रायेण क्रियमाणत्वात् करादिचेष्टा शब्दार्थ एव । ततश्चैषाऽपि श्रुतकारणत्वात् श्रुत एवान्तर्भवति, शब्दवत् , न मतो, १ क. 'अतोऽपि वि' । २ गाथा १७३ । ३ सा वा शब्दार्थ एव तयाऽपि यत् तस्मिन् प्रत्ययो भवति । कापि खलु तदभावे तदभिप्रायः करोति चेष्टाम् ॥१७५॥ ४ क. ग. 'तात्पर्यार्थः'। ५ क, ग, 'काश'।
१०६॥
Jan Education inten
For Personal and Private Use Only
www.jaineltrary.ary
Page #109
--------------------------------------------------------------------------
________________
काका
EA तथा च सत्येषा परमार्थतो मतेः कारणमेव न भवति, अतः कारणद्वारेणापि न परप्रत्यायकं मतिज्ञानम् , श्रुतं तु तवारेण पराविशे० बबोधकम् । इति युक्तो मूके-तरभेदाद् मति-श्रुतयोर्भेदः ।। इति गाथार्थः ॥ १७५ ॥
बृहद्वृत्तिः । ॥मति-श्रुतयोर्भेदचिन्ताधिकारः समाप्तः॥ ॥१०७॥
____ तदेवं स्वामि-काल-कारणादिभिरभेदेऽपि लक्षण-भेद-हेतुफलभावादिभिर्मति-श्रुतयोविस्तरतो भेदमभिधायोपसंहरबाह
मेइ-सुयनाणविसेसो भणिओ तल्लक्खणाइभेएणं । पुव्वं आभिणिबोहियमुद्दिटुं तं परूवेस्सं ॥ १७६ ॥
मति-श्रुतज्ञानयोर्विशेषो भेदो भणितः । केन ? इत्याह- तयोर्लक्षणादिभिर्भेदः, अथवा स चासौ अनन्तरोक्तो लक्षणादिभेदश्च । तल्लक्षणादिभेदस्तेन । सांप्रतं त्वाभिनिवोधिकज्ञानं प्ररूपयिष्ये विस्तरतो व्याख्यास्यामि । शेषश्रुतादिपरिहारेण किमित्याभिनियोधिकं प्रथम मरूप्यते ? इत्याह-- यस्माज्ज्ञानपञ्चके पूर्वमादौ तदुद्दिष्टमुपन्यस्तम् , तस्माद् " यथोदेशं निर्देशः" इति कृत्वा तत् प्रथम व्याख्यास्यामि ॥ इति गाथार्थः ॥ १७६ ॥
तत्त्व-भेद-पर्यायैश्च व्याख्या, तत्र तत्त्वं लक्षणम् , तच्च प्रागेवोक्तम् । अथ तद्भेदनिरूपणार्थमाह
इन्दिय-मणोनिमित्तं तं सुयनिस्सियमहेयरं च पुणो । तत्थेक्केकं चउभेयमुग्गहो-प्पत्तियाईयं ॥ १७७ ॥
इन्द्रिय-मनोनिमित्तं यत् प्रागुक्तमाभिनिबोधिकज्ञानम् , तद् विभेदं भवति-श्रुतनिश्रितम् , इतरचाऽश्रुतनिश्रितम् । अथशब्दो वाक्यालङ्कारार्थः । तत्र श्रुतं संकेतकालभावी परोपदेशः, श्रुतग्रन्थश्च, पूर्व तेन परिकर्मितमतेर्व्यवहारकाले तदनपेक्षमेव यदुत्पद्यते तत् श्रुतनिश्रितम् । यत्तु श्रुतापरिकर्मितमतेः सहजमुपजायते तदश्रुतनिश्रितम् । तत्र तयोः श्रुतनिश्रिता-ऽथुतनिश्रितयोर्मध्ये एकैकं चतुआंदम् । कथम् ? इत्याह- यथासंख्यमवग्रहादिकम् , औत्पत्तिक्यादिकं च- अवग्रहे-हा-ऽपाय-धारणाभेदात् श्रुतनिश्रितं चतुर्विधम् ,
औत्पत्तिकी-बैनायिकी-कर्मजा-पारिणामिकीलक्षणबुद्धिभेदात्त्वश्रुतनिश्रितं चतुर्भेदमित्यर्थः । यद्यप्यौत्पत्तिक्यादिबुद्धिचतुष्टयेऽप्यवग्रहादयो विद्यन्ते, तथापि 'पुव्यमदिहमसुयमवेइ य तक्खणविसुद्धगहियत्था' इत्यादिवक्ष्यमाणवचनात् परोपदेशाधनपेक्षत्वात् ते श्रुतनिश्रिता न भवन्ति, शेषास्त्ववग्रहादयः पूर्व श्रुतपरिकर्मणाऽनन्तरेण न संभवन्ति, ईहादिगताभिलापस्य परोपदेशाद्यन्तरेणापत्तेः, इति ते श्रुत
||१०७॥ , मति-वतज्ञानविशेषो भणितस्तलक्षणादिभेदेन । पूर्वमाभिनिवाधिकमुद्दिष्ट तत् प्ररूपयिष्ये ॥ १७६ ॥ २ इन्द्रिय-मनोनिमितं तच्छूतनिश्चितमयेतरच पुनः । तत्रैक चतुर्भदमवग्रही-त्पत्तिक्यादिकम् ॥ १७७ ॥३ पूर्वमदृष्टमश्रुतमवैति च तत्क्षणविधवगृहीतार्था । |
For Des
s ert
Page #110
--------------------------------------------------------------------------
________________
विशे०
॥१०८॥
Jain Education Internationa
निश्रिता उच्यन्ते । औत्पत्तिक्यादिषु स्वीहायभिलापस्य तथाविधकर्मक्षयोपशमजत्वात् परोपदेशायन्तरेणाऽप्युपपत्तेरिति भावः ।। इति गाथार्थः ॥ १७७ ॥
तत्र श्रुतनिश्रितानवग्रहादींस्तावद् निर्युक्तिकारः प्राह—
उग्गहोईहवाओ य धारणा एव होंति चत्तारि । आभिणिबोहियनाणस्स भयवत्थू समासेणं ॥ १७८ ॥ रूप-रसादिभेदैरनिर्देश्यस्याऽव्यक्तस्वरूपस्य सामान्यार्थस्याऽयग्रहणं परिच्छेदनमवग्रहः । तेनाऽवगृहीतस्यार्थस्य भेदविचारणं वक्ष्यमाणगत्या विशेषान्वेषणमहा । तयेहितस्यैवाऽर्थस्य व्यवसायस्तद्विशेषनिश्चयोऽपायः । चशब्दोऽवग्रहादीनां पृथक् पृथक स्वातन्त्र्यप्रदर्शनार्थः, तेनैतदुक्तं भवति - अवग्रहादेरीहादयः पर्याया न भवन्ति पृथग्भेदवाचकत्वादिति । निश्चितस्यैव वस्तुनोऽविच्युत्यादिरूपेण धरणं धारणा । एवकारः क्रमद्योतनपरः, अवग्रहादीनामुपन्यासस्याऽयमेव क्रमो नान्यः, अवगृहीतस्यैवेहनात्, ईहितस्यैव निश्वयात्, निश्चितस्यैव धारणादिति । एवमेतान्याभिनिवोधिकज्ञानस्य चत्वार्येव भेदवस्तूनि समासेन संक्षेपेण भवन्ति, विस्तरतस्त्वष्टाविंशत्यादिभेदभिन्नमिदं वक्ष्यत इति भावः । तत्र भिद्यन्ते परस्परमिति भेदा विशेषास्त एव वस्तूनि भेदवस्तूनीति समासः । इति गाथार्थः ॥ १७८ ॥
अथ नियुक्तिकार एवावग्रहादीन् व्याख्यानयन्नाह -
अत्थाणं उग्गहणं अवग्गहं तह वियालणं ईहं । ववसायं च अवायं धरणं पुण धारणं बेंति ॥ १७९ ॥
अर्थानां रूपादीनां प्रथमं दर्शनानन्तरमेवाऽवग्रहणमवग्रहं ब्रुवत इति संबन्धः । तथा विचारणं पर्यालोचनं 'अर्थानाम्' इति वर्तते, ईहनमीहा तां ब्रुवते इदमुक्तं भवति- अवग्रहादुत्तीर्णोऽपायात् पूर्वं सद्भूतार्थविशेषोपादानाभिमुखोऽसद्भूतार्थविशेषत्यागसंमुखश्च प्रायः काकनिलयनादयः स्थाणुधर्मा अत्र वीक्ष्यन्ते, न तु शिरःकण्डूयनादयः पुरुषधर्मा इति मतिविशेष ईहेति । विशिष्टोऽवसायो व्यवसायो निश्चयस्तं व्यवसायम्, 'अर्थानाम्' इतीहापि वर्तते, अवायमपायं वा ब्रुवतेः एतदुक्तं भवति - स्थाणुरेवाऽयमित्यवधारणात्मकः प्रत्ययोऽवायः, अपायो वेति; चशब्द एवकारार्थः, व्यवसायमेवाश्वायम्, अपायं वा ब्रुवत इत्यर्थः । धृतिर्धरणम्, 'अर्थानाम्' इति वर्तते, अपायेन विनिश्चितस्यैव वस्तुनोऽविच्युति - स्मृति-वासनारूपं धरणमेव धारणां ब्रुवत इत्यर्थः । पुनः शब्दस्याऽवधारणार्थत्वाद् ब्रुवत इत्यनेन शास्त्रस्य
१ अवग्रह ईहाऽपायश्च धारणैव भवन्ति चत्वारि । आभिनियोधिकज्ञानस्य भेदवस्तूनि समासेन ॥ १७८ ॥ २ अधीनामग्रहणमवग्रहं तथा विचारणमीहाम् । व्यवसायं चाऽपायं धरणं पुनर्धारण घुवते ॥ १७९ ॥
For Personal and Private Use Only
बृहद्वत्तिः ।
॥१०८॥
Page #111
--------------------------------------------------------------------------
________________
विशे०
॥१०९॥
सररररर
पारतन्त्र्यमुक्तम्- इत्थं तीर्थकर-गणधरा ब्रुवत इति ।।
____ अन्ये त्वेवं पठन्ति- “ अत्थाणं उग्गहणम्मि उग्गहो" इत्यादि, तत्रार्थानामवग्रहणे सत्यवग्रहो नाम मतिभेद इत्येवं ब्रुवते, बृहद्वत्तिः । एवमीहादिष्वपि योज्यम् ; भावार्थस्तु पूर्ववदेव । अथवा प्राकृतशैल्याऽर्थवशाद् विभक्तिपरिणाम इति सप्तमी द्वितीयार्थे द्रष्टव्या ॥ इति गाथार्थः ॥ १८॥
अथैतदेवाऽवग्रहादिस्वरूपं भाष्यकारो विवृण्वन्नाह
सोमण्णत्थावग्गहणमुग्गहो भेयमग्गणमहेहा । तस्सावगमोऽवाओ अविच्चुई धारणा तस्स ॥ १८ ॥
अन्तर्भूताऽशेषविशेषस्य केनापि रूपेणाऽनिर्देश्यस्य सामान्यस्याऽर्थस्यैकसामयिकमवग्रहणं सामान्यार्थावग्रहणम्, अथवा सामान्येन सामान्यरूपेणार्थस्याऽवग्रहणं सामान्यार्थावग्रहणमवग्रहो बेदितव्यः । अथाऽनन्तरमीहा प्रवर्तते। कथम्भूतेयम् ? इत्याह-भेदमार्गणम्-भेदा वस्तुनो धर्मास्तेषां मार्गणमन्वेषणं विचारणं प्रायः काकानलयनादयः स्थाणुधर्मा अत्र वीक्ष्यन्ते, न तु शिरःकण्डूयनादयः पुरुषधर्मा इत्येवं वस्तुधर्मविचारणमीहेत्यर्थः । तस्यैवेहयेहितस्य वस्तुनस्तदनन्तरमवगमनमवगमः स्थाणुरेवाऽयमित्यादिरूपो निश्चयोऽवायोऽपायो वेति । तस्यैव निश्चितस्य वस्तुनोविच्युति-स्मृति-वासनारूपं धरणं धारणा; मूत्रेऽविच्युतेरुपलक्षणत्वात् ॥ इति गाथार्थः ॥१८०॥
अत्र चाऽवग्रहादारभ्य परैः सह विप्रतिपत्तयः सन्ति, इत्यवग्रहविषयां तां तावद् निराकर्तुमाह
सामण्णविसेसस्स वि केई उग्गहणमुग्गहं बेंति । जं मइरिदं तयं तिच, तं नो बहुदोसभावाओ ॥ १८१॥ सामान्य चासौ विशेषश्च सामान्यविशेषस्तस्याऽपि, न केवलं सामान्यार्थस्य, इत्यपिशब्दः, अवग्रहणमवच्छेदन केचन व्याख्यातारोऽवग्रहं ब्रुवते । किंकारणम् ? इत्याह- 'जं मइरिदं तयं ति चेति' यद् यस्मात् कारणादमुतःशब्दादिलक्षणसामान्यविशेषग्राहकाऽवग्रहादनन्तरं | इदं, तदिति च, इति विमर्शलक्षणा मतिरनुधावति- ईहा प्रवर्तत इत्यर्थः, यदनन्तरं चेहादिप्रवृत्तिः सोऽवग्रह एव, यथाव्यञ्जनावग्रहानन्तरभावी अव्यक्तानिर्देश्यसामान्यमात्रग्राही अवग्रहः, प्रवर्तते च शब्दादिसामान्यविशेषग्राहकाऽवग्रहानन्तरमीहादिः, तस्मादवग्रह एवाऽयम् । तथाहि-दूरात् शङ्खादिसंबन्धिनि शब्दे सामान्यविशेषात्मके रूपादिभ्यो भिन्ने गृहीते प्रवर्तत एवायं विमर्श:-किमयं शाङ्कः, म
॥१०९॥ सामान्यार्थावग्रहणमवमहो भेदमार्गणमधेहा । तस्यावगमोऽपायोऽविच्युतिधारणा तस्य ॥ १८ ॥ २ सामन्यविशेषस्याऽपि कोचिदवग्रहणमवग्रहं युवते । यद् मतिरिदं तदिति च, तद् नो बहुदोषभावात् ॥ १८॥ ३ क. 'भिन्नेऽवगृ' ।
PERSOSRCS
For Personal and ev
e
nty
Page #112
--------------------------------------------------------------------------
________________
बृहदत्तिः ।
॥११०॥
शाङ्गो वा शब्दः । शाङ्गश्चेत् किं महिषीशृङ्गोद्भवः, महिषशृङ्गजो वा । महिषीशृङ्गसंभवश्चेत् , किं प्रमूतमहिषीशृङ्गसंभवः, अप्रमूतमहिपीभृङ्गसमुद्भूतो वा? इत्यादि । यतश्चानन्तरमित्थं विमर्शेनेहाप्रवृत्तिर्न भवति, अन्तप्राप्तेः, क्षयोपशमाभावाद् वा, स पुनरपायः॥
तदेतत् परोक्तं दूषयितुमाह-'तं नो इत्यादि' तदेतत् परोक्तं न । कुतः? इत्याह-बहवश्च ते दोषाश्च तेषां भाव उपनिपातस्तस्मात् , एवं हि सर्वायुषाऽप्यपायप्रवृत्तिर्न स्यात् , यथोक्तविमर्शप्रवृत्तेरनिष्ठितत्वात् । न च पूर्वमनीहिते प्रथमोऽपि शब्दनिश्चयो युक्तः, यतश्च पूर्वमीहा प्रवर्तते नाऽसाववग्रहः, किन्त्वपाय एवेत्यादि सर्व पुरस्ताद् वक्ष्यते ॥ इति गाथार्थः ॥ १८१ ॥
अन्ये स्वीहायां विप्रतिपद्यन्ते, तन्मतमुपन्यस्य दूषयनाह
ईहा संसयमेत्तं केई, न तयं तओ जमन्नाणं । मइनाणंसा चेहा कहमन्नाणं तई जुत्तं ? ॥ १८२ ॥
किमयं स्थाणुः, आहोखित् पुरुषः? इत्यनिश्चयात्मकं संशयमात्रं यदुत्पद्यते तदीहेति केचित् प्रतिपद्यन्ते । तदेतद् न घटते । | कुतः इत्याह- यद् यस्मात् कारणात् । 'तउत्ति' असौ संशयोऽज्ञानम् । भवतु तीज्ञानमपीहा, इति चेत् , इत्याह- 'मईत्यादि' मतिज्ञानांशश्च मतिज्ञानभेदश्वेहा वर्तते । न च ज्ञानभेदस्याऽज्ञानरूपता युज्यते; एतदेवाह- 'कहमित्यादि ' कथं केन प्रकारेणाऽज्ञानं युक्तम् ? न कथश्चिदित्यर्थः । केयमित्याह-'तई ति' असौ मतिज्ञानांशरूपेहा, संशयस्य वस्त्वप्रतिपत्तिरूपत्वेनाऽज्ञानात्मकत्वात् , ईहायास्तु ज्ञानभेदत्वेन ज्ञानखभावत्वात् । ज्ञाना-ऽज्ञानयोश्च परस्परपरिहारेण स्थितत्वाद् नाऽज्ञानरूपस्य संशयस्य ज्ञानांशात्मकेहारूपत्वं युक्तमिति भावः ॥ इति गाथार्थः॥ १८२ ॥
आह- ननु संशये-हयोः किं कश्चिद् विशेषोऽस्ति , येनेहारूपत्वं संशयस्य निषिध्यते ? इत्याशङ्कय तयोः स्वरूपभेदमुपदर्शयत्राह
जैमणेगत्थालंबणमपज्जुदासपरिकुंठियं चित्तं । सेय इव सव्वप्पयओ तं संसयरूवमन्नाणं ॥ १८३ ॥ तं चिय सयत्थहेऊ-ववत्तिवावारतप्परममाहं । भूया-ऽभूयविसेसायाण-च्चायाभिमुहमीहा ॥ १८४ ॥ १इंहा संशयमानं केचित्, न तत् सको यदज्ञानम् । मतिज्ञानांशश्वेहा कथमज्ञानं सा युक्तम् ॥ १८२ ॥ २ यदनेकार्थालम्बनमपर्युदासपरिकुण्ठितं चित्तम् । शेत इव सर्वात्मतस्तत् संशयरूपमशानम् ॥ १८३ ॥ तदेव सदर्थहेतूपपत्तिव्यापारतत्परममोघम् । भूता-ऽभूतविशेषाऽऽदान-त्यागाभिमुखमीहा ॥ १५ ॥
॥११॥
29SPSSSS
Jan Education Internatio
For Personal and Private Use Only
INTww.jaineltrary.org
Page #113
--------------------------------------------------------------------------
________________
बृहद्वत्तिः ।
विशे० ॥११॥
यचित्तं यन्मनोऽनेकार्थालम्बनमनेकार्थप्रतिभासाऽऽन्दोलितम् , अत एव पर्युदसनं पर्युदासो निषेधो न तथाऽपर्युदासोऽनिषेधस्तेन, तथोपलक्षणत्वादविधिना च परिकुण्ठितं जडीभूतं सर्वथाऽवस्तुनिश्चयरूपतामापन्नम् , किंबहुना ? 'सेय इवेत्यादि ' शेत इव स्वपितीव सर्वात्मना न किश्चिच्चेतयते, वस्त्वप्रतिपत्तिरूपत्वात् , तदेवंविधं चित्तं संशय उच्यत इत्यर्थः, तच्चाऽज्ञानम् , वस्त्ववबोधरहितत्वादिति । यत् पुनस्तदेव चेतो वक्ष्यमाणस्वरूपं तदीहेति संबन्धः । कथंभूतं सत् ? इत्याह- "भूया-भूयेत्यादि ' भूतः कचिद् विवक्षितपदेशे स्थाण्यादिरः, अभूतस्तत्राऽविद्यमानः पुरुषादिः, तावेव पदार्थान्तरेभ्यो विशिष्यमाणत्वाद् विशेषी, तयोरादान-त्यागाभिमुखं- भूतार्थविशेषोपादानस्याऽभिमुखम् , अभूतार्थत्यागस्याऽभिमुखमिति यथासंख्येन संबन्धः । यतः कथंभूतम् ? इत्याह- सदर्थहेतूपपत्तिव्यापारतत्परं हेतुद्वारेणेदं विशेषणम्- सदर्थहेतूपपत्तिव्यापारतत्परत्वाद् भूता-ऽभूतविशेषादान-त्यागाभिमुखमिति भावः, तत्र हेतुः साध्यार्थगमकं युक्तिविशेषरूपं साधनम् , उपपत्तिः संभवघटनम्-विवक्षितार्थस्य संभवव्यवस्थापनम् । ततश्च हेतुश्चोपपत्तिश्च हेतूपपत्ती सदर्थस्य विवक्षितपदेशेऽरण्यादौ विद्यमानस्य स्थाण्वादेरर्थस्य हेतू-पपत्ती सदर्थहेतूपपत्ती लद्विषयो व्यापारो घटनं चेष्टनं सदर्थहेतू-पपत्तिव्यापारस्ततस्तत्परं तनिष्ठमिति समासः। अत एवाऽमोघमर्थवलायातत्वेनाऽविफलमामिथ्यास्वरूपम्, तदेवंभूतं चेतः ईहा'इति संबन्धः कृत एव इदमुक्तं भवति- केनचिदरण्यदेशं गतेन सवितुरस्तमयसमये ईषदवकाशमासादयति तमिस्र दूरवर्ती स्थाणुरुपलब्धः, ततोऽस्य विमर्शः समुत्पन्नः-किमयं स्थाणुः, पुरुषो वा ? इति । अयं च संशयत्वादज्ञानम् । ततोऽनेन तस्मिन् स्थाणौ दृष्ट्वा वल्ल्यारोहणम् , पविलोक्य काक-कारण्डव-कादम्ब-कौश्च-कीरशकुन्तकुलनिलयनम् , कृतश्चेतास हेतुब्यापारः, यथा स्थाणुरयम् , वल्ल्युत्सर्पण-काकादिनिलयनोपलम्भात् । तथा संभवपर्यालोचनं च व्यधायि, तद् यथा- अस्ताचलान्तरिते सवितरि, प्रसरति चेपत्तमिस्र महारण्येऽस्मिन् स्थाणुरयं संभाव्यते, न पुरुषः, शिरकण्डूयन-कर-ग्रीवाचलनादेस्तव्यवस्थापकहेतोरभावात् । ईदृशे च प्रदेशेऽस्यां वेलायां प्रायस्तस्याऽसंभवात् । तस्मात् स्थाणुनात्र सद्भूतेन भाव्यम् , न पुरुषेण । तदुक्तम्" अरण्यमेतत् सविताऽस्तमागतो न चाऽधुना संभवतीह मानवः । प्रायस्तदेतेन खगादिभाजा भाव्यं स्मरारातिसमाननाम्ना" ॥ १ ॥
एतच्चेदृशं चित्तं ' ईहा' इत्युच्यते, निश्चयाभिमुखत्वेन संशयादुत्तीर्णत्वात् , सर्वथानिश्चयेऽपायत्वप्रसङ्गेन निश्चयादधोवर्तित्वाच । इति संशये-हयोः प्रतिविशेषः ।। इति गाथाद्वयार्थः ॥ १८३ ॥ १८४ ॥ अथाऽपाय-धारणागतविप्रतिपत्तिनिराचिकीर्षया परमतमुपदर्शयन्नाह
१५. छ. ज. 'चित्तं संशयरूपं सं'।
॥११॥
Page #114
--------------------------------------------------------------------------
________________
विशे०
॥११२॥
Jain Education Internat
'केई तयणविसावणयणमेतं अवायमिच्छन्ति । सन्भूयत्थविसेसावधारणं धारणं बेति ॥ १८५ ॥
तच्छब्दस्याऽनन्तरगाथोक्तो भूतोऽर्थः संबध्यते, तस्मात् तत्र भूताद् विद्यमानात् स्थाण्वादेर्योऽन्यस्तत्प्रतियोगी तत्राऽविद्यमानः पुरुषादिस्तद्विशेषाः शिरः कण्डूयन-चलन-स्पन्दनादयस्तेषां पुरोवर्तिनि सद्भूतेऽर्थेऽपनयनं निषेधनं तदन्यविशेषापनयनं तदेव तन्मात्रम्, अपायमिच्छन्ति, केचनाऽपि व्याख्यातार:- अपायनमपनयनमपाय इति व्युत्पत्त्यर्थविभ्रमितमनस्का इति भावः । अवधारणं धारणा इति च व्युत्पत्यर्थ भ्रमितास्ते धारणां ब्रुवते । किं तत् १ इत्याह- सद्भूतार्थविशेषावधारणं सद्भूतस्तत्र विवक्षितप्रदेशे विद्यमानः स्थाण्वादिरर्थविशेषस्तस्य 'स्थाणुरेवाऽयं' इत्यवधारणं सद्भूतार्थविशेषावधारणमिति समासः ॥ इति गाथार्थः ॥ १८५ ॥
तदेतद् दूषयितुमाह
bres तयन्नवइरेगमे ओऽवगमणं भवे भूए । सम्भूयसमण्णयओ तदुभयओ कासइ न दोसो || १८६ ॥ .
'भूए ति ' तत्र विवक्षितप्रदेशे भूते विद्यमानेऽर्थे स्थाण्वादौ 'कासइ त्ति' कस्यचित् प्रतिपत्तुस्तदन्यव्यतिरेकमात्रादवगमनं निश्चयो भवति तस्मात् स्थाण्वादेर्योऽन्यः पुरुषादिरर्थस्तस्य व्यतिरेकः स एव तदन्यव्यतिरेकमात्रं तस्मात् स्थाण्वाद्यर्थनिश्चयो भवतीत्यर्थः; तद्यथा- यतो नेह शिरःकण्डूयनादयः पुरुषधर्मा दृश्यन्तेः ततः स्थाणुरेवाऽयमिति । कस्यापि सद्भूतसमन्वयतः - सद्भूतस्तत्र प्रदेशे विद्यमानः स्थाण्वादिरर्थस्तस्य समन्वयतोऽन्वयधर्मघटनाद् भूतेऽर्थेऽवगमनं निश्चयो भवेत्, यथा स्थाणुरेवाऽयम्, वल्ल्युत्सर्पणवयोनिलयनादिधर्माणामिहाऽन्वयादिति । कस्यचित् पुनस्तदुभयादन्वयव्यतिरेकोभयात् तत्र भूतेऽर्थेऽवगमनं भवेत् तद्यथायस्मात् पुरुषधर्माः शिरः कण्डूयनादयोऽत्र न दृश्यन्ते, वल्ल्युत्सर्पणादयस्तु स्थाणुधर्माः समीक्ष्यन्ते तस्मात् स्थाणुरेवाऽयमिति । न चैवमन्वयात्, व्यतिरेकात् उभयाद् वा निश्चये जायमाने कश्चिद् दोषः, परव्याख्याने तु वक्ष्यमाणन्यायेन दोष इति भावः ॥ इति गाथार्थः ।। १८६ ॥
कथं पुनस्तद्वयाख्याने न दोषः १, इत्याह
सैो विसोबाओ ए वा होंति पंच वत्थूणि । आहेवं चिय चउहा मई तिहा अन्नहा होइ ॥ १८७॥
१ केचित् तदन्यविशेषापनयनमात्रमपायमिच्छन्ति । सद्भूतार्थविशेषावधारणं धारणां बुवते १८५ ॥
२ कस्यचित् तदन्यव्यतिरेकमात्रतोऽवगमनं भवेद् भूते । सद्भूतार्थसमन्वयतस्तदुभयतः कस्यचिद् न दोषः ॥ १४६ ॥
३. सर्वोऽपि च सोऽपायो भेदे वा भवन्ति पञ्च वस्तूनि आहेवमेव चतुर्धा मतिस्त्रिधाऽन्यथा भवति ॥ १८७ ॥
For Personal and Private Use Only
बृहद्वृत्तिः ।
॥ ११२ ॥
Page #115
--------------------------------------------------------------------------
________________
विशे०
॥११३॥
Jain Educations Internation
यस्माद् व्यतिरेकाद्, अन्वयाद्, उभयाद् वा भूतार्थविशेषावधारणं कुर्वतो योऽध्यवसायः स सर्वोऽप्यपायः प्रस्तुतस्थाण्वादिवस्तुनिश्चयः, न तु सद्भूतार्थविशेषावधारणं धारणेति भावः तस्माद् न दोषः ॥
आह- ननु यथा मया व्याख्यायते - सद्भूतार्थविशेषावधारणं धारणा, तथा किं कश्चिद् दोषः समुपजायते, येनाssत्मीयव्याख्यानपक्षे इदमित्थमभिधीयते 'न दोष:' इति । एतदाशङ्कयाह - ' भेए वेत्यादि ' वाशब्दः पातनायां गतार्थः, व्यतिरेकोऽपायः, अन्वयस्तु धारणा, इत्येवं मतिज्ञानतृतीय भेदस्याऽपायस्य भेदेऽभ्युपगम्यमाने पञ्च वस्तूनि पञ्च भेदा भवन्ति, 'आभिनिवोधिकज्ञानस्य' इति गम्यते; तथाहि - अवग्रहे- हा उपाय-धारणालक्षणाश्चत्वारो भेदास्तावत् त्वयैव पूरिताः, पञ्चमस्तु भेदः स्मृतिलक्षणः प्राप्नोति- अविच्युतेः स्वसमानकालभाविन्यपायेऽन्तर्भूतत्वात्, वासनायास्तु स्मृत्यन्तर्गतत्वेन विवक्षितत्वात् स्मृतेरनन्यशरणत्वाद् मतेः पञ्चमो भेदः प्रसज्यत इति भावः ॥
' आहेत्यादि ' पुनरप्याह परः- ननु यथैव मया व्याख्यायते व्यतिरेकमुखेन निश्चयोऽपायः, अन्वयमुखेन तु धारणा, इत्येवमेव चतुर्भा चतुर्विधा मतिर्भवति युक्तितो घटते । अन्यथा तु व्याख्यायमाने- अन्वयव्यतिरेकयोर्द्वयोरप्यपायत्वेऽभ्युपगम्यमाने इत्यर्थः । किम् , इत्याह- त्रिधा - अवग्रहे- हा ऽपायभेदतस्त्रिभेदा मतिर्भवति, न पुनश्चतुर्धा, धारणाया अघटमानकत्वादिति भावः ॥ इति गाथार्थः ॥ १८७ ॥
,
कथं पुनर्धारणाभावः १, इत्याह
harsara पुणोवओगे य सा जओ वाओ । तो नत्थि धिई, भण्णइ इदं तदेवेति जा बुद्धी ॥ १८८ ॥ न साऽवाय महिया जओ य सा वासणाविसेसाओ । जा याऽवायाणन्तरमविच्चुई सा धिई नाम ॥ १८९॥ अनुपयोगे उपयोगोपरमे सति का धृतिः- का नाम धारणा ? न काचिदित्यर्थः, इदमुक्तं भवति इह तावद् निश्श्रयोपायमुखेन घटादिके वस्तुनि अवग्रहे- हा ऽपायरूपतयाऽन्तर्मुहूर्तप्रमाण एवोपयोगो जायते । तत्र चाडपाये जाते या उपयोग सातत्यलक्षणाविच्युतिर्भवताऽभ्युपगम्यते, साऽपाय एवान्तर्भूता इति न ततो व्यतिरिक्ता । या तु तस्मिन् घटाद्युपयोगे उपरते सति संख्येयमसं
१५
१ काऽनुपयोगे धृतिः पुनरुपयोगे च सा यतोऽपायः ? । ततो नास्ति धृतिर्भण्यते इदं तदेवेति या बुद्धिः ॥ १८८ ॥ ननु साऽपायाऽभ्यधिका यतश्च सा वासनाविशेषात् । या चाऽपायानन्तरमविष्युतिः सा धृतिर्नाम ॥ १८९ ॥
For Personal and Private Use Only
बृहद्वृत्तिः।
॥११३॥
www.jainelltrary.org
Page #116
--------------------------------------------------------------------------
________________
ब
विशे०
॥११४॥
ख्येयं वा कालं वासनाऽभ्युपगम्यते,'इदं तदेव' इतिलक्षणा स्मृतिश्चाङ्गीक्रियते, सा मत्यंशरूपा धारणा न भवति, मत्युपयोगस्य प्रागेवोपरतत्वात् । पुनरपि कालान्तरोपयोगे धारणा भविष्यतीति चेत् , इत्याह-'पुणो इत्यादि' कालान्तरे पुनर्जायमानोपयोगेऽपि याऽन्वयमुखोपजायमानाध्यधारणरूपा धारणा मयेष्यते, सा यतोऽपाय एव भवताऽभ्युपगम्यते 'सव्वो वि य सोऽवाओ' इत्यादिवचनात् । ततस्तत्रापि नास्ति धृतिर्धारणा, पुनरप्युपयोगोपरमेऽपि पूर्वोक्तयुक्त्यैव तदभावः तस्मादुपयोगकालेऽन्वयमुखाऽवधारणरूपाया धारणायास्त्वयाऽनभ्युपगमात् , उपयोगोपरमे च मत्युपयोगाभावात् , तदंशरूपाया धारणाया अघटमानकत्वात् त्रिधैव भवदभिमायेण मतिः प्राप्नोति, न चतुर्धा, इति पूर्वपक्षाभिप्रायः॥
____ अत्रोत्तरमाह- 'भण्णईत्यादि' भण्यतेऽत्र प्रतिविधानम् । किम् ?, इत्याह- 'इदं वस्तु तदेव यत् प्रागुपलब्धं मया' इत्येवंभूता कालान्तरे या स्मृतिरूपा बुद्धिरुपजायते, नन्विह सा पूर्वप्रवृत्तादपायाद् निर्विवादमभ्यधिकैव, पूर्वप्रवृत्ताऽपायकाले तस्या अभावात् : सांप्रतापायस्य तु वस्तुनिश्चयमात्रफलत्वेन पूर्वापरदर्शनानुसंधानाध्योगात् । ततश्च साऽनन्यरूपत्वाद् धृतिर्धारणा नामति पर्यन्ते संवन्धः । यतश्च यस्माच वासनाविशेषात्-पूर्वोपलब्धवस्त्वाहितसंस्कारलक्षणात् तद्विज्ञानावरणक्षयोपशमसान्निध्यादित्यर्थः, सा 'इदं तदेव' इतिलक्षणा स्मृतिर्भवति । साऽपि वासनाऽपायादभ्यधिकति कृत्वा धृतिर्नाम, इतीहापि संबन्धः। 'जा याऽवायेत्यादि' या चाऽपायादनन्तरमविच्युतिः प्रवर्तते साऽपि धृति म । इदमुक्तं भवति- यस्मिन् समये 'स्थाणुरेवाऽयम्' इत्यादिनिश्चयस्वरूपोऽपायः प्रवृत्तः, ततः समयादूर्ध्वमपि 'स्थाणुरेवाऽयम्, स्थाणुरेवाऽयम्' इत्यविच्युता याऽन्तर्मुहूर्त क्वचिदपायप्रवृत्तिः साऽप्यपायाऽविच्युतिः प्रथमप्रवृत्तापायादभ्यधिकेति धृतिर्धारणा नामेति । एवमविच्युति-वासना-स्मृतिरूपा धारणा त्रिधा सिद्धा भवति ।।
अत्राह कश्चित्- नन्वविच्युति-स्मृतिलक्षणौ ज्ञानभेदी गृहीतग्राहित्वाद् न प्रमाणम् , द्वितीयादिवारा प्रवृत्ताऽपायसाध्यस्य वस्तुनिश्चयलक्षणस्य कार्यस्य प्रथमवारा प्रवृत्तापायेनैव साधितत्वात् । न च निष्पादितक्रिये कमणि तत्साधनायैव प्रवर्तमानं साधनं | शोभा विभर्ति, अतिप्रसङ्गात्- कुठारादिभिः कृतच्छेदनादिक्रियेष्वपि वृक्षादिषु पुनस्तत्साधनाय तेषां प्रवृत्त्याप्तेः। स्मृतेरपि पूर्वोत्तरकालभाविज्ञानद्वयगृहीत एव वस्तुनि प्रवर्तमानतया कुतःप्रामाण्यम् । न च वक्तव्यं पूर्वोत्तरदर्शनद्वयाऽनधिगतस्य वस्त्वेकत्वस्य ग्रहणात् स्मृतिः प्रमाणम् , पूर्वोत्तरकालदृष्टस्य वस्तुनः कालादिभेदेन भिन्नत्वात् , एकत्वस्यैवाऽसिद्धत्वादिति । वासना तु किंरूपा? इति वाच्यम् । संस्काररूपेति चेत् । कोऽयं नाम संस्कारः?-स्मृति-ज्ञानावरणक्षयोपशमोवा, तज्ज्ञानजननशक्तिर्वा, तद्वस्तुविकल्पो वा ? इति
१ गाथा १८७। २ घ. छ. ज, 'च्युत्या या ।
19.
Jan Education intem
For Personal and Private Use Only
www.jaineltrary.ary
Page #117
--------------------------------------------------------------------------
________________
त्रयी गतिः । तत्राद्यपक्षद्वयमयुक्तम् , ज्ञानरूपत्वाभावात् , तद्भेदानां चेह विचार्यत्वेन प्रस्तुतत्वात् । तृतीयपक्षोऽप्ययुक्त एव, संख्येयमसंविशे० Bख्येयं वा कालं वासनाया इष्टत्वात् , एतावन्तं च कालं तद्वस्तुविकल्पाऽयोगात् । तदेवमविच्युति-स्मृति-वासनारूपायाखिविधाया
अपि धारणाया अघटमानत्वात् त्रिधैव मतिः प्राप्नोति, न चतुर्धा ॥ ॥११५||
अत्रोच्यते-यत् तावद् गृहीतग्राहित्वादविच्युतेरप्रामाण्यमुच्यते, तदयुक्तम् , गृहीतग्राहित्वलक्षणस्य हेतोरसिद्धत्वात् , अन्यकालविशिष्टं हि वस्तु प्रथमप्रवृत्ताऽपायेन गृह्यते, अपरकालविशिष्टं च द्वितीयादिवारा प्रवृत्ताऽपायेन । किश्च, स्पष्ट-स्पष्टतर-स्पष्टतमभिन्नधमकवासनाजनकत्वादप्यविच्युतिप्रवृत्तद्वितीयाद्यपायविषयं बस्तु भिन्नधर्मकमेव, इति कथमविच्युतेगृहीतग्राहिता ? । स्मृतिरपि पूर्वोत्तरदर्शनद्वयानधिगतं वस्त्वेकत्वं गृह्णाना न गृहीतग्राहिणी । न च वक्तव्यं कालादिभेदेन भिन्नत्वाद् वस्तुनो नैकत्वम् , कालादिभिभिन्नत्वेऽपि सत्त्व-प्रमेयत्व-संस्थानरूपादिभिरेकत्वात् । वासनापि स्मृति-विज्ञानावरणकर्मक्षयोपशमरूपा, तद्विज्ञानजननशक्तिरूपा चेष्यते । सा च यद्यपि स्वयं ज्ञानरूपा न भवति, तथापि पूर्वप्रवृत्ताऽविच्युतिलक्षणज्ञानकार्यत्वात् , उत्तरकालभाविस्मृतिरूपज्ञानकारणत्वाच्चोपचारतो ज्ञानरूपाऽभ्युपगम्यते । तद्वस्तुविकल्पपक्षस्त्वनभ्युपगमादेव निरस्तः । तस्मादविच्युति-स्मृति-वासनारूपाया धारणायाः स्थितत्वाद् न मतेस्वैविध्यम् , किन्तु चतुर्धा सेति स्थितम् ।। इति गाथाद्वयार्थः ॥ १८८ ॥ १८९ ।।
अर्थतां स्वाभिमतां धारणां व्यवस्थाप्य परं प्रत्याह
तं इच्छंतस्स तुहं वत्थूणि य पंच, नेच्छमाणस्य । किं होउ सा अभावो भावो नाणं व तं कयरं ? ॥१९॥
अस्मदभिमतामनन्तरप्रतिष्ठितस्वरूपां तां धारणामिच्छतस्तव पञ्च वस्तूनि- पञ्चाऽऽभिनिवोधिकज्ञानभेदाः प्राप्नुवन्ति, अपायस्यैकस्याऽपि भेदद्वयरूपताभ्युपगमेन भेदचतुष्टयस्य त्वयाऽपि पूरितत्वात् , पश्चमस्य तु मदुक्तस्य धारणालक्षणस्य प्रसङ्गादिति भावः । अथास्मदभ्युपगता धारणा त्वया नेष्यते, तर्हि 'नेच्छमाणस्स किं होउ इत्यादि' तां मदभ्युपगतां धारणामनिच्छतोऽमतिपद्यमानस्य । तव सा मदभ्युपगता धारणा किं भवतु-अभावो- अवस्तु, आहोखिद् भावो- वस्तु ? इति विकल्पद्वयम् । किश्चातः? न तावदभावः,भावत्वेनाऽनुभूयमानत्वात् । न च तथाऽनुभूयमानस्याऽभावत्वमाधातुं शक्यते, अतिप्रसङ्गात्-घटादिष्वपि तथात्वमाप्तेः तेऽपि बनुभववशेनेव भावरूपा व्यवस्थाप्यन्ते । यदि चाऽनुभवोऽप्यप्रमाणम् , तदा घटादिष्वपि भावरूपतायामनाश्वास इति भावः । अथ भावोऽसौ,
१ तामिच्छतस्तव वस्तूनि च पञ्च, नेच्छतः । किं भवतु साऽभावो भावो ज्ञानं वा तत् कतरत् ॥ १९ ॥
११५॥
Page #118
--------------------------------------------------------------------------
________________
बृहद्वत्तिः ।
॥११६॥
तर्हि वक्तव्यम्- ज्ञानम् , अज्ञानं वा । न तावदज्ञानम् , चिद्रूपतयाऽनुभूयमानत्वात् । अथ ज्ञानम् , तदपि मति-श्रुता-ऽवधि-मन:विशे० | पर्याय-केवलेभ्यो ज्ञानान्तरस्याऽभावात् तेषां मध्ये कतमत् ? इति वाच्यम् । न तावत् श्रुतादिचतुष्टयरूपम् , अनभ्युपगमात् , तल्लक्षणा-
ऽयोगाच्च । मतिज्ञानं चेत् , तदपि नाऽवग्रहे-हा-पायरूपम् , तल्लक्षणासंभवात् 'नणु सावायब्भहिया' इत्यादिनाऽपायाभ्यधिकत्वेन साधितत्वाच । तस्मादन्वय-व्यतिरेकाभ्यां निश्चयः सर्वोऽप्यपायः, अविच्युति-स्मृति-वासनारूपा तु पारिशेष्यद्वारेणैव, इति स्थितम् ।। इति गाथार्थः ॥ १९ ॥
तदेवं निरुत्तरीकृतोऽप्यविलक्षितयाऽन्येन प्रकारेणाह
तुझं बहुयरभेया भणइ मई होई धिइबहुत्ताओ । भण्णइ न जाइभेओ इहो मज्झं जहा तुझं ॥ १९१॥ अत्र प्रेरको भणति । किम् ?, इत्याह- 'तुज्झमित्यादि' इत्थमाचार्य ! तव बहुतरभेदा मतिर्भवति । कुतः १, इत्याह- धृतेर्धारणाया बहुत्वाद् बहुभेदत्वादित्यर्थः-धारणाया एकस्या अप्यविच्युति-वासना-स्मृतिलक्षणभेदत्रययुक्तत्वादवग्रहे-हा-ऽपायैः सह षड्भेदा मतिः प्राप्नोतीति भावः । अत्र प्रतिविधानमाह- 'भण्णईत्यादि भण्यतेत्रोत्तरम्- जातेहेंदो जातिभेदो व्यक्तिपक्ष इत्यर्थः, स इह धारणाविचारे मम नेष्टो नाभिप्रेतः, किन्तु धारणासामान्यरूपा जातिरेव ममाऽभिप्रेता । कस्य यथा?, इत्याह- यथा तब 'अवग्रहविषये'
इति शेषः, इदमुक्तं भवति- यथाऽवग्रहो व्यञ्जना-र्थावग्रहभेदादुभयरूपोऽवग्रहसामान्यादेकस्त्वयाऽपीष्टः, अन्यथा मतेः पञ्चविधत्वप्रFO सङ्गात् । तथा त्रिरूपाऽपि धारणा तत्सामान्यादेकरूपैव; इति चतुर्विधैव मतिः, न बहुतरभेदा ॥ इति गाथार्थः ।। १९१ ॥
एतदेव भावयन्नाह
सा भिन्नलक्खणाऽवि हु धिइसामन्नेण धारणा होइ । जह उग्गहो दुरूवो उग्गहसामन्नओ एक्को ॥१९२॥
सा धारणा, अविच्युति-वासना-स्मृतीनां भिन्नखरूपत्वेन भिन्नलक्षणाऽपि सती धारणासामान्याव्यतिरेकादेकैव भवति; यथाऽवग्रहो व्यञ्जना-ऽर्थावग्रहभेदाद् द्विरूपोऽप्यवग्रहसामान्याव्यतिरेकादेकः परस्याऽपि सिद्धः, अन्यथा मतेः पञ्चविधत्वापत्तेः ॥ इति गाथार्थः ॥ १९२ ॥
१ गाथा १८१ । २ घ. छ. ज. 'कारणेनाह'। ३ तव बहुतरभेदा भणति मतिर्भवति एतिबहुत्वात् । भण्यते न जातिभेद इष्टो मम यथा तव ॥१९॥
खा भिन्मलक्षणाऽपि खलु अतिसामान्येन धारणा भवति । यथाऽवग्रहो द्विरूपोऽवग्रहसामान्यत एकः ॥ १९२ ॥
STERBAR
raikolog
॥११६॥
STRETRARASTRA
Jan Education Internat
For Personal and Private Use Only
www.jaineltrary.org
Page #119
--------------------------------------------------------------------------
________________
विशे०
hou
॥११७॥
तदेवमवग्रहादिभेदचतुष्टयविषया निराकृताः सर्वा अपि परविप्रतिपत्तयः, तन्निराकरणप्रक्रमे चानन्तरमवग्रहो द्विरूपः प्रोक्तः । स च कथं द्विरूपो भवति ? इत्याशङ्कच तद्विरूपताकथनव्याजेन पूर्व यान्याभिनिबोधिकज्ञानस्याऽवग्रहादीनि चत्वारि भेदवस्तून्युक्तानि, तेष्वेव मध्येऽवग्रहं तावद् व्याचिख्यासुराह
तेत्थोग्गहो दुरूवो गहणं जं होइ बंजण-त्थाणं । वंजणओ य जमत्थो तेणाईए तयं वोच्छं ॥ १९३ ॥
तत्राऽवग्रहणमवग्रहो द्विरूपो यथा भवति, तथा प्रोच्यते । कथम् ?, इत्याह- यद् यस्माद् ग्रहणं व्यञ्जना-ऽर्थयोरेव भवेत् , अन्यस्य ग्राह्यस्याऽभावात् । ततश्च विषयद्वैविध्यादवग्रहो द्विविध इति भावः। अपरं च, यद्यस्मात् कारणाद् वक्ष्यमाणन्यायेन प्राप्यकारिष्विन्द्रियेषु व्यञ्जनतो- व्यञ्जनावग्रहादनन्तरमेव, अर्थो- अर्थावग्रहो भवति, तेनाऽऽदौ प्रथमतस्तकं व्यञ्जनावग्रहमेव वक्ष्ये ॥ इति गाथार्थः ॥ १९३ ॥ तत्र व्यञ्जनं तावत् किमुच्यते ?, इत्याह
जिजइ जेणत्थो घडो व्व दीवेण वंजणं तं च । उवगरणिदियसदाइपरिणयद्दव्वसंबंधो ॥ १९४ ॥ व्यज्यते प्रकटीक्रियतेऽर्थो येन, दीपेनेव घटः, तद् व्यञ्जनम् । किं पुनस्तत् ?, इत्याह- 'तं चेत्यादि' तच्च व्यञ्जनमुपकरणेन्द्रियशब्दादिपरिणतद्रव्यसंबन्धः- इन्द्रियं द्विविधम्- द्रव्येन्द्रियं, भावेन्द्रियं च । तत्र निर्दृत्यु-पकरणे द्रव्येन्द्रियम् , लब्ध्यु-पयोगी भावेन्द्रियम् । निर्वृत्तिश्च द्विधा- अङ्गुलासंख्येयभागादिमानों कदम्बकुसुमगोलक-धान्यमसूर-काहला-क्षुरपाकारमांसगोलकरूपा, शरीराकारा च श्रोत्रादीन्द्रियाणां पञ्चानामपि यथासंख्यमन्तर्नित्तिः, कर्णशष्कुलिकादिरूपा तु बहिनिर्वृत्तिः । तत्र कदम्बकुसुमगोलकाकारमांसखण्डादिरूपाया अन्तनिवृत्तेः शब्दादिविषयपरिच्छेदहेतुर्यः शक्तिविशेषः स उपकरणेन्द्रियम् , शब्दादिश्च श्रोत्रादीन्द्रियाणां विषयः, आदिशब्दाद् रस-गन्ध-स्पर्शपरिग्रहः, तद्भावेन परिणतानि च तानि भाषावर्गणादिसंबन्धीनि द्रव्याणि च शब्दादिपरिणतद्रव्याणि, उपकरणेन्द्रियं च शब्दादिपरिणतद्रव्याणि च, तेषां परस्परं संबन्ध उपकरणेन्द्रिय-शब्दादिपरिणतद्रव्यसंबन्धः एष तावद् व्यञ्जनमुच्यते । अपरं चेन्द्रियेणाऽप्यर्थस्य व्यज्यमानत्वात् तदपि व्यञ्जनमुच्यते । तथा शब्दादिपरिणतद्रव्यनिकुरम्बमपि व्यज्यमानत्वाद् व्यञ्ज
Ma||११७॥
१ छ. 'कथं हि द्वि' । २ सन्नाऽवग्रहो द्विरूपो ग्रहणं यद्भवति व्यञ्जना-ऽर्थयोः । व्यञ्जनतश्च यदर्थस्तेनादौ तक वक्ष्ये ॥ १९३ ।। ३ व्यज्यते येनाऽर्थो घट इव दीपेन व्यजनं तच्च । उपकरणेन्द्रियशब्दादिपरिणतन्यसंबन्धः ॥ १९ ॥ ४ ज. 'मानक ।
Jan Education Internat
For Personal and Private Use Only
EMHwww.jaineltrary.org
Page #120
--------------------------------------------------------------------------
________________
समा
विशे०
॥११८॥
D
नमभिधीयत इति । एवमुपलक्षणव्याख्यानात् त्रितयमपि यथोक्तं व्यञ्जनमवगन्तव्यम् । ततश्चेन्द्रियलक्षणेन व्यञ्जनेन शब्दादिपरिणतद्रव्यसंबन्धखरूपस्य व्यञ्जनस्याऽवग्रहो व्यञ्जनावग्रहः, अथवा तेनैव व्यञ्जनेन शब्दादिपरिणतद्रव्यात्मकानां व्यञ्जनानामवग्रहो व्यञ्जनावग्रहः; इत्युभयत्राऽप्येकस्य व्यञ्जनशब्दस्य लोपं कृत्वा समासः॥ इति गाथार्थः ॥ १९४ ॥
अत्राऽऽक्षेपं, परिहारं चाभिधित्सुराह
अण्णाणं सो बहिराइणं व तकालमणुवलंभाओ। न तदंते तत्तो च्चिय उवलंभाओ तओ नाणं ॥१९५॥
स व्यञ्जनावग्रहोऽज्ञानं ज्ञानं न भवति, तस्योपकरणेन्द्रिय-शब्दादिपरिणतद्रव्यसंबन्धस्य कालस्तत्कालस्तस्मिन् ज्ञानस्यानुपलम्भात् स्वसंवेदनेनाऽसंवेद्यमानत्वात् । बधिरादीनामिव- यथा हि बधिरादीनामुपकरणेन्द्रियस्य शब्दादिविषयद्रव्यैः सह संबन्धकाले न किमपि ज्ञानमनुभूयते, अननुभूयमानत्वाच्च तन्नास्ति, तथेहाऽपीति भावः ॥ अत्रोत्तरमाह- 'न तदंते इत्यादि' नासौ जडरूपतया ज्ञानरूपेणाऽननुभूयमानत्वादज्ञानम् , किं तर्हि ?, सकोऽसौ व्यञ्जनावग्रहो ज्ञानमेव । कुतः?, तदन्ते- तस्य व्यञ्जनावग्रहस्यान्ते, तत एव ज्ञानात्मकस्यार्थावग्रहोपलम्भस्य भावात् , तथाहि- यस्य ज्ञानस्यान्ते तज्ज्ञेयवस्तूपादानात् तत एव ज्ञानमुपजायते तज्ज्ञानं दृष्टम् , यथार्थावग्रहपर्यन्ते तज्ज्ञेयवस्तूपादानत ईहासद्भावादर्थावग्रहो ज्ञानम् , जायते च व्यञ्जनावग्रहस्य पर्यन्ते तज्ज्ञेयवस्तूपादानात् तत एवार्थावग्रहज्ञानम् , तस्माद् व्यञ्जनावग्रहो ज्ञानम् ।। इति गाथार्थः ।। १९५ ॥
तदेवं व्यञ्जनावग्रहे यद्यपि ज्ञानं नानुभूयते, तथापि ज्ञानकारणत्वादसौ ज्ञानम् , इत्येवं व्यञ्जनावग्रहे ज्ञानाभावमभ्युपगम्योक्तम् । सांप्रतं ज्ञानाभावोऽपि तत्राऽसिद्ध एवेति दर्शयन्नाह
तेकालम्मि वि नाणं तत्थरिथ तणुं ति तो तमव्वत्तं । बहिराईणं पुण सो अन्नाणं तदुभयाभावा ॥१९६॥
तत्कालेऽपि तस्य व्यञ्जनसंवन्धस्य कालेऽपि तत्राऽनुपहतेन्द्रियसंबन्धिनि व्यञ्जनावग्रहे ज्ञानमस्ति, केवलमेकतेजोऽवयवप्रकाशवत तनु-अतीवाऽल्पमिति; अतोऽव्यक्तं स्वसंवेदनेनापि न व्यज्यते । यद्यव्यक्तम् , कथं तदस्तीति ज्ञायते ? इति चेत् । मा त्वरिष्ठाः, 'जैइ वण्णाणमसंखेज्जसमइसद्दाइदव्वसब्भावे' इत्यादिनाऽनन्तरमेव तदस्तित्वयुक्तेर्वक्ष्यमाणत्वात् । दृष्टान्ते तु ज्ञानाभावेऽविप्रतिपत्ति
१ अज्ञानं स बधिरादीनामिव तत्कालमनुपलम्भात् । न तदन्ते तत एवोपलम्भात् सको ज्ञानम् ॥ १९५ ॥ २ तत्कालेऽपि ज्ञानं तनाऽस्ति तनु इत्यतस्तदव्यक्तम् । बधिरादीनां पुनः सोऽज्ञानं तदुभयाभावात् ॥ १९६ ॥ ३ गाथा २०० ।
HD||११८॥
For Peso
Use Only
Page #121
--------------------------------------------------------------------------
________________
विशे०
॥११९॥
रिति दर्शयन्नाह-बधिरादीनाम् , आदिशब्दादुपहतघ्राणादीन्द्रियाणां पुनः स ध्यञ्जनावग्रहोऽज्ञानं ज्ञानं न भवतीत्यत्राविपतिपत्तिरेव । कुतः, इत्याह- तच्च तदुभयं च तदुभयं तस्याऽभावाज्ज्ञानकारणत्वाभावात् , अव्यक्तस्याऽपि च ज्ञानस्याऽभावात् ॥ इति गाथार्थः ॥ १९६ ॥ ___ अथ पुनरप्याक्षेप, परिहारं चाभिधित्सुराह
केहमव्वत्तं नाणं च सुत्त-मत्ताइसुहुमबोहो व्व । सुत्तादओ सयं वि य विन्नाणं नावबुज्झति ॥ १९७ ॥
परः सासूयमाह- ननु कथं 'ज्ञानम् , अव्यक्तं च' इत्युच्यते ? तमः-प्रकाशाद्यभिधानवद् विरुद्धत्वाद् नेदं वक्तुं युज्यत इति भावः । अत्रोत्तरमनन्तरमेवोक्तम्- एकतेजोऽवयवप्रकाशवत् सूक्ष्मत्वादव्यक्तम् । अथ पुनरप्युच्यते- सुप्त-मत्त-मृञ्छितादीनां मूक्ष्मबोधवदव्यक्तं ज्ञानमुच्यत इति न दोषः । सुप्तादीनां तदात्मीयज्ञानं खसंविदितं भविष्यतीति चेत् । नैतदेवमित्याह- सुप्तादयः स्वयमपि तदात्मीयविज्ञानं नाऽवबुध्यन्ते न संवेदयन्ति, अतिसूक्ष्मत्वात् ॥ इति गाथार्थः ॥ १९७ ॥
आह- यदि तैरपि सुप्तादिभिस्तदात्मीयज्ञानं न संवेद्यते, तर्हि तत् तेषामस्तीत्येतत् कथं लक्ष्यते ?, इत्याह
लैक्खिजइ तं सिमिणायमाणवयणदाणाइचिट्ठाहिं । जं नामइपुवाओ विजंते वयणचिट्ठाओ ॥ १९८॥ तत् सुप्तादीनां ज्ञानमस्तित्वेन लक्ष्यते । कुतः?, स्वमायमानवचनदानादिचेष्टाभ्यः, सुप्तादयोऽपि हि स्वमायमानाद्यवस्थायां केचित् किमपि भाषमाणा दृश्यन्ते, शब्दिताश्चौघतो वाचं प्रयच्छन्ति, संकोच-विकोचा-ऽङ्गभङ्ग-जृम्भित-कूजित-कण्डूयनादिचेष्टाश्च कुर्वन्ति, न च तास्ते तदा वेदयन्ते, नापि च प्रबुद्धाः स्मरन्ति । तर्हि कथं तच्चेष्टाभ्यस्तेषां ज्ञानमस्तीति लक्ष्यते ?, इत्याह- 'जमित्यादि' यद् यस्मात् कारणाद् नाऽमतिपूर्वास्ता वचनादिचेष्टा विद्यन्ते, किन्तु मतिपूर्विका एव, अन्यथा काष्ठादीनामपि तत्प्रसङ्गात् । अतस्ताभ्यस्तत तेषामस्तीति लक्ष्यत एव, धूमादग्निरिव ॥ इति गाथार्थः ॥ १९८ ॥
आह- नन्वात्मीयमपि चेष्टितं किं कश्चिद् न जानाति, येन सुप्तादीनां स्वचेष्टिताऽसंवेदनमुच्यते ?, इत्याशङ्क्याह
॥१९॥
१ कथमन्यक्तं ज्ञानं च सुप्त-मत्तादिसूक्ष्मबोध इव । सुप्तादयः स्वयमपि च विज्ञानं नावबुध्यन्ते ॥ १९७ ॥ २ लक्ष्यते तत् स्वप्नायमानवचनदानादिचेष्टाभ्यः । यद् नाऽमतिपूर्वा विद्यन्ते वचनचेष्टाः ।। १९८ ॥
Page #122
--------------------------------------------------------------------------
________________
विशे०
॥१२०॥
Jain Education Internat
जग्गन्तो वि न जाणइ छउमत्थो हिययगोयरं सव्वं । जं तज्झवसाणाई जमसंखेज्जाई दिवसेण ॥ १९९॥ हृदयं मनो गोचरः स्थानं यस्य तद् हृदयगोचरं 'अध्यवसायनिकुरम्बं' इति गम्यते, तज्जाग्रदपि च्छद्मस्थः सर्वमपरिशेषं न जानाति न संवेदयते, आस्तां पुनः सुप्तः । कुतः १, इत्याह- अध्यवसानानि - अध्यवसायस्थानरूपाणि केवलिगम्यानि सूक्ष्माणि यत एकेनाऽप्यन्तर्मुहूर्तेनाऽसंख्येयानि यान्त्यतिक्रामन्ति, किं पुनः सर्वेणापि दिवसेन ? । न चैतानि च्छद्मस्थः सर्वाण्यपि संवेदयते । ततश्च यथैतानि च्छद्मस्थैरसंवेद्यमानान्यपि केवलिदृष्टत्वात् सच्चेनाऽभ्युपगम्यन्ते, तथा व्यञ्जनावग्रहज्ञानमपि ॥ इति गाथार्थः ॥ १९९ ॥ आह- ननु सुप्तादीनां ज्ञानं वचनादिचेष्टाभ्यो गम्यत इत्युक्तम्, तत्तावदभ्युपगच्छामः व्यञ्जनावग्रहे तु ज्ञानरूपतागमकं लिङ्गं न किञ्चिदुपलभामहे, अतो जडरूपत्वाद् नासौ ज्ञानमिति ब्रूमः, इत्याशङ्कयाह
जैइ व णाणमसंखेज्जसमइमद्दाइदव्यसन्भावे । किह चैरमसमयसद्दाइदव्यविण्णाणसामत्थं ? ॥ २०० ॥ वाशब्दः पातनासूचकः, सा च कृतैव । ततश्च हन्त ! यद्यज्ञानं व्यञ्जनावग्रहः । क सति ?, इत्याह- असंख्येयसमयशब्दादिद्रव्यसद्भावेऽपि सति, इत्यपिशब्दो गम्यते । कथं तहिं चरमसमयशब्दादिद्रव्याणां विज्ञानजननसामर्थ्यम् ? न कथञ्चिदित्यर्थः । इदमुक्तं भवति - व्यञ्जनावग्रहे तावत् प्रतिसमयमसंख्येयान् समयान् यावच्छ्रोत्रादीन्द्रियैः सह शब्दादिविषयद्रव्याणि संबध्यन्ते । ततश्च यद्यसंख्येयसमयान् यावच्छ्रोत्रादीन्द्रियैः सह शब्दादिविषयद्रव्य संबन्धसद्भावेऽपि सति व्यञ्जनावग्रहरूपं ज्ञानं नाभ्युपगम्यते, कथं तर्हि चरमसमये श्रोत्रादीन्द्रियैः सह संबद्धानां शब्दादिविषयद्रव्याणां परेणाऽप्यर्थावग्रहलक्षणविज्ञानजननसामर्थ्यमिष्यते, तदभ्युपगन्तुं न युज्यत इति भावः । यदि हि शब्दादिविषयद्रव्याणां श्रोत्रादीन्द्रियैः सह संबन्धे आद्यसमयादेवाऽऽरभ्य ज्ञानमात्रा काचित् प्रतिसमयमाविर्भवन्ती नाभ्युपगम्यते, तर्हि चरमसमयेऽप्येकस्मादेवैषा न युज्यते, तथा च सत्यर्थावग्रहादिज्ञानानामप्यनुदयप्रसङ्गः ॥ इति गाथार्थः ॥ २०० ॥
१ जाग्रदपि न जानाति च्छद्मस्थो हृदयगोचरं सर्वम् । यत् तदध्यवसानानि यदसंख्येयानि दिवसेन ॥ १९९ ॥
२ एके तु यथा जलकणैर्द्वित्रिः सिकोऽप्यभिनवः शरावो नार्द्रीभवति, पुनः पुनः सिच्यमानस्तु शनैस्तिम्यतिः एवमिन्द्रियैरर्था गृह्यमाणा व्यादिसमयेषु न व्यक्तीभवन्ति, पुनः पुनरवग्रहे तु तथा स्युः, इति व्यक्तावग्रहात् प्रागव्यक्तावग्रहः, एव व्यञ्जनावग्रहः, अव्यक्तं वस्तु च व्यञ्जनम् इति साधयन्ति । एतच्च न युक्तम्, सर्वविषयिविषयाणां व्यक्ताव्यक्तत्वात् तथा च दर्शनवत् सर्वेन्द्रियेभ्योऽपि व्यञ्जनावग्रहः स्यात्, न चैतत् सांप्रतम्, “न चक्षुरनिद्रियाभ्याम् (तस्वार्थ० १-१९ ) इति सूत्रेण तस्य सर्वेन्द्रियाजन्यत्यात्, इत्यपि द्रष्टव्यम् ॥ ३ यदि वाऽज्ञानमसंख्येयसमयशब्दादिद्रव्यसद्भावे । कथं चरमसमयशब्दादिव्यविज्ञानसामर्थ्यम् ? ॥ २०० ॥ ४ घ. छ. ज. 'चरिम' ।
For Personal and Private Use Only
वृहद्वृत्तिः ।
६०॥१२०॥
www.jainelltrary.org
Page #123
--------------------------------------------------------------------------
________________
विशे०
बृहद्वृत्तिः ।
॥१२॥
तथाहि__सव्वहा न वीसुं सव्वेसु वि तं न रेणुतल्लं व । पत्तेयमणिच्छंतो कहमिच्छास समुदए नाणं ? ॥२०१॥
यद् वस्तु सर्वथा सर्वप्रकारैर्विष्वक् पृथग् नास्ति तत् समुदायेऽपि नाऽभ्युपगन्तव्यम् , यथा रेणुकणनिकरे प्रतिरेणुकमविद्यमानं तैलम् । एवं चेत् , तर्हि त्वमपि प्रत्येकमनिच्छन् कथं समुदये ज्ञानमिच्छसि । इदमुक्तं भवति- यदीन्द्रियविषयसंबन्धस्य प्रथमसमयादारभ्य व्यञ्जनावग्रहसंबन्धिनोऽसंख्येयान् समयान् यावत् प्रतिसमयं पुष्टिमाबिभ्रती ज्ञानमाा काश्चिदपि नेच्छास, तर्हि चरमसमयशब्दादिविषयद्रव्यसंबन्धेन संपूर्ण समुदायेऽपि कथं तामिच्छसि ?- चरमसमयशब्दादिविषयद्रव्यसंबन्धे यदर्थावग्रहज्ञानमभ्युपगम्यते, तदपि प्रत्येकमसच्चरमसिकताकणे तैलवद् न प्रामोतीति भावः । तस्मात् तिलेषु तैलवत् सर्वेष्वपि समयेषु प्रत्येकं यच्च यावच्च ज्ञानमस्तीति प्रतिपत्तव्यम् ॥ इति गाथार्थः ॥२०१॥
किञ्च
समुदाए जइ णाणं देसूणे समुदए कहं नत्थि । समुदाए वाऽभूयं कह देसे होज तं सयलं ? ॥२०२॥
समुदायवानवादिन् ! यदि विषयद्रव्यसंबन्धसमयानामसंख्येयानां समुदाये ज्ञानमर्थावग्रहलक्षणमभ्युपगम्यते, तर्हि चरमसमयलक्षणो योऽसौ देशस्तेन न्यूने समुदाये-चरमैकसमयोनेष्वसंख्यातेषु समयेष्वित्यर्थः, तत् कथं नास्ति', समस्त्येव,प्रमाणोपपन्नत्वात्। तथाहि- सर्वेष्वपि शब्दादिद्रव्यसंबन्धसमयेषु ज्ञानमस्तीति प्रतिजानीमहे, ज्ञानोपकारिशब्दादिद्रव्यसंबन्धसमयसमुदायैकदेशत्वादिति हेतुः, अर्थावग्रहसमयवदिति दृष्टान्तः। अत्राह- ननु शब्दादिविषयोपादानसमयसमुदाये ज्ञानं केनाऽभ्युपगम्यते, येन समुदायैकदेशत्वात् प्रथमादिसमयेषु सर्वेष्वपि तत् प्रतिज्ञायते, मया ोकस्मिन्नेव चरमसमये शब्दादिद्रव्योपादाने ज्ञानप्रसव इष्यते, इत्याशङ्कयाह- 'समुदाए वाऽभूयमित्यादि ' चशब्दो वाशब्दो वा पातनायाम् , सा च कृतेव । तत्र यद्येकस्मिन्नेव चरमसमये ज्ञानमभ्युपगम्यते , तदाऽसौ सर्वसमयसमुदायापेक्षया तावदेकदेश एव । ततश्चानेनेकदेशेनोने शेषसमयसमुदाये यदभूतं ज्ञानं तत्कथं हन्त ! चरमसमयलक्षणे देशेऽकस्मादेव सकलमखण्डं भवेत् , अप्रमाणोपपन्नत्वात् ?; तथाहि- नैकस्मिंश्वरमशब्दादिद्रव्योपादानसमये ज्ञानमुपजायते, एकसमयमात्र
१ यत् सर्वधा न विष्वक् सर्वेष्वपि तद् न रेणुतैलमिव । प्रत्येकमनिच्छन् कथमिच्छसि समुदये ज्ञानम् ? ॥ २०१॥ २ क. छ. 'ब्दादिद्र' । १ समुदाये यदि ज्ञान देशोने समुदये कथं नास्ति । समुदाये वाऽभूतं कथं देशे भवेत् तत् सकलम् ॥ २०२॥
॥१२१॥
Page #124
--------------------------------------------------------------------------
________________
विशे० ॥१२२॥
शब्दादिद्रव्योपादानात्, व्यञ्जनावग्रहाऽऽद्यसमयवदिति । स्यादेतत्, चरमसमयेऽर्थावग्रहज्ञानमनुभवप्रत्यक्षेणाऽप्यनुभूयते, ततः प्रत्यक्षविरोधिनीयं प्रतिज्ञा । तदयुक्तम् , 'चरमसमय एव समग्रं ज्ञानमुत्पद्यते' इतिभवत्पतिज्ञातस्यैव प्रत्यक्षविरोधात्, चरमतन्तौ समस्तपटोत्पादवचनवत् । तथा, सर्वेष्वपि शब्दादिद्रव्यसंवन्धसमयेषु ज्ञानमस्तीत्यादिपूर्वोक्तानुमानविरोधश्च भवत्पक्षस्य ॥ इति गाथार्थः ।। २०२ ॥
तस्मात् किमिह स्थितम् ? , इत्याह
तंतू पडोवगारी न समत्तपडो य, समुदिया ते उ। सव्वे समत्तपडओ तह नाणं सव्वसमएसु ॥ २०३ ॥
यथैकस्तन्तुः पटोपकारी वर्तते, तमन्तरेणाऽपि समग्रस्य तस्याऽभावात् , न चासौ तन्तुरेतावता समस्तः पटो भवति, पटैकदेशत्वात् तस्य, समुदिताः पुनस्ते तन्तवः सर्वे समस्तपटव्यपदेशभाजो भवन्ति; तथानापि सर्वेष्वपि समुदितेषु समयेषु ज्ञानं भवति, नैकस्मिश्चरमसमये । ततश्चार्थावग्रहसमयात् पूर्वसमयेषु तदेव ज्ञानमतीवाऽस्फुटं व्यञ्जनावग्रह उच्यते; चरमसमये तु तदेव किश्चित्स्फुटतरावस्थामापन्नमर्थावग्रह इति व्यपदिश्यते । अतो यद्यपि सुप्त-मत्त-मूच्छितादिज्ञानस्येव व्यक्तं तथाविधं व्यञ्जनावग्रहज्ञानसाधकं लिङ्ग नास्ति, तथापि यथोक्तयुक्तितो व्यञ्जनावग्रहे सिद्धं ज्ञानम् ॥ इति गाथार्थः ॥ २०३॥
तत्त्व-भेद-पर्यायैाख्या , तत्र तत्त्वं व्यञ्जनावग्रहस्य स्वरूपमुक्तम् । अथ तस्य भेदान् निरूपयितुमाह
नयण-मणोवजिदियभेयाओ वंजणोग्गहो चउहा । उवघाया-गुग्गहओ जं ताई पत्तकारीणि ॥ २०४ ॥
स च व्यञ्जनावग्रहश्चतुर्धा भवति । कुतः ?, इत्याह- नयन-मनोवर्जेन्द्रियभेदात् । इदमुक्तं भवति-विषयस्य, इन्द्रियस्य च यः परस्परं संबन्धः प्रथममुपश्लेषमात्रम् । तयञ्जनावग्रहस्य विषयः। स च विषयेण सहोपश्लेषः प्राप्यकारिष्वेव स्पर्शन-रसन घ्राण-श्रोत्रलक्षणेषु चतुरिन्द्रियेषु भवति, न तु नयन-मनसोः । अतस्ते वर्जयित्वा शेषस्पर्शनादीन्द्रियचतुष्टयभेदाच्चतुर्विध एव व्यञ्जनावग्रहो भवति । नन्विन्द्रियत्वे तुल्येऽपि केयं मुखपरीक्षिका- यच्चतुर्यु स्पर्शनादीन्द्रियेषु सोऽभ्युपगम्यते,नान्यत्र ?, इत्याह- 'उवघायेत्यादि यद् यस्मात् तान्येव स्पर्शन-रसन-घ्राण-श्रोत्रलक्षणानि चत्वारीन्द्रियाणि प्राप्तकारीणि, न तु नयन-मनसी । ततो यथोक्तेन्द्रियचतुष्कभेदाचतुर्विध एवाऽसौ भवति, इति कात्र मुखपरीक्षिका ? इति । तत्र विषयभूतं शब्दादिकं वस्तु प्राप्त संश्लेषद्वारेणाऽऽसादितं कुर्वन्ति परिच्छिन्द
१ तन्तुः पटोपकारी न समस्तपटश्च, समुदितास्ते । सर्वे समस्तपटकस्तथा ज्ञावं सर्वसमयेषु ॥ २०३ ॥ २ ज, 'सर्वेऽपि स' । ३ नयन-मनोवर्जेन्द्रियभेदाद् व्यञ्जनावग्रहश्चतुर्था । अपघाता-ऽनुग्रहतो यत् तानि प्राप्तकारीणि ॥ २० ॥ ४ घ. छ. 'यत्वतुल्यत्वेऽपि'।
॥१२२॥
PAGASCAR
For Pesos and Private Use Only
Page #125
--------------------------------------------------------------------------
________________
विशे०
बृहद्वत्तिः ।
॥१२३॥
बालकहर
न्तीति प्राप्तकारीणि प्राप्यकारीणि स्पृष्टार्थग्राहिणीत्यर्थः । कुतः पुनरेतान्येव प्राप्यकारीणि ?, इत्याह- उपघातश्चानुग्रहश्चोपघाताऽनुग्रही तयोर्दर्शनात्- कर्कशकम्बलादिस्पर्शने, त्रिकटुकाद्यास्वादने, अशुच्यादिपुद्गलाऽऽघाणे, भेर्यादिशब्दश्रवणे, त्वक्षणनाापघातदर्शनात् चन्दना-ङ्गना-हंसतूलादिस्पर्शने, क्षीर-शर्कराधास्वादने,कर्पूरपुद्गलाद्याघाणे, मृदु-मन्द्रशब्दाद्याकर्णने तु शैत्याद्यनुग्रहदर्शनादित्यर्थः। नयनस्य तु निशितकरपत्र-सेल्लु-भल्लादिवीक्षणेऽपि पाटनायुपघातानवलोकनात्, चन्दना-गुरु-कर्पूराद्यवलोकनेऽपि शैत्याद्यनुग्रहाननुभवात्ः मनसस्तु बयादिचिन्तनेऽपि दाहायुपघाताऽदर्शनात्, जल-चन्दनादिचिन्तायामपि च पिपासोपशमाद्यनुग्रहासंभवाच्च ।। इति गाथार्थः ॥२०॥
अत्र परः प्राहजुज्जइ पत्तविसयया फरिसण-रसणे न सोत्त-घाणेसु । गिण्हंति सविसयमिओ जं ताइं भिन्नदेसं पि ॥२०५॥
प्राप्तः स्पृष्टो विषयो ग्राह्यवस्तुरूपो ययोस्ते प्राप्तविषये तयोर्भावः प्राप्तविषयता सा युज्यते घटते । कस्मिन्?, इत्याह- स्पर्शनं च रसनं चेति समाहारद्वन्द्वस्तस्मिन् , स्पर्शन-रसनेन्द्रियद्वय इत्यर्थः। अनभिमतप्रतिषेधमाह-न श्रोत्र-घ्राणयोः प्राप्तविषयता युज्यते, यद् यस्मात् कारणादितो विवक्षितात् स्वदेशाद् भिन्नदेशमपि स्वविषयमेते गृहीतः, अस्याऽर्थस्याऽनुभवसिद्धत्वात् , न हि शब्दः कश्चिच्छ्रोप्रेन्द्रिये प्रविशन्नुपलभ्यते, नापि श्रोत्रेन्द्रियं शब्ददेशे गच्छत् समीक्ष्यते । न चाभ्यामन्येनाऽपि प्रकारेण विषयस्पर्शनं घटते, 'दूर एष कस्याऽपि शब्दः श्रूयते' इत्यादिजनोक्तिश्च श्रूयते । कर्पूर-कुसुम-कुङ्कुमादीनां तु दूरस्थानामपि गन्धो निर्विवादमनुभूयते, दृश्यते च । तस्माच्छ्ोत्र-घ्राणयोः प्राप्तविषयता न युज्यत एव ॥ इति गाथार्थः ॥२०५॥
अत्रोच्यतेपावंति सद्द-गन्धा ताई गंतुं सयं न गिण्हन्ति । जं ते पोग्गलमइया सक्किरिया वाउवहणाओ ॥२०६॥
धूमो व्व, संहरणओ दाराणुविहाणओ विसेसेणं । तोयं व नियंबाइसु पडिघायाओ य वाउ व्व ॥२०७॥
व्याख्या- 'पावंति सद्द-गन्धा ताई ति' शब्द-गन्धौ कर्तृभूतौ, ते श्रोत्र-घाणेन्द्रिये कर्मतापन्ने, अन्यत आगत्य प्राप्नुतः स्पृशत १ युज्यते प्राप्तविषयता स्पर्शन-रसने न श्रोत्र-प्राणयोः । गृहीतः स्वविषयमितो यत् ते मिनदेशमपि ॥२०५॥ २ घ. छ. ज. 'सोय-या '1३ क. ग. 'कुम-कुसुमादी' ।
४ प्राप्नुतः शब्द-गन्धी ते गत्वा स्वयं न गृह्णीतः। यत् तौ पुद्गलमयी सक्रियो वायुवानात् ॥ २०६॥ धूम इव, संहरणतो द्वारानुविधानतो विशेषेण । तोयमिव नितम्बादिषु प्रतिघाताच वायुरिव ॥ २० ॥
॥१२३॥
Educan
For Personal
Private Use Only
www.jaineitrary.org
Page #126
--------------------------------------------------------------------------
________________
विशे० ॥१२४॥
इति प्रतिज्ञा । अनभिमतमकारप्रतिषेधमाह- 'गंतु सयं न गिण्हति ति 'ताई' इत्यत्रापि संबध्यते । ततश्च ते श्रोत्र-घ्राणे कर्तृभूते पुनः स्वयं शब्द-गन्धदेशं गत्वा न गृहीतः 'शब्द-गन्धौ'इति विभक्तिव्यत्ययेन संबध्येते , आत्मनोऽवाह्यकरणत्वात् श्रोत्र-प्राणयोः, स्पर्शनरसनवदिति । ननु शब्द-गन्धावपि श्रोत्र-घ्राणे कुतः प्राप्नुतः १, इत्याह- 'जं ते पोग्गलमइया सक्किरिय त्ति' यद् यस्मात्कारणात् तौ शब्द-गन्धौ सक्रियौ गत्यादिक्रियावन्तौ, तस्मादन्यत आगत्य श्रोत्र-घ्राणे प्राप्नुतः । कथम्भूतौ सन्तौ सक्रियौ तौ , इत्याहपुद्गलमयौ । यदि पुनरपौद्गलिकत्वादमृतौ स्याताम् , तदा यथा जैनमतेन सक्रियेष्वाकाशादिषु गतिक्रिया नास्ति, तथैतयोरपि न स्यात्, इत्यालोच्य पुद्गलमयत्वविशेषणमकारि, पुद्गलमयत्वे सति सक्रियाविति भावः । यच्चैवम्भूतम् , तत्र गतिक्रियाऽस्त्येव, यथा पुद्गलस्कन्धेष्विति ॥ आह- ननु पुद्गलमयत्वेऽपि सति शब्द-गन्धयोतिक्रियाऽस्तीति कुतो निश्चीयते ?, इत्याह- 'वाउवहणाओ धूमो व्व त्ति' वायुना वहनं नयनं वायुवहनं तस्मात् । इदमुक्तं भवति- यथा पवनपटलेनोह्यमानत्वाद् धृमो गतिक्रियावान् , एवं शब्द-गन्धावपि तेनोह्यमानत्वात् तद्वन्तौ । तथा, संहरणतो गृहादिपु पिण्डीभवनाद् धूमवदेव क्रियाभाजी तौ । तथा, विशेषेण द्वारानुविधानतस्तोयवत् तद्वन्तावेतौ । तथा, पर्वतनितम्बादिषु प्रतिघातात् प्रतिस्खलनाद् वायुवदेतौ गतिक्रियाऽऽश्रयौ ।। इति गाथाद्वयार्थः॥२०६।।२०७॥
हेत्वन्तरेणाऽपि शब्द-गन्धयोः सयुक्तिकं गतिक्रियावत्वं समर्थयन्नाह
गिण्हंति पत्तमत्थं उवघाया-गुग्गहावलद्धीओ । बाहिज्ज-पूइ-नासारिसादओ कहमसंबढे ? ॥ २०८॥ .
प्राप्तमन्यत आगत्यात्मना सह संबद्धं शब्द-गन्धलक्षणमर्थ गृह्णीतः 'श्रोत्र-घ्राणेन्द्रिये' इति गम्यते । एतेन शब्द-गन्धयोरागमनक्रिया प्रतिज्ञाता भवति । कुतः प्राप्तमेव गृहीतः १, इत्याह- उपघातश्चानुग्रहश्चपिघाता-ऽनुग्रही तयोरुपलब्धेः, तथाहि-भेयोदिमहाशब्दप्रवेशे श्रोत्रस्य बाधिर्यरूप उपघातो दृश्यते, कोमलशब्दश्रवणे त्वनुग्रहः, घ्राणस्याऽप्यशुच्यादिगन्धप्रवेशे पूतिरोगा-ऽ व्याधिरूप उपघातोऽवलोक्यते, कर्पूरादिगन्धप्रवेशे त्वनुग्रहः । शब्द-गन्धासंबन्धेऽपि श्रोत्र घ्राणयोरेतावनुग्रहो-पघातौ भविष्यत इति चेत्, इत्याह'बाहिज्जेत्यादि ' बाधिर्य च पूतिश्च नासाकोथलक्षणो रोगविशेषः, नासासि च, तानि आदिर्येषां शेषोपघाता-ऽनुग्रहाणां ते तथाभूताः कथं घामुपगच्छेयुः । क सति ?, इत्याह- असंबद्धे स्वहेतुभूते शब्द-गन्धलक्षणे 'वस्तुनि' इति गम्यते । इदमुक्तं भवति-श्रोत्रघाणाभ्यां सह संबद्धा एव शब्द-गन्धाः स्वकार्यभूतं बाधिर्याापघातम् , अनुग्रहं वा जनयितुमलम् , नाऽन्यथा, सर्वस्याऽपि तज्जनन
TO॥१२४॥ पाप्रतिप्रसङ्गात् ॥ इति गाथार्थः॥ २०८॥
ज. 'था जिन' । २ गृह्णीतः प्राप्तमर्थमुपघाता-नुग्रहोपलब्धेः । बाधिर्य-पूति-नासार्शआदयः कथमसंबद्धे ! ॥ २० ॥
Jan Education Inter
For Personal and Private Use Only
www.jaineltrary.ory
Page #127
--------------------------------------------------------------------------
________________
वृहदत्तिः ।
तदेवं स्पर्शन-रसन-घ्राण श्रोत्राणां प्राप्यकारित्वं समर्थितम् ; सांप्रतं 'नयण-मणोवजिंदियभेयाओ' इत्यादिना सूचितं विशे० नयन-मनसोरमाप्यकारित्वमभिधित्सुर्नयनस्य तावदाह
लोयणमपत्तविसयं मणो व्व जमणुग्गहाइसुण्णं ति । जल-सूरालोयाइसु दीसंति अणुग्गह-विघाया॥२०९॥ ॥१२५॥
अमाप्तोऽसंबद्धोऽसंश्लिष्टो विषयो ग्राह्यवस्तुरूपो यस्य तदप्राप्तविषयं लोचनम् , अप्राप्यकारीत्यर्थः, इति प्रतिज्ञा । कुतः ?, इत्याहयद् यस्मादनुग्रहादिशून्यम्, आदिशब्दादुपघातपरिग्रह:- ग्राह्यवस्तुकृतानुग्रहो-पघातशून्यत्वादित्यर्थः, अयं च हेतुः। मनोवदिति दृष्टान्तः। - यदि हि लोचनं ग्राह्यवस्तुना सह संबध्य तत्परिच्छेदं कुर्यात् , तदाऽग्न्यादिदर्शने स्पर्शनस्येव दाहायुषघातः स्यात् । कोमलतुल्यायव
लोकने त्वनुग्रहो भवेत् , न चैवम् , तस्मादपाप्यकारि लोचनमिति भावः । मनस्यप्राप्यकारित्वं परस्याऽसिद्धम् , इति कथं तस्य दृष्टान्त
त्वेनोपन्यासः? इति चेत् । सत्यम् , किन्तु वक्ष्यमाणयुक्तिभिस्तत्र तत् सिद्धम् , इति निश्चित्य तस्येह दृष्टान्तत्वेन प्रदर्शनम् , इत्यदोषः । R अथ परो हेतोरसिद्धतामुद्भावयन्नाह- 'जल-मूरेत्यादि' आदिशब्दः, आलोकशब्दश्च प्रत्येकमभिसंवध्यते । ततश्च जलादीनामालोके | लोचनस्याऽनुग्रहो दृश्यते, सूरादीनां त्वालोके उपघात इति । अतो 'अनुग्रहादिशून्यत्वात्' इत्यसिद्धो हेतुरित्यर्थः । इदमुक्तं भवति
जल-घृत-नीलवसन-वनस्पती-न्दुमण्डलायवलोकनेन नयनस्य परमाश्वासलक्षणोऽनुग्रहः समीक्ष्यते; सूर-सितभित्त्यादिदर्शने तु जलविगलनादिरूप उपघातः संदृश्यत इति । अतः किमुच्यते- जमणुग्गहाइसुण्णं ति' ॥ इति गाथार्थः ॥ २०९ ॥
अत्रोत्तरमाह
डेज्जेज पाविउं रविकराइणा फरिसणं व को दोसो ? । मणेज अणुग्गहं पिव उवघायाभावओ सोम्मं ॥२१॥
अयमत्र भावार्थ:- अस्मदभिप्रायाऽनभिज्ञोऽप्रस्तुताभिधायी परः, न हि वयमेतद् ब्रूमो यदुत-चक्षुषः कुतोऽपि वस्तुनः सकाशात् कदाचित् सर्वथैवानुग्रहो-पाघातौ न भवतः । ततो रविकरादिना दाहाद्यात्मकेनोपघातवस्तुना परिच्छेदानन्तरं पश्चाच्चिरमवलोकयतः प्रतिपत्तुश्चक्षुः पाप्य समासाद्य स्पर्शनेन्द्रियमिव दह्येत-दाहादिलक्षणस्तस्योपघातः क्रियेतेत्यर्थः । एतावता चाआप्यकारिचक्षुर्वा| दिनामस्माकं को दोषः १ न कश्चित् , दृष्टस्य बाधितुमशक्यत्वादिति भावः । तथा यत् स्वरूपेणैव सौम्यं शीतलं शीतरश्मि वा जल
१ गाथा २०४ । २ लोचनमप्राप्ताविषयं मन इव यवनुग्रहादिशून्यामिति । जल-सूरालोकादिषु पश्येते अनुग्रह-विधातौ ॥ २०९ ॥ ३ दह्येत प्राप्य रविकरादिना स्पर्शनामिव को दोषः । मन्येताउनुग्रहमिवोपघाताभावतः सौम्यम् ॥ २१ ॥
COOPPER
॥१२५॥
Jan Education Inter
For Personal and Private Use Only
www.jaineitrary.ary
Page #128
--------------------------------------------------------------------------
________________
बृहद्वत्तिः ।
विशे० ॥१२६॥
PIPPIPEPARACHNPAPSPAPARIHARIPPROACHARIRIDINDIADRISTIBIHAR
घृत चन्द्रादिकं वस्तु, तस्मिंश्चिरमवलोकिते उवघाताभावादनुग्रहमिव मन्येत चक्षुः, ' को दोपः ?' इत्यत्राऽपि संबध्यते, न कश्चिदित्यर्थः ॥ इति गाथार्थः ॥२१॥ आह- याक्तन्यायेनोपघातका-ऽनुग्राहकवस्तुन्युपघाता-ऽनुग्रहाभावं चक्षुषो न ब्रूषे, तर्हि यद् ब्रूपे तत् कथय, इत्याशङ्कयाह
गंतुं न रूवदेसं पासइ पत्तं सयं व नियमोऽयं । पत्तेण उ मुत्तिमया उवधाया-गुग्गहा होज्जा ॥ २११ ।। ___ अयं नियमः- इदमेवाऽस्माभिनियम्यत इत्यर्थः । किं तत् ?, इत्याह- रूपस्व देशो रूपदेश आदित्यमण्डलादिसमाक्रान्तप्रदेशरूपस्तं गत्वोत्प्लवनतस्तं समाश्लिष्य चक्षुर्न पश्यति न परिच्छिनत्ति, अन्यस्याऽश्रुतत्वाद् 'रूपम्' इति गम्यते । 'पत्तं सयं व त्ति' स्वयं वाऽन्यत आगत्य चक्षुर्देशं प्राप्त समागतं रूपं चक्षुर्न पश्यति, किन्त्वप्राप्तमेव योग्यदेशस्थं विषयं तत् पश्यति ॥ अत्राह परः- नन्वनेन नियमनापाप्यकारित्वं चक्षुषः प्रतिज्ञातं भवति । न च प्रतिज्ञामात्रेणैव हेतूपन्यासमन्तरेण समीहितवस्तुसिद्धिः। अतो हेतुरिह वक्तव्यः । 'जमणुग्गहाइसुण्णं ति' इत्यनेन पूर्वोक्तगाथावयवेन विषयकृतानुग्रहो-पघातशून्यत्वलक्षणोऽयमभिहित एवेति चेत् । अहो ! जराविधुरितस्येवै सूरेविस्मरणशीलता, यतो 'जेमणुग्गहाइसुण्णं ति' इत्यनेन विषयादनुग्रहो-पघातौ चक्षुषो निषेधयति, डेंजेज पावित्रं रविकराइणा फरिसणं व ' इत्यादिना तु पुनरपि ततस्तौ तस्य समनुजानीते, अतो न विद्मः, कोऽप्येष वचनक्रम इति । नैतदेवम् , । अभिप्रायाऽपरिज्ञानात् , यतः प्रथमत एव विषयपरिच्छेदमात्रकालेऽनुग्रहो-पघातशून्यता हेतुत्वेनोक्ता, पश्चात्तु चिरमवलोकयतः प्रतिपत्तुः प्राप्तेन रविकरादिना, चन्द्रमरीचि नीलादिना वा मूर्तिमता निसर्गत एव केनाऽप्युपघातकेन, अनुग्राहकेण च विषयेणोपघाताऽनुग्रहौ भवेतामपीति । एतदेवाह- 'पत्तेण उ मुत्तिमयेत्यादि अनेनाऽभिप्रायेण तो पुनरपि समनुज्ञायेते, न पुनर्विस्मरणशीलतया । यदि पुनर्विषयपरिच्छित्तिमात्रमपि तमपाप्य चक्षुर्न करोतीति नियम्यते, तदा वहि-विष-जलधि-कण्टक-करवाल-करपत्र-सौवीराजनादिपरिच्छित्तावपि तस्य दाह-स्फोट-क्लेद-पाटन-नीरोगतादिलक्षणोपघाता-ऽनुग्रहप्रसङ्गः। न हि समानायामपि प्राप्तौ रविकरादिना तस्य भवन्ति दाहादयः, न वह्वयादिभिः । तस्माद् व्यवस्थितमिदम्-विषयमप्राप्यैव चक्षुः परिच्छिनत्ति, अञ्जन-दहनादिकृताऽनुग्रहो-पघातशून्यत्वात् , मनोवत् । परिच्छेदानन्तरं तु पश्चात्याप्लेन केनाऽप्युपघातकेन, अनुग्राहकेण वा मूर्तिमता द्रव्येण तस्योपघाता-ऽनुग्रही न निषिध्येते, विष शर्करादिभक्षणे मूर्छा-स्वास्थ्यादय इव मनस इति ॥
अत्राऽपरः प्राह-नयनाद् नायना रश्मयो निर्गत्य प्राप्य च रविबिम्बरश्मय इव वस्तु प्रकाशयन्तीति नयनस्य प्राप्यकारिता १ गस्वा न रूपदेशं पश्यति प्राप्तं स्वयं वा नियमोऽयम् । प्राप्तेन तु मूर्तिमतोपघाता-उनुग्रही भवेताम् ॥ २१ ॥ २ गाथा २०९ । ३ प.छ. 'व पुनर्वि'। ४ गाथा २१० ।
Jan Education intem
For Personal and Private Use Only
www.jaineltrary.ary
Page #129
--------------------------------------------------------------------------
________________
विशे०
PARA
R
॥१२७॥
RASTRATORS
प्रोच्यते । सूक्ष्मत्वेन, तैजसत्वेन च तेषां वयादिभिर्दाहादयो न भवन्ति, रविरश्मिषु तथादर्शनात् ।। तदेतदयुक्ततरम् , तेषां प्रत्यक्षादिप्रमाणाग्राह्यत्वेन श्रद्धातुमशक्यत्वात् , तथाविधानामप्यस्तित्वकल्पनेऽतिप्रसङ्गात् । वस्तुपरिच्छेदाऽन्यथानुपपत्तेस्ते सन्तीति विकल्प्यन्त इति चेत् । न, तानन्तरेणाऽपि तत्परिच्छेदोपपत्तेः , न हि मनसो रश्मयः सन्ति । न च तदप्राप्त वस्तु न परिच्छिनत्ति, वक्ष्यमाणयुक्तितस्तस्य तत्सिद्धेः । न च रविरश्म्युदाहरणमात्रेणाऽचेतनानां नयनरश्मीनां वस्तुपरिच्छेदो युज्यते, नख-दन्त-भाल-तलादिगतशरीरश्मीनामपि स्पर्शविषयवस्तुपरिच्छेदप्रसङ्गात् । इत्यलं विस्तरेण ॥ इति गाथार्थः ॥ २११ ॥
तदेवमञ्जन-ज्वलनादिविषयविहितानुग्रहो-पघातशून्यत्वलक्षणहेतोरमाप्यकारितां चक्षुषः प्रसाध्य हेत्वन्तरेणापि तस्य तां प्रसाधयितुमाहजइ पत्तं गेण्हेज उ, तग्गयमंजण-रओ-मलाईयं । पेच्छेन्ज, जं न पासइ अपत्तकारि तओ चक्टुं ॥२१२॥
यदि तु प्राप्त विषयं चक्षुर्ग्रहीयादित्युच्यते, तदा तद्गतमात्मसंबद्धमञ्जन-रजो-मल-शलाकादिकं पश्येदवगच्छेत् , तस्य निर्विवादमेव तत्प्राप्तत्वेनोपलब्धेः; यस्माच्च तद् न पश्यति, ततोऽप्राप्तकारि चक्षुरिति स्थितम् । यद्यप्राप्यकारि चक्षुः, ताप्राप्तत्वाविशेषात् सर्वस्याऽप्यर्थस्याऽविशेषेण ग्राहकं स्यात् , न प्रतिनियतस्येति चेत् । न, ज्ञान-दर्शनावरणादेस्तत्पतिबन्धकस्य सद्भावात् , मनसा व्यभिचाराच, तथाहि-अप्राप्यकारित्वे सत्यपि नाऽविशेषेण सर्वार्थेषु मनः प्रवर्तते, इन्द्रियाद्यप्रकाशितेषु सर्वथाऽदृष्टा-ऽश्रुतार्थेषु तत्मवृत्त्यदर्शनात् । इत्यलं प्रसङ्गेन ॥ इति गाथार्थः ॥ २१२॥
तदेवं व्यवस्थापिता चक्षुषोपाप्यकारिता । अथ दृष्टान्तीकृतस्य मनसस्तदसिद्धां परो मन्येत, इत्यतस्तस्यापि तां सिसाधयिषुः पूर्वपक्षमुत्थापयन्नाहगें] नेएण मणो संबज्झइ जग्गओ व सिमिणे वा। सिद्धमिदं लोयम्मि वि अमुगत्थगओमणो मे त्ति ॥२१३॥
'गंतु देहाद् निर्गत्य ज्ञेयेन मेरुशिखरस्थाजिनप्रतिमादिना संवध्यते संश्लिष्यते मनः। कस्यामवस्थायाम् ?, इत्याह-जाग्रतः, खने वा । अनुभवसिद्धं चैतत् , न च ममैव, किन्तु सिद्धमिदं लोकेऽपि, यतस्तत्राऽप्येवं वक्तारो भवति- अमुत्र मे मनो गतमिति । अतः प्राप्यकारि मनः॥ इति प्रेरकगाथार्थः ॥ २१३ ॥
यदि प्राप्तं गृहीयात् , तद्गतमजन-रजो-मकादिकम् । पश्येत्, यद् न पश्यति अप्राप्तकारि ततश्चक्षुः ॥२१२ ॥ २ गत्वा ज्ञेयेन मनः संबध्यते जाग्रतो वा स्वप्ने वा । सिद्धमिदं लोकेऽपि अमुकार्थगतं मनो मे इति ॥२१३ ॥
॥१२७॥
Jan Education International
For Personal and Private Use Only
www.jaineltrary.ary
Page #130
--------------------------------------------------------------------------
________________
विशे०
बृहद्वृत्तिः ।
॥१२८॥
STO
अत्रोत्तरमाहनाणुग्गहो-वघायाभावाओ लोयणं व, सो इहरा । तोय-जलणाइचिन्तणकाले जुज्जेज दोहिं पि ॥ २१४ ॥
न 'ज्ञेयेन सह संपृच्यते मनः' इति गम्यते । कुतः ?, इत्याह-'अणुग्गहो-बघायाभावाउ ति' ज्ञेयकृतानुग्रहो-पघाताभावात् , लोचनवत् । यदि तस्य ज्ञेयेन सह संपर्कः स्यात् तदा किं स्यात् ? , इत्याह- 'सो इहर त्ति' तद् मन इतरथा- ज्ञेयसंपर्केऽभ्युपगम्यमाने, तोय-ज्वलनादिविषयचिन्तनकाले द्वाभ्यामप्यनुग्रहो-पघाताभ्यां युज्येत- तोय-चन्दनादिचिन्तनकाले शैत्याद्यनुभवनेन स्पर्शनवदनुगृह्येत, दहन-विष-शस्त्रादिचिन्तनसमये तु तद्वदेवोपहन्येतेति भावः; न चैवम् । तस्माल्लोचनवदप्राप्यकार्येव मनः ।। इति गाथार्थः ।।२१४॥ किञ्च, मनसः पाप्यकारितावादिनः प्रष्टव्याः । किम् ?, इत्याहदेव्वं भावमणो वा वएज्ज जीवो य होइ भावमणो । देहव्वावित्तणओ न देहबाहिं तओ जुत्तो ॥ २१५॥
इह मनस्तावद् द्विधा- द्रव्यमनः, भावमनश्चेति । अतः मूरिः परं पृच्छति- 'दव्वं ति ' द्रव्यमनः, भावमनो वा व्रजेद् गच्छन् 'मेर्वादिविषयसन्निधौ' इति गम्यते । किमनेन पृष्ठेन ? इति चेत् । उभयथाऽपि दोषः, तथाहि- भावमनसश्चिन्ताज्ञानपरिणामरूपत्वात , तस्य च जीवादव्यतिरिक्तत्वाजीव एव भावमनो भवति । जीवश्चेति चकारः 'तओ' इत्यस्याऽनन्तरं संबन्धनीयः। ततोऽयमर्थः- सकश्च स च भावमनोरूपो जीवो देहमात्रव्यापित्वाद् न देहाद् बहिनिःसरन् युक्तः, इह ये देहमात्रवृत्तयः, न तेषां बहिनिःसरणमुपपद्यते, यथा तद्गतरूपादीनाम् , देहमात्रवृत्तिश्च जीवः ॥ इति गाथार्थः ॥२१५॥
देहमात्रव्यापित्वस्याऽसिद्धिं मन्यमानस्य परस्य मतमाशङ्कमानः मूरिराह
सव्वगउ त्ति च बुद्धी, कत्ताभावाइदोसओ तण्ण । सव्वा-सव्वग्गहणप्पसंगदोसाइओ वा वि ॥ २१६ ॥
अथ स्याद् बुद्धिः परस्य- सर्वगत आत्मा, न तु देहमात्रव्यापी, अमूर्तत्वात् , आकाशवदिति । अत्र गुरुराह- तदेतन्न । कुतः ?, इत्याह- भावप्रधानत्वानिर्देशस्य कर्तृत्वाभावादिदोषत इति- सर्वगतत्वे सत्यात्मनः कर्तृत्वादयो गोपाङ्गनादिप्रतीता अपि
न, अनुग्रहो-पघाताभावात् लोचनमिव, तदितरथा । तोय-ज्वलनादिचिन्तनकाले बुग्येत द्वाभ्यामपि ॥ २४॥ २ द्रव्यं भावमनो वा बजेद् जीवश्च भवति भावमनः । देहव्यापित्वाद् न देहवहिस्ततो युक्तः ॥ २१५॥ ३ सर्वगत इति च बुद्धिः, कन्नभावादिदोषतस्तन्न । सर्वा-सर्वग्रहणप्रसङ्गदोषादितो वाऽपि ॥ २१ ॥
N॥१२८॥
Page #131
--------------------------------------------------------------------------
________________
विशेषा०
धर्मा न घटेरनिति भावः; तथाहि-न कर्ताऽऽत्मा, सर्वगतत्वात् , आकाशवत् । आदिशब्दादोक्ता, असंसारी, अज्ञः, न सुखी, न दुःखी आत्मा तत एव हेतोः, तद्वदेव, इत्याद्यपि द्रष्टव्यम् । आह परः- नन्वात्मनो निष्क्रियत्वात् कर्तृत्वाद्यभावः सांख्यानां न
बाधायै कल्पते; तथा च तैरुक्तम्-“अकर्ता निर्गुणो भोक्ताऽऽत्मा" इत्यादि । एतदप्ययुक्तम् , तस्य निष्क्रियत्वे प्रत्यक्षादिपमाणोपल॥१२९॥ ब्धभोक्तृत्वादिक्रियाविरोधप्रसङ्गात् । प्रकृतेरेव भोगादिकरणक्रिया, न पुरुषस्य, आदर्शप्रतिबिम्बोदयन्यायेनैव तत्र क्रियाणामिष्टत्वादिति
चेत् । एतदप्यसङ्गतम् , प्रकृतेरचेतनत्वात् “चैतन्यं पुरुषस्य स्वरूपम्" इति वचनात् । अचेतनस्य च भोगादिक्रियाऽयोगात् , अन्यथा घटादीनामपि तत्प्रसङ्गादिति । न केवलं कर्तृत्वाद्यभावतः सर्वगतत्वमात्मनो न युक्तम् , किन्तु सर्वा-ऽसर्वग्रहणप्रसङ्गतोऽपि च तदसङ्गतम् । इदमुक्तं भवति- आत्मनः समात्रिभुवनगतत्वे, प्राप्यकारित्वेनाऽभ्युपगतस्य तदव्यतिरिक्तस्य भावमनसोऽपि सर्वगतत्वात् सर्वार्थप्राप्तेः सर्वग्रहणप्रसङ्गः, तथा च सर्वस्य सर्वज्ञत्वमसक्तिः । अथोक्तन्यायेन प्राप्तानपि सर्वार्थानभिहितदोषभयाद् न गृह्णातीत्युच्यते । तर्हि सर्वार्थाग्रहणप्रसङ्गः- ग्राह्यत्वेनेष्टानप्यर्थान् मा ग्रहीद् भावमनः, प्राप्तत्वाविशेषात् , अग्राह्यत्वेनेष्टार्थवदिति भावः। अथ प्राप्तत्वाविशिष्टत्वेऽपि कांश्चिदर्थानेतद् गृह्णाति, कांश्चिद् नेत्युच्यते । तर्हि व्यक्तमीश्वरचेष्टितम् । न चैतद् युक्तिविचारे क्वचिदप्युपयुज्यत इति । आदिशब्दात् सर्वगतत्व आत्मनोऽन्यदपि दूषणमभ्यूह्यम् , तथाहि- यथाऽङ्गुष्ठादौ दहनदाहादिवेदनायां मस्तकादिष्वप्यसावनु| भूयते, तथा सर्वत्रापि तत्प्रसङ्गः, न च भवति, तथाऽनुभवाभावात् , अननुभूयमानाया अपि भावाभ्युपगमेऽतिप्रसङ्गात् । किञ्च,
सर्वगतत्वे पुरुषस्य नानादेशगतस्रक्-चन्दना-अनादिसंस्पर्शेऽनवरतसुखासिकाप्रसङ्गः, वह्नि-शस्त्र-जलादिसंबन्धे तु निरन्तरदाह-पाटन-क्लेद
नादिप्रसङ्गश्च । यत्रैव शरीरं तत्रैव सर्वमिदं भवति, नाऽन्यत्रेति चेत् । कुतः, इति वक्तव्यम् । आज्ञामात्रादेवेति चेत् । न, तस्येFoहाविषयत्वात् । सहकारिभावेन तस्य तदपेक्षणीयमिति चेत् । न, नित्यस्य सहकार्यपेक्षाऽयोगात् । तथाहि- अपेक्ष्यमाणेन सहकारिणा
तस्य कश्चिद् विशेषः क्रियते, नवा ? । यदि क्रियते, स किमर्थान्तरभूतः, अनर्थान्तरभूतो वा । यद्याद्यः पक्षः, तर्हि तस्य न किश्चित् कृतं स्यात् । अथापरः, तर्हि तत्करणे तदव्यतिरिक्तस्याऽऽत्मनोऽपि करणप्रसङ्गात् , कृतस्य चाऽनित्यत्वात् तस्याऽनित्यत्वप्रसङ्गः । अथ मा भूदेष दोप इति 'न क्रियते' इत्यभ्युपगम्यते। हन्त ! न तर्हि स तस्य सहकारी, विशेषाकरणात् । अथ विशेषमकुर्वन्नपि सहकारीष्यते । तर्हि सकलत्रैलोक्यस्यापि सहकारिताप्राप्तिः, विशेषाकरणस्य तुल्यत्वात् , इति' व्यर्था शरीरमात्रापेक्षा, इत्याद्यत्र बहु वक्तव्यम् , तत्तु नोच्यते, ग्रन्थगहनताप्रसङ्गात् । तस्माच्छरीरमात्रवृत्तिरेवाऽऽत्मा, न सर्वगत इति । अतस्तदव्यतिरिक्तस्य भावमनसो न
१ ग. “ति पृथा श'।
रामपाल
॥१२९॥
१७
Jan Education Inter
For Personal and Private Use Only
www.jaineltrary.ary
Page #132
--------------------------------------------------------------------------
________________
बृहद्वात्तिः।
विशेषा० ॥१३०॥
शरीराद् बहिनिःसरणमुपपद्यत इति स्थितम् ।। इति गाथार्थः ॥ २१६ ॥ अथ द्रव्यमनो विषयदेशं व्रजतीति ब्रूयात् , तत्राऽप्याहदेव्यमणो विण्णाया न होइ गंतुं च किं तओ कुणउ ? । अह करणभावओ तस्स, तेण जीवो वियाणेज्जा॥२१७॥
काययोगसहायजीवगृहीत-चिन्ताप्रवर्तकमनोवर्गणान्तःपातिद्रव्यसमूहात्मकं द्रव्यमनः स्वयं विज्ञातृ न भवत्येव, अचेतनत्वात्, उपलशकलवत् , इत्यतो गत्वाऽपि मेर्वादिविषयदेशं किं तद् वराकं करोतु, तत्र गतादपि तस्मादर्थावगमाभावादिति भावः ।। पराभिप्रायमाशङ्कते- 'अह करणेत्यादि' अब मन्यसे- यद्यपि द्रव्यमनःस्वयं न किश्चिज्जानाति, तथापि करणभावः करणत्वं तस्य द्रव्यमनसः प्रदीपादेरिव वस्तुनि प्रकाशयितव्ये समस्ति । ततो जीवः कर्ता तेन द्रव्यमनसा करणभूतेन विजानीयादवबुध्येत मेर्वादिकं वस्त्विति । अत्र प्रयोगः- बहिर्निर्गतेन द्रव्यमनसा प्राप्य विषयं जानाति जीवः, करणत्वात् , प्रदीप-मणि-चन्द्र सूर्यादिप्रभयेव ॥इति गाथार्थः ॥२१७॥ _ अत्रोत्तरमाह
केरणतणओ तणुसंठिएण जाणिज्ज फरिसणेणं व । एत्तो च्चिय हेऊओ न नीइ बाहिं फरिसणं व ॥२१८॥
को वै न मन्यते, यदुत- अर्थपरिच्छेदे कर्तव्ये आत्मनो द्रव्यमनः करणम् ? । किन्तु करणं द्विधा भवति-शरीरगतमन्तःकरणम् , तद्वहिभूतं वाह्यकरणं च । तत्रेदं द्रव्यमनोऽन्तःकरणमेवात्मनः । ततश्च 'करणत्तणउ त्ति' सूत्रस्य सूचामात्रत्वात् , एकदेशेन समुदायस्य गम्यमानत्वाच्चान्तःकरणत्वादित्यर्थः, तनुसंस्थितेन शरीराद् बहिरनिर्गतेन जीवस्तेन जानीयाद् मेर्वादिविषयम् , स्पर्शनेन्द्रियेणेव कमलनालादिस्पर्शम् । प्रयोगः- यदन्तःकरनं तेन शरीरस्थेनैव विषय जीवो गृह्णाति, यथा स्पर्शनेन, अन्तःकरणं च द्रव्यमनः । मदीप-मणि-चन्द्र-सूर्यप्रभादिकं तु बाह्यकरणमात्मन इति साधनविकलः परोक्तदृष्टान्तः । आह-ननु शरीरस्थमपि तत् पद्मनालतन्तुन्यायेन बहिर्द्रव्यमनः किं न निःसरति ?, इत्याह- 'एत्तो चियेत्यादि' इत एवान्तःकरणत्वलक्षणादेतोबहिर्न निर्गच्छति द्रव्यमनः, स्पर्शनवत् । प्रयोगः- यदन्तःकरणं तच्छरीराद् बहिर्न निर्गच्छति, यथा स्पर्शनम् ॥ इति गाथार्थः ॥ २१८ ॥ तदेवं भावमनसो द्रव्यमनसश्च बहिश्चारिताद्यभावादमाप्यकार्येव मन इत्युक्तम् । सांप्रत 'नाणुग्गहो-बघायाभावाओ लोयणं व'
१ द्रव्यमनो विज्ञातृ न भवति गत्वा च किं ततः करोतु । अथ करणभावतस्तस्य, तेन जीयो विजानीयात् ॥ २१७ ॥ २ करणत्वतस्तनुसंस्थितन जानीयात् स्पर्शनेनेव । इत एव हेतो निर्गच्छति बहिः स्पर्शनमिव ॥ २१ ॥ ३ गाथा २१४ ।
PRESEARCH
॥१३०॥
For som
e
Use Only
Page #133
--------------------------------------------------------------------------
________________
विशेषा०
बृहद्वत्तिः ।
॥१३॥
इत्यादिना मनसोप्राप्यकारितायाम् 'अनुग्रहो-पघाताभावात्' इति यः पूर्व हेतुरुक्तः, तस्य परोऽसिद्धिं समुद्भावयन्नाह
नज्जइ उवधाओ से दोबल्लो-रक्खयाइलिंगेहिं । जमणुग्गहो य हरिसाइएहिं तो सो उभयधम्मो ॥२१९॥ _ इह मृत-नष्टादिकं वस्तु चिन्तयतः, अत्यात-रौद्रध्यानप्रवृत्तस्य च 'से' तस्य मनस उपघातो ज्ञायतेऽनुमीयते । कैः ?, इत्याहदौर्बल्यो-रक्षतादिलिङ्गः-दौर्बल्यं देहापचयरूपम् , उरःक्षतमुरोविघातः, हृदयबाधेति यावत् : आदिशब्दाद् वातप्रकोप-वैकल्यादिपरिग्रहः।
अनुग्रहश्च- यद्यस्मात् तस्येष्टसंगम-विभवलाभादिकं वस्तु चिन्तयतो हादिभिरनुमीयते । तत्र वदनविकाश-रोमाञ्चोद्गमादिचिह्नंगम्यो | मानसः प्रीतिविशेषो हर्षः, आदिशब्दाद् देहोपचयो-त्साहादिपरिग्रहः । तत् तस्मात्कारणात् तद् मन उपघाता-नुग्रहलक्षणोभयधर्मकमेव । अयमत्र भावार्थः- यः शोकाद्यतिशयाद् देहीपचयरूपः, आादिध्यानातिशयाद् हृद्रोगादिस्वरूपश्चोपघातः; यश्च पुत्रजन्माद्यभीष्टप्राप्तिचिन्तासमुद्भूतहर्षादिरनुग्रहः, स जीवस्य भवन्नपि चिन्त्यमानविषयाद् मनसः किल परो मन्यते, तस्य जीवात् कथञ्चिदव्यतिरिक्तत्वात् । ततश्चैवं मनसोऽनुग्रहो-पघातयुक्तत्वात् तच्छून्यत्वलक्षणो हेतुरसिद्धः ॥ इति गाथार्थः ॥ २१९ ॥ ___ तदेतत् सर्व परस्याऽसंबद्धभापितमेवेति दर्शय नाह
जेइ दव्वमणोऽतिबली पीलिज्जा हिदिनिरुद्धवाउ व्व । तयणुग्गहेण हरिसादउ व्व नेयस्स किं तत्थी ॥२२०॥ ___ यदि नाम द्रव्यमनो मनस्त्वपरिणतानिष्टपुद्गलसमूहरूपमतिशयबलिष्ठमिति कृत्वा शोकादिसमुद्भूतपीडया जीवं कर्मतापन्नं देहदौर्बल्याद्यापादनेन पीडयेत् , हृनिरुद्धवायुवत्- हृदयदेशाश्रितनिविडमरुद्ग्रन्धिवदित्यर्थः । यदि च तस्यैव द्रव्यमनसो मनस्त्वपरिणतेष्टपुद्गलसंघातस्वरूपस्याऽनुग्रहेण जीवस्य हर्षादयो भवेयुः, तर्हि ज्ञेयस्य चिन्तनीयमेवादेमनसोऽनुग्रहो-पघातकरणे किमायातम् । इदमत्र हृदयम्- मनस्त्वपरिणतानिष्टपुद्गलनिचयरूपं द्रव्यमनोऽनिष्टचिन्ताप्रवर्तनेन जीवस्य देहदौर्बल्याद्यापच्या हृनिरुद्धवायुवदुपघातं जनयति, तदेव च शुभपुद्गलपिण्डरूपं तस्याऽनुकूलचिन्ताजनकत्वेन हर्षाद्याभिनिच्या भेषजवदनुग्रहं विधत्त इति । अतो जीवस्यैतावनुग्रहो-पघातौ द्रव्यमनः करोति, न तु मन्यमानादिकं ज्ञेयं मनसः किमप्युपकल्पयति । अतो द्रव्यमनसः सकाशादात्मन एवानुग्रहो-पघातसद्भावात् , मनसस्तु ज्ञेयात् तद्गन्धस्याऽप्यभावाद् मस्तकाघातविह्वलीभूतेनेवाऽसंबद्धभाषिणा परेण हेतोरसिद्धिद्भाविता ।। इति गाथार्थः ।। २२०॥
जायते उपघातस्तस्य दौर्बल्यो-रःक्षतादिलिङ्गः । यदनुग्रहच हर्षादिभिस्ततः स उभयधर्मा ॥ २१९ ॥ २ बदि द्रव्यमनोऽतिवालि पीडयेद् हनिरुदवायुरिव । तदनुग्रहेण हदिय इन शेषस्य किं तत्र ! ॥ २२० ॥
APA|१३
For Peso
Private Use Only
Page #134
--------------------------------------------------------------------------
________________
बृहद्वत्तिः ।
विशेषा ॥१३२॥
आह-नवलौकिकमिदं, यद्-द्रव्यमनसा जीवस्य देहोपचय-दौर्बल्यादिरूपावनुग्रहो-पघातौ क्रियेते, तथापतीतेरेवाभावात, इत्याशङ्कयाह
ईट्ठा-णिद्वाहारब्भवहारे होन्ति पुट्ठि-हाणीओ । जह, तह मणसो ताओ पोग्गलगुणउ त्ति को दोसो? ॥२२१॥
ननु किमिहाऽलौकिकम् ? , यतो भवतो लोकस्य च सबालगोपालस्य तावत्यतीतमिदं यदुत- इष्टो मनोभिरुचितो य आहारस्तस्याऽभ्यवहारे जन्तूनां शरीरस्य पुष्टिर्भवति , यस्त्वनिष्टोऽनभिमत आहारस्तस्याऽभ्यवहारे हानिर्भवतीति । ततश्च 'जह त्ति' यथा इष्टा-ऽनिष्टाहाराभ्यवहारे तत्पुद्गलानुभावात् पुष्टि-हानी भवतः, 'तह त्ति' तथा यदि द्रव्यमनोलक्षणात् मनसोऽपि सकाशात् 'ताउत्ति' ते पुष्टि-हानी पुद्गलगुणतः पुद्गलानुभावाद् भवतः, तर्हि को दोषः । न कश्चिदित्यर्थः । यथाऽऽहार इष्टा-ऽनिष्टपुद्गलमयत्वात् तदनुभावाजन्तुशररािणां पुष्टि-हानी जनयति, तथा द्रव्यमनोऽपि तन्मयत्वाद् यदि तेषां ते निवर्तयति , तदा किं भूयते, येन पुद्गलमयत्वे समानेऽपि भवतोत्रैवाऽक्षमा? इति भावः। तथा चोक्तम्- "चिन्तया वत्स! ते जातं शरीरकमिदं कृशम्" इति । चिन्तैव तर्हि कार्याधुपघातादिजनिकेति चेत् । न, तस्या अपि द्रव्यमनःमभवत्वात् , अन्यथा चिन्ताया ज्ञानरूपत्वात् , ज्ञानस्य चाऽमूर्तत्वात्, अमूर्तस्य च नभस इवोपघातादिहेतुत्वायोगात्, 'जमणुग्गहो-वघाया जीवाणं पोग्गलेहिंतो' इति वक्ष्यमाणत्वाच ।। इति गाथार्थः।२२१॥
अथोपसंहारगर्भ प्रस्तुतार्थविषये स्वाभिप्रायपरमार्थं दर्शयन्नाह
नीउं आगसिउं वा न नेयमालंबइ त्ति नियमोऽयं । तण्णेयकया जेऽणुग्गहो-वघाया य ते नत्थि ॥२२२॥ इह न शरीराद् 'निर्गन्तुं' (निर्गत्य) द्रव्यमनो मेर्वादिकं ज्ञेयमर्थमालम्बते गृह्णाति, नापि तच्छरीरस्थमेव 'आगसिउँ ति' 'आक्रष्टुं' (आकृष्य) हठात् समाकृष्याऽऽत्मनः समीपमानीय ज्ञेयमालम्बत इति, अयं नियमोऽस्माभिर्भुजमुत्क्षिप्य विधीयते- प्राप्यकारीदं न भवतीति नियम्यत इति तात्पर्यम् । 'तण्णेयकया जेऽणुग्गहो-वघाय चि' यौ च तज्ज्ञेयकृतौ-तच तज्ज्ञेयं च तज्ज्ञेयं तत्कृतौ, मनसोऽनुग्रहो-पघातौ परिष्येते, तौ तस्य न स्त एवेति च नियम्यते ॥ इति गाथार्थः ॥ २२२ ॥ किं पुनर्न नियम्यते ?, इत्याह
H इष्टा-उनिष्टाहाराभ्यवहारे भवतः पुष्टि-हानी । यथा, तथा मनसस्ते पुद्गलगुणत इति को दोषः ॥ २२१ ॥२ पुष्टि-हानी। ३ गाथा २२३ । निर्गत्याकृष्य वा न शेयमालम्बत इति नियमोऽयम् । तशेयकृती यावनुग्रहो रघाती च ती न स्तः ॥ २२२ ॥
काकडहाकारका
॥१३२॥
TAठानना
For Personal and ev
e
nty
Page #135
--------------------------------------------------------------------------
________________
RRIORSHA
विशेषा.
वृहदत्तिः ।
॥१३३॥
सो पुण सयमुवघायण-मणुग्गहं वा करेज को दोसो ? । जमणुग्गहो-वघाया जीवाणं पोग्गलहितो ॥२२३॥
'से' इति प्राकृतत्वात् पुंलिङ्गनिर्देशः, एवं पूर्वमुत्तरत्रापि च यथासंभवं द्रष्टव्यम् । तद् द्रव्यमनः पुनः स्वयमात्मना शुभाऽशुभकर्मवशत इष्टा-ऽनिष्टपुद्गलसंघातघटितत्वादनुग्रहो-पघातौ मन्तुः कुर्यात् , को दोषः ?- न वयं तत्र निषेद्धारः, ज्ञेयकृतयोरेव तस्य तयोरस्माभिनिषिध्यमानत्वादिति भावः । जीवस्याऽपि तौ द्रव्यमनःकृतौ किमिति न निषिध्येते ?, इत्याह- 'जमगुग्गहो इत्यादि' यद्यस्मात्कारणादनुग्रहो-पघातौ जीवानां पुद्गलेभ्य इति युक्तमेव, इष्टा-ऽनिष्टशब्द-रूप-रस-गन्ध-स्पर्शापभोगादिषु तथादर्शनेनाऽस्याऽर्थस्य निषेदुमशक्यत्वादित्यर्थः ॥ आह- ननु शब्दादय इष्टा-ऽनिष्टपुद्गलात्मका इति प्रत्यक्षादिप्रमाणसिद्धत्वात् प्रतीमः, द्रव्यमनस्तु यदिदं किमपि भवद्भिरुख़ुष्यते, तदिष्टा-ऽनिष्टपुद्गलमयमस्तीति कथं श्रद्दध्मः' इति । अत्रोच्यते- योगिनस्तावदिदं प्रत्यक्षत एव पश्यन्ति; अर्वाग्दर्शिनस्त्वनुमानात् , तथाहि- यदन्तरेण यद् नोपपद्यते तदर्शनात् तदस्तीति प्रतिपत्तव्यम् , यथा स्फोटदर्शनाद् दहनस्य दाहिका शक्तिः, नोपपद्यते चेष्टा-निष्टपुद्गलसंघातात्मकद्रव्यमनोव्यतिरेकेण जन्तूनामिष्टा-निष्टवस्तुचिन्तने समुपलब्धौ वदनप्रसन्नता-देहदौर्बल्याद्यनुग्रहो-पघातौ, ततस्तदन्यथानुपपत्तरस्ति यथोक्तरूपं द्रव्यमनः । चिन्तनीयवस्तुकृतावेतौ भविष्यत इति चेत् । न, जल-ज्वलनौदनादिचिन्तने क्लेद-दाह-बुभुक्षोपशमादिप्रसङ्गादिति । " चिन्तया वत्स ! ते जातं शरीरकमिदं कृशम्" इत्यादिलोकोक्तश्चिन्ताज्ञानकृतौ ताविति चेत् । तदप्ययुक्तम् , तस्याऽमृर्तत्वात् , अमूर्तस्य च कर्तृत्वायोगात , आकाशवत् , इत्युक्तत्वात् , “चिन्तया वत्स!" इत्यादिलोकोक्तेश्च कार्ये कारणशक्त्यध्यारोपेणौपचारिकत्वात् । खेदादेस्तदुद्भूतिरिति चेत् । कोऽयं नाम खेदादिः । किं तान्येव मनोद्रव्याणि, चिन्तादिज्ञानं वा । आद्यपक्षे, सिद्धसाध्यता । द्वितीयपक्षस्तु विहितोत्तर एव । न च निर्हेतुकावेतौ, सर्वदा भवना-ऽभवनप्रसङ्गात् ,
" नित्यं सत्त्वमसत्त्वं वा हेतोरन्यानपेक्षणात् । अपेक्षातो हि भावानां कादाचित्कत्वसंभवः " ॥१॥ इति ।
न च जीवादिक एवाऽन्यः कोऽपि तयोर्हेतुः, तस्य सदावस्थितत्वेन तत एव सर्वदा भवना-ऽभवनप्रसङ्गात् । एवमन्यदपि सुधिया स्वबुद्ध्या समाधानमिह वाच्यम् , इत्यलमतिविस्तरेण । तस्मादुक्तयुक्तिसिद्धं पुद्गलमयं द्रव्यमनो मन्तुः स्वयं कुर्यादनुग्रहो-पघातौ, ज्ञेयकृतौ तु तौ मनसो न स्त एव, इति न तत्याप्यकारि ।। इति गाथार्थः ।। २२३ ॥
आह-ननु जाग्रदवस्थायां मा भूद् मनसो विषयमाप्तिः, स्वापावस्थायां तु भवत्वसौ, अनुभवसिद्धत्वात्, तथाहि- 'अमुत्र मेरुशिखरादिगतजिनायतनादौ मदीयं मनो गतम् ' इति सुप्तैः स्वमेऽनुभूयत एव, तथा च "गतुं नेएण मणो संबज्झइ जग्गओ व सिमिणे
, तत्पुनः स्वयमुपघाता-नुग्रही वा कुर्यात् को दोषः । यदनुग्रहो-पघातौ जीवानां पुद्गलेभ्यः ॥ २२३ ॥ २ चिन्ताज्ञानस्य । ३ गाथा २१३ ।
१३३॥
For Personal and v
e ry
Page #136
--------------------------------------------------------------------------
________________
वा' इति मया प्रागेवोक्तम् , इत्याशङ्कय स्वप्नेऽपि मनसः प्राप्यकारितामपाकर्तुमाहविशेषाव सिंमिणो न तहारूवो वभिचाराओ अलायचकं व । वभिचारो य सदसणमुवघाया-णुग्गहाभावा ॥२२४॥ ॥१३४॥
इह 'मदीयं मनोऽपुत्र गतम्' इत्यादिरूपो यः सुप्तैरुपलभ्यते स्वमः, स यथोपलभ्यते न तथारूप एव, स्वमोपलब्धमोदकस्तथाविधपरमाचार्यैरिव परैर्न सत्य एव मन्तव्य इत्यर्थः । कुतः ?, इत्याह- व्यभिचारात्- अन्यथात्वदर्शनात् । किंवद्- यथा न सत्यम् ?, इत्याह- अलातचक्रमिव- अलातमुल्मुकं तवृत्ताकारतया आशु भ्रम्यमाणं भ्रान्तिवशादचक्रमपि चक्रतया प्रतिभासमानं यथा न सत्यम् , अचक्ररूपताया एव तत्राऽवितथत्वात् , भ्रमणोपरमे स्वभावस्थस्य तथैव दर्शनात् ; एवं स्वामोऽपि न सत्यः, तदुपलब्धस्य मनोमेरुगमनादिकस्याऽर्थस्याऽसत्यत्वात् । तदसत्यत्वं च प्रबुद्धस्य स्वप्नोपरमे तदभावात् । तदभावश्च तदवस्थायां देहस्थस्यैव मनसोऽनुभूयमानत्वादिति ॥ आह- ननु स्वरमावस्थायां मेर्वादौ गत्वा जाग्रदवस्थायां निवृत्तं तद् भविष्यति, इति 'व्यभिचारात्' इत्यसिद्धो हेतुः, इत्याशङ्कयाह- 'वभिचारो येत्यादि' यो मया व्यभिचारो हेतुत्वेनोक्तः, स चेत्थं सिद्धः । कथम् ?, इत्याह- 'सदसणमिति' विभक्तिव्यत्ययात् स्वदर्शनादित्यर्थः, स्वस्थाऽऽत्मनो मे दिस्थितजिनगृहादिगतस्य दर्शनं स्वदर्शनं तस्मादिति । एतदुक्तं भवति- यथा कदाचिदात्मीयं मनः स्वमे मेादौ गतं कश्चित् पश्यति, तथा कोऽपि शरीरमात्मानमपि नन्दनतरुकुसुमावचयादि कुर्वन्तं तद्गतं पश्यति, न च तत् तथैव, इहस्थितैः सुप्तस्य तस्याऽत्रैव दर्शनात् , द्वयोश्चात्मनोरसंभवात् , कुसुमपरिमलाद्यध्वजनितपरिश्रमायनुग्रहो-पघाताभावाच ॥ इति गाथार्थः ॥ २२४ ॥
एतदेव भावयन्नाह
इह पासुत्तो पेच्छइ सदेहमन्नत्थ, न य तओ तत्थ । न य तग्गयोवघाया-णुग्गहरूवं विबुद्धस्स ॥२२५॥
इह जगति प्रसुप्तः कश्चित् स्वदेहमन्यत्र नन्दनवनादौ गतं स्वप्ने पश्यति । न च तकोऽसौ देहस्तत्र नन्दनवनादावुपपद्यते, इहस्थितैरन्यैस्तस्याऽत्रैवोपलम्भात , इत्याद्यनन्तरोक्तयुक्तेः। न च विबुद्धस्य सतस्तद्गतयोरन्यत्र गमनगतयोरन्यत्र गमनविषययोरनुग्रहोपघातयो रूपं कुसुमपरिमल मार्गपरिश्रमादिकं स्वरूपमुपलभ्यते । तस्मात् स्वापावस्थायामपि नाऽन्यत्र मनसो गमनम् , देहगमनदर्शनेन व्यभिचारात् ।। इति गाथार्थः ।। २२५ ॥
१ स्वप्नो न तथारूपो व्यभिचारादलातचकमिव । व्यभिचारश्च स्वदर्शनादुपघाता-ऽनमहाभावात् ॥२२४॥ २५. छ, ज. 'स्वाद'। ३ इह प्रसुप्तः प्रेक्षते वहमन्यत्र न च सकस्तत्र । न च तगतोपघाता-नुमहरूपं विबुदस्य ।। २२५ ॥
||१३४॥
Edit
For Personal and Private Use Only
Page #137
--------------------------------------------------------------------------
________________
बृहदत्तिः ।
विशेषा. ॥१३५॥
अत्र वियुद्धस्य सतस्तद्गतानुग्रहो-पघातानुपलम्भादित्यस्य हेतोरसिद्धतोद्भावनार्थं परः प्राह
दीसंति कासइ फुडं हरिस-विसादादयो विबुद्धस्स । सिमिणाणुभूयसुह-दुक्ख-रागदोसाइलिंगाइं ॥२२६॥ इह कस्यचित् पुरुषस्य स्वनोपलम्भानन्तरं विबुद्धस्य सतः स्फुट व्यक्तं दृश्यन्ते हर्ष-विषादादयः, आदिशब्दादुन्माद-माध्यस्थ्यादिपरिग्रहः । कथंभूता ये हर्ष-विषादादयः? इत्याह-'सिमिणेत्यादि' स्वमे जिनस्नात्रदर्शनादौ यदनुभूतं सुखं, समीहितार्थाऽलाभादौ यदनुभूतं दुःखं, तयोर्विषये यथासंख्यं यौ राग-द्वेषौ तयोलिङ्गानि चिह्नानि- हर्षः स्वप्नानुभूतसुखं रागस्य लिङ्ग, विषादस्तु तदनुभूतदुःखद्वेषस्य लिङ्गमिति भावः । तत्र
"स्वमे दृष्टो मयाद्य त्रिभुवनमहितः पार्श्वनाथः शिशुत्वे द्वात्रिंशद्भिः सुरेन्द्ररहमहमिकया स्नाप्यमानः सुमेरौ ।
तस्माद् मत्तोऽपि धन्यं नयनयुगमिदं येन साक्षात् स दृष्टो द्रष्टव्यो, यो महायान् परिहरति भयं देहिनां संस्मृतोऽपि" ॥१॥ इत्यादिखमानुभूतसुखरागलिङ्गं हर्षः, तथा-- "प्राकारत्रयतुगतारणपणिप्रेमभाव्याहता नष्टाः कापि रवेः करा द्रुततरं यस्यां प्रचण्डा अपि ।
तां त्रैलोक्यगुरोः सुरेश्वरवतीमास्थायिकामेदिनी हा ! यावत् प्रविशामि तावदधमा निद्रा क्षयं मे गता" ॥१॥ . इत्यादिकः स्वप्मानुभूतदुःखद्वेषलिङ्ग विषादः, अत्यन्तकामोद्रेकादिलिङ्गमुन्मादः, मुनेस्तु माध्यस्थ्यम् । इति “ विबुद्धस्याऽनुग्रहोपघातानुपलम्भात्" इत्यसिद्धो हेतुः ॥ इति गाथार्थः ।।२२६॥
अत्रोत्तरमाहने सिमिणविण्णाणाओ हरिस-विसासादयो विरुज्झति। किरियाफलं तु तित्ती-मद-बह-बंधादओ नत्थि ॥२२७||
खने सुखानुभवादिविषय विज्ञानं स्वमविज्ञानं तस्मादुत्पद्यमाना हर्ष विषादादयो न विरुध्यन्ते- न तान् वयं निवारयामः, जाग्रदवस्थाविज्ञानहादिवत् , तथाहि- दृश्यन्ते जाग्रदवस्थायां कचित् स्वमुत्पेक्षितसुखानुभवादिज्ञानाद् हृष्यन्तः, द्विपन्तो वा । ततश्च दृष्टस्य निषेदुमशक्यत्वात् खमविज्ञानादपि नैतनिषेधं ब्रूमः। तर्हि किमुच्यते भवद्भिः?, इत्याह-'किरियेत्यादि' क्रिया भोजनादिका तस्याः
परश्यन्ते कस्यचित् स्फुट हर्ष-विषादादयो दिबुद्धस्य । स्वप्नानुभूतसुख-दुःख-राग-दोषादिलिङ्गानि ॥ २२६ ॥ २ प.छ.क. 'यानपह' । ३ ग. ज. 'भाभ्याह' ५ न स्वमविज्ञानाद् हर्ष-विषादात्यो विरुध्यन्ते । क्रियाफलं तु तृप्ति-मद-वध-बन्धादयो न सन्ति ॥२२७॥
॥१३५॥
(HODI
For Personal and
Use Only
Page #138
--------------------------------------------------------------------------
________________
RABHARAJ
विशेषा
॥१३६॥
फलं तृप्त्यादिकं तत् पुनः स्वमविज्ञानाद् नास्त्येव, इति ब्रूमः । तदेव क्रियाफलं दर्शयति- 'तित्तीत्यादि' तत्र तृप्तिबुभुक्षायुपरमलक्षणा, मदः सुरापानादिजनितविक्रियारूपः, वधः शिरश्छेदादिसमुद्भूतपीडास्वरूपः, बन्धो निगडादिनियन्त्रणस्वभावः; आदिशब्दाज्जलज्वलनादिप्रवेशात् क्लेद-दाहादिपरिग्रहः । यदि ह्येतत् तृप्त्यादिकं भोजनादिक्रियाफलं स्वमविज्ञानाद् भवेत् , तदा विषयमाप्तिरूपा पाप्यकारिता मनसो युज्येत, न चैतदस्ति, तथोपलम्भस्यैवाभावात् ॥ इति गाथार्थः॥२२७।।
अथ स्खमानुभूतक्रियाफलं जाग्रदवस्थायामपि परो दर्शयन्नाह'सिमिणे वि सुरयसंगमकिरियासंजणियवंजणविसग्गो। पडिबुद्धस्स वि कस्सइ दीसइ सिमिणाणुभूयफलं॥२२८॥
स्वमेऽपि सुरतार्था याऽसौ कामिनः कामिनीजनेन, कामिन्या वा कामिजनेन सह संगमक्रिया तत्संजनितो व्यञ्जनस्य शुक्रपुद्गलसंघातस्य विसर्गो निसर्गः स्वमानुभूतसुरतसंगमक्रियाफलरूपः प्रतिबुद्धस्याऽपि कस्यचित् प्रत्यक्ष एव दृश्यते, तदर्शनाच स्वप्ने योपित्संगमक्रियाऽनुमीयते, तथाहि- यत्र व्यञ्जनविसर्गस्तत्र योषित्संगमेनापि भवितव्यम्, यथा वासभवनादौ, तथा च खमे, ततोप्रापि योपित्याप्त्या भवितव्यम् । इति कथं न प्राप्तकारिता मनसः ? इति भावः ।। इति गाथार्थः ।। २२८ ॥ अथ योषित्संगमे साध्ये व्यञ्जनविसर्गहेतोरनैकान्तिकतामुपदर्शयन्नाहसो अज्झवसाणकओ जागरओ वि जह तिब्वमोहस्स । तिव्वज्झवसाणाओ होइ विसग्गो तहा सुमिणे ॥२२९॥
स्वप्ने योऽसौ व्यञ्जनविसर्गः स तत्प्राप्तिमन्तरेणाऽपि- तां कामिनीमहं परिषजामि' इत्यादिखमत्युत्प्रेक्षिततीव्राध्यवसायकृतो | वेदितव्यः । कस्येव ?, इत्याह- जाग्रतोऽपि तीव्रमोहस्य प्रबलवेदोदययुक्तस्य कामिनी स्मरतश्चिन्तयतो दृढं ध्यायतः प्रत्यक्षामिव पश्यतो बुद्ध्या परिषजतः परिभुक्तामिव मन्यमानस्य यत् तीव्राध्यवसानं तस्माद् यथा व्यञ्जनविसर्गो भवति, तथा स्वमेऽपि नितम्बिनीप्राप्तिमन्तरेणाऽपि स्वयमुत्प्रेक्षिततीव्राध्यवसानादसौ मन्तव्यः, अन्यथा तत्क्षण एवं प्रबुद्धः सन्निहितां प्रियतमामुपलभेत, तत्कृतानि च स्वमोपलब्धानि नख-दन्त-पदादीनि पश्येत् , न चैवम् ; तस्मादनकान्तिकता हेतोः ॥ इति गाथार्थः ॥ २२९ ॥
किञ्च,
१३६।।
१ स्वमेऽपि सुरतसंगमकिपासंजनितव्य अनविसर्गः । प्रतिबुद्धस्यापि कस्यचिद् दृश्यते स्वमानुभूतफलम् ॥ २२८ ॥ २ प.छ.ज, 'क्षत ए। ३ सोऽध्यवसानकृतो जानतोऽपि यथा तीबमोहस्थ । तीब्राध्यवसानाद् भवति विसर्गस्तथा स्वमे ॥ २२९॥
For Posod
es Only
Page #139
--------------------------------------------------------------------------
________________
विशेषा०
॥१३७॥
सुरयपडिवत्ति-रइसुह-गब्भाहाणाइ इहरहा होजा । सुमिणसमागमजुवईए, न य जओ ताई तो विफला ॥२३०॥
इतरथा- स्वमे सुरतक्रियया योऽसौ व्यञ्जनविसर्गः स यदि योषित्प्राप्त्यव्यभिचारी स्यात् , तदा सुरतोपभुक्तयुवतैरपि 'सु- बृहद्वत्तिः । रतक्रियाऽमुकेन सह मयाऽनुभूता' इत्येवंरूपा सुरतप्रतिपत्तिः स्यात् , तथा, रतिसुर्ख , गर्भाऽऽधानादिकं च भवेत् ; आदिशब्दादुदरवृद्धि-दोहद-पुत्रजन्मादिपरिग्रहः । यतश्च नैतानि तस्याः समुपलभ्यन्ते, अतो विफलैव सा खप्नसुरतक्रिया, विशिष्टस्य परिभुक्तकामिनीगर्भाधानादिफलस्याभावात् । इदमुक्तं भवति- न स्वप्ने योषित्प्राप्तिपूर्विका विशिष्टा सुरतक्रिया, नापि विशिष्टं गर्भाऽऽधानादिकं तत्फलं; या तु तीब्रवेदोदयाविर्भूताऽध्यवसायमात्रकृता निधुवनक्रिया सा व्यञ्जनविसर्गमात्ररूपेणैव फलेन फलवती, न विशिष्टेन, इति । तदपेक्षया सा 'विफला' इत्युच्यते । अतो यथोक्तविशिष्टफलाभावात् फलमात्राद् योपित्याप्स्यसिद्धेश्च न प्राप्यकारिता मनस इति भावः।। इति गाथार्थः ॥ २३०॥
पुनरप्याह परःनेणु सिमिणओ वि कोई सच्चफलो फलइ जो जहा दिहो। ननु सिमिणम्मि निसिद्ध किरिया किरियाफलाइंच॥२३॥ _ ननु स्वमोऽपि कश्चित् सत्यं फलं यस्याऽसौ सत्यफलो दृश्यते । कः, इत्याह- यो यथा येन प्रकारेण राज्यलाभादिना दृष्टस्तेनैव फलति-राज्यादिफलदायको भवतीत्यर्थः, तत् किमिति खप्नोपलब्धं मनसो मेरुगमनादिकं सत्यतया नेष्यते ? इति भावः । अत्रोत्तरमाह-'नन्वित्यादि' नन्वयुक्तोपालम्भोऽयम् , सर्वथास्वमसत्यत्वस्याऽस्माभिरनिषिध्यमानत्वात् । तर्हि किं निषिध्यते ?, इत्याह-खमे क्रिया मेरुगमनादिका, अध्वश्रम-कुसुमपरिमलादीनि क्रियाफलानि च, इत्येतद्द्वयमस्माभिः प्रागुक्तयुक्तः सत्यतया निषिद्धम् ।। इति गाथार्थः ॥ २३१ ॥ तर्हि किं तत्, यत् स्वमे भवद्भिर्न निषिध्यते ?, इत्याह
जं पुण विण्णाणं तप्फलं च सिमिणे विबुद्धमेत्तस्स । सिमिणयनिमित्तभावं फलं च तं को निवारेइ ? ॥२३२॥
सुरतप्रतिपत्ति-रतिसुख-गर्भाधानादीतरथा भवेत् । स्वप्नसमागमयुबतेः, न च यतस्ताम्यतो विफला ॥ २३ ॥ २ प. छ. ज. 'द्धिदौहद' । नन स्वप्नकोऽपि कथित सखफलः फलति यो यथा रटा। ननु स्वमे निषिद्धं क्रिया क्रियाफलानि च ॥२३१॥४ प.छ. 'कुतः । ५.ग. 'ततः
किरा ६ क. 'खप्ने या कि' ज. 'खप्नेऽपि कि' । . यत्पुनर्विज्ञानं तत्फलं च स्वप्ने विबुद्धमात्रस्य । स्वमकनिमित्तभावं फलं च तत् को निवारयति ॥ २३२॥
Page #140
--------------------------------------------------------------------------
________________
विशेषा
॥१३८॥
__यत्पुनः स्वमे जिनस्नात्रदर्शनादिकं विज्ञान, यच्च स्वमे विबुद्धमात्रस्य च हर्षादिकं तत्फलं, तदनुभवादिसिद्धत्वात्को निवारयति ?, तथा, यो भविष्यत्फलापेक्षया स्वमस्य निमित्तभावः स्वमनिमित्तभावस्तं च को वा निवारयति', यच्च तस्मात् स्वमनिमित्तादवश्यंभावि भविष्यत्फलं तदपि को निवारयति ? । यदेव हि मेरुगमनक्रियादिकं युक्त्या नोपपद्यते तदेव निषिध्यते, न त्वेतानि विज्ञानादीनि, युक्त्युपपन्नत्वात् । न चैतैरभ्युपगतैरपि मनसः प्राप्यकारिता काचित् सिध्यतीति भावः ॥ इति गाथार्थः ॥ २३२॥
किमिति पुनः स्वप्नस्य निमित्तभावो न निवार्यते ?, इत्याशङ्कयाह
'देहप्फुरणं सहसोइयं च सिमिणो य काइयाईणि । सगयाइं निमित्ताई सुभा-सुभफलं निवेएंति ॥२३३॥
स्वस्मिन्नात्मनि गतानि स्थितानि स्वगतानि निमित्तानि, एतानि शास्त्रे, लोकेऽपि च प्रसिद्धानि भविष्यच्छुभा-शुभफलं निवेदयन्ति । कानि पुनस्तानि ?, इत्याह- कायिकम्, आदिशब्दाद् वाचिकं, मानसं च । एतान्येव क्रमेण दर्शयति- कायिकं बाहादौ देहस्फुरणं भविष्यच्छुभा-ऽशुभफलं निवेदयति, वाचिकं तु सहसोदितं- सहसाऽकस्मादेवोदितं सहसोदितं सहसैव तेत् किमपि बदत आगच्छति यत् , भविष्यच्छुभा-ऽशुभफलमावेदयति, मानसं तु निमित्तं खमे, इत्येतानि को निवारयति , लोक-शास्त्रप्रसिद्धस्य, युक्त्युपपन्नस्य च निषेधुमशक्यत्वात् ।। इति गाथार्थः ।। २३३ ।।
___ आह- ननु स्त्यानदिनिद्रोदये वर्तमानस्य द्विरददन्तोत्पाटनादिमवृत्तस्य स्वमे मनसः प्राप्यकारिता, तत्पूर्वको व्यञ्जनावग्रहश्च सिद्धयति, तथाहि-स तस्यामवस्थायां 'द्विरददन्तोत्पाटनादिकं सर्वमिदमहं स्वमे पश्यामि' इति मन्यते, इत्ययं स्वमः, मनोविकल्पपूर्विका च दशनाद्युत्पाटनक्रियामसौ करोति । इति मनसः प्राप्यकारिता, तत्पूर्वकश्च मनसो व्यञ्जनावग्रहो भवत्येव, इत्याशङ्क्याहसिमिणमिव मन्नमाणस्स थीणगिद्धिस्स वंजणोग्गया । होज व, न उ सा मणसो सा खलु सोइंदियाईणं ॥२३॥
'होज्ज व' इत्यत्र वाशब्दः पुनरर्थे, तस्य च व्यवहितः संबन्धः कार्यः, तद्यथा- अनन्तरोक्तयुक्तिभ्यः स्वमावस्थायामपि विषयप्राप्त्यभावाद् मनसो व्यञ्जनावग्रहो नास्ति, स्त्यानगृद्धः पुनः स्त्यानगृद्धिनिद्रोदये पुनर्वर्तमानस्य जन्तोरित्यर्थः, मांसभक्षण-दशनोत्पाटनादि कुर्वतो गाढनिद्रोदयपरवशीभूतत्वेन स्वममिव मन्यमानस्य भवेद् व्यञ्जनावग्रहता-- स्याद् व्यञ्जनावग्रह इत्यर्थः, न वयं तत्र
||१३८॥
, देहस्फुरणं सहसोदितं च स्वमा कायिकादीनि । स्वगतानि निमित्तानि शुभा-शुभफलं निवेदयन्ति ॥ २३३॥ २ क. ग. 'ततः कि' । ३. छ. ज. 'दशनोत्पा' स्वममिव मन्यमानस्य स्त्यानबेचजनावग्रहता। भवेद वा,म तुसा मनसः सा खलु श्रीनेन्द्रियादीनाम् ॥२३॥
SSSS
For Peso
Private Use Only
Page #141
--------------------------------------------------------------------------
________________
विशेषा० ॥१३९॥
CIORO
निषेद्धारः । सिद्धं तर्हि परस्य समीहितम् । सिध्येत् , यदि सा व्यञ्जनावग्रहता मनसो भवेत् । न पुनः सा तस्य । कस्य तर्हि सा, इत्याह-सा खलु प्राप्यकारिणां श्रोत्रादीन्द्रियाणां श्रवण-रसन-प्राण-स्पर्शनानामित्यर्थः, इदमुक्तं भवति- स्त्यानद्धिनिद्रोदये प्रेक्षणकरङ्गभूम्यादौ गीतादिकं शृण्वतः श्रोत्रेन्द्रियस्य व्यञ्जनावग्रहो भवति, कर्पूरादिकं जिघ्रतो घ्राणेन्द्रियस्य, आमिष-मोदकादिकं भक्षयतो रसनेन्द्रियस्य, कामिनीतनुलतादि स्पृशतः स्पर्शनेन्द्रियस्य व्यञ्जनावग्रहः संपद्यते; न तु नयन-मनसोः, बहि-क्षुरिकादिविषयकृतदाहपाटनादिप्रसङ्गेन तयोर्विषयमाप्त्यभावात् , तामन्तरेण च व्यञ्जनावग्रहासंभवादिति भावः ॥ इति गाथार्थः ।। २३४ ॥
आह- ननु स्त्यानर्द्धिनिद्रोदये स्वममिव मन्यमानः किं कोऽपि चेष्टां काश्चित् करोति, येन तत्करणे व्यञ्जनावग्रहः स्यात् ?, इत्याशक्य स्त्यानर्द्धिनिद्रोदयोदाहरणान्याह
पोग्गल-मोयग-दन्ते फरुसग-वडसालभंजणे चेव । थीणद्धियस्स एए आहारणा होति नायव्वा ॥ २३५ ॥
स्त्यानर्द्धिनिद्रोदयवर्तिन एतानि पौद्गलादीन्युदाहरणानि ज्ञातव्यानि भवन्ति । तद्यथा- 'पोग्गलेत्यादि ' तत्र समयपरिभाषया । | पौद्गलं मांसमुच्यते, तदुदाहरणं यथा- एकस्मिन् ग्रामे कुटुम्बिकः कोऽप्यासीत् , स च मांसगृद्ध आमानि, पकानि, तलितानि, केवलानि, तीमनादिमध्यप्रक्षिप्तानि च मांसानि भक्षयति । अन्यदा च गुणातिशायिभिः स्थविरैः कैश्चित् प्रतिबोधितो दीक्षां कक्षीकृतवान् । तेन च ग्रामा-ऽनुग्रामं विहरता कदाचित् कचित् प्रदेशे मांसलुब्धैः कैश्चिद् विकृत्यमानो महिषः समीक्षाश्चके । तं चे संवीक्ष्य तदामिषभक्षणे तस्याऽप्यभिलाषः समजायत । स चाभिलाषोऽस्य भुञ्जानस्य विचारभूमी गतस्य चरमां सूत्रपौरुषी, प्रतिक्रमणक्रियां , प्रादोषिकपौरुषी च कुर्वतो न निवृत्तः किं बहुना , तदभिलाषवत्येव प्रसुप्तोऽसौ । ततः स्त्यानर्द्धिनिद्रोदयो जातः । तदुदये चोत्थाय ग्रामाद् बहिर्महिपमण्डलमध्ये गत्वाऽन्यं महिषमेकं विनिहत्य तदामिषं भक्षितवान् । तदुवरितशेषं च समानीयोपाश्रयोपरि क्षिप्त्वा प्रसुप्तः । समुत्थितश्च प्रत्युषसि स 'मयेत्थंभूतः स्वमो दृष्टः' इत्येवं गुर्वन्तिक आलोचयामास । साधुभिश्वोपाश्रयोपरि तदामिषमदृश्यत । ततः 'स्त्यानद्धिनिद्रोदयोऽस्याऽस्ति' इति ज्ञातम् । तथा च संघेन लिङ्गमपहृत्य विसर्जितोऽसौ ।। इति स्त्यानार्द्धिनिद्रोदये प्रथममुदाहरणमिति ॥ १॥ अथ द्वितीयं मोदकोदाहरणमुच्यते, यथा- एकः कोऽपि साधुर्भिक्षा पर्यटन् कचिद् गृहे पटलकादिव्यवस्थापिता तिप्रचुरान्
१ पौद्गल-मोदक-दन्ताः कुलाल-बटशालभजने चैव । स्त्यानरेतान्युदाहरणानि भवन्ति ज्ञातव्यानि ॥ २३५ ॥ ३ ज. 'वत्तिनि ए'। ३ घ. छ. ज. 'श्चित् कृ। ४ क. ग. 'च समीक्ष्य'। ५५. छ. ' नपि प्र'।
सहस580amoralioreone
॥१३९॥
J
antema
For Don Pe Use Only
wMR.Janeitrary.org
Page #142
--------------------------------------------------------------------------
________________
विशेषा०
बृहद्वृत्तिः ।
॥१४॥
सुरभिस्निग्धमधुरमनोज्ञान् मोदकानद्राक्षीत् । तेन चावस्थितेन ते सुचिरमुद्दीक्षिताः। न च किमपि तन्मध्याल्लब्धम् । ततः सोऽप्यविच्छिन्नतदभिलाष एव सुष्वाप | स्त्यानर्द्धिनिद्रोदये च रजन्यां तद्गृहं गत्वा, स्फोटयित्वा कपाटानि, मोदकान् स्वेच्छया भक्षयित्वा, उद्वरितांस्तु पतद्ग्रहके क्षिप्त्वोपाश्रयमागत्य पतद्ग्रहकं स्थाने मुक्त्वा प्रसुप्तः । उत्थितेन च तथैवाऽऽलोचितं गुरूणाम् । ततः प्रत्युपेक्षणासमये भाजनादि प्रत्युपेक्षमाणेने साधुना पतद्ग्रहके दृष्टास्ते मोदकाः । ततो गुर्वादिभिर्जातोऽस्य स्त्यानर्द्धिनिद्रोदयः । तथैव च संघेन लिङ्गपाराश्चिकं दत्त्वाऽयमपि विसर्जितः ॥ २॥
दन्तोदाहरणं तृतीयमुच्यते,यथा- एकः साधुर्दिवा द्विरदेन खेदितः कथमपि पलाय्योपाश्रयमागतः । तं च दन्तिनं प्रत्यविच्छिभकोप एव निशि प्रसुप्तः । स्त्यानद्धिनिद्रोदयश्च जातः । तदुदये च वज्रऋषभनाराचसंहननवतः केशवार्धवलसंपन्नता समये निगद्यते । अतो नगरकपाटानि भक्त्वा मध्ये गत्वा तं हस्तिनं व्यापाद्य दन्तद्वयमुत्पाट्य स्खोपाश्रयद्वारे क्षिप्त्वा सुप्तः । प्रबुद्धेन च 'स्वमोऽयम् इत्यालोचितम् । दन्तदर्शने च ज्ञातः स्त्यानदिनिद्रोदयः। तथैव च लिङ्गं गृहीत्वा संघेन विसर्जितः॥३॥
फरुसगशब्देन समयप्रसिद्धया कुम्भकारोऽभिधीयते, तदुदाहरणं चतुर्थमुच्यते- एकः कुम्भकारो महति गच्छे प्रवजितः । | अन्यदा चै सुप्तस्याऽस्य स्त्यानद्धिनिद्रोदयो जातः । ततोऽसौ पूर्वं यथा मृत्तिकापिण्डानत्रोटयत् , तथा तदभ्यासादेव साधूनां शिरांसि त्रोटयित्वा कबन्धैः सहवैकान्ते उज्झाञ्चकार । ततः शेषाः केचन साधवोडपमृताः। प्रभाते च ज्ञातं सम्यगेव सर्वं तच्चेष्टितम् । संघेन तथैव विसर्जितः॥४॥
अथ वटशाखाभञ्जनोदाहरणं पश्चममुच्यते, यथा- कोऽपि साधुामान्तराद् गोचरचर्या विधाय प्रतिनिवृत्तः । स चौष्ण्याऽभिहतो भृतभाजनस्तृषितो बुभुक्षितश्छायार्थी मार्गस्थो वटवृक्षस्याऽधस्तादागच्छन्नतिनीचैर्वर्तिन्या तच्छाखया मस्तके घट्टितः, गाद च परितापितः, अव्यवच्छिन्नकोपश्च प्रसुप्तः । स्त्यानर्द्धिनिद्रोदये रात्रौ गत्वा बटशाखां भक्त्वोपाश्रयद्वारे क्षिप्त्वा पुनः प्रसुप्तः। 'स्वमो दृष्टः' इत्यालोचिते, स्त्यानयुदये च ज्ञाते लिङ्गापनयनतः संघेन विसर्जित इति ॥५।। एतान्युदाहरणानि विशेषतो निशीथादवसेयानि॥ इति गाथार्थः ॥ २३५॥
तदेवं ''गंतुं नेएण मणो संबज्झइ जग्गओ व सिमिणे वा' इत्यादिपूर्वपक्षगाथायाः प्रथमाधमपाकृतम् । सांपतं 'सिद्धमियं लोयम्मि वि अमुग्गत्थगओ मणो मे त्ति' एतदुत्तरार्धमपाकुर्वनाह-- १. 'नानि प्र'। २ ग. प. छ. ज. 'न तेन
साज , 'च प्रसुप्तस्य स्त्या' प.छ. 'च सुप्तस्य स्त्या' । ४ गाथा २१३ ।
॥१४॥
Educate
For Peso
Private Use Only
Page #143
--------------------------------------------------------------------------
________________
विशेषा.
बृहद्वृत्तिः ।
॥१४॥
जह देहत्थं चक्खं जं पइ चंदं गयं ति, न य सच्चं । रूढं मणसो वि तहा न य रूढी सच्चिया सव्वा ॥२३६॥
यथा देहस्थ देहादनिर्गतमपि चक्षुः 'चन्द्रं गतम्' इति जल्पति लोकः, न च तत् सत्यम् , चक्षुषो वह्न्यादिदर्शनेन तत्कृतदाहादि- प्रसङ्गात् । तथा तेनैव प्रकारेण मनसोपि निर्निबन्धनं रूढामिदं यदुत- 'अमुत्र गतं मे मनः' इति । रूढिरपि सत्या भविष्यति, इत्याहन च रूढिः सर्वाऽपि सत्या,
"वटे बटे वैश्रवणश्चत्वरे चत्वरे शिवः । पर्वते पर्वते रामः सर्वगो मधुसूदनः " ॥१॥ इत्यादिकाया असत्याया अपि दर्शनात् ॥ इति गाथार्थः ॥ २३६ ॥ तदेवं विषयमाप्तौ निषिद्धायां मनसोऽसद्ग्रहममुश्चन् परः प्रकारान्तरेणापि तस्य व्यञ्जनावग्रहं प्रतिपादयन्नाह--
विसयमसंपत्तस्स वि संविजइ वंजणोग्गहो मणसो । जमसंखेज्जसमइओ उवओगो जं च सव्वेसु ॥२३७॥ . समएसु मणोदव्वाइं गिण्हए वंजणं च दव्वाइं । भणियं संबंधो वा तेण तयं जुज्जए मणसो ॥ २३८ ॥
विषयं मेरुशिखरादिकं, जला-ऽनलादिकं वा, असंप्राप्तस्याऽपि- अमाप्य गृहृतोऽपीत्यर्थः । किम् ?, इत्याह- संविद्यते युज्यते व्यञ्जनावग्रहो मनसः । कुतः १, इत्याह- 'जमसंखेजसमइओ उवओगो' यद् यस्मात् कारणात् " च्यवमानो न जानाति" इत्यादिवचनात् सर्वोऽपि च्छद्मस्थोपयोगोऽसंख्येयैः समयनिर्दिष्टः सिद्धान्ते, न त्वेक-द्वयादिभिः । 'जं च सम्वेसु समयेसु मणोदव्वाई गिण्हए त्ति' यस्माच्च तेषूपयोगसंबन्धिष्वसंख्येयेषु समयेषु सर्वेष्वपि प्रत्येकमनन्तानि मनोद्रव्याणि मनोवर्गणाभ्यो गृह्णाति जीवः द्रव्याणि च, तत्संबन्धो वा मागत्रैव भवद्भिर्व्यञ्जनमुक्तम् , तेन कारणेन तत् तादृशं द्रव्यं, तत्संबन्धो वा व्यञ्जनं व्यञ्जनावग्रह इति हृदयम् , युज्यते घटते मनसः । यथा हि श्रोत्रादीन्द्रियेणाऽसंख्येयान् समयान् यावद् गृह्यमाणानि शब्दादिपरिणतद्रव्याणि, तत्संबन्धो वा व्यञ्जनावग्रहः, तथाऽत्राऽप्यसंख्येयसमयान् यावद् गृह्यमाणानां मनोद्रव्याणां, तत्संबन्धस्य वा किमिति पक्षपातं परित्यज्य मध्यस्थैभूत्वाऽसौ नेष्यते , इति किल परस्याभिप्रायः ॥ इति गाथाद्वयार्थः ।। २३७॥ २३८ ॥ तदेवं विषयासंघाप्तावपि भजयन्तरेण मनसो व्यञ्जनावग्रहः किल परेण समर्थितः, सांपत विषयसंप्राप्स्यापि तस्य तं समर्थयबाह
। यथा देहस्थं चक्षुर्यत् प्रति चन्द्र गतमिति, न च सत्यम् । रूदं मनसोऽपि तथा न च रूदिः सत्यिका (सत्या) सर्वा ॥ २३६ ॥ २ क. घ. छ. ज. 'मह'। ३ विषयमसंप्राप्तस्यापि संविचते व्यजनावग्रहो मनसः । यदसंख्येयसमयिक उपयोगो यच सर्वेषु ॥ २३७ ॥ समषेषु मनोहग्याणि गृहाति व्यञ्जनं च दग्याणि । भगितं संबन्धो वा तेन तद् युज्यते मनसः ॥ २३॥
॥१४॥
For Personal and P
enny
Page #144
--------------------------------------------------------------------------
________________
देहादणिग्गयस्स वि सकायहिययाइयं विचिंतयओ । नेयस्स वि संबंधे वंजणमेवं पि से जुत्तं ॥ २३९ ॥ विशेषा.
देहाच्छरीरादनिर्गतस्यापि मेर्वाद्यर्थमगतस्यापि स्वस्थानस्थितस्यापीत्यर्थः, स्वकाये, स्वकायस्य वा हृदयादिकमतीव संनि॥१४२॥
हितत्वादतिसंबद्धं विचिन्तयतो मनसो योऽसौ ज्ञेयेन स्वकायस्थितहृदयादिना संबन्धस्तत्माप्तिलक्षणस्तस्मिन्नपि ज्ञेयसंबन्धे, न केवलं 'विसयमसंपत्तस्स वि संविज्जई' इत्याद्यनन्तरसमर्थितन्यायेन, इत्यपिशब्दार्थः । किम् ?, इत्याह-व्यञ्जनं व्यञ्जनावग्रहः 'से' तस्य मनसो युक्तं घटमानकं, एवमप्यनयाऽपि प्राप्यकारित्वभङ्ग्या ।। इति गाथार्थः ।। २३९ ।।।
तदेवं प्रकारद्वयेन मनसः परेण व्यञ्जनावग्रहे समर्थिते, आचार्यः प्रथमपक्षे तावत् प्रतिविधानमाहगिज्झस्स वंजणाणं जं गहणं वंजणोग्गहो स मओ। गहणं मणो, न गिझं को भागो वंजणे तस्स? ॥ २४०॥
इह — विसयमसंपत्तस्स वि संविज्जइ' इत्यादि यत्परेणोक्तम् , तद् निजाऽसत्पा-परकीयसत्पक्षविषयप्रसर्पन्महाराग-द्वेषग्रहग्रस्तचेतोविह्वलतासूचकमेवावगन्तव्यम् , असंबद्धत्वात् , तथाहि- श्रोत्र-घ्राण-रसन-स्पर्शनेन्द्रियचतुष्टयग्राह्यस्य शब्द-गन्धादि विषयस्य संबन्धिनां व्यञ्जनानां तद्रूपपरिणतद्रव्याणां यद् ग्रहणमुपादानं स व्यञ्जनावग्रहोऽस्माकं संमत इति परोऽपि जानात्येव, प्रागसकृत्प्रतिपादितत्वादिति । मनोद्रव्याण्यपि तर्हि मनसो ग्राह्याणि भविष्यन्ति, ततस्तस्यापि श्रोत्रादेरिव व्यञ्जनावग्रहो भविष्यति; अतः किमसंबद्धम् , इत्याह- 'गहणं मणो न गिज्झं ति' चिन्ताद्रव्यरूपं मनो न ग्राह्यम् , किन्तु ग्रहणं गृह्यतेऽवगम्यते शब्दादिरोंऽनेनेति ग्रहणम्- अर्थपरिच्छेदे करणमित्यर्थः । ग्राह्यं तु मेरुशिखरादिकं मनसः सुमतीतमेव । अतः को भागः कोऽवसरस्तस्य करणभू
तस्य मनोद्रव्यराशेर्व्यञ्जने व्यञ्जनावग्रहेऽधिकृते ?, न कोऽपीत्यर्थः । ग्राह्यवस्तुग्रहणे हि ब्यञ्जनावग्रहो भवति । न च मनोद्रव्याणि ग्राह्यKN रूपतया गृह्यन्ते, किन्तु करणरूपतया, इत्यसंबद्धमेव पेरोक्तम् ॥ इति गाथार्थः ॥ २४ ॥
___या च 'देहदिणिग्गयस्स वि सकायहिययाइयं' इत्यादिना मनसः प्राप्यकारिता प्रोक्ता, साऽपि न युक्ता, खकायहृदयादिको हि मनसः स्वदेश एव, यच्च यस्मिन् देशेऽवतिष्ठते, तत् तेन संबद्धमेव भवति, कस्तत्र विवादः ?, किं हि नाम तद् वस्त्वस्ति, यदात्मदेशेनाऽसंबद्धम् । एवं हि प्राप्यकारितायामिष्यमाणायां सर्वमपि ज्ञानं प्राप्यकार्येव, सर्वस्याऽपि तस्य जीवेन संबद्धत्वात् । तस्मात् १ देहादनिर्गतस्यापि स्वकायहृदयादिकं विचिन्तयतः । ज्ञेयस्याऽपि संबन्धे व्यञ्जनमेवमपि तस्य युक्तम् ॥ २३९॥ २ गाथा २३७॥ ३ ग्राह्यस्य व्यञ्जनानां यद् ग्रहणं व्यानावग्रहः स मतः । ग्रहणं मनः, न माझं को भागो व्याने तस्य ॥२४०॥ ४ घ.छ.'क्षवि'। ५ क. ग. ज. 'परेणोक्त'। ६गाथा२३९॥
१४२॥
Jan Education Internat
For Personal and Private Use Only
www.jaineitrary.ary
Page #145
--------------------------------------------------------------------------
________________
बृहद्वात्तिः।
पारिशेष्याद् बाह्यार्थापेक्षयैव प्राप्यकारित्वा-आप्यकारित्वचिन्ता युक्ता । स च मनसाप्राप्त एवं गृह्यते, इति न तत्र व्यभिचारः । भवतु विशेषा०वा मनसः स्वकीयहृदयादिचिन्तायां प्राप्यकारिता, तथापि न तस्य व्यञ्जनावग्रहसंभव इति दर्शयन्नाह॥१४३॥
तेइसचिन्तणे होज वंजणं जइ तओ न समयम्मि। पढमे चेव तमत्थं गेण्हेज न वंजणं तम्हा ॥२४॥
स चासौ स्वकायहृदयादिदेशश्च तस्य चिन्तनं तस्मिन् सति स्याद् मनसो व्यञ्जनं व्यञ्जनावग्रहः । यदि किम् ?, इत्याह'जइ तओ न समयम्मि पढमे चेव तमत्थं गेण्हेज त्ति' यदि तद् मनः प्रथम एव समये तं स्वकीयहृदयादिकमर्थं न गृह्णीयाद् नावगच्छेदिति । एतच्च नास्ति, यस्माद् मनसः प्रथमसमय एवार्थाऽवग्रहः समुत्पद्यते, न तु श्रोत्रादीन्द्रियस्येव प्रथमं व्यञ्जनावग्रहः, तस्य हि क्षयोपशमापाटवेन प्रथममर्थानुपलब्धिकालसंभवाद् युक्तो व्यञ्जनावग्रहः, मनसस्तु पटुक्षयोपशमत्वाच्चक्षुरिन्द्रियस्येवाऽानुपलम्भकालस्यासंभवेन प्रथममेवाऽर्थावग्रह एवोपजायते । अत्र प्रयोगः- इह यस्य ज्ञेयसंवन्ये सत्यप्यनुपलब्धिकालो नास्ति न तस्य व्यञ्जनावग्रहो दृष्टः, यथा चक्षुषः, नास्ति चार्थसंबन्धे सत्यनुपलब्धिकालो मनसः, तस्माद् न तस्य व्यञ्जनावग्रहः, यत्र स्वयमभ्युपगम्यते न तस्य ज्ञेयसबन्धे सत्यनुपलब्धिकालासंभवः, यथा श्रोत्रस्येति व्यतिरेकः । तदेवं परोक्तपक्षद्वयेऽपि मनसो व्यञ्जनावग्रहं निराकृत्योपसंहरति- 'न बंजणं तम्ह त्ति' तस्मादुक्तप्रकारेण मनसो न व्यञ्जनावग्रहसंभवः ।। इति गाथार्थः ॥ २४१ ॥ कस्माद् न मनसो व्यञ्जनावग्रह इत्याशयावार्थे विशेषवतीमुपपत्तिमाह
सैमए समए गिण्हइ दव्वाइं जेण मुणइ य तमत्थं । जं चिंदिओपओगे वि वंजणावग्गहेऽतीते ॥२४२॥ होइ मणोवावारो पढमाओ चेव तेण समयाओ। होइ तदत्थग्गहणं तदण्णहा न प्पवत्तेज्जा ॥ २४३ ॥ 'समए समए त्ति' प्रतिसमयमित्यर्थः, इदमुक्तं भवति- मनोद्रव्यग्रहणशक्तिसंपन्नो जीवः कस्यचिदर्थस्य चिन्तावसरे प्रतिसमयं मनोद्रव्याणि गृह्णाति, तं च चिन्तनीयमर्थ प्रतिसमयं 'मुणइ त्ति' जानाति येन कारणेन, तेन प्रथमसमयादेव भवति तस्या चिन्तनीयार्थस्य ग्रहणमिति द्वितीयगाथायां संबन्धः, प्रथमसमयादेवार्थावबोधः प्रवर्तत इत्यर्थः, अर्थानुपलब्धिकालस्त्वेकोऽपि समयो
१ तद्देशचिन्तने भवेद् व्यजनं यदि ततो न समये । प्रथम एव तमथै गृहीयाद् न व्यञ्जनं तस्मात् ॥ २४॥ २ समये समये गृह्णाति बन्याणि येन जानाति च तदर्थम् । यश्चिन्द्रियोपयोगेऽपि व्यञ्जनावग्रहेऽतीते ॥ २४२ ॥ भवति मनोव्यापारः प्रथमादेव तेन समयात् । भवति तदर्थग्रहणं तदन्यथा ने प्रवर्तेत ॥ २३ ॥
॥१४३॥
Page #146
--------------------------------------------------------------------------
________________
E
बृहदार
ER नास्ति, अतो न मनसो व्यञ्जनावग्रहसंभव इति भावः ।। आह-नन्वपवरकादिव्यवस्थितो यदेन्द्रियव्यापाररहितः केवलेन मनसाऽर्थान् विशेषा०पर्यालोचयति, तदा मा भूद् मनसो व्यञ्जनावग्रहः, यस्तु श्रोत्रादीन्द्रियव्यापारे मनसोऽपि व्यापारस्तत्र प्रथममनुपलब्धिकालस्य भवद्भि-
रपीप्यमाणत्वात् किमिति' व्यञ्जनाद् मनसो व्यञ्जनावग्रहो नेष्यते ?, इत्याशङ्कयाह- 'जं चिंदिओवओगे वि वंजणावग्गहेऽतीते होइन ॥१४४॥
मणोवावारो ति' यच्च यस्माच्च कारणादिन्द्रियस्य श्रोत्रादेरुपयोगेऽपि शब्दाद्यर्थग्रहणकालेऽपीत्यर्थः । किम् ?, इत्याह-व्यञ्जनावग्रहेऽतीते सति मनसो व्यापारो भवति । इदमुक्तं भवति-न केवलं मनसः केवलावस्थायां प्रथममर्थावग्रह एव व्यापारः, किन्तु श्रोत्रादीन्द्रियोपयोगकालेऽपि तथैव, तथाहि-श्रोत्रादीन्द्रियोपयोगकाले व्याप्रियते मनः, केवलमर्थावग्रहादेवाऽऽरभ्य, न तु व्यञ्जनावग्रहकाले । अर्थाऽनवबोधस्वरूपो हि व्यञ्जनावग्रहः, तदवबोधकारणमात्रत्वात् तस्य, मनस्त्वर्थावबोधरूपमेव, मनुतेऽर्थान् , मन्यन्तेऽर्था अनेनेति वा मन इति सान्वाभिधानाभिधेयत्वात् । किञ्च, यदि व्यञ्जनावग्रहकाले मनसो व्यापारः स्यात् तदा तस्यापि व्यञ्जनावग्रहसद्भावादष्टाविंशतिभेदभिन्नता मतेर्विशीर्येत । तस्मात् प्रथमसमयादेव तस्याऽर्थग्रहणमेष्टव्यम् । अन्यथा किमत्र बाधकम् , इत्याह- 'तदण्णहा न
प्पवत्तेज त्ति' यदि हि प्रथमसमयादेव मनसोऽर्थग्रहणं नेष्यते तदा तस्य मनस्त्वेन प्रवृत्तिरेव न स्यादनुत्पत्तिरेव स्यादित्यर्थः । यथा EF हि स्वाभिधेयानर्थान् भाषमाणैव भाषा भवति, नान्यथा; यथा च स्वविषयभूताननवबुध्यमानान्येवाऽवध्यादिज्ञानान्यात्मलाभं
लभन्ते, अन्यथा तेषामप्रवृत्तिरेव स्यादिति; एवं स्वविषयभूतानान् प्रथमसमयादारभ्य मन्वानमेव मनो भवति, अन्यथाऽवध्यादिवत्
तस्य प्रवृत्तिरेव न स्यात् । तस्मात् तस्याऽनुपलब्धिकाली नास्ति, तथा च न व्यञ्जनावग्रह इति स्थितम् । न चैतत् स्वमनीपिकया ERE युक्तिमात्रमुच्यते, आगमेऽपि व्यञ्जनावग्रहेऽतीत एवेन्द्रियोपयोगे मनसो व्यापाराभिधानात् , तथा चोक्तं कल्पभाष्ये
“अत्थाणंतरचारी चित्तं निययं तिकालविसयं ति । अत्थे उ पड्डुप्पण्णे विणिओगं इंदियं लहइ " ॥ १ ॥ अत्र व्याख्या- अर्थे शब्दादौ श्रोत्रादीन्द्रियव्यञ्जनावग्रहेण गृहीतेऽनन्तरमावग्रहादारभ्य चरति प्रवर्तते, इत्यर्थानन्तरचारि मनः, न तु व्यञ्जनावग्रहकाले तस्य प्रवृत्तिरिति भावः, त्रिकालविषयं चित्तं, सांपतकालविषयं त्विन्द्रियम् । इत्यलं विस्तरेण ॥ इति गाथार्थः ॥ २४२ ॥ २४३ ॥ अमुमेव मनसोऽनुपलब्धिकालासंभव सयुक्तिकं भावयन्नाह
१ क. ग. 'तिम'। २ क. ग. 'ऽर्थावग्रहो ने। ३ क. ग. 'स्मान्न त'। ४ क. ग. 'खोऽस्ति' । ५ अर्थानन्तरचारि चित्तं नियतं त्रिकालविषयमित्ति । अर्थे तु प्रत्युत्पन्ने विनियोगमिन्द्रियं लभते ॥१॥
॥१४४॥
For Personal and
Use Only
Page #147
--------------------------------------------------------------------------
________________
विशेषा
॥१४५॥
नेयोउ च्चिय जसो लहइ सरूवं पईव-सदं व्य । तेणाजुत्तं तस्सासंकप्पियवंजणग्गहणं ॥२४॥ प्रतिसमयं मनोद्रव्योपादानं ज्ञेयार्थावगमश्च मनसो भवत्येव, न पुनस्तस्यानुपलब्धिकालः संभवति । कुतः?, इत्याह- यद् यस्मात् कारणात् 'सो' इति प्राकृतशैल्या नपुंसकमपि मनः संवध्यते, ज्ञायत इति ज्ञेयं चिन्तनीयं वस्तु तस्मादेव, स्वरूपमात्मसत्तास्वभावं लभते, नाज्यतः। ततो यदि तदेव ज्ञेयं नावगच्छेत् , तर्हि तस्मादुत्पत्तिरप्यस्य कथं स्यात् । इदमुक्तं भवति-सान्वर्थक्रियावाचकशब्दाभिघेया हि मनाप्रभृतयः, तद्यथा-मनुते मन्यते वा मनः, प्रदीपयतीति प्रदीपः, शब्दयति भाषत इति शब्दः, दहतीति दहनः, तपतीति तपनः । एतानि च विशिष्टक्रियाकर्तृत्वप्रधानानि मनाप्रभृतिवस्तूनि यदि तामेवार्थमनन-प्रदीपन-भाषणादिकामर्थक्रिया न कुयुः, तदा तेषां स्वरूपहानिरेव स्यात् । तस्माद् यथा प्रदीपनीय-शब्दनीयवस्त्वपेक्षया प्रदीप-शब्दाभिधानप्रवृत्तेः प्रदीप-शब्दयोरर्थयोरप्रदीपनमशब्दनं चायुक्तम् तथा मनसोऽपि मननीयवस्तुमननादेव मनोऽभिधानप्रवृत्तेस्तदमननं न युक्तम् । ततः किम् ?, इत्याह-येनैवम् , तेनाऽसंकल्पितान्यनालोचितानि, अनवगतानीति यावत् , असंकल्पितानि च तानि शब्दादिविषयभावेन परिणतद्रव्यरूपाणि व्यञ्जनानि च तेषां ग्रहणमसंकल्पितव्यञ्जनग्रहणं तस्य मनसोऽयुक्तम् , किन्तु संकल्पितानामेवार्थावग्रहद्वारेणाऽवगतानामेव तेषां शब्दादिद्रव्याणां ग्रहणं युक्तम् । तस्माद् न मनसोऽनुपलब्धिकालोऽस्ति, तथा च न व्यञ्जनावग्रहसंभव इति स्थितम् ॥ इति गाथार्थः॥२४४॥ तदेवं नयन-मनसोविस्तरेणाप्राप्यकारितायां साधितायां नयनपक्षेऽद्यापि दूषणशेषमुत्पश्यन् परः पाह
जइ नयणिन्दियमत्तकारि सव्वं न गिण्हए कम्हा ? । गहणा-गहणं किंकयमपत्तविसयत्तसामन्ने? ॥२४५॥
याक्तयुक्तिभ्यो नयनेन्द्रियमप्राप्तकारि, तर्हि सर्वमपि त्रिभुवनान्तर्वर्तिवस्तुनिकुरम्ब कस्माद् न गृह्णाति, अप्राप्तत्वाविशेषात् । एतदेव व्यक्तीकरोति- अप्राप्तो विषयो यस्य तदप्राप्तविषयं तद्भावोप्राप्तविषयत्वं तस्मिन् सामान्येऽविशिष्टेऽपि सति यदिदं कस्यचिदर्थस्य ग्रहण, कस्यचिदग्रहणं, तत् किंकृतं किंनिबन्धनम् ?, नेह किञ्चिद् निबन्धनमुत्पश्याम इति भावः ।। इति गाथार्थः ॥ २४५ ॥ तस्माद् भो आचार्य । तस्य चक्षुषो विषयपरिमाणाऽनयत्यमामोति, इत्येतदेवाहविसयपरिमाणमनिययमपत्तविसयं ति तस्स मणसो व्व । मणसो वि विसयनियमो न कमइ जओ स सव्वत्थ॥२४६॥
१ शेवादेव यत् तल्भते स्वरूपं प्रदीप-शब्दाविव । तेनाऽयुक्तं तस्याऽसंकल्पितव्यजनग्रहणम् ॥ २४४ ॥ २ घ. छ. ज. 'णं म'। ३ यदि नयनेन्द्रियमप्राप्तकारि, सर्वं न गृह्णाति कस्मात् । ग्रहणा-ऽग्रहणं किंकृतमप्राप्तविषयत्वसामान्ये ॥ २४५ ॥ ४ विषयपरिमाणमनियतमप्राप्तविषयामिति तस्य मनस इव । मनसोऽपि विषयनियमो न कामति यतः स सर्वत्र ।। २४६ ।।
॥१४५॥
Jan Education interna
For Personal and Private Use Only
www.jaineltrary.ory
Page #148
--------------------------------------------------------------------------
________________
विशेषा०
॥१४६॥
Jain Education Internat
विषयस्य ग्राह्यस्य परिमाणमनियतमपरिमितं प्राप्नोति तस्य चक्षुष इति प्रतिज्ञा । हेतुमाह- अप्राप्तविषयमिति कृत्वा । मनस इवेति दृष्टान्तः । प्रयोगः- यदप्राप्तमपि विषयं परिच्छिनत्ति, न तस्य तत्परिमाणं युक्तं यथा मनसः, अप्राप्तं च विषययवगच्छति चक्षुः, तस्माद् न तस्य तत्परिमाणं युक्तमिति । अथेह प्रयोगे दृष्टान्तस्य साध्यवैकल्यं सूरिरुपदर्शयति- मनसो दृष्टान्तीकृतस्याऽयाप्यकारिणो विषयनियमो 'अस्त्येव' इति शेषः । कुतः १, इत्याह- यतः स त्ति' तदपि मनः सर्वेष्वप्यर्थेषु न क्रामति न प्रसरति ।। इति गाथार्थः ॥ २४६ ॥ तथाहि-
अत्थाहणे मुज्झइ सन्तेसु वि केवलाइगम्मेसु । तं किंकयमग्गहणं अपत्तकारित्तसामन्ने ? ॥ २४७ ॥ अर्था एव मतेर्दुष्प्रवेशत्वाद् गहनानि अर्थगहनानि तेष्वनन्तेषु सत्स्वपि विद्यमानेष्वपि । कथंभूतेषु ? इत्याह- केवलं केवलज्ञानमादिर्येषामवधिज्ञाना-ऽऽगमादीनां तानि केवलादीनि तैर्गम्यन्ते ज्ञायन्ते केवलादिगम्यानि तेषु । एवंभूतेष्वर्थगहनेषु सत्स्वपि कस्यचिद् मन्दमतेजन्तोर्मनो मुह्यति कुण्ठीभवति तदवगमाय न प्रभवति- तान् गहनभूतान् केवलादिगम्यान् सतोऽप्यर्थान् न गृह्णातीति तात्पर्यम् । तदत्राहमपि भवन्तं पृच्छामि तदेतद् मनसोऽग्रहणमर्थानां किंकृतं किंनिबन्धनम् १, अप्राप्तकारित्वसामान्येऽप्राप्तकारित्वे तुल्येऽपीत्यर्थः । तस्माद् मनसोऽपि विषयपरिमाणसद्भावादनन्तरगाथोक्तः साध्यविकलो दृष्टान्त इति स्थितम् || इति गाथार्थः || २४७॥
तत् किंकृतमग्रहणमर्थानाम् १, इत्यत्र पराभिप्रायमाशङ्कमानः प्राह
कैम्मोदयओ व्व सहावओ व्व नणु लोयणे वि तं तुल्लं । तुल्लो व उवालंभो एसो संपत्तविस वि ॥ २४८॥
यत् केषांचिदर्थानां मनसोऽग्रहणं तत् 'तदावरणकर्मोदयाद् वा, स्वभावाद् वा ' इति परो ब्रूयात् । नन्वेतल्लोचनेऽपि तुल्यम्, यतस्तदप्यप्राप्यकारित्वे तुल्येऽपि कर्मोदयात्, तत्स्वाभाव्याद् वा कांश्चिदेवाऽर्थान् गृह्णाति न सर्वानिति । तदेवं नयनस्याप्राप्यकारित्वेऽतिप्रसङ्गलक्षणं प्राप्तकारिवादिना यद् दूषणमुक्तं तत्परिहृतम् । अथवा यो नयन- मनसोः प्राप्यकारित्वमभ्युपगच्छति, तस्याऽप्येतद् दूषणमापतत्येव यश्च द्वयोर्दूषणं न तदेकस्य दातुमुचितम् इत्येतच्चेतसि निधाय प्राह- 'तुल्लो वेत्यादि ' वेत्यथवा, एषोऽतिप्रसङ्गलक्षण उपालम्भस्तुल्यः समानः । क्व १, इत्याह- संप्राप्तविषयत्वेऽपि नयन-मनसोरभ्युपगम्यमाने, तथाहि - अत्रापि शक्यते वक्तुम् - यदि
१. ज. 'सोऽपि दृ' २ अर्थगहनेषु मुझति सत्स्वपि केवलादिगम्येषु । तत् किंकृतमग्रहणमप्राप्तकारित्वसामान्ये १ ॥ २४७ ॥ ३ कर्मोदयतो वा स्वभावतो वा लोचनेऽपि ननु तत् तुल्यम् । तुल्यो वोपालम्भ एष संप्राप्तविषयेऽपि ॥ २४८ ॥
For Personal and Private Use Only
बृहद्वृत्तिः ।
॥१४६॥
Page #149
--------------------------------------------------------------------------
________________
विशेषा० ॥१४॥
प्राप्तमर्थं गृह्णाति चक्षुः, तर्हि अतिसंप्राप्तानप्यञ्जन-रजो-मल-शलाकादीन् कस्माद् न गृह्णाति ? । मनोऽपि प्राप्तान् सर्वानपि किमिति न गृह्णाति ? । गृह्णात्येवेति चेत् । न, ग्रहणाऽनवस्थानप्रसङ्गात्- यावद्धि घटं गृह्णाति, तावत् पटं, शङ्ख, शुक्तिकादीन वा किमिति न बृहदा गृह्णातीति । घटमाप्तिकाले पटादयो न प्राप्ता एवेति चेत् । न, तदप्राप्ती हेत्वभावात् , तथाहि-न तावत् कट-कुट्यादयस्तेषामावारकाः, तैरन्तरितानामपि मेर्वादीनां मनसा परिच्छेदानुभवात् । कर्मोदयात , स्वभावाद् वा प्रतिनियतमेव मनः प्राप्नोतीति चेत् । नन्वेतदपाप्यकारिणो नयनस्यापि समानम् ॥ इति गाथार्थः ।। २४८ ॥
तस्मात् किमिह स्थितम् ?, इत्याह
सामत्थाभावाओ मणो व्व विसयपरओ न गिण्हेइ । कम्मक्खओवसमओ साणुग्गहओ य सामत्थं ॥२४९॥
चक्षुः सिद्धान्तनिर्दिष्टनियतविषयपरिमाणात् परतो न गृह्णातीति प्रतिज्ञा, चक्षुषश्चेह कर्तृवं प्रक्रमाद् गम्यते, सामर्थ्याभावादिति हेतुः, मनोवदिति दृष्टान्तः । सामर्थ्याभावोऽपि नयनस्य कुतः?, इत्याह- 'कम्मक्खओ इत्यादि' तदावरणकर्मक्षयोपशमात्, वानुग्रहतश्चाआप्तेष्वपि केषुचिद् योग्यदेशावस्थितेष्वर्थेषु परिच्छेदे कर्तव्ये लोचनस्य सामर्थ्य भवति । इदमुक्तं भवति- अप्राप्तत्वे समानेऽपि येष्वर्थेषु ग्रहणविषये कर्मक्षयोपशमो भवति, तथा, स्वस्याऽऽत्मनो रूपा-ऽऽलोक-मनस्कारादिसामग्याः सकाशादनुग्रहो भवति, तेष्वथेषु कर्मक्षयोपशमसद्भावात् , शेषसामग्यनुग्रहाच्च चक्षुषो ग्रहणसामर्थ्य भवति । येषु त्वर्थेषु ग्रहणविषये कर्मक्षयोपशमः, शेषसामग्यनुग्रहश्च नास्ति, तेषु तस्य सामर्थ्याभाव इत्यर्थापत्तित एव गम्यते । तस्माद् व्यवस्थितमप्राप्यकारित्वं नयन-मनसोः । ततश्च स्पर्शनरसन-प्राण-श्रोत्रभेदाचतुर्विध एव व्यजनावग्रह इति स्थितम् ॥ इति गाथार्थः ॥ २४९ ॥ तदेवं 'नयण-मणोवजिदियभेयाओ वंजणोग्गहो चउहा' इत्येतत् समर्थितम् । अथ प्रकृतमुच्यते
तत्थोग्गहो (रूवो गहणं जं होई वंजण-त्थाणं । वंजणओ य जमत्थो तेणाईए तयं बोच्छं ' ॥ १ ॥ इत्यादिना ग्रन्थेन प्रतिज्ञातव्यञ्जनावग्रहस्वरूपप्रतिपादनं चेह प्रकृतम् । तस्य च व्यञ्जनावग्रहस्य स्वरूपं नन्यध्ययनागमसूत्रे प्रतिबोधक-मल्लकोदाहरणाभ्यां प्रतिपादितम् , तद्यथा१ क. ग. 'हणेऽन' । २ घ. छ. ज. 'घट' । ३ सामर्थ्याभावाद् मन इव विषयपरतो न गृह्णाति । कर्मक्षयोपशमतः सानुमहतच सामर्थ्यम् ॥ २४९ ॥
10-1॥१४७॥ ४ गाथा २०४ । ५ गाथा १९३.६ क, ग. प. छ. ज. 'दुभेओ ग' ७ क. ग. घ. छ. ज. 'होज ।
Jan Education interna
For Personal and ve
r y
Page #150
--------------------------------------------------------------------------
________________
__“ 'बंजणोग्गहस्स परूवणं करिस्सामि पडिबोहगदिटुंतेणं, मल्लगदिटुंतेण य। से किं तं पडिबोहगदिटुंतेणं । पडिबोहगदिट्ठतेणं से- जहानामए विशेषा० केइ पुरिसे कंचि पुरिसं सुत्तं पडिबोहेज्जा-अमुग! अमुग ! त्ति । तत्थ य चोयए पण्णवर्ग एवं वयासी-किं एगसमयपविट्ठा पोग्गला गहणमागच्छंति, जावर
B संखेज-असंखेजसमयपविट्ठा पोग्गला गहणमागच्छंति ! । एवं वयंतं चोयगं पन्नवए एवं बयासी- नो एगसमयपविट्ठा पोम्गला गहणमागच्छंति, जाव ॥१४८॥
नो संखेजसमयपविट्ठा पोग्गमा गहणमागच्छंति, असंखेज्जसमयपविट्ठा पोग्गला गहणमागच्छंति, सेत्तं पडिबोहगदिट्ठतेणं । से किं तं मल्लगदिट्ठतेणं ।। मल्लगदिट्ठतेणं से- जहानामए केइ पुरिसे आवागसीसाओ मल्लगं गहाय तत्थेगं उदगबिंदु पक्खिवेज्जा, से नढे । अन्ने वि पक्खित्ते, से वि नटे। अन्ने । | वि पक्खित्ते, से वि नढे । एवं पक्खिप्पमाणेसु पक्खिप्पमाणेसु होही से उदगबिंदू जेणं तं मल्लगं रौवेहिति। होही से उदगबिंदू जेणं तंसि मल्लगंसि ठाइति । होही से उदगविंदू जेणं तं मल्लगं भरेहिति । होही से उदगबिन्दू जेणं तंसि मल्लगंसि न वाहिहिति। होही से उद्गबिंदू जे णं तं मल्लग पवाहेहिति । एवामेव पक्खिप्पमाणेहिं अणंतेहिं पोग्गलेहिं जाहे तं वंजषं पूरियं होइ, ताहे हुं ति करेइ, नो चेव णं जाणइ के वेस सद्दाइ" इत्यादि ।
इदं सूत्र नन्दिविवरण एवेत्थं व्याख्यातम् , तद्यथा
"प्रतिबोधक-मल्लकदृष्टान्ताभ्यां व्यञ्जनावग्रहस्य प्ररूपणं करिष्यामि । तत्र प्रतिबोधयतीति प्रतिबोधकः स एव दृष्टान्तस्तेन, तद्यथा नाम कश्चिदनिर्दिष्टस्वरूपः पुरुषः कश्चिदन्यमनिर्दिष्टस्वरूपमेव पुरुषं सुप्तं सन्तं प्रतिबोधयेत् । कथम् !, इत्याह- अमुक ! अमुक ! इति । तत्र प्रेरकः प्रज्ञापकमेवैमवादीत्- किमेकसमयप्रविष्टा इत्यादि । एवं वदन्त प्रेरक प्रज्ञापक एवमुक्तवान्- नो एकसमयप्रविष्टा इत्यादि, प्रकटाथै, यावद् नोसंख्येयसमयप्रविष्टाः पुद्गला ग्रहणमागच्छन्ति । नवरमयं प्रतिषेधः शब्दविज्ञानग्राह्यतामधिकृत्य बेदितव्यः, शब्दविज्ञानजनकत्वेनेत्यर्थः, अन्यथा संबन्धमात्रमधिकृत्य प्रथमसमयादारभ्य पुद्गला प्रहणमागच्छन्त्येव । ' असंखेज्ज इत्यादि ' प्रतिसमयप्रवेशेनाऽऽदित आरभ्याऽसंख्येयसमयैः प्रविष्टा असंख्येय
सस
Bara
व्यञ्जनावग्रहस्य प्ररूपणां करिष्यामि प्रतिबोधकदृष्टान्तेन, मल्लकदृष्टान्तेन च । अथ केयं प्रतिबोधकरष्टान्तेन ? । प्रतिवोधकष्टान्तेन सा- यथानामा कश्चित् पुरुषः कञ्चित् पुरुषं सुप्त प्रतियोधयेत्- अमुक ! अमुक! इति । तत्र च चोदकः प्रज्ञापकमेवमवादीत्- किमेकसमयप्रविष्टाः पुद्रला ग्रहणमागच्छन्ति, यावत्संख्येवा-ऽसंख्येयसमयप्रविष्टाः पुनला प्रहणमागच्छन्ति । एवं वदन्तं चोदकं प्रज्ञापक एवमवादील- नो एकसमयप्रविष्टाः पुगला प्रहणमागच्छन्ति यावद् नो संख्येयसमयप्रविष्टाः पुनला प्रहणमागच्छान्ति, असंख्येयसमयप्रविष्टाः पुद्गला ग्रहणमागच्छन्ति, सेयं प्रतिबोधकदृष्टान्तेन । अथ केयं मल्लकदृष्टान्तेन । मल्लगदृष्टान्तेन
सा- बथानामा कश्चित् पुरुष आपाकशिरसो मल्लकं गृहीत्वा तत्रैकमुदकबिन्दुं प्रक्षिपेत् , स नष्टः । अन्योऽपि प्रक्षिप्तः, सोऽपि नष्टः । अन्योऽपि प्रक्षिप्तः सोऽपि नष्टः । 4 एवं प्रक्षिप्यमाणेषु प्रक्षिप्यमाणेषु भविष्पति स उदकविन्दुर्यतं मल्लकमाईतां नेष्यति । भविष्यति स उदकविन्दुर्यस्तस्मिन् मल्लके स्थास्पति । भविष्यति स उदक-म
विन्दुर्यस्तं मल्लकं भरिष्यति । भविष्यति स उदकविन्दुर्यस्तस्मिन् मल्लके न स्थास्यति । भविष्यति स उदकविन्दुर्यस्तं मल्लक प्लावयिष्यति । एवमेव प्रक्षिप्यमाणैरनन्तैः पुद्गलैयंदा तद् व्यजनं पूरितं भवति तदा '' इति करोति, नो चेद जानाति क एष शब्दादिः ॥ २ देश्योऽयं शब्द भाइ करणार्थे । ३ क. ग, 'वं सम' ।
॥१४८॥
PARA
For Personal and Private Use Only
Page #151
--------------------------------------------------------------------------
________________
SBSee
समयप्रविष्टाः पुद्गलाः शब्दद्रव्यविशेषा ग्रहणमागच्छन्ति- अर्थावग्रहज्ञानहेतवो भवन्तीति भावः । इह च चरमसमयप्रविष्टा एव विज्ञानजनकत्वेन विशेषा. | ग्रहणमागच्छन्ति, तदन्ये त्विन्द्रियक्षयोपशमोपकारिण इति सर्वेषां सामान्येन ग्रहणमुक्तम् । सेयं प्रतिबोधकदृष्टान्तेन — व्यञ्जनावग्रहप्ररूपणा ' इति बृहद्वत्तिः ।
वाक्यशेषः ॥ अथ केयं मल्लकदृष्टान्तेन प्ररूपणा !। तद्यथा नाम कश्चित् पुरुष आपाकशिरसो मल्लकं शरावं गृहीत्वा, रूक्षमिदं भवतीत्यस्य ग्रहणम् । ४ ॥१४९॥ तत्र मल्लके एकमुदकबिन्दं प्रक्षिपेत् स नष्टः, तत्रैव तद्भावपरिणतिमापन्न इत्यर्थः । शेष सुबोधं यावद 'जेणं तं मल्लगं'। 'रावेहिति' आर्द्रतां
नेष्यति । शेष सुबांधम् । नवरं 'पवाहहिति ' प्लावयिष्यतीति । एवामेवेत्यादि । अतिबहुत्वात् प्रतिसमयमनन्तैः शब्दपुद्गलैर्यदा तद् व्यञ्जनं पूरितं स भवति, तदा 'हु' इति करोति तमर्थ गृह्णातीत्युक्तं भवति । किंविशिष्टं !, नाम-जात्यादिकल्पनारहितम् । अत एवाऽऽह- 'नो चेव णं जाणइ के वेस सद्दाइ त्ति' न पुनरेवं जानाति क एष शब्दादिः ! इत्यर्थः । एवं च सति सामयिकत्वादविग्रहस्य, अर्थावग्रहात् पूर्व सर्वो व्यञ्जनावग्रहः " ॥ । तदेवमस्य व्यञ्जनावग्रहस्वरूपपातपादकस्य नन्दिसूत्रस्य शेषं प्रायः सुगममिति मन्यमानो भाष्यकारः “जाहे तं वंजणं पूरियं होइ" ।। E- इत्येतद् व्याचिख्यासुराह
तोएण मल्लगं पिव वंजणमापूरियं ति जं भणियं । तं दव्वमिंदियं वा तस्संजोगो व न विरुद्धं ॥ २५०॥
'जं भणिय' यदुक्तं नन्दिसूत्रकारेण । किं तत् ?, इत्याह- व्यञ्जनमापूरितमिति । केन किंवत् ?, इत्याह- तोयेन जलेन मल्लकं । शरावं तद्वदिति । तस्मिन् सूत्रकारभणिते व्यञ्जनं द्रव्यं गृह्यते, इन्द्रियं वा, तयोवी द्रव्ये-न्द्रिययोः संयोगः संबन्धः, इति सर्वथाऽप्यवि| रोधः । इदमुक्तं भवति-व्यञ्जनशब्देन शब्दादिविषयपरिणतपुद्गलसमूहरूपं द्रव्यं, श्रोत्रादीन्द्रियं वा, द्रव्ये-न्द्रिययोः संबन्धो वा गृह्यते, न कश्चिद् विरोधः, व्यज्यते प्रकटीक्रियते विवक्षितोऽर्थोऽनेनेति व्यञ्जनमित्यस्या व्युत्पत्तेः सर्वत्र घटनात् ।। इति गाथार्थः ।। २५० ॥ केवलं द्रव्यादिषु त्रिष्वपि व्यञ्जनशब्दवाच्येषु प्रत्यकमापूरितत्वे विशेषो द्रष्टव्यः । कः पुनरसौ ?, इत्याह
देव्वं माणं पूरियमिदियमापूरियं तहा दोण्हं । अवरोप्परसंसग्गो जया तया गिण्हइ तमत्थं ॥ २५१ ॥ 'दव्वं ति' यदा द्रव्यं व्यञ्जनमधिक्रियते तदा "जाहे तं वंजणं पूरियं होई" इति कोऽर्थः? इत्याह-'माणं पूरियं ति' मानं तस्य शब्दादिद्रव्यस्य प्रमाण प्रतिसमयप्रवेशेन प्रभूतीकृतत्वात् स्वप्रमाणमानीतं प्रकर्षमुपनीतं खग्राहकज्ञानजनने समर्थीकृतमिति यावत् । यदा
5॥१४९॥ , यदा तयजनं पूरितं भवति । र तोयेन मल्लकमिव व्यञ्जनमापूरितमिति यद् भणितम् । तद् व्यमिन्द्रियं वा तत्संयोगो वा न विरुवम् ॥२५०॥ ३ ज. 'कदाचिद्'। ४ दण्यं मानं पूरितमिन्द्रियमापूरितं तथा द्वयोः । परस्परसंसर्गो यदा तदा गृहाति तमर्थम् ॥ २५ ॥
For Dod
ony
M
arw.jaineltrary.org
Page #152
--------------------------------------------------------------------------
________________
S
सन
विशेषा.
॥१५०॥
त्विन्द्रियमितीन्द्रियं व्यञ्जनमधिक्रियते तदा" जाहे तं वंजणं पूरियं होई" इति किमुक्तं भवति? , इत्याह-'आपूरियं ति' आपूरितं शि व्याप्तं भृतं वासितमित्यर्थः । तथा, 'दोण्हं ति' द्वयोः श्रोत्रादीन्द्रिय-शब्दादिपरिणतद्रव्ययोः संबन्धो यदि व्यञ्जनमधिक्रियते तदा "जाहे बृह तं बंजणं परियं होई', इति किमुक्तं भवति?, इत्याह-'अवरोप्परसंसग्गो त्ति' सम्यक् सर्गो योगः संसर्गः सम्यक् संबन्ध इत्यर्थः, इदमत्र हृदयम्-अस्मिन् पक्षे यदा तयोरिन्द्रिय-द्रव्ययोः परस्परमतीव संयुक्तताऽनुषक्तताऽङ्गाङ्गिभावेन परिणामो भवति, तदा प्रस्तुतसंबन्धलक्षण व्यञ्जनमापूरितं भवतीत्युच्यत इति । 'जया तया गिण्डइ तमत्थं ति एवं यदा त्रिविधमपि व्यञ्जनं प्रकारत्रयेणाऽऽपूरितं भवति, तदा तं विवक्षितं शब्दादिकमर्थमव्यक्तं नाम-जात्यादिकल्पनारहितं गृह्णाति । एतच्च "ताहे हुँ ति करेइ" इत्यस्य व्याख्यानम् । अर्थावग्रहश्चाऽयमेकसामयिको विज्ञेयः, इतरस्तु पूर्वमन्तर्मुहूर्त द्रव्यप्रवेशादिरूपो व्यञ्जनावग्रहोऽवसेयः ॥ इति गाथार्थः॥ २५१ ॥ किंविशिष्टं पुनस्तमर्थं गृह्णाति ?, इत्याशङ्कय स्वत एव भाष्यकारस्तत्स्वरूपमाह
सामन्नमणिदेसं सरूव-नामाइकप्पणारहियं । जइ एवं जं तेणं गहिए सद्दे त्ति तं किह णु ? ॥ २५२ ॥ ग्राह्यवस्तुनः सामान्य-विशेषात्मकत्वे सत्यप्यर्थावग्रहेण सामान्यरूपमेवाऽर्थ गृह्णाति, न विशेषरूपम् , अर्थावग्रहस्यैकसामयिकत्वात् , समयेन च विशेषग्रहणायोगादिति । सामान्यार्थश्च कश्चिद् ग्राम-नगर-वन-सेनादिशब्देन निर्देश्योऽपि भवति, तद्व्यवच्छेदार्थमाहअनिर्देश्य केनापि शब्देनाऽनभिलप्यम् । कुतः पुनरेतत् ?, इत्याह- यतः स्वरूप-नामादिकल्पनारहितम् , आदिशब्दाज्जाति-क्रिया-गुणद्रव्यपरिग्रहः । तत्र रूप-रसाद्यर्थानां य आत्मीयचक्षुरादीन्द्रियगम्यः प्रतिनियतः स्वभावस्तत् स्वरूपम् । रूप-रसादिकस्तु तदभिधायको ध्वनिर्नाम, रूपत्व-रसत्वादिका तु जातिः । प्रीतिकरमिदं रूपं, पुष्टिकारोऽयं रस इत्यादिकस्तु शब्दः क्रियाप्रधानत्वात् क्रिया। कृष्णनीलादिकस्तु गुणः । पृथिव्यादिकं पुनद्रव्यम् । एषां स्वरूप-नाम-जात्यादीनां कल्पना अन्तर्जल्पारूषितज्ञानरूपा तया रहितमेवार्थमविग्रहेण गृह्णाति यतो जीवः, तस्मादनिर्देश्योऽयमर्थः प्रोक्तः, तत्कल्पनारहितत्वेन स्वरूप-नाम-जात्यादिप्रकारेण केनापि निर्देष्टुमशक्यत्वादिति । एवमुक्ते सति परः प्राह- 'जइ एवमित्यादि' यदि स्वरूप-नामादिकल्पनारहितोऽर्थोऽवग्रहस्य विषय इत्येवं व्याख्या
यते भवद्भिः, तर्हि 'जति' यनन्यध्ययनमूत्रे प्रोक्तं। किम् ?, इत्याह- "तेणं गहिए संदे ति" उपलक्षणत्वादित्थं संपूर्ण द्रष्टव्यम्H" से जहा नामए केइ पुरिसे अव्वत्तं सई सुणेजा, तेणं सद्दे ति उग्गहिए, न उण जाणइ के वेस सद्दाइ ति । ' तं किह णु त्ति'
१ यदा तब्यय अनं पूरितं भवति । २ तदा ‘हुँ' इति करोति । ३ सामान्यमनिर्देश्यं स्वरूप-नामादिकल्पनारहितम् । यद्येवं यत् 'तेन गृहीतः शब्दः' इति तत् कथं नु? ॥ २५२ ॥ ४ क.ग. 'सहि त्ति' । HOM॥१५०॥ ५ तथानामा कश्चित् पुरुषोऽव्यक्तं शब्दं शृणुयात् । तेन शब्द इत्यवगृहीतः, न पुनर्जानाति क एप पान्द इति ।
Jain Education inte
For Personal
e
Use Only
Page #153
--------------------------------------------------------------------------
________________
विशेषा०
मानहायक
तदेतत् कथमावरोधेन नीयते ?- युष्मद्वयाख्यानेन सह विरुध्यते एवंदमित्यर्थः, तथाहि- अस्मिन्नन्दिसूत्रेध्यमर्थः प्रतीयते- यथा तेन प्रतिपत्राऽर्थावग्रहेण शब्दोऽवगृहीत इति । भवन्तस्तु शब्दाद्युल्लेखरहितं सर्वथाऽमुं प्रतिपादयन्ति, ततः कथं न विरोधः ?, इति भावः । बृहदत्तिः। इति गाथार्थः ॥ २५२॥ ____ अत्रोत्तरमाह
सद्दे त्ति भणइ वत्ता तम्मत्तं वा न सहबुद्दीए । जइ होइ सहबुद्धी तोऽवाओ चेव सो होजा ॥ २५३ ॥
शब्दस्तेनावगृहीत इति यदुक्तं, तत्र 'शब्दः' इति वक्ता प्रज्ञापकः, सूत्रकारो वा भणति प्रतिपादयति, अथवा तन्मात्र शब्दमात्रं रूप-रसादिविशेषव्यावृत्या-ऽनवधारितत्वाच्छन्दतयाऽनिश्चितं गृह्णातीति । एतावतांशेन शब्दस्तेनावगृहीत इत्युच्यते, न पुनः शब्दबुद्धया-'शब्दोऽयं' इत्यध्यवसायेन तच्छन्दवस्तु तेनाऽवगृहीतम् , शब्दोल्लेखस्याऽऽन्तर्मुहूर्तिकत्वात् , अर्थावग्रहस्य त्वेकसामयिकत्वादसंभव एवाध्यमिति भावः। यदि पुनस्तत्र शब्दबुद्धिः स्यात् , तर्हि को दोषः स्यात् ?, इत्याशङ्कय सूत्रकारः स्वयमेवं दूषणान्तरमाह'जईत्यादि' यदि पुनरर्थावग्रहे शब्दबुद्धिः शब्दनिश्चयः स्यात् , तदाऽपाय एवाऽसौ स्यात् , न त्वर्थावग्रहः, निश्चयस्याऽपायरूपत्वात् । ततश्चार्थावग्रहे-हाभाव एव स्यात् , न चैतद् दृष्टम् , इष्टं च ।। इति गाथार्थः ॥ २५३ ।।
अत्राह पर:- ननु प्रथमसमय एव रूपादिव्यपोहेन 'शब्दोऽयम्' इति प्रत्ययोऽर्थावग्रहत्वेनाऽभ्युपगम्यताम् , शब्दमात्रत्वेन सामान्यत्वात् ; उत्तरकालं तु पायो माधुर्यादयः शङ्खशब्दधर्मा इह घटन्ते, न तु शार्ङ्गधर्माः खर-कर्कशत्वादय इति विमर्शवुद्धिराहा, तस्माच्छाल एवाऽयं शब्द इति तद्विशेषस्त्वपायोऽस्तु । तथा च सति “तेणं सद्दे ति उग्गाहिए" इदं यथाश्रुतमेव व्याख्यायते। "नो चेव णं जाणइ केवेस सद्दाइ, तओ ईहं पविसई" इत्याद्यपि सर्वमविरोधेन गच्छतीति । तदेतत् परोक्तं मूरिः प्रत्यनुभाष्य दूषयति, तद्यथा
जैइ सद्दबुद्धिमत्तयमवग्गहो तबिसेसणमवाओ। नणु सदो नासदो न य रूवाइ विसेसोऽयं ॥ २५४ ॥
भोः पर ! यदि शब्दबुद्धिमात्र 'शब्दोऽयम्' इति निश्चयज्ञानमपि भवताऽर्थावग्रहोऽभ्युपगम्यते, तद्विशेषणं तु तस्य शब्दस्य | विशेषणं विशेषः 'शाल एवाऽयं शब्दः' इत्यादिविशेषज्ञानमित्यर्थः, अपायो मतिज्ञानतृतीयो भेदोऽङ्गीक्रियते । हन्त ! तर्हि अवग्रहल
१ शब्द इति भणति वक्ता तन्मानं वा, न शब्दबुझ्वा । यदि भवति शब्दबुद्धिस्ततोऽपाय एव स भवेत् ।। २५३ ।। २ तेन शब्द इत्यवगृहीतः। ३ नो चेव जानाति क एष शब्दादिः, तत ईहां प्रविशति ।
॥१५॥ ४ यदि शब्दबुद्धिमानमवप्रहस्तद्विशेषणमवायः । ननु शब्दो नाऽशब्दो न च रूपादि विशेषोऽयम् ॥ २५४ ॥
REPOPC
Ja Educacions intem
For Personal and Private Use Only
www.jaineltrary.ary
Page #154
--------------------------------------------------------------------------
________________
विशेषा०
।।१५२।।
Jain Educations Internations
क्षणस्य तदाद्यभेदस्याऽभावप्रसङ्गः प्रथमत एवाध्वग्रहमतिक्रम्या पायाभ्युपगमात् । कथं पुनः शब्दज्ञानमपायः १, इति चेत् । उच्यतेतस्याऽपि विशेषग्राहकत्वात्, विशेषज्ञानस्य च भवताऽप्यपायत्वेनाऽभ्युपगतत्वात् । ननु ' शाङ्ख एवाऽयं शब्द:' इत्यादिकमेव तदुत्तरकालभावि ज्ञानं विशेषग्राहकं, शब्दज्ञाने तु शब्दसामान्यस्यैव प्रतिभासनात् कथं विशेषप्रतिभासः, येनाऽपायप्रसङ्गः स्यात् १, इत्याह'नणु इत्यादि' नन्वित्यक्षमायां, परामन्त्रणे वा, ननु 'शब्दोऽयं नाशब्दः' इति विशेषोऽयं विशेषप्रतिभास एवायमित्यर्थः । कथं पुननशब्द इति निश्चीयते ?, इत्याह- न च रूपादिरिति, चशब्दो हिशब्दार्थे, आदिशब्दाद् गन्ध-रसस्पर्शपरिग्रहः । ततंश्चेदमुक्तं भवति| यस्माद् न रूपादिरयम्, तेभ्यो व्यावृत्तत्वेन गृहीतत्वात्, अतो 'नाऽशब्दोऽयं' इति निश्चीयते ; यदि तु रूपादिभ्योऽपि व्यावृत्तिर्गृहीता न स्यात्, तदा 'शब्दोऽयम्' इति निश्चयोऽपि न स्यादिति भावः । तस्मात् 'शब्दोऽयं नाशब्दः' इति विशेषप्रतिभास एवाऽयम् । तथा च सत्यस्याऽप्यपायमसङ्गतोऽवग्रहाभावप्रसङ्ग इति स्थितम् ।। इति गाथार्थः ॥ २५४ ॥
अथ परोsवग्रहाऽपाययोर्विषयविभागं दर्शयन्नाह
भोवमियं नाऽवाओ संखाइविसेसणमवाओ त्ति । तब्भेयावेक्खाए नणु थोवमियं पि नावाओ ॥ २५५ ॥ इदं शब्दबुद्धिमात्रकं शब्दमात्रस्तोकविशेषावसायित्वात् स्तोकं स्तोकविशेषग्राहकम्, अतोऽपायो न भवति, किन्त्ववग्रह एवाऽयमिति भावः । कः पुनस्तीपायः १, इत्याह- 'संखाईत्यादि ' शाङ्खोऽयं शब्द इत्यादिविशेषणविशिष्टं यज्ज्ञानं तदपायः बृहद्विशेषावसायित्वादिति हृदयम् । हन्त ! यदि यद् यत् स्तोकं तत् तद् नाऽपायः, तर्हि निवृत्ता सांप्रतमपायज्ञानकथा, उत्तरोत्तरार्थविशेषग्रहणापेक्षयां पूर्वपूर्वार्थविशेषावसायस्य स्तोकत्वाद । एतदेवाह - ' तब्भेयेत्यादि ' तस्य शाङ्खशब्दस्य ये उत्तरोत्तरभेदा मन्द्र- मधुरत्वादयः, तरुण-मध्यम-वृद्ध स्त्री-पुरुषसमुत्थत्वादयश्चं तदपेक्षायां सत्यामिदमपि 'शाङ्खोऽयं शब्द:' इत्यादि ज्ञानं ननु स्तोकं स्तोकाविशेषग्राहकमेव, इति नाऽपायः स्यात् । एवमुत्तरोत्तरविशेषग्राहिणामपि ज्ञानानां तदुत्तरोत्तरभेदापेक्षया स्तोकत्वादपायत्वाभावो भावनीयः || इति गाथार्थः ॥ २५५ ॥
तमेवाsपायाभावं स्फुटीकुर्वन्नाह
इय सुबहुणा वि कालेण सव्वभेयाऽवहारणमसज्यं । जम्मि हवेज्ज अवाओ सव्त्रो च्चिय उग्गहो नाम ॥ २५६॥
१ स्तोकमिदं नाऽपायः शाङ्खादिविशेषणमपाय इति । तद्भेदाऽपेक्षायां ननु स्तोकमिदमपि नाऽपायः ॥ २५५ ॥ २ घ. ज. श्च तदपेक्षया त ३ इति सुबहुनाऽपि कालेन सर्वभेदाऽवधारणमसाध्यम् । यस्मिन् भवेदपायः सर्व एवाऽवग्रहो नाम ॥ २५६ ॥
For Personal and Private Use Only
बृहद्वृत्तिः ।
॥१५२॥
Page #155
--------------------------------------------------------------------------
________________
विशेषा०
॥१५३॥
इतिशब्द उपप्रदर्शनार्थः, ततश्चेदमुक्त भवति- यथा 'शाहोऽयं शब्दः' इत्यस्यां बुद्धौ शब्दगतभेदाऽवधारणं सांप्रतमसाध्यम् , मन्द्र-मधुरत्वादितदुत्तरोत्तरभेदबाहुल्यसंभवात् । तथाच सति स्तोकत्वाद् नेयं बुद्धिरपायः, किन्त्वर्थावग्रह इत्येवं सुबहुनाऽपि कालेन बृहदत्तिः । सर्वेणाऽपि पुरुषायुपेण शब्दगतमन्द्र-मधुरत्वाद्युत्तरोत्तरभेदावधारणमसाध्यं तद्देदानामनन्तत्वादशक्यमित्यर्थः, यस्मिन् भेदावधारणे, किम् ?, इत्याह- यस्मिन् अपायो भवेदन्यभेदाकाङ्क्षानिवृत्तेयस्मिन् भेदावधारणज्ञानेऽपायत्वं व्यवस्थाप्येतेति भावः । तस्मात् सर्वोऽपि भेदप्रत्यय उत्तरोत्तरापेक्षया त्वदभिप्रायेण स्तोकत्वादर्थावग्रह एव प्रामोति, नाऽपायः, शब्दज्ञानवत् ।। इति गाथार्थः॥२५६ ॥
किश्च, 'शब्द एवायम्' इति ज्ञानं स्तोकत्वाद् यदर्थावग्रहत्वेन भवताऽभिमतम् । तत् पूर्वमीहामन्तरेण न संभवति, तत्पूर्वकत्वे 21 च तस्यार्थ्यावग्रहत्वासंभव इति दर्शयन्नाह
किं सद्दो किमसहोत्तणीहिए सद्द एव किह जुत्तं ? । अह पुबमीहिऊणं सद्दो त्ति मयं, तई पुव्वं ॥२५७॥
'किं शब्दोऽयम्' आहोवित् 'अशब्दो रूपादिः' इत्येवं पूर्वमनीहिते यत् 'शब्द एव' इति निश्चयज्ञानम्, तदकस्मादेव जायमानं कथं युक्तम् ?, विमर्शपूर्वकत्वमन्तरेण नेदं घटत इत्यर्थः । इदमुक्तं भवति- शब्दगतान्वयधर्मेषु, रूपादिभ्यो व्यावृत्तौ च गृहीतायां 'शब्द एव' इति निश्चयज्ञानं युज्यते, तद्ग्रहणं च विमर्शमन्तरेण नोपपद्यते, विमर्शश्चहा, तस्मादीहामन्तरेणाऽयुक्तमेव 'शब्द एवं' इति निश्चयज्ञानम् । अथ निश्चयकालात पूर्वमीहित्वा भवतोऽपि 'शब्द एवाऽयम्' इति निश्चयज्ञानमभिमतम् । हन्त ! तर्हि निश्चयज्ञानात् पूर्व 'तई' असावीहा भवद्वचनतोऽपि सिद्धा ॥ इति गाथार्थः ।। २५७ ।।
यदि नाम निश्चयज्ञानात् पूर्वमीहा सिद्धा, ततः किम् ?, इत्याह
किं तं पुव्वं गहियं जमीहओ सह एव विण्णाणं । अह पुव्वं सामण्णं जमीहमाणस्स सद्दो त्ति ॥२५८॥ हन्त ! यदि निश्चयज्ञानमीहापूर्वकं त्वयाऽभ्युपगम्यते, तर्हि प्रष्टव्योऽसि-नन्वीहायाः पूर्व किं तद् वस्तु प्रमात्रा गृहीतम् , यदीहमानस्य तस्य 'शब्द एवाऽयम्' इति निश्चयज्ञानमुपजायते ?, न हि कश्चिद् वस्तुन्यगृहीतेऽकस्मात् प्रथमत एवेहां कुरुत इति भावः । क्षुभितस्य परस्योत्तरपदानासामर्थ्यमालोक्य स्वयमेव तन्मतमाशङ्कते- अथ ब्रूयात् पर:- सामान्य नाम-जात्यादिकल्पनारहितं वस्तुमात्रज. 'पद' । २ क. 'द् यद्यर्था' । ३ क.ग.'ततः पू' । ४ किं शब्दः किमशब्द इत्यनीहिते शब्द एव कथं युक्तम् ? । अथ पूर्वमीहित्वा शब्द इति मतं, सा पूर्वम् ॥२५७॥
॥१५३॥ ५ किं तत् पूर्व गृहीतं यदीहमानस्य शब्द एवं विज्ञानम् । अथ पूर्व सामान्यं यदीहमानस्य शब्द इति ॥ २५८ ॥
Jan Educonsinmates
For Personal and Private Use Only
Page #156
--------------------------------------------------------------------------
________________
REGISTER
विशेषा
बृहदत्तिः ।
॥१५॥
मीहायाः पूर्व गृहीतं, यदीहमानस्य 'शब्दः' इति निश्चयज्ञानमुत्पद्यते ॥ इति गाथार्थः ।। २५८ ॥ ___ अथेहायाः पूर्व सामान्यग्रहणे परेणेष्यमाणे मूरिः स्वसमीहितसिद्धिमुपदशर्यन्नाह
अत्थोग्गहओ पुव्वं होयव्वं तस्स गहणकालेणं । पुव्वं च तस्स वंजणकालो सो अत्थपरिसुण्णो ॥ २५९ ॥
नवीहायाः पूर्वं यत् सामान्यं गृह्यते, तस्य तावद् ग्रहणकालेन भवितव्यम् । स चाऽस्मदभ्युपगतसामयिकार्थावग्रहकालरूपो न भवति, अस्मदभ्युपगताङ्गीकारप्रसङ्गात्, किं तर्हि ?, अस्मदभ्युपगतार्थावग्रहात् पूर्वमेव भवदभिप्रायेण तस्य सामान्यस्य ग्रहणकालेन भवितव्यम् , पूर्व च तस्याऽस्मदभ्युपगतार्थावग्रहस्य व्यञ्जनकाल एव वर्तते, व्यञ्जनानां शब्दादिद्रव्याणामिन्द्रियमात्रेणाऽऽदानकालो मध्यपदलोपाद् व्यञ्जनकालः। भवत्वेवम् , तथापि तत्र सामान्यार्थग्रहणं भविष्यति, इत्याशङ्कयाह- स च व्यञ्जनकालोऽर्थपरिशून्यः, न हि तत्र.सामान्यरूपः, विशेषरूपो वा कश्चनाऽप्यर्थः प्रतिभाति, तदा मनोरहितेन्द्रियमात्रव्यापारात्, तत्र चार्थप्रतिभासाऽयोगात् । तस्मात् पारिशेष्यादस्मदभ्युपगतार्थावग्रह एव सामान्यग्रहणमिति गाथायामनुक्तमपि स्वयमेव द्रष्टव्यम् । तदनन्तरं चाऽन्वय-व्यतिरेकधर्मपर्यालोचनरूपा ईहा, तदनन्तरं च 'शब्द एवाऽयम्' इति निश्चयज्ञानमपायः, इति सर्व सुस्थं भवति ।। इति गाथार्थः ॥ २५९ ॥ अथ प्रथममेवाऽर्थावग्रहज्ञानेन शब्दाग्रहणे परः पुनरपि दोषमाहजइ सद्दो त्ति न गहियं न उ जाणइ जं क एस सदो त्ति । तमजुत्तं सामण्णे गहिए मग्गिजइ विसेसो ॥२६०॥
यद्यर्थावबोधसमये प्रथममेव ' शब्दोऽयम्' इत्येवं तद् वस्तु न गृहीतं, तर्हि "ने उण जाणइ के वेस सद्दे ति" जे ति' यत् मुत्रे निर्दिष्टम् , तदयुक्तं प्रामोति, यस्माच्छब्दसामान्ये रूपादिव्यावृत्ते गृहीते सति पश्चाद् मृग्यतेऽन्विष्यते विशेष:-'किमयं शब्दः
शाङ्खः, उत शाहः?' इति । इदमुक्तं भवति- “ने उणं जाणइ के वेस सद्दे त्ति" अस्मिन् नन्दिसूत्रे 'न पुनर्जानाति कोऽप्येष शाङ्खo शााद्यन्यतरः शब्दः' इति विशेषस्यैवाऽपरिज्ञानमुक्तम्, शब्दसामान्यमात्रग्रहणं त्वनुज्ञातमेव, तदग्रहणे तु 'क एष शब्दः, किं शाङ्खः,
शार्को वा? इत्येवं विशेषमागेणमसंगतमेव स्यात् , विशेषजिज्ञासायाः सामान्यज्ञानपूर्वकत्वात् , शब्दसामान्ये गृहीत एव तद्विशेषमार्ग| णस्य युज्यमानत्वात् ।। इति गाथार्थः ।। २६० ॥ A अर्थावग्रहतः पूर्व भवितव्यं तस्य ग्रहणकालेन । पूर्व च तख व्यअनकालः सोऽर्थपरिशून्यः ॥ २५९ ॥ २ क.ग.'तस्मादस्म' । ३ ग.'ने श'। ४ यदि शब्द इति न गृहीतं न तु जानाति यत् क एष शब्द इति । तदयुक्तं सामान्ये गृहीते मृग्यते विशेषः ॥२०॥ ५ न पुनर्जानाति क एष शब्द इति । क.ग.प.छ.ज.'ण जा'। .
॥१५४॥
DoDKIOKHARE
Page #157
--------------------------------------------------------------------------
________________
विशेषा०
।। १५५।।
Jain Educations Internationa
अत्रोत्तरमाह
सव्वत्थ देसयंतो सदो सदो त्ति भासओ भणइ । इहरा न समयमेत्ते सदो त्ति विसेसणं जुतं ॥ २६९ ॥
सर्वत्र पूर्वस्मिन् अत्र च सूत्रावयवे, अवग्रहस्वरूपं देशयन् प्ररूपयन् 'शब्दः शब्दः ' इति भाषकः प्रज्ञापक एव वदति, न तु तत्र ज्ञाने शब्दप्रतिभासोऽस्ति । इत्थं चैतत्, अन्यथा न समयमात्रेऽर्थावग्रहकाले 'शब्दः' इति विशेषणं युक्तम्, आन्तर्मुहूर्तिकत्वाच्छन्दनिश्चयस्येति प्रागेवोक्तम् | सांव्यवहारिकाऽर्थावग्रहापेक्षं वा सूत्रमिदं व्याख्यास्यते इति मा त्वरिष्ठाः ॥ इति गाथार्थः ।। २६१ ॥
अथ सूत्रावष्टम्भवादिनं परं दृष्ट्रा सौत्रमेव परिहारमाह
अहव सुए च्चिय भणियं जह कोइ सुणेज्ज सद्दमव्वत्तं । अव्वत्तमणिद्देसं सामण्णं कप्पणारहियं ॥ २६२ ॥
अथवा यदि तब गाढः श्रुतावष्टम्भः, तदा तत्राप्येतद् भणितं यदुत - प्रथममव्यक्तस्यैव शब्दोल्लेखरहितस्य शब्दमात्रस्य ग्रहणम् । केन पुनः सूत्रावयवेनेदमुक्तम् १, इत्याह- 'जह कोइ सुणेज्ज सहमव्वत्तं ति' अयं च सूत्रावयवो नन्द्यध्ययने इत्थं द्रष्टव्यः- “ से जहानामए केइ पुरिसे अव्वत्तं सदं सुणेज्ज त्ति" । अत्राऽव्यक्तमिति कोऽर्थः १, इत्याह- अनिर्देश्यं 'शब्दोऽयं' 'रूपादिर्वा' इत्यादिना प्रकारेणाsoयक्तमित्यर्थः । ननु यदि शब्दादिरूपेणाऽनिर्देश्यम्, तर्हि किं तत् ?, इत्याह- सामान्यम् । किमुक्तं भवति १, इत्याह- नाम-जात्यादिकल्पनारहितम् । न च वक्तव्यं शाङ्ख- शार्ङ्गभेदापेक्षया शब्दोल्लेखस्याऽप्यव्यक्तत्वे घटमाने कुत इदं व्याख्यानं लभ्यते ? इति अवग्रहस्याऽनाकारोपयोगरूपतया सुत्रेऽधीतत्वात्, अनाकारोपयोगस्य च सामान्यमात्रविषयत्वात् प्रथममेवाऽपायप्रसक्त्याऽवग्रहेहाभावप्रसङ्ग इत्याद्युक्तत्वाच्च ॥ इति गाथार्थः ॥ २६२ ॥
अथ सूरिरेव पराभिप्रायमाशिशङ्कयिषुराह
अंह व मई, पुव्वं चिय सो गहिओ वंजणोग्गहे तेणं । जं वंजणोग्गहम्मि वि भणियं विष्णाणमव्वत्तं ॥२६३॥
१ सर्वत्र देशयन् शब्दः शब्द इति भाषको भणति । इतरथा न समयमात्रे शब्द इति विशेषणं युक्तम् ॥ २६१ ॥
२ अथवा श्रुत एव भणितं यथा कश्चित् शृणुयाच्छन्दमव्यक्तम् । अव्यक्तमनिर्देश्यं सामान्यं कल्पनारहितम् ॥ २६२ ॥
३ तथानामा कश्चित् पुरुषोऽव्यक्तं शब्दं शृणुयादिति । ४ घ. छ. ज. 'तत्रा' ।
५ अथ वा मतिः पूर्वमेव स गृहीतो व्यञ्जनावग्रहे तेन । यद् व्यञ्जनावग्रहेऽपि भणितं विज्ञानमव्यक्तम् ॥ २६३ ॥
For Personal and Private Use Only
बृहद्वत्तिः।
।। १५५।।
Page #158
--------------------------------------------------------------------------
________________
विशेषाः
Sal
॥१५६॥
e se.comsal
SHRISHAIR
अथ परस्य मतिः स्यात् । केयम् ?, इत्याह- सोऽव्यक्तोऽनिर्देश्यादिस्वरूपः शब्दोऽर्थावग्रहात् पूर्वमेव व्यञ्जनावग्रहे तेन श्रोत्रा गृहीतः, तत् किमित्यर्थावग्रहेऽपि तद्ग्रहणमुख़ुष्यते । कथमिदं पुनर्जायते यदुत-असौ व्यञ्जनावग्रहे गृहीतः, इत्याह-'जमित्यादि' यद् बृहद्वात्तिः । यस्माद् व्यजनावग्रहेऽपि भवद्भिरव्यक्तं विज्ञानमुक्तम् , अव्यक्तविषयग्रहण एव चाव्यक्तत्वं तस्योपपद्यत इतिभावः।।इति गाथार्थः।।२६३॥ | अत्रोत्तरमाहअत्थि तयं अव्वत्तं न उ तं गिण्हइ सयं पि सो भणियं । न उ अग्गहियम्मि जुज्जइ सहोत्ति विसेसणंबुद्धी॥२६॥
अस्ति तदव्यक्तं श्रोतुर्व्यञ्जनावग्रहे ज्ञानम् , न तस्याऽस्माभिरपलापः क्रियते, न पुनरसौ श्रोताऽतिसौक्ष्म्यात् तत् स्वयमपि गृह्णाति संवेदयते । एतच्च प्रागपि भणितम् । 'सुत्त-मत्ताइसुहुमबोहोच' इति वचनात् , तथा, 'सुत्तादओ सयं वि य विनाणं नावबुज्झन्ति" इति वचनाच्च । तस्माद् व्यञ्जनमात्रस्यैव तत्र ग्रहणम् , न शब्दस्य, व्यञ्जनावग्रहत्वान्यथानुपपत्तेरेवेति । न च सामान्यरूपतयाऽव्यक्ते शब्देऽगृहीतेऽकस्मादेव 'शब्दः' इति विशेषणबुद्धियुज्यते, अनुस्वारस्याऽलाक्षणिकत्वाद् विशेषबुद्धिरित्यर्थः । अस्यां च विशेषबुद्धौ प्रथममेवेष्यमाणायामादावेवार्थावग्रहकालेऽप्यपायमसङ्गः, इत्यसकृदेवोक्तम् ।। इति गाथार्थः ॥ २६४ ॥ ननु यदि व्यञ्जनावग्रहेऽप्यव्यक्तशब्दग्रहणं भवेत् तदा को दोषः स्यात् ', इत्याह
त्थो त्ति विसयग्गहणं जइ तम्मिवि सो न वंजणं नाम ।अत्थोग्गहो च्चिय तओअविसेसो संकरो वावि ॥२६५॥
अर्थावग्रहे 'अर्थः' इत्यनेन तावद् विषयग्रहणमभिप्रेतं- रूपादिभेदेनाऽनिर्धारितस्याऽव्यक्तस्य शब्दादेविषयस्य ग्रहणं तत्राऽभिप्रेतमित्यर्थः । यदि च तस्मिन्नपि व्यञ्जनावग्रेहेऽसावव्यक्तशब्दः प्रतिभासत इत्यभ्युपगम्यते, तदा न व्यञ्जनं नाम । व्यञ्जनावग्रहो न प्रामोतीत्यर्थः । ततश्चेदानी निवृत्ता तत्कथा, व्यञ्जनमात्रसंबन्धस्यैव तत्रोक्तत्वात् , भवता च तदतिक्रान्तस्याऽव्यक्ताथग्रहणस्येहाभिधीयमानत्वादिति । तीव्यक्तार्थग्रहणे किमसौ स्यात् ?, इत्याह- अर्थावग्रह एवाऽसौ, अव्यक्तार्थावग्रहणात् , ततश्च नास्ति व्यञ्जनं व्यञ्जनावग्रहः । अथाऽस्याऽपि सूत्रे प्रोक्तत्वादस्तित्वं न परिहियते, तर्हि द्वयोरप्यविशेषः- सोऽप्यर्थावग्रहः, सोऽपि व्यञ्जनावग्रहः प्राप्नोतीति भावः, मेचकमणिप्रभावत् संकरो वा स्यादित्थम् ।। इति गाथार्थः ।। २६५॥
EO ||१५६॥ १ अस्ति तदव्यक्तं न तु तद् गृहाति स्वयमप्यसौ भणितम् । न त्वगृहीते युज्यते शब्द इति विशेषणबुद्धिः ॥ २६४ ॥ २ घ. छ. ज. “य अ'। ३ गाथा १९७॥ ४ अर्थ इति विषयग्रहणं यदि तस्मिन्नप्यसौ न व्यञ्जनं नाम । अर्थावग्रह एव ततोऽविशेषः संकरो वाऽपि ॥ २६५ ॥ ५ घ. छ. ज.हे सोऽव्य'।
For Personal and Private Use Only
Page #159
--------------------------------------------------------------------------
________________
विशेषा ॥१५७॥
तदेवं व्यञ्जनावग्रहे व्यञ्जनसंवन्धपात्रमेव, अर्थावग्रहे त्वव्यक्तशब्दाद्यर्थग्रहणं, न व्यक्तशब्दाद्यर्थसंवेदनम् , इति प्रतिपादितम् ।। सांपतमुपपत्त्यन्तरेणाऽप्यर्थावग्रहे व्यक्तशब्दाद्यर्थसंवेदनं निराचिकीर्षुराह
बृहद्वृत्तिः । 'जेणत्थोग्गहकाले गहणे-हा-वायसंभवो नत्थि । तो नत्थि सहबुद्धी, अहत्थि नावग्गहो नाम ॥ २६६ ॥
पूर्व तावदर्थस्य ग्रहणमात्र, ततश्चेहा, तदनन्तरं त्वपायः, इत्येवं मतिज्ञानस्योत्पत्तिक्रमः । न चैतत्रितयं प्रथममेव शब्दार्थेऽवगृहीते समस्तीति । एतदेवाह- येनार्थावग्रहकालेऽर्थग्रहणे हा-पायानां संभवो नास्ति, ततोऽर्थावग्रहे नास्ति 'शब्दः' इतिविशेषबुद्धिः, अर्थग्रहणे-हा-पूर्वकत्वात् तस्याः । अथाऽस्त्यसौ तत्र, तर्हि नाऽयमर्थावग्रहः, किन्त्वपाय एव स्यात् , नैतद् युज्यते, तदभ्युपगमेऽर्थावग्रहे-हयोरभावप्रसङ्गात् ॥ इति गाथार्थः ॥ २६६ ॥
अपि च, अर्थावग्रहे 'शब्दः' इति विशेषबुद्धाविष्यमाणायां दोपान्तरमप्यस्ति । किं तत् ?, इत्याह
सामण्ण-तयण्णविसेसेहा-वजण-परिग्गहणओ से । अत्थोग्गहेगसमओवओगबाहुल्लमावण्णं ॥ २६७ ॥ ___ इह येयमर्थावग्रहकसमये 'शब्दः' इति विशेषबुद्धिर्भवताऽभ्युपगम्यते, सा तावद् निश्चयरूपा, निश्चयश्चाकस्मादेव न युज्यते, किन्तु क्रमेण, तथाहि- प्रथमं तावद् रूपादिभ्योऽव्यावृत्तमव्यक्तं शब्दसामान्य ग्रहीतव्यम् , ततस्तद्विशेषविषया, तदपररूपादिविशेषविषया च । एतैरेतैश्च धर्मेः 'किमयं शब्दः, आहोखिद् रूपादिः'इत्येवंरूपेहा, तदनन्तरं च गृहीतशब्दसामान्यविशेषाणां ग्रहणम् , अन्येषां तु रूपादिविशेषाणां तत्राविद्यमानानां परिवर्जनम् , इत्येवंभूतेन क्रमेण निश्चयोत्पत्तिः। तथाच सति श्रोतुरावग्रहकसमयेऽपि सामान्यग्रहणादिभिः प्रकारैरुपयोगबहुत्वमापद्यते, एकस्मिंश्च समये बहव उपयोगाः सिद्धान्ते निषिद्धाः, इति नार्थावग्रहे शब्दादिविशेषबुद्धिः ।। इति गाथाभावार्थः॥
__अक्षरार्थस्तूच्यते- सामान्यमिह श्रूयमाणशब्दसामान्यं गृह्यते, ' तयण्णविसेसेह ति' तच्छब्देनाऽनन्तरोक्तं शब्दसामान्यमनुकृष्यते, अन्यशब्देन तु तत्रा-विद्यमाना रूपादयः परिगृह्यन्ते । ततश्च तच्चाऽन्ये च तदन्ये- शब्दसामान्य, रूपादयश्चेत्यर्थः; तेषां
१५७|| , येनार्थावग्रहकाले ग्रहणे हा उपायसंभवो नास्ति । ततो नास्ति शब्दबुद्धिः, अभास्ति नावग्रहो नाम ॥ २६६ ॥ २ ज 'ब्दाद्यर्थे। ३ सामान्य-तदन्यविशेषेहा-वर्जन-परिग्रहणतस्तस्य । अर्थावग्रहकसमयोपयोगबाहुल्यमापन्नम् ॥ २६७ ॥
IODOolaroioमरसन करना
886orolorotoos
Juanian
For Personal and Private Use Only
wMR.Janeitrary.org
Page #160
--------------------------------------------------------------------------
________________
विशेषा ०
।। १५८।।
Jain Educations International
विशेषा धर्माः श्रोत्रग्राह्यत्वादयः, चक्षुरादिवेद्यत्वादयश्च तद्विषयेहा तदन्यविशेषेहा, किमत्र श्रोत्रग्राह्यत्वादयो धर्मा उपलभ्यन्ते, आहोस्विच्चक्षुरादिवेद्यत्वादयः ? इत्येवंरूपो विमर्श इत्यर्थः, तदनन्तरं तु वर्जनं च तत्राऽविद्यमानरूपादिगतानां हेयधर्माणां चक्षुर्वेद्यत्वादीनां परिग्रहणं च तत्र गृहीतशब्द सामान्यगतानामुपादेयधर्माणां श्रोत्रग्राह्यत्वादीनाम् इति वर्जन- परिग्रहणे त्यागा -ऽऽदाने; सामान्यं च तदन्यविशेषेहा च वर्जन-परिग्रहणे च सामान्य- तदन्यविशेषेहा-वर्जन- परिग्रहणानि तेभ्यस्ततः । ' से ' तस्य श्रोतुः । अर्थावग्रहैकसमये - ऽप्युपयोगबाहुल्यमापन्नं प्राप्तम् । तथाहि - प्रथमः सामान्यग्रहणोपयोगः, यथोक्तेहोपयोगस्तु द्वितीयः, हेयधर्मवर्जनोपयोगस्तृतीयः, उपादेयधर्मपरिग्रहणोपयोगचतुर्थः, इत्येवमर्थावग्रहैकसमयमात्रेऽपि बहव उपयोगाः प्राप्नुवन्ति । न चैतद् युक्तम्, समयविरुद्धत्वात् । तस्माद् नार्थावग्रहे शब्दविशेषबुद्धिः, किन्तु 'संदे त्ति भणइ वत्ता' इत्यादि स्थितम् ।। इति गाथार्थः ॥ २६७ ॥ अथाऽस्मिन्नेवाऽर्थावग्रहेऽपरवाद्यभिप्रायं निराचिकीर्षुराह -
अण्णे सामण्णग्गहणमाहु बालरस जायमेत्तस्स । समयम्मि चैव परिचियविसयरस विसेसविन्नाणं ॥ २६८ ॥
अन्ये वादिनः केचिदेवमाहुः - यदेतत्सर्वविशेषविमुखस्याऽव्यक्तस्य सामान्यमात्रस्य वस्तुनो ग्रहणमालोचनं, तद् वालस्य शिशोस्तत्क्षणजातमात्रस्य भवति, नाऽत्र विप्रतिपत्तिः, अव्यक्तो ह्यसौ संकेतादिविकलोऽपरिचितविषयः । यस्तर्हि परिचितविषयः, तस्य किम् ?, इत्याह- समय एवाऽऽयशब्दश्रवणसमय एव विशेषविज्ञानं जायते, स्पष्टत्वात् तस्य । ततश्चाऽमुमाश्रित्य " तेण सद्दे त्ति उगहिए" इत्यादि यथाश्रुतमेव व्याख्यायते, न कश्चिद् दोष इति भावः ॥ इति गाथार्थः ॥ २६८ ॥
अत्रोत्तरमाह
तेंदुवत्थमेव तं पुव्वदोसओ तम्मि चैव वा समये । संख-महुराइसुबहुयविसेसग्रहणं पसज्जेज्जा ॥ २६९ ॥
'' जेणत्थोग्गहकाले ' इत्यादिना ग्रन्थेन ' सामण्ण- तयण्णविसेसेहा' इत्यादिना च ग्रन्थेन यद् दूषितं या तस्यावस्था
१ गाथा २५३ | २ अन्ये सामान्यग्रहणमाहुर्वालस्य जातमात्रस्य । समये एव परिचितविषयस्य विशेषविज्ञानम् ॥ २६८ ॥ ३ तेन शब्द इत्यवगृहीतः । ४ तदवस्थमेव तत् पूर्वदोषतस्तस्मिन्नेव वा समये । शाङ्ख-मधुरादिसुबहुक विशेषग्रहणं प्रसज्येत || २६९|| ५ गाथा २६६ । ६ गाथा २६७ ।
For Personal and Private Use Only
बृहद्वत्तिः ।
।। १५८।।
Page #161
--------------------------------------------------------------------------
________________
विशेषा०
॥१५९॥
।
यत् तस्य स्वरूपम्- 'समयाम्मि चेव परिचियविसयस्स विसेसविनाणं' इति, तदेतत्परोक्तमपि तदवस्थमेव, न पुनः किश्चिदूनाधिकावस्थम् । कुतः ?, इत्याह- 'पुव्वदोसउ त्ति' 'जेणत्थोग्गहकाले' इत्यादिना, 'सामण्ण-तयण्ण-' इत्यादिना च यः पूर्व दोषोऽभिहितस्तस्मात् पूर्वदोषात्- पूर्वदोषाऽनतिवृत्तेः, तदेतत्परोक्तं तदवस्थमेव, इति नान्यदूषणाऽभिधानप्रयासो विधीयत इति भावः । अथवाऽपूर्वमपि दूषणमुच्यते । किं तत् ?, इत्याह- 'तम्मि चेवेत्यादि' वा इत्यथवा, तस्मिन्नेव स्पष्टविज्ञानस्य व्यक्तस्य जन्तोर्विशेषग्राहिणि समये 'शाङ्खः, शाङ्गों वाऽयं शब्दः, स्निग्धः, मधुरः, कर्कशः, स्त्री-पुरुषाद्यन्यतरवाद्यः' इत्यादि सुबहुकविशेषग्रहणं प्रसज्येत । इदमुक्तं भवति- यदि व्यक्तस्य परिचितविषयस्य जन्तोरव्यक्तशब्दज्ञानमुल्लध्य तस्मिन्नावग्रहैकसमयमात्रे शब्दनिश्चयज्ञानं भवति, तदाऽन्यस्य कस्यचित् परिचिततरविषयस्य पटुतरावबोधस्य तस्मिन्नेव समये व्यक्तशब्दज्ञानमप्यतिक्रम्य 'शाङ्खोऽयं शब्दः' इत्यादिसंख्यातीतविशेषग्राहकमपि ज्ञानं भवदभिप्रायेण स्यात् , दृश्यन्ते च पुरुषशक्तीनां तारतम्यविशेषाः । भवत्येव कस्यचित् प्रथमसमयेऽपि सुबहुविशेषग्राहकमपि ज्ञानमिति चेत् । न, “ने उण जाणइ के वेस सद्दे " इत्यस्य सूत्रावयवस्याऽगमकत्वप्रसङ्गात् । विमध्यमशक्तिपुरुषविषयमेतत् सूत्रमिति चेत् । न, अविशेषेणोक्तत्वात् , सर्वविशेषविषयत्वस्य च युक्त्यनुपपन्नत्वात् । न हि प्रकृष्टमतेरपि शब्दधमिणमगृहीत्वोत्तरोत्तरबहुसुधर्मग्रहणसंभवोऽस्ति, निराधारधर्माणामनुपपत्तेः ॥ इति गाथार्थः ।। २६९ ॥
किश्च, समयमात्रेऽपि 'शब्दः' इति विशेषविज्ञानमभ्युपगच्छतोऽन्येऽपि समयविरोधादयो दोषाः । के पुनस्ते ?, इत्याह
अत्थोग्गहो न समयं अहवा समओवओगबाहुल्लं । सव्वविसेसग्गहणं सव्वमई वोगहो गिज्झो ॥२७॥ एगो वाऽवाओ च्चिय अहवा सोऽगहिय-णीहिए पत्तो । उक्कम-वइक्कमा वा पत्ता धुवमोग्गहाईणं ॥२७॥
सामण्णं च विसेसो वा सामण्णमुभयमुभयं वा । न य जुत्तं सव्वमियं वा सामण्णालंबनं मोत्तुं ॥ २७२॥
व्याख्या- " उग्गहो एक समयं " इत्यादिवचनादर्थावग्रहः सिद्धान्ते सामयिको निर्दिष्टः, यदि चार्थावग्रहे विशेषविज्ञानमभ्युपगम्यते तदा सामयिकोऽसौ न पामोति, विशेषज्ञानस्याऽसंख्येयसामयिकत्वात् । अथ समयमात्रेऽप्यस्मिन् विशेषज्ञानमिष्यते, तर्हि
१ गाथा २६८। २ गाथा २६६। ३ गाथा २६७। ४ न पुनर्जानाति क एष शब्दः । ५ अर्थावग्रहो न समयमथवा समयोपयोगबाहुल्यम् । सर्वविशेषग्रहणं सर्वमतिर्वावग्रहो प्रायः ॥ २७॥ एको वाऽपाय एचाऽथवा सोऽगृहीता-ऽनीहितः प्राप्तः । उत्क्रम-व्यतिक्रमी वा प्राप्ती भुवमवग्रहादीनाम् ॥२७॥ सामान्य च विशेषो वा सामान्यमुभयमुभयं वा । न च युक्तं सर्वमिदं वा सामान्यालम्बनं मुक्त्वा ॥ २७२ ॥ 4 अवग्रह एक समयम् ।
||१५९॥
duona intemat
For Personal and Private Use Only
www.janeltrary.org
Page #162
--------------------------------------------------------------------------
________________
KAPIONOR
विशेषा
बृहदत्तिः ।
॥१६॥
Tara
S
| 'सामण्ण-तयण्णविसेसेहा' इत्यादिना प्रागुक्तं समयोपयोगवाहुल्यं पामोति । अथवेत्यग्रतोऽप्यनुवर्तते । ततश्चाऽथवा परिचितविषयस्य विशेषज्ञानेऽभ्युपगम्यमाने परिचिततरविषयस्य तस्मिन्नेव समये सर्वविशेषग्रहणमनन्तरोक्तं पामोति । अथवाऽवग्रहमात्रादपि विशेष- परिच्छेदेङ्गीक्रियमाणे ईहादीनामनुत्थानमेव । ततश्च सर्वाऽपि मतिरवग्रहो ग्राह्यः- सर्वस्यापि मतेरवग्रहरूपतैव प्रामोतीत्यर्थः । अथवा सर्वाऽपि मतिरपाय एवैकः पामोति, अर्थावग्रहे विशेषज्ञानस्याऽऽश्रयणात् , तस्य च निश्चयरूपत्वात् , निश्चयस्य चाऽपायत्वादिति । समयमात्रे चाऽस्मिन्नपार्य सिद्धे "ईहा-वाया मुहुत्तमन्तं तु” इति विरुध्यते । अथवाऽर्थेऽवगृहीते, ईहिते च, अपायः सिद्धान्ते निर्दिश्यते " उग्गहो ईहा अवाओ य" इति क्रमनिर्देशात् , यदि चाऽऽद्यसमयेऽपि विशेषज्ञानाऽभ्युपगमादपाय इष्यते, तीनवगृहीतेऽनीहिते च तस्मिन्नसौ प्राप्तः । 'वा' इत्यथवा, यदि तृतीयस्थाननिर्दिष्टोऽप्यपायः 'समयम्मि चेव परिचियविसयस्स विण्णाणं' इति वचनात् पटुत्ववैचित्र्येण प्रथममभ्युपगम्यते, तर्हि तस्मादेव पाटववैचित्र्यादवग्रहे-हा-ऽपाय-धारणानां ध्रुवं निश्चितमुत्क्रम-व्यतिक्रमौ स्याताम् । तत्र पश्चानुपूर्वीभवनमुत्क्रमः, अनानुपूर्वीभावस्तु व्यतिक्रमः, तथाहि- यथा शक्तिवैचित्र्यात् कश्चित् प्रथममेवाऽपायो भवताऽभ्युपगम्यते, तथा तत एव कस्यापि प्रथम धारणा स्यात् , ततोऽपायः, ततोऽपीहा, तदनन्तरं त्ववग्रह इत्युत्क्रमः; अन्यस्य कस्यचित्पुनरवग्रहमुल्लध्य प्रथममेवेहा समुपजायेत, अपरस्य तु तामप्यतिक्रम्याऽपायः, अन्यस्य तु तमप्यतिवृत्त्य धारणा स्यात् , इत्यादिव्यतिक्रमः । न चेह वयं युक्तिमापच्छनीयाः, भवदभ्युपगतस्य शक्तिवैचित्र्यस्यैव पुष्टहेतोः सद्भावात् । न चैतावुत्क्रम-व्यतिक्रमी युक्ती "डेग्गहो | ईहा अवायो य धारणा एव होन्ति चत्तारि" इति परममुनिनिर्दिष्टक्रमस्याऽन्यथाकर्तुमशक्यत्वादिति । तथा, यदि यत् प्रथमसमये गृह्यते स | विशेषः, तर्हि 'सामण्णं च विसेसो त्ति' यत् सामान्यं तदपि विशेषः प्राप्तः, प्रथमसमये हि सर्वस्यापि वस्तुनोऽव्यक्तं सामान्यमेव रूपं गृह्यते, ततोऽस्मिन्नप्यर्थावग्रहसमये सामान्यमेव गृह्यत इति परमार्थः। यदिवाऽत्र विशेषबुद्धिर्भवताऽभ्युपगम्यते, तर्हि यदिह वस्तुस्थित्या सामान्य स्थितं तदपि भवदभिप्रायेण विशेषः प्राप्तः । चशब्दो दूषणसमुच्चयार्थः । 'सो वा सामण्णं ति' स वा भवद. भिप्रेतो विशेषो वस्तुस्थितिसमायातं सामान्यं प्राप्नोतीति । 'उभयमुभयं व त्ति' अथवा, सामान्य-विशेषलक्षणमुभयमप्येतत्पत्येकमुभयं प्राप्नोति- एकैकमुभयरूपं स्यादित्यर्थः; तथाहि- अव-ईषत् सामान्यं गृह्णातीत्यवग्रह इतिव्युत्पत्त्या वस्तुस्थितिसमायात यत्सामान्यं तत् स्वरूपेण तावत् सामान्यम् , भवदभ्युपगमेन तु विशेषः, इत्येकस्याऽपि सामान्यस्योभयरूपता; तथा योऽपि भवदभ्यु
POOO
॥१६॥
१ गाथा २६७ । २ ईहा उपायौ मुहूर्तान्तस्तु । ३ अवग्रहः, ईहा, अपायश्च । ४ गाथा-२६८ । ५ अवग्रह ईहाऽपायश्च धारणा एव भवन्ति चत्वारि । ६ श्रीभद्रबाहुस्वामिभिः।
For Personal and Prevate Une Grey
H
om.jaineltrary.org
Page #163
--------------------------------------------------------------------------
________________
बृहदत्तिः ।
विशेषाः ॥१६॥
पगतो विशेषः सोऽपि त्वदभिप्रायेण विशेषः, वस्तुस्थित्या तु सामान्यम् , इति विशेषस्याऽप्येकस्योभयस्वभावता । भवत्वेवमिति चेत् । इत्याह-न च युक्तं सर्वमिदम् । किं कृत्वा , इत्याह- सामान्यमालम्बनं ग्राह्यं मुक्त्वा 'अर्थावग्रहस्य' इति शेषः । इदमुक्तं भवति- अर्थावग्रहस्याऽव्यक्तं सामान्यमात्रमालम्बनं परिहृत्य यदन्यद् विशेषरूपमालम्बनमिष्यते, तदभ्युपगमे च 'सामग्णं च विसेसो वा सामण्ण' इत्यादि यदापतति, तत् सर्वमयुक्तम् , अघटमानकत्वात् । इह च गाथात्रये बहुषु दूषणेषु मध्ये यत् प्रागुक्तमपि किश्चिद् दृषणमुक्तं, तत् प्रसङ्गायातत्वात्, इति न पोनरुक्त्यमाशङ्कनीयम् ।। इति गाथात्रयार्थः ।। २७० ।। २७१ ॥ २७२ ।। ___प्रस्तुत एवार्थेऽपरमपि मतान्तरमुपन्यस्य निराकुर्वन्नाह
'केइदिहालोयणपुव्वमोग्गहं ति तत्थ सामण्णं । गहियमहत्थावग्गहकाले सद्दे त्ति निच्छिण्णं ॥ २७३ ॥
केचिद् वादिन इहाऽस्मिन् प्रक्रमेऽवग्रहं ब्रुवतेऽर्थावग्रहं व्याचक्षते । किविशिष्टम् १, इत्याह- आलोचनपूर्व सामान्यवस्तुग्राहि ज्ञानमालोचनं तत् पूर्व प्रथमं यत्र स तथा तम् , प्रथममालोचनज्ञानं ततोऽर्थावग्रह इत्यर्थः, तथा च तैरुक्तम्
" अस्ति बालोचनाज्ञानं प्रथमं निर्विकल्पकम् । बालमूकादिविज्ञानसदृशं शुद्धवस्तुजम् " ॥ १ ॥ इति ।
किं पुनस्तत्राऽऽलोचनज्ञाने गृह्यते ?, इत्याह- 'तत्थेत्यादि' तत्रालोचन ज्ञाने सामान्यमव्यक्तं वस्तु गृहीतं ' प्रतिपत्त्रा' इति गम्यते, अथाऽनन्तरमर्थावग्रहकाले ' तदेव गृहीतम् ' इत्यनुवर्तते । कथंभूतं सत् ?, इत्याह- निच्छिन्नं पृथक्कृतं रूपादिभ्यो व्यावृत्तमित्यर्थः । केनाल्लेखेन गृहीतम् ?, इत्याह- 'सद्दे त्ति' शब्दविशेषणविशिष्टमित्यर्थः । ततश्च " से जहानामए केइ पुरिसे अव्वत्तं सदं सुणेज" इत्येतदालोचनज्ञानापेक्षया नीयते, " तेणं सद्दे त्ति उग्गहिए" एतत्त्वार्थावग्रहापेक्षया, इति सर्व सुस्थतामनुभवति । न चातः परं भवतोऽप्याचार्य ! किश्चिद् वक्तव्यमस्तिः यदि हि युक्त्यनुभवसिद्धेनाऽर्थेन सूत्रे विषयविभागव्यवस्थापितेऽपि वादी जयं न प्राप्स्यति, तदा तूष्णीमाश्रयन्तु विपश्चितः, विचारचर्यामार्गस्य स्वाग्रहतत्परेण त्वयैव लुप्तत्वात् ।। इति गाथार्थः ॥ २७३ ।।
तदत्र सूरिः परस्येषद्गर्वानुविद्धार्मज्ञतामवलोकयन् मार्गावैतारणाय विकल्पयन्नाह१ केचिदिहालोचनपूर्वमवग्रहं ब्रुवन्ति तत्र सामान्यम् । गृहीतमयाऽर्थावग्रहकाले शब्द इति निच्छिन्नम् ॥ २७३ ॥ २ क. ग. 'विति' । ३ क. ग. 'यतः स'। • तथानामा कश्चित् पुरुषोऽम्यक्तं शब्द शृणुयादिति । ५ तेन शब्द इत्यवगृहीतः । ६ ज. 'मज्ञातता' । ७ घ, 'वतर' ।
१५।।
Ja Educontematon
Page #164
--------------------------------------------------------------------------
________________
विशेषा०
॥१६२॥
Jain Education Internation
"तं वंजणोग्गहाओ पुव्वं पच्छा स एव वा होजा । पुव्वं तदत्थवंजण संबंधाभावओ नत्थि ॥ २७४ ॥
यद्यनुपहतस्मरणवासना सन्तानस्तदर्थावग्रहात् पूर्वं व्यञ्जनावग्रहो भवतीति यदुक्तं प्रात्रु तद् भवानपि स्मरति । ततः किम्, इति चेत् । उच्यते यदेतद् भवदुत्प्रेक्षितं सामान्यग्राहकमालोचनं तत् तस्माद् व्यञ्जनावग्रहात् पूर्वं वा भवेत् पश्चाद् वा भवेत् स एव वा व्यञ्जनावग्रहोप्यालोचनं भवेत् १, इति त्रयी गतिः, अन्यत्र स्थानाभावात् । किञ्चान्तः १, इत्याह- पूर्वं तद् नास्तीति संबन्धः । कुतः ?, इत्याह- अर्थव्यञ्जनसंबन्धाभावादिति- अर्थः शब्दादिविषयभावेन परिणतद्रव्यसमूहः, व्यञ्जनं तु श्रोत्रादि, अर्थव व्यञ्जनं चार्थव्यञ्जने तयोः संबन्धस्तस्याऽभावात् सति ह्यर्थ-व्यञ्जनसंबन्धे सामान्याथालोचनं स्यात्, अन्यथा सर्वत्र सर्वदा तद्भावप्रसङ्गात् । व्यञ्जनावग्रहाच्च पूर्वमर्थव्यञ्जनसंबन्धो नास्ति, तद्भावे च व्यञ्जनावग्रहस्यैवेष्टत्वात् तत्पूर्वकालता न स्यादिति भावः ॥ इति गाथार्थः ॥ २७४॥
द्वितीयविकल्पं शोधयन्नाह
अत्थोग्गहो वि जं वंजणोग्गहस्सेव चरमसमयम्मि । पच्छा वि तो न जुत्तं परिसेसं वंजणं होज्जा ॥ २७५॥
तथा, अर्थावग्रहोsपि यद् यस्माद् व्यञ्जनावग्रहस्यैव चरमसमये भवति, इति मागिहापि निर्णीतम् । तस्मात् पश्चादपि व्यञ्जनावग्रहादालोचनज्ञानं न युक्तम्, निरवकाशत्वात् । न हि व्यञ्जना -ऽर्थावग्रहयोरन्तरे कालः समस्ति यत्र तत् त्वदीयमालोचनज्ञानं स्यात्, व्यञ्जनावग्रहचरमसमय एवाऽर्थावग्रहसद्भावात् । तस्मात् पूर्व पश्चात्कालयोर्निषिद्धत्वात् पारिशेष्याद् मध्यकालवर्ती तृतीयविकल्पोपन्यस्तो व्यञ्जनं व्यञ्जनावग्रह एव भवताऽऽलोचनाज्ञानत्वेनाऽभ्युपगतो भवेत् । एवं च न कश्चिद् दोषः, नाममात्र एव विवादात् ।। इति गाथार्थः ।। २७५ ।।
क्रियतां तर्हि प्रेरकवर्गेण वर्धापनकम् त्वदभिप्रायाविसंवादलाभात् इति चेत् । नैवम्, विकल्पद्वयस्येह सद्भावात्, तथाहितद्व्यञ्जनावग्रहकालेऽभ्युपगम्यमानमालोचनं किमर्थस्यालोचनं, व्यञ्जनानां वा ? इति विकल्पद्वयम् । तत्र प्रथमविकल्पमनूद्य दूषयन्नाह - * तं च समालोयणमत्थदरिसणं जइ, न वंजणं तो तं । अह वंजणस्स तो कहमालोयणमत्थसुण्णस्स ? ॥ २७६ ॥
१ तद् व्यअनावग्रहातु पूर्व पश्चात् स एव वा भवेत् । पूर्वं तदर्थव्यञ्जनसंबन्धाभावतो नास्ति ॥ २७४ ॥ २ क. ग. 'तत्सद्भावे तु व्य' ज. 'तद्भावे तु व्य' । ३ अर्थावग्रहोऽपि यद् व्यञ्जनावग्रहस्यैव चरमसमये । पश्चादप्यतो न युक्तं परिशेषं व्यञ्जनं भवेत् ॥ २७५ ॥
४ तच समालोचनमर्थदर्शनं यदि, न व्यञ्जनं ततस्तत् । अथ व्यञ्जनस्य ततः कथमालोचनमर्थशून्यस्य ? ॥ २०६ ॥
For Personal and Private Use Only
वृहद्वृत्तिः ।
॥१६२॥
Page #165
--------------------------------------------------------------------------
________________
विशेषा०
॥ १६३॥
Jain Educationa Internationa
तत् समालोचनं यदि सामान्यरूपस्यार्थस्य दर्शनमिष्यते, ततस्तर्हि न व्यञ्जनं व्यञ्जनावग्रहात्मकं भवति, व्यञ्जनावग्रहस्य व्यञ्जनसंबन्धमात्ररूपत्वेनाऽर्थशून्यत्वात् तथाच प्रागपि 'पुत्रं च तस्स वंजणकालो सो अत्थपरिसुण्णो ' इत्यादिना साधितमेवेदम् । अतोऽर्थदर्शनरूपमालोचनं कथमर्थशून्यव्यञ्जनावग्रहात्मकं भवितुमर्हति ?, विरोधात् । अथ द्वितीयविकल्पमङ्गीकृत्याह - अथ व्यञ्जनस्य शब्दादिविषयपरिणतद्रव्यसंवन्धमात्रस्य तत् समालोचनमिष्यते, तर्हि कथमालोचनं- कथमालोचकत्वं तस्य घटते १, इत्यर्थः । कथंभूतस्य सतः ?, इत्याह- अर्थशून्यस्य व्यञ्जनसंबन्धमात्रान्वितत्वेन सामान्यार्थीलोचकत्वानुपपत्तेरित्यर्थः । इति गाथार्थः ॥ २७६ ॥
ननु शास्त्रान्तरप्रसिद्धस्याऽऽलोचनज्ञानस्य वराकस्य तर्हि का गतिः ?, इत्याह
आलोर्येण त्ति नामं हवेज्ज तं वंजणोग्गहस्सेव । होज कहं सामण्णग्गहणं तत्थत्थसुण्णम्मि ? ॥ २७७ ॥ तस्मादालोचनमिति यन्नाम तदन्यत्र निर्गतिकं सत् पारिशेष्याद् व्यञ्जनावग्रहस्यैव द्वितीयं नाम भवेत् । न च विवक्षामात्रप्रवृत्तेषु वस्तूनां बहुष्वपि नामसु क्रियमाणेषु कोsपि विवादमाविष्करोति । अत एतदपि नामान्तरमस्तु, को दोषः ? इति । नैतदेवम्, यस्मादिदं सामान्यग्राहकमालोचनज्ञानं भविष्यति, अर्थावग्रहस्तु विशेषग्राहक इति; एवमप्यस्माकं समीहितसिद्धिर्भविष्यतीति चेत् । इत्याह- ' होज्जेत्यादि ' व्यञ्जनावग्रहस्यैव पारिशेष्यादालोचनज्ञानत्वमापन्नम्, तत्र च प्रागुक्तयुक्तिभिरर्थशून्ये कथं सामान्यग्रहणं भवेत्, येन भवतः समीहितसिद्धिप्रमोदः ? इति । तस्मादर्थावग्रह एव सामान्यार्थग्राहकः, न पुनरेतस्मादपरमालोचनाज्ञानम् । अत एव यदुक्तम्- “ अस्ति ह्यालोचनाज्ञानं प्रथमं निर्विकल्पकम् " इत्यादि, तदप्यर्थावग्रहाश्रयमेव यदि, घटते, नान्यविषयम् ॥ इति गाथार्थः ।। २७७ ॥
अथ 'दुर्बलं वादिनं दृष्ट्राऽभ्युपगमोऽपि कर्तव्यः' इतिन्यायप्रदर्शनार्थमाह
हियं व होउ तहियं सामण्णं कहमणीहिए तम्मि । अत्थावग्गहकाले विसेसणं एस सदो त्ति १ ॥ २७८॥ अथवा भवतु तस्मिन् व्यञ्जनावग्रहे सामान्यं गृहीतम्, तथापि कथमनीहितेऽविमर्शिते तस्मिन्नकस्मादेवार्थावग्रहकाले ' शब्द एषः' इति विशेषणं विशेषज्ञानं युक्तम्, 'शब्द एवैषः' इत्यवं हि निश्वयः, न चायमीहामन्तरेण झगित्येव युज्यते, इत्यसकृदे - वोक्तप्रायम् । अतो नार्थावग्रहे ' शब्दः' इत्यादिविशेषबुद्धिर्युज्यते ।। इति गाथार्थः ॥ २७८ ॥
१ गाथा २५९ । २.ग.घ.छ.ज. 'च वंजणोग्गहका ३ आलोचनेति नाम भवेत् तद् व्यञ्जनावग्रहस्यैव भवेत् कथं सामान्यग्रहणं तत्राऽर्थशून्ये ? ॥ २७७ ॥ ४क.ग. ' यणं तिना । ५ गृहीतं वा भवतु तस्मिन् सामान्यं कथमनीहिते तस्मिन् । अर्थावग्रहकाले विशेषणमेष शब्द इति ? ॥ २७८ ॥
For Personal and Private Use Only
बृहद्वृत्तिः
॥ १६३॥
13
Page #166
--------------------------------------------------------------------------
________________
Sistoield
बृहदत्तिः ।
विशेषा० ॥१६॥
SHOTOceae
अथाऽर्थावग्रहसमये शब्दाद्यवगमेन सहैवेहा भविष्यतीति मन्यसे, तत्राऽऽह
अत्थावग्गहसमए वीसुमसंखेजसमइया दो वि । तक्का-वगमसहावा ईहा-ऽवाया कहं जुत्ता ? ॥ २७९ ॥ ___ अर्थावग्रहसंवन्धिन्यकस्मिन् समये कथमीहा-ऽपायौ युक्तौ ?, इति संबन्धः । कथंभूतावेतौ ? यतः, इत्याह- तर्का-ऽनगमस्वभावौ, तर्को विमर्शस्तत्स्वभावेहा, अवगमो निश्चयस्तत्स्वभावोऽपायः; द्वावपि चैतौ पृथगसंख्येयसमयनिष्पन्नौ । एतदुक्तं भवतियदिदमर्थावग्रहे विशेषज्ञानं त्वयेष्यते सोऽपायः, स चाऽवगमस्वभावो निश्चयखरूप इत्यर्थः; या च तत्समकालमीहाऽभ्युपेयते सा तर्कस्वभावा, अनिश्चयात्मिकेत्यर्थः । तत एतावीहा-पायावनिश्चयेतरस्वभावौ कथमर्थावग्रहे युगपदेव युक्तौ; निश्चया-ऽनिश्चययोः परस्परपरिहारेण व्यवस्थितत्वात् , एकत्रैकदाऽवस्थानाभावेन सहोदयाऽनुपपत्तेः । इति । एषा तावद् विशेषावगमे-हयोः सहभावे एकाऽनुपपत्तिः । अपरं च समयमात्रकालोऽर्थावग्रहः , ईहा-ऽपायौ तु "ईहा-चाया मुहुत्तमंतं तु" इति वचनात् प्रत्येकमसंख्येयसमयनिष्पनी कथमेकस्मिन्नर्थावग्रहसमये स्याताम् , अत्यन्तानुपपन्नत्वात् । इति द्वितीयाऽनुपपत्तिः । तस्मादत्यन्तासंबद्धत्वाद् यत् किश्चिदेतत् , इत्युपेक्षणीयम् ॥ इति गाथार्थः ॥२७९ ।। तदेवं युक्तिशतैर्निराकृतानामपि प्रेरकाणां निःसंख्यात्वात् केषांचित् मेर्यशेषमद्यापि मूरिराशङ्कतेखिप्पे-यराइभेओ जमोग्गहो तो विसेसविण्णाणं । जुज्जइ विगप्पवसओ सद्दो त्ति सुयम्मि जं केइ ॥ २८ ॥
केइ त्ति' इहार्थावग्रहे विशेषज्ञानसमर्थनाऽऽग्रहममुमुक्षवोऽद्यापि केचिद् वादिनो मन्यन्ते । किम् ?, इत्याह-क्षिप्रे-तरादिभेदो यस्मादवग्रहो ग्रन्थान्तरे भणितः 'अत्रापि च विस्तरेण भणिष्यते' इति गम्यते । ततः 'शब्दः' इति विशेषविज्ञानं युज्यते घटते 'अर्थावग्रहे' इति प्रस्तावादेव लभ्यते । यत् किम् ?, इत्याह- 'सुयम्मि जंति' " तेणं सद्दे ति उग्गहिए" इत्यादिवचनात् यत् 'सूत्रे निर्दिष्टम्' इति शेषः । कुतः पुनरिदं विशेषविज्ञानं युज्यते ?, इत्याह- विकल्पवशतोऽन्यत्रोक्तनानात्ववशतः, इत्यक्षरघटना ॥
एतच्चाऽत्र हृदयम्- “क्षिप्रमवगृहाति, चिरेणाऽवगृहाति, बहवगृह्णाति, अबढ़वगृह्णाति, बहुविधमवगृह्णाति, अबहुविधमवगृह्णाति, एवमनिश्रितम् , निश्रितं, असंदिग्धं, संदिग्धम् , धुवम् , अध्रुवमवगृह्णाति" इत्यादिना ग्रन्थेनाऽवग्रहादयः शास्त्रान्तरे द्वादशभिर्विशेषणैर्विशेषिताः । अत्रापि च पुरस्तादयमों वक्ष्यते । ततः 'क्षिप्रं चिरेण वाऽवगृह्राति' इतिविशेषणान्यथानुपपत्तेर्जायते
१ भावग्रहसमये विष्वगसंख्येवसामयिकी द्वावपि । तर्का-उवगमस्वभावावीहा-उपायौ कथं युक्ती १ ॥ २७९॥ २ ईहा-पायी मुहूर्तान्तस्तु । ३ क्षि-तरादिभेडो पदवमहस्ततो विशेषविज्ञानम् । युज्यते विकल्पवशतः शब्द इति सूत्रे यत् केचित् ॥ २८॥
।
7॥१६४॥
For Des
s ert
Page #167
--------------------------------------------------------------------------
________________
बृहद्रतिः ।
नैकसमयमात्रमान एवाऽर्थावग्रहः, किन्तु चिरकालिकोऽपि न हि समयमात्रमानतयैकरूपे तस्मिन् विप्र-चिरग्रहणविशेषणमुपपद्यत विशेषा० इति भावः। तस्मादेतद्विशेषणवलादसंख्येयसमयमानोऽप्यर्थावग्रहो युज्यते । तथा, बहूनां श्रोतुणामविशेषेण प्राप्तिविषयस्थे शह
ER भेर्यादिबहुतूर्यनिर्घोपे क्षयोपशमवैचित्र्यात कोऽप्यवर अवगृहाति, सामान्य समुदिततूर्यशब्दमात्रमवगृहातीत्यर्थः । अन्यस्तु बहवन
हाति, शङ्क-भयोदितूर्यशब्दान् भिन्नान् बहून् गृहातीत्यर्थः । अन्यस्तु स्त्री-पुरुषादिवायत्व-स्निग्ध-मधुरत्वादिबहुविधविशेषविशिएत्वेन बहुविधमवगृह्णाति, अपरस्त्वबहुविधविशेषविशिष्ठत्वादबहुविधमवगृहाति । अत एतस्माद् बहु-बहुविधायनेकविकल्पनानात्वव
शादवग्रहस्य कचित् सामान्यग्रहणम् , कचित् तु विशेषग्रहणम्, इत्युभयमप्यविरुद्धम् । अतो यत् मूत्रे "'तेणं सद्दे त्ति उम्गहिए" E0 इति वचनात् 'शब्दः' इति विशेषविज्ञानमुपदिष्टम् , तदप्यर्थावग्रहे युज्यत एव, इति केचित् ।। इति गाथार्थः ॥ २८॥
अत्रोत्तरमाह
से किमोग्गहो ति भण्णइ गहणे-हा-वायलक्खणत्ते वि? । अह उवयारो कीरइ तो सुण जह जुज्जए सो वि ॥२८॥ Lo इह पूर्वमनेकधा प्रतिविहितमप्यर्थं पुनः पुनः प्रेरयन्त प्रेरकमवलोक्याऽन्तर्विस्फुरदम्यावशात् साक्षेपं काक्वा मूरिः पृच्छति-'किमो
गहो त्ति भण्णइ त्ति' किंशब्दः क्षेपे, यो बहु-बहुविधादिविशेषणवशाद् विशेषावगमः स किमबुधचक्रवर्तिन् ! अवग्रहोऽर्थावग्रहो भण्यते । क सत्यपि ?, इत्याह-'गहणे-हित्यादि' ग्रहणं च सामान्यार्थस्य, ईहाऽवगृहीतस्य, अपायश्चेहितार्थस्य ग्रहणे-हा-पायास्तैलक्ष्यते प्रकटीक्रियते यः स तथा तद्भावस्तत्व तस्मिन् सत्यपि, बहु-बहुविधादिग्राहको हि विशेषावगमो निश्चयः, स च सामान्याऽर्थग्रहणं, ईहां च विना न भवति, यश्च तदविनाभाषी सोऽपाय एव, कथमर्थावग्रह इति भण्यते ? इति । एतत्पूर्वमसकृदेवोक्तमपि हन्त ! विस्मरणशीलतया, जडतया, बद्धाभिनिवेशतया षा पुनः पुनरस्मान् भाणयसीति किं कुर्मः १, पुनरुक्तमपि ब्रूमः, यद् यस्मादायासेनाऽपि कश्चिद् मार्गमासादयतीति । ननु ग्रहणम् , ईहा च विशेषावगमस्य लक्षणं भवतु, ताभ्यां विना तदभावात् । अपायस्तु कथं तल्लक्षणम् , तत्स्वरूपत्वादेवाऽस्य । सत्यम् , किन्तु स्वरूपमपि भेदविवक्षया लक्षणं भवत्येव, यदाह
"विषा-अमृते स्वरूपेण लक्ष्येते कलशादिवत् । एवं च स्वस्वभावाभ्यां व्यज्येते खल-सज्जनौ " ॥१॥ आह- यदि बहु-बहुविधादिग्राहकोऽपाय एव भवति, तर्हि कथमन्यत्राऽवग्रहादीनामपि बहादिग्रहणमुक्तम् । सत्यम् , कि१ तेन शब्द इत्यवगृहीतः। २ स किमवमह इति भण्यते प्रहणे-हा-पायलक्षणत्वेऽपि ।। अथोपचारः क्रियते ततः कृणु यथा युज्यते सोऽपि ॥२८॥
काटकर
॥१६
।
J
antem
For Personal and Private Use Only
wMR.Janeitrary.org
Page #168
--------------------------------------------------------------------------
________________
विशेषा०
बृहद्वात्तः।
॥१६६॥
न्त्वपायस्य कारणमवग्रहादयः, कारणे च योग्यतया कार्यस्वरूपमस्ति, इत्युपचारतस्तेऽपि बह्वादिग्राहकाः पोच्यन्ते, इत्यदोषः। यद्येवम् , तर्हि वयमप्यपायगतं विशेषज्ञानमर्थावग्रहेऽप्युपचरिष्याम इति । एतदेवाह- 'अहेत्यादि' अथोक्तन्यायेनोपचारं कृत्वा विशेषग्राहकोऽर्थावग्रहः प्रोच्यते । नैतदेवम् , यतो मुख्याभावे सति प्रयोजने निमित्ते चोपचारः प्रवर्तते । न चैवमुपचारे किश्चित् प्रयोजनमस्ति । " तेणं सद्दे ति उग्गहिए" इत्यादिसूत्रस्य यथाश्रुतार्थनिगमनं प्रयोजनमिति चेत् । न, 'सद्दे ति भणइ वत्ता' इत्यादिप्रकारेणाऽपि तस्य निगमितत्वात् । सामर्थ्यव्याख्यानमिदम् , न यथाश्रुतार्थव्याख्यति चेत् । तर्हि यापचारेणाऽपि श्रौतोऽर्थः सूत्रस्य व्याख्यायत इति तवाभिप्रायः, तर्हि यथा युज्यत उपचारः, तथा कुरु, न चैवं क्रियमाणोऽसौ युज्यते, यतः 'सिंहो माणवकः"समुद्रस्तडागः' इत्यादाविव किश्चित्साम्ये सत्ययं विधीयमानः शोभते । न चैतत्सामायकेऽर्थावग्रहे-ऽसंख्येयसामयिकं विशेषग्रहणं कथमप्युपपद्यते । तर्हि कथमयमुपचारः क्रियमाणो घटते ?, इति चेत् । अहो ! सुचिरादुपसन्नोऽस्ति । ततः शृणु समाकर्णयाऽवहितेन मनसा, सोऽपि यथा युज्यते तथा कथयामि- 'सद्दे त्ति भणइ वत्ता' इत्यादिप्रकारेण तावद् व्याख्यातं सूत्रम् । यदि चौपचारिकेणाऽप्यर्थेन भवतः प्रयोजनम् , तर्हि सोऽपि यथा घटमानकस्तथा कथ्यत इत्यपिशब्दाभिप्रायः॥ इति गाथार्थः ।। २८१॥ ___ यथाप्रतिज्ञातमेव संपादयन्नाह
सामण्णमेत्तग्गहणं नेच्छइओ समयमोग्गहो पढमो । तत्तोऽणतरमीहियवत्थुविसेसस्स जोऽवाओ ॥ २८२॥ सो पुणरीहा-ऽवायावेक्खाओ वग्गहो त्ति उवयरिओ । एस्सविसेसावेक्खं सामण्णं गेण्हए जेणं ॥ २८३ ॥
तत्तोऽणंतरमीहा तत्तोऽवाओ य तव्विसेसस्स । इय सामण्ण-विसेसावेक्खा जावंतिमो भेओ ॥ २८४ ॥
व्याख्या- इहैकसमयमात्रमानो नैश्चयिको निरुपचरितः प्रथमोऽर्थावग्रहः । कथंभूतः, इत्याह- सामान्यमात्रस्याऽव्यक्तनिर्देश्यस्य वस्तुनो ग्रहणं सामान्यवस्तुमात्रग्राहक इत्यर्थः, सामयिकानि हि ज्ञानादिवस्तूनि परमयोगिन एव निश्चयवेदिनोऽवगच्छन्तीति
सेन शब्द इत्यवगृहीतः । २ गाथा २५३ । ३ क. ग. 'निर्गमि' घ. 'निमित्तत्वा'। । सामान्यमानमहर्ण नैश्चयिका समयमवग्रहः प्रथमः । ततोऽनन्तरमीहितवस्तुविशेषस्य योऽपायः ॥ २८२ ॥ स पुनराहा-उपायापेक्षातोऽवग्रह इत्युपचरितः । एष्यविशेषापेक्षं सामान्यं गृह्यते येन ॥ २३ ॥ ततोऽनन्तरमौदा ततोऽपायश्च तद्विशेषस्य । इति सामान्य-विशेषापेक्षा यावदन्तिमो भेदः ॥ २८५ ॥
॥१६६॥
Jan Education interna
For Personal and Private Use Only
Page #169
--------------------------------------------------------------------------
________________
विशेषा०
॥१६७॥ |
Jain Educationa Internation
नैarraisegood | अथ च्छद्मस्थव्यवहारिभिरपि यो व्यवहियते तं व्यावहारिकमुपचरितमर्थावग्रहं दर्शयति- ' तत्तो इत्यादि' ततो नैश्चयिकार्थावग्रहादनन्तरमीहितस्य वस्तुविशेषस्य योऽपायः स पुनर्भाविनीहाम्, अपायं चाऽपेक्ष्योपचरितोऽवग्रहोऽर्थावग्रह इति द्वितीयगाथायां संबन्धः । उपचारस्यैवाऽस्य निमित्तान्तरमाह- 'एस्सेत्यादि ' एप्यो भावी योऽन्यो विशेषस्तदपेक्षया येन कारणेनायमपायोsपि सन् सामान्यं गृह्णाति, यश्च सामान्यं गृह्णाति सोऽर्थावग्रहो यथा प्रथमो नैश्चायकः । एतदिह तात्पर्यम् - प्रथमं नैश्चयिकेsर्थावग्रहे रूपादिभ्योऽव्यावृत्तमव्यक्तं शब्दादिवस्तुसामान्यं गृहीतं, ततस्तस्मिन्नीहिते सति 'शब्द एवाऽपम्' इत्यादिनिश्चय रूपोऽपायो भवति । तदनन्तरं तु 'शब्दोऽयं किं शाङ्खः, शार्ङ्ग वा' इत्यादिशब्दविशेषविषया पुनररीहा प्रवर्तिष्यते, 'शाङ्ख एवाड्यं शब्दः' इत्यादिशब्दविशेषविषयोsurer यो भविष्यति तदपेक्षया 'शब्द एवाऽयम्' इति निश्चयः प्रथमोऽपायोऽपि सन्नुपचारादर्थावग्रहो भण्यते, ईहा ऽपायापेक्षात इति, अनेन चोपचारस्यैकं निमित्तं सुचितम् । 'शाङ्खोऽयं शब्दः, इत्याद्येष्यविशेषापेक्षया येनाऽसौ सामान्यशब्दरूपं सामान्यं गृह्णातीति, अनेन तूपचारस्यैव द्वितीयं निमित्तमावेदितम् ; तथाहि - यदनन्तरमीहा पायौ प्रवर्तेते, यश्च सामान्यं गृह्णाति सोऽर्थावग्रहः, यथाऽऽद्यो नैश्रयिकः, प्रवर्तते च 'शब्द एवायम् इत्याद्यपायाऽनन्तरमीहा पायौ, गृह्णाति च ' शाङ्खोऽयं ' इत्यादिभाविविशेषापेक्षयाऽयं सामान्यम् । तस्मादर्थावग्रह एष्यविशेषापेक्षया सामान्यं गृह्णातीत्युक्तम् । ततस्तदनन्तरं किं भवति १, इत्याह तृतीयगाथायाम्' तत्तोऽणन्तरमित्यादि' ततः सामान्येन शब्दनिश्चयरूपात् प्रथमापायादनन्तरं ' किमयं शब्दः शाङ्खः शार्ङ्ग वा ?' इत्यादिरूपेहा प्रवर्तते । ततस्तद्विशेषस्य शङ्खमभवत्वादेः शब्दविशेषस्य 'शाङ्क एवाऽयम्' इत्यादिरूपेणाऽपायश्च निश्चयरूपो भवति । अयमपि च भूयोsन्यतद्विशेषाकाङ्क्षावतः प्रमातुर्भाविनीमीहामपायं चाऽपेक्ष्य, एष्यविशेषापेक्षया सामान्यालम्बनत्वाच्चाऽर्थावग्रह इत्युपचर्यते । इयं च सामान्य विशेषापेक्षा तावत् कर्तव्या यावदन्त्यो वस्तुनो भेदो विशेषः । यस्माच्च विशेषात् परतो वस्तुनोऽन्ये विशेषा न संभवन्ति सोऽन्त्यः, अथवा संभवत्स्वपि अन्यविशेषेषु यतो विशेषात् परतः प्रमातुस्तजिज्ञासा निवर्तते सोऽन्त्यः, तमन्त्यं विशेषं यावद् व्यावहारिकार्थावग्रहे-हा-पायार्थ सामान्य विशेषाऽपेक्षा कर्तव्या ।। इति गाथात्रयार्थः ।। २८२ ।। २८३ ॥ २८४ ॥
इह च गाथात्रयेऽपि यः पर्यवसितोऽर्थो भवति, तमाह
सैव्वत्थे-हा-वाया निच्छयओ मोत्तुमाइसामण्णं । संववहारत्थं पुण सव्वत्थाऽवग्गहोऽवाओ ॥ २८५ ॥
१ सर्वत्रेहा पायौ निश्रयतो मुक्त्वाऽऽदिसामान्यम् । संव्यवहारार्थं पुनः सर्वनाऽयमहोऽपायः ॥ २८५ ॥
For Personal and Private Use Only
बृहद्वत्तिः ।
॥१६७॥
www.janelibrary.org
Page #170
--------------------------------------------------------------------------
________________
MINISTR8
विशेषा०यावदम्यो
॥१६॥
सर्वत्र विषयपरिच्छेदे कर्तव्ये निश्चयतः परमार्थत ईहा-पायौ भवतः, 'ईहा, पुनरपायः, पुनरीहा, पुनरप्यपायः' इत्येवं क्रमेण यावदन्त्यो विशेषः, तावदीहा-ऽपायावेव भवतः, नार्थावग्रह इत्यर्थः, । किं सर्वत्रैवमेव ?, न, इत्याह- 'मोत्तुमाइसामण्णं ति' आद्यमव्यक्तं सामान्यमात्रालम्बनमे सामयिक ज्ञानं मुक्त्वाऽन्यत्रेहा-ऽपायौ भवतः, इदं पुनर्नेहा, नाऽप्यपायः, किन्त्वर्थावग्रह एवेति भावः । संव्यवहारार्थे व्यावहारिकजनप्रतीत्यपेक्षं पुनः सर्वत्र यो योऽपायः स स उत्तरोत्तरेहा-पायापेक्षया, एष्यविशेषापेक्षया चोपचारतोविग्रहः । एवं च तावद् नेयम्, यावत्तारतम्येनोत्तरोत्तरविशेषाकाङ्क्षा प्रवर्तते ।। इति गाथार्थः ।। २८५॥
तरतमयोगाभावे तु किं भवति ?, इत्याह
तैरतमजोगाभावेऽवाउ च्चिय धारणा तदंतम्मि । सव्वत्थ वासणा पुण भणिया कालंतरे वि सई ॥२८६॥
तरतमयोगाभावे ज्ञातुरग्रेतनविशेपाकाङ्क्षानिवृत्तावपाय एव भवति , न पुनस्तस्याऽवग्रहत्वमिति भावः , तनिमित्तानां पुनराहादीनामभावादिति । यद्यग्रत ईहादयो न भवन्ति, तर्हि किं भवति ?, इत्याह- तदन्तेऽपायान्ते धारणा तदर्थोपयोगाऽअच्युतिरूपा भवति । शेषस्य वासना-स्मृतिरूपस्य धारणाभेदद्वयस्य क संभवः ?, इत्याह- 'सव्वत्थ वासणा पुणेत्यादि' वासना वक्ष्यमाणरूपा, तथा कालान्तरे स्मृतिः, सा च सर्वत्र भणिता। अयमर्थः- अविच्युतिरूपा धारणाऽपायपर्यन्त एव भवति, वासना-स्मृती तु सर्वत्र कालान्तरेऽप्यविरुद्ध ।। इति गाथार्थः ॥ २८६ ॥ एवं चाऽभिहितस्वरूपव्यावहारिकाऽर्थावग्रहापेक्षया यथाश्रुतार्थव्याख्यानमपि सूत्रस्याविरुद्धमेव, इति दर्शयन्नाहसदो त्ति व सुयभणियं विगप्पओ जइ विसेसविण्णाणं । घेप्पेज तं पि जुज्जइ संववहारोग्गहे सव्वं ॥ २८७ ॥
वाशब्दोऽथवार्थे, ततश्चायमभिप्रायः- 'सदे ति भणइ वत्ता' इत्यादिप्रकारेण तावद् व्याख्यातं “तेणं सद्दे त्ति उग्गहिए" | इत्यादि मूत्रम् । अथवा 'शब्दः" इति यत्सूत्रभणितम्- "शब्दस्तेनाऽवगृहीतः" इति यत् सूत्रे प्रतिपादितम् , तद् यदि विकल्पतो विवक्षावशतो विशेषविज्ञानं गृह्यते, तदपि सर्व युज्यते । कस्मिन् ?, इत्याह-यथोक्त औपचारिके सांव्यवहारिकार्थावग्रहे गृह्यमाणे तरतमयोगाभावेशाय एवं धारणा सहन्ते । सर्वत्र वासना पुनर्भणिता कालान्तरेऽपि स्मृतिः ॥ २८६॥ २ घ. छ. ज, 'तरसई य'।
pa||१६८॥ ३ घ.छ.ज. 'न्तरे स्मृतिः कालान्तरस्म'। ४ शब्द इति वा श्रुतभणितं विकल्पतो यदि विशेषविज्ञानम् । गृहोत तदपि युज्यते संव्यवहारावग्रहे सर्वम् ॥२८७॥ ५ गाथा १५३ । ६ तेन शब्द इत्यवगृहीतः।
Jan Education Internatio
For Personal and Private Use Only
ANTww.jaineltrary.org
Page #171
--------------------------------------------------------------------------
________________
विशेषा०
बृहद्वत्तिः ।
॥१६९॥
सति; अत्र हि 'शब्दः' इति विशेषविज्ञान युज्यते, सर्वग्रहणास् तदनन्तरमीहादयश्चप्पियन्ते, पूर्वोक्तयुक्तः । ततश्च "से' जहानामए केइ पुरिसे अव्वत्तं सई सुणेजा, तेण सद्दे ति उग्गहिए, न उण जाणइ के वेस सद्दे, तओ ईहं पविसइ, तओ अवार्य गच्छई" इत्या- दि सर्वे सुस्थं भवति । यद्येवम् , अयमेवार्थावग्रहः कस्माद् न गृह्यते, येन सर्वोऽपि विवादः शाम्यति? इति चेत् । नैवम् , 'शब्द एवाऽयम्' इत्याद्यपायरूपोऽयमावग्रहः, अपायश्च सामान्यग्रहणे-हाभ्यामन्तरेण न संभवति, इत्याद्यसकृत् पूर्वमभिहितमेव । इति पाक्तनमेव व्याख्यानं मुख्यम् । इत्यलं विस्तरेण ॥ इति गाथार्थः ।। २८७ ।। व्यावहारिकार्थावग्रहाभ्युपगमे यो गुणस्तं सविशेषमुपदर्शयन्नाह
खिप्पे-यराइभेओपुव्वोइयदोसजालपरिहारो । जुज्जइ संताणेण य सामण्ण-विसेसववहारो ॥ २८८ ॥ क्षिप्रे-तरादिभेदं यत् पूर्वोदितदोषजालं तस्य परिहारो युज्यते 'अस्मिन् व्यावहारिकेऽर्थावग्रहे सति' इति प्रक्रमाद् गम्यते । इदमुक्तं भवति- एकसामयिकनैश्चयिकाऽर्थावग्रहव्याख्यातारं प्रति प्राग् यदुक्तम्- यद्यसावेकसामयिकः, तर्हि कथं क्षिप्र-चिरग्रहणविशेषणमस्योपपद्यते; तथा यद्यसौ सामान्यमात्रग्राहकः, तर्हि बहु-बहुविधादिविशेषणोक्तं विशेषग्रहणं कयं घटते ? ; तथाविग्रहस्य विशेषग्राहकत्वे यत् समयोपयोगबाहुल्यमुक्तम् । इत्यादिकस्य दोषजालस्य परिहारो व्यावहारिकेविग्रहे सति युज्यते, तथाहि-नैश्चयिकावग्रहवादिनेदानीं शक्यमिदं वक्तुं यदुत-क्षिप्रे-तरादिविशेषणानि यौवहारिकावग्रहविषयाण्येतानि,असंख्येयसमयनिष्पन्नत्वेनाऽस्य क्षिप-चिरग्रहणस्य युज्यमानत्वात्, विशेषग्राहकत्वेन बहु-बहुविधादिग्रहणस्याऽपि घटमानकत्वादिति । 'सामण्ण-तयण्णविसेसेहा' इत्यादिना मागभिहितं समयोपयोगबाहुल्यमप्यस्मिन् निरास्पदमेव, सामान्यग्रहणे-हापूर्वकत्वेन, असंख्येयसामयिकत्वेन चैकसमयोपयोगवाहुल्यस्याऽत्राऽसंबध्यमानत्वादिति । ननु नैश्चयिकावग्रहे किं क्षिप्रे-तरादिविशेषणकलापो न घटते, येन व्यावहारिकावग्रहापेक्षःप्रोच्यते । सत्यम् , मुख्यतया व्यवहारावग्रहे एवं घटते, कारणे कार्यधर्मोपचारात् पुनर्निश्चयावग्रहेपि युज्यते, इति प्रागप्युक्तम् , वक्ष्यते च विशिष्टादेव हि कारणात् कार्यस्य वैशिष्टयं युज्यते, अन्यथा त्रिभुवनस्याऽप्यैश्वर्यादिप्रसङ्गः, काष्ठखण्डादेरपि रत्नादिनिचयाचाप्तः, इत्यलं प्रसङ्गेन । प्रकृतमुच्यतेसंतानेन च योऽसौ सामान्य-विशेषव्यवहारो लोके रूढः, सोऽपि 'व्यवहारावग्रहे सति युज्यते' इतीहापि संबध्यते । लोकेऽपि हि यो
तद्यथानामा कश्चित् पुरुषोऽव्यक्तं शब्दं शृणुयात् , तेन शब्द इत्यवगृहीतः, न पुनर्जानाति क एप शब्दः, सत ईहां प्रविशति, ततोऽपायं गच्छति । १ ज. 'हाऽर्थान्यु' । ३ क्षिप्रे-तरादिभेदपूर्वोदितदोषजालपरिहारः । युज्यते संतानेन च सामान्यविशेषव्यवहारः ॥ २८८ ॥ ४ गाथा २६७ ।
बERBASTI
॥१६९॥
Poeto solo
ताalarolo
Jan Education internat
For Personal and Private Use Only
Page #172
--------------------------------------------------------------------------
________________
विशेषा० ॥१७॥
विशेषः सोऽप्यपेक्षया सामान्यम् , यत्सामान्यं तदप्यपेक्षया विशेष इति व्यवहियते, तथाहि- 'शब्द एवाऽयम्' इत्येवमध्यवसितोऽर्थः पूर्वसामान्यापेक्षया विशेषः, 'शाङ्खोऽयम्' इत्युत्तरविशेषापेक्षया तु सामान्यम्, इत्येवं यावदन्त्यो विशेष इति प्रागप्युक्तम् ।
बृहद्वत्तिः । अयं चोपर्युपरिज्ञानप्रवृत्तिरूपेण संतानेन लोके रूढः सामान्य-विशेषव्यवहार औपचारिकावग्रहे सत्येव घटते, नान्यथा, तदनभ्युपगमे हि प्रथमापायानन्तरमीहाऽनुत्थानम् , उत्तरविशेषाग्रहणं चाऽभ्युपगतं भवति, उत्तरविशेषाग्रहणे च प्रथमापाया चसितार्थस्य विशेषत्वमेव, न सामान्यत्वम् ; इति पूर्वोक्तरूपो लोकमतीतः सामान्य-विशेषव्यवहारः समुच्छिद्येत । अथ प्रथमापायानन्तरमभ्युपगम्यत ईहोत्थानम् , उत्तराविशेषग्रहणं च ; तर्हि सिद्धं तदपेक्षया प्रथमापायव्यवसितार्थस्य सामान्यत्वम्, यश्च सामान्यग्राहकः, यदनन्तरं चेहादिप्रवृत्तिः सोऽर्थावग्रहः, नैश्चयिकाऽऽद्यर्थावग्रहवत् , इत्युक्तमेव । इति सिद्धो व्यावहारिकार्थावग्रहः, तत्सिद्धौ च सन्तानप्रवृत्त्याऽन्त्यविशेषं यावत् सिद्धः सामान्य-विशेषव्यवहारः ।। इति गाथार्थः ।। २८८ ॥
॥ इति मतिज्ञानाऽऽद्यभेदलक्षणो विभेदोऽप्यवग्रहः समाप्त इति ॥ अथ तद्वितीयभेदलक्षणामीहां व्याचिख्यासुराह
इय सामण्णग्गहणाणंतरमीहा सदत्थवीमंसा । किमिदं सद्दोऽसद्दो को होज व संख-संगाणं? ॥ २८९ ॥
इतिशब्द उपपदर्शने, इत्येवं प्रागुक्तेन प्रकारेण नैश्चयिकाऽर्थावग्रहे यत् सामान्यग्रहणं रूपाद्यव्यावृत्त्याऽव्यक्तवस्तुमात्रग्रहणमुक्तम् , तथा व्यवहारावग्रहेऽपि यदुत्तरविशेषापेक्षया शब्दादिसामान्यग्रहणमभिहितम् । तस्मादनन्तरमीहा प्रवर्तते । कथंभूतेयम् ?, इत्याह- सतस्तत्र विद्यमानस्य गृहीतार्थस्य विशेषविमर्शद्वारेण मीमांसा विचारणा । केनोल्लेखेन ?, इत्याह- किमिदं वस्तु मया गृहीतं- शब्दः, अशब्दो वा रूप-रसादिरूपः १; इदं च निश्चयार्थावग्रहाऽनन्तरभाविन्या ईहायाः स्वरूपमुक्तम् । अथ व्यवहारार्थावग्रहानन्तरसंभविन्याः स्वरूपमाह-को होज वेत्यादि' वा इत्यथवा, व्यवहारावग्रहेण शब्दे गृहीत इत्थमीहा प्रवर्तते- शाङ्ख-शायोमध्ये कोऽयं भवेत् शब्दः- शाङ्खः, शाङ्गो वा ? इति । ननु 'किं शब्दः, अशब्दो वा ?' इत्यादिकं संशयज्ञानमेव कथमीहा भवितुमर्हति ?।। सत्यम्, किन्तु दिङ्मात्रमेवेदमिह दर्शितम् , परमार्थतस्तु व्यतिरेकधर्मनिराकरणपरः, अन्वयधर्मघटनप्रवृत्तश्चाऽपायाभिमुख एव बोध ईहा द्रष्टव्या, तद्यथा
||१७०॥ इति सामान्यग्रहणानन्तरमीदा सदर्थमीमांसा । किमिदं शब्दोऽशब्दः को भवेद् वा शाख-शााणाम् ? ॥ २८९ ॥
For Personal
Prime Use Only
Page #173
--------------------------------------------------------------------------
________________
3a0
बृहद्वत्तिः ।
विशेषा० ॥१७१॥
" अरण्यमेतत् सविताऽस्तमागतो न चाधुना संभवतीह मानवः । प्रायस्तदेतेन खगादिभाजा भाव्यं स्मरारातिसमाननाम्ना" ॥ १ ॥ इति । एतच्च प्रागुक्तमपि मन्दमतिस्मरणार्थं पुनरप्युक्तम् ॥ इति गाथार्थः ॥२८९ ।।
अथ मतिज्ञानतृतीयभेदस्याऽपायस्य स्वरूपमाहमेहुराइगुणत्तणओ संखस्सेव त्ति जं न संगस्स । विण्णाणं सोऽवाओ अणुगम-वइरेगभावाओ ॥२९० ॥
'मधुर-स्निग्धादिगुणत्वात् शङ्खस्यैवाऽयं शब्दः, न शृङ्गस्य' इत्यादि यद् विशेषविज्ञानम् , सोऽपायो निश्चयज्ञानरूपः । कुतः ?, इत्याह-पुरोवयर्थधर्माणामनुगमभावादस्तित्वनिश्चयसद्भावात् , तत्राविद्यमानार्थधर्माणां तु व्यतिरेकभावाद् नास्तित्वनिश्चयसत्त्वात् । अयं च व्यवहारार्थावग्रहानन्तरभावी अपाय उक्तः, निश्चयावग्रहानन्तरभावी तु खयमपि द्रष्टव्यः तद्यथा-श्रोत्रग्राह्यत्वादिगुणतः 'शब्द एवाऽयं, न रूपादिः' इति । ईहा-ऽपायविषयाश्च विप्रतिपत्तयः प्रागपि निराकृताः, इति नेहोक्ताः ।। इति गाथार्थः ॥ २९० ॥ अथ चतुर्थो मतिज्ञानभेदो धारणा, इयं चाऽविच्युति चासना-स्मृतिभेदात् त्रिधा भवति, अतः सभेदामपि तामाह
तैयणंतरं तयत्थाविच्चवणं जो य वासणाजोगो । कालंतरे य जं पुणरणुसरणं धारणा सा उ॥ २९१ ॥
तस्मादपायादनन्तरं तदनन्तरं यत् , तदर्थादविच्यवनम्- उपयोगमाश्रित्याऽभ्रंशः, यश्च वासनाया जीवेन सह योगः संबन्धः, यच्च तस्याऽर्थस्य कालान्तरे पुनरिन्द्रयरुपलब्धस्य, अनुपलब्धस्य वा, एवमेव मनसाऽनुस्मरणं स्मृतिर्भवति, सेयं पुनस्त्रिविधाऽप्यर्थस्याबधारणरूपा धारणा विज्ञेया ॥ इति गाथाक्षरघटना ॥ ___भावार्थस्त्वयम्- अपायेन निश्चितेऽर्थे तदनन्तरं यावदद्यापि तदर्थोपयोगसातत्येन वर्तते, न तु तस्माद् निवर्तते, तावत् तदर्थोपयोगादविच्युति म सा धारणायाः प्रथमभेदो भवति । ततस्तस्याऽर्थोपयोगस्य यदावरणं कर्म तस्य क्षयोपशमेन जीवो युज्यते, येन कालान्तरे इन्द्रियव्यापारादिसामग्रीवशात् पुनरपि तदर्थोपयोगः स्मृतिरूपेण समुन्मीलति । सा चेयं तदावरणक्षयोपशमरूपा वासना नाम द्वितीयस्त दो भवति । कालान्तरे च वासनावशात् तदर्थस्येन्द्रियरुपलब्धस्य, अथवा तैरनुपलब्धस्याऽपि मनसि या स्मृतिराविभवति, सा तृतीयस्तद्भेद इति । एवं त्रिभेदा धारणा विज्ञेया । तुशब्दोऽवग्रहादिभ्यो विशेषद्योतनार्थः । विप्रतिपत्तयस्त्वेतद्विषया
१ क. ग. घ. छ. ज. रतिप्रियतमारिस'। २ मधुरादिगुणत्वतः शङ्कस्यैवेति यद् न शृङ्गस्य । विज्ञानं सोऽपायोऽनुगम-व्यतिरेकभावात् ॥ २९ ॥ ३ तदनन्तरं तदर्थाऽविच्यवनं यश्च वासनायोगः । कालान्तरे च यत् पुनरनुस्मरणं धारणा सा तु ॥ २९१ ॥ ४ ज. 'सदास' ।
ROR
॥१७१॥
Jan Education interna
For Personal and Private Use Only
www.jaineltrary.ary
Page #174
--------------------------------------------------------------------------
________________
विशेषा ०
॥ १७२ ॥
Jain Education Internatio
अपि प्रागेव निराकृताः । इति गाथार्थः ॥ २९९ ॥
तदेवं " " से जहानामए केइ पुरिसे अव्वत्तं सद्दं सुणेज्ज " इत्यादिसूत्रानुरोधेन शब्दमाश्रित्याऽवग्रहादयो भाविताः । अथ सूत्रकारेणैव यदुक्तम्- “ एवं एएणं अभिलावेणं अव्वत्तं रूवं रसं गंध फासं " इत्यादि, तच्चैतास निधाय भाष्यकारोऽप्यतिदेशमाहसेसेसु विरूवाइसु विसएसुं होंति रूवलक्खाई । पायं पच्चासन्नत्तणेणमीहाइवत्थूणि ॥ २९२ ॥ यथा शब्दे, एवं शेषेष्वपि रूपादिविषयेषु साक्षादनुक्तान्यपि रूपलक्षाणि कथितानुसारमसरत्यज्ञानां चतुरचेतसां सुज्ञेयानि भवन्ति । कानि १, इत्याह- ईहादीन्याभिनिबोधिकज्ञानस्य भेदवस्तूनि । केन रूपलक्षाणि १, इत्याह- प्रायः प्रत्यासन्नत्वेन चक्षुरादिना गृह्यमाणस्य स्थाण्वादेः, तत्राऽगृह्यमाणेन पुरुषादिना सह प्रायो बहुभिर्धर्मैर्यत् प्रत्यासन्नत्वं या प्रत्यासत्तिः सादृश्यमिति यावत्, तेनेहादीनि ज्ञेयानि, न पुनरत्यन्तवैलक्षण्ये स्थाण्वादेरुष्ट्रादिना सहेत्यर्थः, इदमुक्तं भवति- अवग्रहे तावत् सामान्यमात्रग्राहकत्वाद् द्वितीयवस्त्वपेक्षाऽपि न विद्यते, ईहा पुनरुभयवस्त्ववलम्बिनी, तत्र पुरोदृश्यमानस्य वस्तुनो यत् प्रतिपक्षभूतं वस्तु तत्प्रायो बहुभिर्धर्मैः प्रत्यासं ग्राह्यम्, न पुनरत्यन्तविलक्षणम् ; पुरो हि मन्दमन्दप्रकाशे दूराद् दृश्यमाने स्थाण्वादी 'किमयं स्थाणुः, पुरुषो वा' इत्येवमेवेहा प्रवर्तते, ऊर्ध्वस्थानारोह - परिणाहतुल्यतादिभिः मायो बहुभिर्धर्मैः पुरुषस्य स्थाणुप्रत्यासन्नत्वादिति । किमयं स्थाणुः, उष्ट्रो वा ?” इत्येवं तु न प्रवर्तते, उष्ट्रस्य स्थाण्वपेक्षया प्रायोऽत्यन्तविलक्षणत्वात् । अत एव सामान्यमात्रग्राह्यवग्रहोत्रादौ न कृतः, किन्तु 'ईहादीनि' इत्येवमेवोक्तम् उभयवस्त्ववलम्बित्वेनेहाया एव 'पायं पच्चासन्नत्तणेण' इतिविशेषणस्य सफलत्वात् । अपायस्याऽपि 'स्थाणुरेवाऽयं, न पुरुषः' इत्यादिरूपेण प्रवृत्तेः किञ्चिद् विशेषणस्य सफलत्वादादिशब्दोऽप्यविरुद्धः ॥ इति गाथार्थः ॥ ॥ २९२ ॥
इह 'किं शब्दः, अशब्दो वा ?" इति श्रोत्रेन्द्रियस्य प्रत्यासन्नवस्तूपदर्शनं कृतमेव । अथवशेषचक्षुरादीन्द्रियाणां विषयभूतानि प्रत्यासन्नवस्तूनि क्रमेण प्रदर्शयति
थाणु-पुरिसाइ कुट्टू- पलाइ संभियकरिल्ल-मंसाई । सप्पु - प्पलनालाइव समाणरूवाइविसयाई ॥ २९३ ॥ 'ईहादिवस्तूनि रूपलक्षाणि' इत्युक्तम् । कथंभूतानि सन्ति पुनस्तानि रूपलक्षाणि ?, इत्याह- समानः समानधर्मा रूप
१ तथानामा कश्चित् पुरुषोऽव्यक्तं शब्दं शृणुयात् । २ एवमेतेनाऽभिलापेनाऽव्यक्तं रूपं रसं गन्धं स्पर्शम् ।
३ शेषेण्यपि रूपादिषु विषयेषु भवन्ति रूपलक्षाणि । प्रायः प्रत्यासन्नत्वेनेहादिवस्तूनि ॥ २९२ ॥ ४. 'लक्ष्याणि' ।
५ स्थाणुः पुरुषादिः कुष्टापलादि-संभूतकरौल-मांसादि । सर्पों पढनालादिवत् समानरूपादिविषयाणि ॥ २९३ ॥
For Personal and Private Use Only
बृहद्वृत्तिः ।
॥ १७२ ॥
Page #175
--------------------------------------------------------------------------
________________
रसादिविषयो येषामीहादीनां तानि समानरूपादिविषयाणीति पूर्वगाथायां संवन्धः । कः पुनरमीषां समानधर्मा रूपादिविषयः ?. विशेषा० इत्याह- स्थाणु-पुरुषादिवदिति पर्यन्ते निर्दिष्टोऽपि विषयोपदर्शनाभिद्योतको वच्छब्दः सर्वत्र योज्यते । ततश्चक्षुरिन्द्रियप्रभवस्यहादेः
स्थाणु पुरुषादिवत् समानधर्मा रूपविषयो द्रष्टव्यः; आदिशब्दात् 'किमियं शुक्तिका, रजतखण्डं वा ?' 'मृगतृष्णिका, पयःपूरो वा ?' ॥१७३॥
'रज्जुः, विषधरो वा ?' इत्यादिपरिग्रहः । घ्राणेन्द्रियप्रभवस्येहादेः कुष्ठो-त्पलादिवत् समानगन्धो विषयः, तत्र कुष्ठं गन्धिकहट्टविक्रेयो वस्तुविशेषः, उत्पलं पद्मम् : अनयोः किल समानो गन्धो भवति । तत ईदृशेन गन्धेन 'किमिदं कुष्ठम् , उत्पलं वा ?' इत्येवमीहाप्रवृत्तिः, आदिशब्दात् 'किमत्र सप्तच्छदाः, मत्तकरिणो वा?' 'कस्तूरिका, वनगजमदो वा? इत्यादिपरिग्रहः । रसनेन्द्रियप्रभवस्येहादेः संभृतकरील-मांसादिवत् समानरसो विषयः । तत्र संभृतानि संस्कृतानि संधानीकृतान्युद्धृतानि यानि वंशजालिसंबन्धीनि करीलानि,
तथा मांसम् , अनयोः किलाऽऽस्वादः समानो भवति । ततोऽन्धकारादावन्यतरस्मिन् जिहाग्रप्रदत्ते भवत्येवम्-'किमिदं संभृतवंशRकरीलम् ,आमिषं वा?' इति; आदिशब्दाद् 'गुडः, खण्डं वा?' 'मृद्वीका, शुष्कराजादनं वा?' इत्यादिपरिग्रहः । स्पर्शनेन्द्रिय
प्रभवस्यहादेः सपो-पलनालादिवत् समानस्पर्शो विषयः, सर्पो-त्पलनालयोश्च तुल्यस्पर्शत्वेनेहाप्रवृत्तिः सुगमैव, आदिशब्दात स्त्री-पुरुषलेष्ट्र-पलादिसमानस्पर्शवस्तुपरिग्रहः ।। इति गाथार्थः ॥ २९३ ॥ ___ अथ यदुक्तं सूत्रे- “से जहानामए केइ पुरिसे अव्वत्तं सुमिणं पासेजा" इत्यादि, तदनुसृत्य खमे मनसोऽप्यवग्रहादीन् ।
POORDSPIRSSPACIDSARAN
दर्शयन्नाह
ऐवं चिय सुमिणाइसु मणसो सद्दाइएसु विसएसु । होतिंदियवावाराभावे वि अवग्गहाईया ॥ २९४ ॥ ___ एवमेवोक्तानुसारेणेन्द्रियव्यापाराभावेऽपि स्वमादिषु, आदिशब्दाद् दत्तकपाट-सान्धकाराऽपवरकादीनीन्द्रियव्यापाराभाववन्ति स्थानानि गृह्यन्ते, तेषु केवलस्यैव मनसो मन्यमानेषु शब्दादिविषयेष्ववग्रहादयोऽवग्रहे-हा-पाय-धारणा भवन्तीति स्वयमभ्यूह्याः, तथाहि- स्वमादौ चित्तोत्प्रेक्षामात्रेण श्रूयमाणे गीतादिशब्दे प्रथम सामान्यमात्रोत्पेक्षायामवग्रहः, 'किमयं शब्दः, अशब्दो वा?' इत्याद्युपेक्षायां त्वीहा, शब्दनिश्चये पुनरपायः, तदनन्तरं तु धारणा । एवं देवतादिरूपे, कर्पूरादिगन्धे, मोदकादिरसे, कामिनीकुचकलशादिस्पर्श चोप्रेक्ष्यमाणेऽवग्रहादयो मनसः केवलस्य भावनीयाः ॥ इति गाथार्थः ॥ २९४ ॥
१ ज. 'न्युत्थिता' । २ तद्यथानामा कश्चित् पुरुषोऽव्यक्तं स्वप्नं पश्येत् । । एवमेव स्वमादिषु मनसः शब्दादिषु विषयेषु । भवन्तीन्द्रियव्यापाराभावेऽष्यवमहादयः ॥ २९४ ॥
O॥१७३॥
Jauninama
For Personal
Pre Use Only
Page #176
--------------------------------------------------------------------------
________________
विशेषा.
बृहद्वत्तिः ।
॥१७४॥
आह- नन्वेतेऽवग्रहादय उत्क्रमेण, व्यतिक्रमेण वा किमिति न भवन्ति, यदा, ईहादयस्त्रयः, द्वौ, एको वा किं नाऽभ्युपगम्यन्ते, यावत् सर्वेऽप्यभ्युपगम्यन्ते ?, इत्याशङ्कयाह
उक्कमओऽइक्कमओ एगाभावे वि वा न वत्थुस्स । जं सब्भावाहिगमो, तो सव्वे नियमियक्कमा य ॥ २९५ ॥
एषामवग्रहादीनामुत्क्रमेणोत्क्रमतः, अतिक्रमेणाऽतिक्रमतः, अपिशब्दस्य भिन्नक्रमत्वादेकस्याऽप्यभावे वा यस्माद् न वस्तुनः सद्भावाधिगमः, तस्मात् सर्वे चत्वारोऽप्येष्टव्याः, तथा नियमितक्रमाश्च- सूत्रनिर्दिष्टपरिपाट्यन्विताश्च 'भवन्त्येतेऽवग्रहादयः' इति प्रक्रमाल्लभ्यते ।। इत्यक्षरयोजना ॥
भावार्थस्तूच्यते- तत्र पश्चानुपूर्वीभवनमुत्क्रमः, अनानुपूर्वीभवनं त्वतिक्रमः, कदाचिदवग्रहमतिक्रम्येहा, तामप्यतिलया| ऽपायः, तमप्यतिवृत्य धारणेति, एवमनानुपूर्वी रूपोऽतिक्रम इत्यर्थः । एताभ्यामुत्क्रम-व्यतिक्रमाभ्यां तावदवग्रहादिभिर्वस्तुखरूपं नावगम्यते । तथा, एषां मध्ये एकस्याऽप्यन्यतरस्याऽभावे वैकल्येन वस्तुस्वभावावबोध इत्यसकृदुक्तमायमेव । ततः सर्वेऽप्यमी एष्टव्याः, न त्वेकः, द्वौ, त्रयो वेत्यर्थः । तथा ' उग्नहो ईह अवाओ य धारणा एव होति चत्तारि' इत्यस्यां गाथायां यथैवकारेण पूर्वमेतेषां नियमितः क्रमः, तथैवैते नियमितक्रमा भवन्ति, नोत्क्रमा-अतिक्रमाभ्यामिति भावः ॥ इति गाथार्थः ।। २९५ ।। अथोत्क्रमा-तिक्रमयोः, एकादिवैकल्ये चावग्रहादीनां वस्त्वधिगमाभावे युक्तिमाह--
ईहिज्जइ नाऽगहियं नजइ नाणीहियं न याऽनायं । धारिजइ जं वत्थु तेण कमोऽवग्गहाई उ ॥२९६ ॥
यस्मादवग्रहेणाऽगृहीतं वस्तु नेह्यते-न तत्रेहा प्रवर्तते, ईहाया विचाररूपत्वात् , अगृहीते च वस्तुनि निरास्पदत्वेन विचाराऽयोगादिति भावः। तदनेन कारणेनाऽऽदाववग्रहं निर्दिश्य पश्चादीहा निर्दिष्टा । न चाऽनीहितमविचारितं ज्ञायते- अपायविषयतां याति, अपायस्य निश्चयरूपत्वात् , निश्चयस्य च विचारपूर्वकत्वादिति हृदयम् । एतदभिप्रायवता चाऽपायस्याऽऽदावीहा निर्दिष्टेति । न चाऽज्ञातम्- अपायेनाऽनिश्चितं, धार्यते धारणाविषयीभवति, वस्तुधारणाया अर्थावधारणरूपत्वात् , अवधारणस्य च निश्चयमन्तरेणाऽयोगादित्यभिप्रायः । ततश्च धारणादावपायः । ततः किम् ?, इत्याह- तेनावग्रहादिरेव क्रमो न्याय्यः, नोत्क्रमा-ऽतिक्रमो, यथोक्तन्यायेन वस्त्वेवगमाभावप्रसङ्गात् ।। इति गाथार्थः ।। २९६ ॥
१ उत्क्रमतोऽतिक्रमत एकाभावेऽपि वा न वस्तुनः । यत् स्वभावाधिगमः, ततः सर्वे नियमितक्रमाच ॥२९५॥ २ अवग्रह ईहाऽपायश्च धारणैव भवन्ति चत्वारि । ३ ईयते नाऽगृहीतं ज्ञायते नानीहितं न चाऽज्ञातम् । धार्यते यद् वस्तु तेन क्रमोऽवग्रहादिस्ख ॥ २९ ॥ ४ क. ग. 'स्वधिग'।
PARARIANSPIRIRHARAPAROPPER
॥१७४॥
लकहरु
Jan Education Internat
For Personal and Private Use Only
www.jaineltrary.ory
Page #177
--------------------------------------------------------------------------
________________
विशेषाः ॥१७॥
SARPRAPARIPOST
बृहदत्तिः।
तदेवं निराकृतौ सयुक्तिकमुत्क्रमा-तिक्रमौ । अथ यदुक्तम्- 'एगाभावे वि वा न वत्थुस्स ज सब्भावाहिगमो तो सचे' त्ति, तत्रापीयमेव युक्तिरिति दर्शयन्नाह
ऐतो च्चिय ते सव्वे भवंति भिन्ना य व समकालं । न वइक्कमो य तेसिं न अन्नहा नेयसब्भावो॥२९७॥
यत एव 'नाऽगृहीतमीह्यते' इत्यायुक्तम् , एतस्मादेव च तेऽवग्रहादयः सर्वे चत्वारोऽप्येष्टव्या भवन्ति, उक्तन्यायाद नैकवैकल्येऽपि मतिज्ञानं संपद्यत इत्यर्थः । 'पूर्वमवगृहीतमीह्यते' इत्यायुक्तरेव च ते भिन्नाः- परस्परमसंकीर्णाः, उत्तरोत्तरापूर्वभिन्नवस्तुपर्या| यग्रहणादिति । 'नाऽगृहीतमीह्यते' इत्यायुक्तरेव च न ते समकालं, भिन्नाः सिद्धास्तेऽवग्रहादयः समकालमपि नैव भवन्ति, युगपन्न जायन्त इत्यर्थः, 'पूर्वमवगृहीतमेवोत्तरकालमीह्यते, इहोत्तरकालमेव च निश्चीयते' इत्याद्युक्तन्यायेनैवाऽवग्रहादीनामुत्पत्तिकालस्य भिन्नत्वाद् न युगपत् संभव इति भावः । उक्तयुक्तरेव च तेषां न व्यतिक्रमः, उपलक्षणत्वाद् 'नाऽप्युत्क्रमः' इत्यपि द्रष्टव्यम् । एतच्च "तेण कमोऽवग्गहाई उ' इत्यनन्तरगाथाचरमपादेन सामर्थ्यादुक्तमपि प्रस्तावात् पुनरपि साक्षादुक्तम् , इत्यदोषः। तदेवं । ईहिज्जइ नागहियं' इत्यादियुक्तेर्यथोक्तधर्मका एवाऽवग्रहादयः, न विपर्ययधर्माण इति साधितम् । अथ ज्ञेयवशेनाऽप्येषां यथोक्तधर्मकत्वं सिसाधयिषुरिदमाह- 'न अन्नहा नेयसब्भावो त्ति' ज्ञेयस्याऽप्यवग्रहादिग्राह्यस्य शब्द-रूपादेर्नान्यथा खभावोऽस्ति, येनाऽवग्रहादयस्तद्ग्राहका यथोक्तरूपतां परित्यज्याऽन्यथा भवेयुरित्यर्थः । इदमुक्तं भवति-ज्ञेयस्याऽपि शब्दादेः स खभावो नास्ति, य एतैरवग्रहादिभिरेकादिविकलैरभिन्नैः, समकालभाविभिः, उत्क्रमाऽतिक्रमवद्भिश्चाऽवगम्येत; किन्तु शब्दादिज्ञेयखभावोऽपि तथैव व्यवस्थितो यथाऽमीभिः सर्वैर्भिन्नैः, | असमकालैः, उत्क्रमा-ऽतिक्रमरहितैश्च संपूर्णो यथावस्थितश्चाऽवगम्यते, अतो ज्ञेयवशेनाऽप्येते यथोक्तरूपा एव भवन्ति । तदेवं 'उक्कमओऽइक्कमओ एगाभावे वि वा' इत्यादिगाथोक्तं प्रसङ्गतोऽन्यदपि भिन्नत्वम् , असमकालत्वं च समर्थितम् ।। इति गाथार्थः।।२९७॥
अत्र परः प्राहअब्भत्थेऽवाओ च्चिय कत्थइ लक्खिजई इमो पुरिसो । अन्नत्थ धारण च्चिय पुरोवलद्धे इमं तं ति ॥ २९८ ॥
स्वभ्यस्तेऽनवरतं दृष्टपूर्वे, विकल्पिते, भाषिते च विषये पुनः कचित् कदाचिदवलोकितेऽवग्रहे-हाद्वयमतिक्रम्य प्रथमतो१ गाथा २९५। २ एतस्मादेव ते सर्वे भवन्ति भिनाश्च नैव समकालम् । न व्यतिक्रमञ्च तेषां नाऽन्यथा शेयसगावः ॥ २९७ ॥ ३ क. ग. घ. छ. 'नाऽगृ ४ गाथा २९६ । ५ अभ्यस्तेऽपाय एवं कचिलक्ष्यतेऽसौ पुरुषः । अन्यत्र धारणैव पुरोपलब्धे इदं तदिति ॥ २९८ ॥
॥१७५।।
Jan Education Intemato
For Dev
enty
Page #178
--------------------------------------------------------------------------
________________
बृह ।
ऽप्यपाय एव लक्ष्यतेऽनुभूयते निर्विवादमशेपैरपि जन्तुभिः, यथा 'असौ पुरुषः' इति । अन्यत्र पुनः कचित् पूर्वोपलब्ध सुनिश्चिते विशेषा० For दृढवासने विषयेऽवग्रहे-हा-पायानतिलय स्मृतिरूपा धारणैव लक्ष्यते, यथा 'इदं तद् वस्तु यदस्माभिः पूर्वमुपलब्धम्' इति । तत्
कथमुच्यते- उत्क्रमा ऽतिक्रमाभ्याम् , एकादिवैकल्ये च न वस्तुसद्भावाधिगमः ?-इदं च कथमभिधीयते-'ईहिज्जइ नागहिय' इत्यादि ॥१७६॥
इति प्रेरकाऽभिप्रायः ॥ इति गाथार्थः ॥ २९८ ॥ भ्रान्तोऽयमनुभव इति दर्शयन्नाह
उप्पलदलसयवेहे व्व दुविभावत्तणेण पडिहाइ । समयं व सुक्कसक्कुलिदसणे विसयाणमुबली ॥ २९९॥
'कचित् प्रथममेवाऽपायः, चित्तु धारणैव' इति यत् त्वया प्रेर्यते, तत् 'प्रतिभाति' इत्यनन्तरगाथोक्तेन संबन्धः । केनैतत प्रतिभाति', इत्याह- दुःखेन विभाव्यते दुर्विभावो दुर्लक्षस्तद्भावस्तचं तेन दुविर्भावत्वेन- दुर्लक्षत्वेन 'अवग्रहादिकालस्य' इति गम्यते । कस्मिन्निव ?, इत्याह- उत्पलं पद्यं तस्य दलानि पत्राणि तेषां शतं तस्य मूच्यादिना वेधनं वेधस्तस्मिन्निव । इदमुक्तं भवति- यथा तरुणः समर्थपुरुषः पद्मपत्रशतस्य मूच्यादिना वेधं कुर्वाण एवं मन्यते- मयैतानि युगपद् विद्धानि, अथ च प्रतिपत्रं तानि कालभेदनव भियन्ते, न चाऽसौ तं कालमतिसौम्याद् भेदेनाऽवबुध्यते, एवमत्राऽप्यवग्रहादिकालस्याऽतिमूक्ष्मतया दुर्विभावनीयत्वेनाप्रतिभासः, न पुनरसत्त्वेन, ईहादयो ह्यन्यत्र कचित् तावत् स्फुटमेवाऽनुभूयन्ते, यत्रापि वसंवदेनेन नाऽनुभूयन्ते, तत्रापि "ईहिज्जइ नागहियं नज्जइ नाणीहियं' इत्यादि प्रागसकृदभिहितयुक्तिकलापादवसेयाः । तस्मादुत्पलदलशतवेधोदाहरणेन भ्रान्त एवाऽयं प्रथमत एवाऽपायादिप्रतिभासः। अथोदाहरणान्तरेणाऽप्यस्य भ्रान्ततामुपदर्शयति- 'समयं वेत्यादि' 'वा' इत्यथवा, यथा शुष्कशष्कुलीदशने समयं युगपदेव सर्वेन्द्रियविषयाणां शब्द-रूप-रस-गन्ध-स्पर्शानामुपलब्धिः प्रतिभाति, तथैषोऽपि प्राथम्येनाऽपायादिप्रतिभासः। एतदुक्तं भवति- यथा कस्यचिच्छुष्कां दीर्घा शष्कुलिका भक्षयतः, तच्छब्दोत्थानाच्छब्दविज्ञानमुपजायते, अत एव शुष्कत्वविशेषणम् , मृयामेतस्यां शब्दानुत्थानादिति । शब्दश्रवणसमकालमेव च दीर्घत्वात् तस्या दृष्ट्या तद्रूपदर्शनं चाऽयमनुभवति, अत एव च दीर्घत्वविशेषणम् , अतिइस्वत्वे मुखप्रविष्टायास्तस्याः शब्दश्रवणसमकालं रूपदर्शनानुभवाभावादिति । रूपदर्शनसमकालं च तद्गन्धज्ञानमनुभवति, अत एव शष्कुलीग्रहणं, गन्धोत्कटत्वात् तस्याः, इक्षुखण्डादिषु तु दीर्घष्वपि तथाविधगन्धाभावादिति । गन्धादिज्ञानसमकालं च तद्रस-स्पर्शज्ञाने अनुभवति । तदेवं पञ्चानामपीन्द्रियविषयाणामुपलब्धियुगपदेवाऽस्य प्रतिभाति । न चेयं सत्या, इन्द्रियज्ञा
१ गाथा २९६ । २ उत्पलदलशतवेध इन दुर्विभावत्वेन प्रतिभाति । समयं वा शुष्कशषकुलीदशने विषाणामुपलब्धिः ॥ २९९ ।।
॥१७६॥
For Personal and Private Use Only
Page #179
--------------------------------------------------------------------------
________________
बाहर
विशेषा
॥१७७॥
नानां युगपदुत्पादायोगात् , तथाहि- मनसा सह संयुक्तमेवेन्द्रियं स्वविषयज्ञानमुत्पादयति, नान्यथा, अन्यमनस्कस्य॑ रूपादिज्ञानानुपलम्भात् । न च सर्वेन्द्रियैः सह मनो युगपत् संयुज्यते, तस्यैकोपयोगरूपत्वात् , एकत्र ज्ञातरि एककालेऽनेकै संयुज्यमानत्वाऽयोगात् । तस्माद् मनसोऽत्यन्ताऽऽशुसंचारित्वेन कालभेदस्य दुर्लक्षत्वाद् युगपत् सर्वेन्द्रियविषयोपलब्धिरस्य प्रतिभाति । परमार्थतस्त्वस्यामपि कालभेदोऽस्त्येव । ततो यथाऽसौ भ्रान्तै!पलक्ष्यते, तथाऽधग्रहादिकालेऽपीति प्रकृतम् । दीर्घत्वविशेषणं च शकुलिकाया गाथायामनुक्तमप्युपलक्षणत्वाद् विहितमिति परिभावनीयम् । तदेवमवग्रहादीनां नैकादिवैकल्यम् , नाऽप्युत्क्रमातिक्रमौ, इति स्थितम् ।। इति गाथार्थः ।। २९९ ॥ ___'उग्गहो ईहअवाओ य' इत्यादिगाथायाम् 'आभिनिवोधिकज्ञानस्य चत्वारि भेदवस्तूनि समासतः' इत्युक्तम् , तत् किं व्यासतो बहुभेदमप्याभिनिबोधिकज्ञानं भवति ?, इत्याशक्य तद्भेदबहुविधत्वदर्शनात् 'समासेन' इति विशेषणस्य सफलत्वमाह
सोइंदियाइभेएण छबिहा वग्गहादओऽभिहिआ। ते होंति चउब्बीसं चउव्विहं वंजणोग्गहणं ॥ ३०॥ अट्ठावीसइभेयं एयं सुयनिस्सियं समासेणं । केइ तु वंजणोग्गहवजे च्छोदणमेयम्मि ॥ ३०१॥
अस्सुयनिस्सियमेवं अट्ठावीसइविहं ति भासंति । जमवग्गहो दुभेओऽवग्गहसामण्णओ गहिओ ॥३०२॥
श्रोत्रेन्द्रियादीनां पञ्चानामिन्द्रियाणां मनःषष्ठानां यो भेदस्तेनाऽवग्रहादयः प्रत्येकं षड्विधाश्चत्वारोऽप्यभिहिताः । ततस्तैः षद्भिश्चत्वारो गुणिताश्चतुर्विंशतिर्भवन्ति । अन्यच्च स्पर्शन-रसन-प्राण-श्रोत्रेन्द्रियचतुष्टयभेदाद् व्यञ्जनावग्रहणं व्यञ्जनावग्रहचतुर्विधो भवति । एवमेतच्छूतनिश्रितमाभिनिवोधिकज्ञानं सर्वमप्यष्टाविंशतिविधं संपद्यते । एतदपि भेदाभिधानं वक्ष्यमाणबहुतरभेदकलापापेक्षयाऽद्यापि समासेन संक्षेपेण द्रष्टव्यम् ।।
१ ग. ज. 'स्य खरू' । २ ज. 'कैः सह यु' । ३ गाधा १७८। ४ श्रोनेन्द्रियादिभेदेन पद्विधा अवमहादयोऽभिहिताः । ते भवन्ति चतुर्विंशतिश्चतुर्विध प्यञ्जनावग्रहणम् ॥३०॥
अष्टाविंशतिभेदमेतत् श्रुतनिश्रितं समासेन । केचित्तु व्यञ्जनावग्रहवजें क्षिप्त्वैतस्मिन् ॥ ३०॥ अश्रुतनिश्रितमेवमष्टाविंशतिविधमिति भाषन्ते । यदवग्रहो विभेदोऽवग्रहसामान्यतो गृहीतः ॥ ३०२॥ ५ प.छ.ज. 'श्रवणेन्द्रि' ।
॥१७७॥
in una
For Personal and Private Use Only
www.jaineltrary.org
Page #180
--------------------------------------------------------------------------
________________
विशेषा०
॥१७८॥
Jain Educationa Internati
अन्ये त्वेतानष्टाविंशतिभेदानन्यथा पूरयन्ति, तन्मतमुपदर्शयति- 'केइ तित्यादि' केचित् पुनराचार्या एतस्मिन्नेव श्रुतनिश्रिते मतिज्ञानभेदसमुदये व्यञ्जनावग्रहभेदचतुष्टयवर्जे " उप्पत्तिया, वेणईया, कम्मिया, पारिणामिया " इत्यादिनाऽन्यत्र प्रागत्रापि च प्रतिपादितस्वरूपमश्रुतनिश्रितमौत्पत्तिक्यादि बुद्धिचतुष्टयं क्षिप्त्वा मीलयित्वा, एवमष्टाविंशतिविधं सर्वमपि मतिज्ञानमिति भाषन्ते । अयं हि तेषामभिप्रायः- मतिज्ञानस्य संपूर्णस्येह भेदाः प्रतिपादयितुं प्रक्रान्ताः, यदि चाऽश्रुतनिश्रितं बुद्धिचतुष्टयं न गण्यते तदा श्रुतनिश्रितरूपस्य मतिज्ञानदेशस्यैवैतेऽष्टाविंशतिभेदाः प्रोक्ता भवन्ति, न तु सर्वस्यापि यदा तूतन्यायेन श्रुतनिश्रितम्, अश्रुतनिश्रितं च मील्यते तदा सर्वस्याऽपि तस्य भेदाः सिद्धा भवन्ति । ननु साधूक्तं तैः केवलमेवं सति व्यञ्जनावग्रहचतुष्टयं क क्रियताम् ? न ह्येतदपि विक्रीयमाणं खलखण्डमात्रेण क्रीतम्, किन्त्विदमपि मतिज्ञानान्तर्गतमेव । ततोऽस्माद् निष्काश्यमानं वराकमिदं काऽवस्थितिं वनातु ?, इत्याशङ्क्याह- 'जमवग्गहो इत्यादि' यद् यस्माद् व्यञ्जनार्थावग्रहभेदतो योऽयमवग्रहो द्विभेदः प्रागुक्तः सोऽवग्रहसामान्येन गृहीतोऽवग्रहसामान्येऽन्तर्भावितः भवति च विशेषाणां सामान्येऽन्तर्भावः, यथा सेनायां गजादीनाम्, वनादौ च धव- खदिरादीनाम् । अतोऽवग्रहस्य सामान्यरूपतयैकत्वादवग्रहे- हा ऽपाय-धारणानामिन्द्रिय-मनो भेदेन प्रत्येकं षड्विधत्वाच्छ्रुतनिश्रितमतिज्ञानस्य चतुर्विंशतिरेवं भेदाः, अश्रुतनिश्रितस्य तु बुद्धिचतुष्टयलक्षणाश्चत्वारः, इत्येवं सर्व मतिज्ञानमष्टाविंशतिभेदं सिध्यति । इति कषांचिद् मतम् ।। इति गाथायार्थः ॥ ३०० ॥ ३०१ ।। ३०२ ।।
एतच्च तन्मतमयुक्तम् । कुतः १, इत्याह
इरित्ताभावा जम्हा न तमोग्गहाईओ । भिन्नं तेणोग्गहाइसामण्णओ तैयं तग्गयं चैव ॥ ३०३ ॥
चतुभ्र्योऽवग्रहे-हा-ऽपाय-धारणावस्तुभ्यो व्यतिरिक्तं चतुर्व्यतिरिक्तं तस्य चतुर्व्यतिरिक्तस्याश्रुतनिश्रितस्याभावात् कारणाद् यस्माद् यतो न तदश्रुतनिश्रितमवग्रहादिभ्यो भिन्नम् । ततः किम् ?, इत्याह- तेन कारणेनावग्रहादिसामान्यादवग्रहादिसामान्यमाश्रित्य 'तयं तग्गयं चैव त्ति' तेष्ववग्रहादिसंवन्धिष्पष्टाविंशतिभेदेष्वन्तर्गतं प्रविष्टमन्तर्भूतं तदन्तर्गतमेवाऽश्रुतनिश्रितं बुद्धिचतुष्टयम् । अतः किमिति व्यञ्जनावग्रहचतुष्टयं पातयित्वाऽश्रुतनिश्रितं बुद्धिचतुष्टयं पुनरपि प्रक्षिप्यते ?, इत्यभिप्रायः । इदमुक्तं भवति- 'सोइंदियाइभेएण छब्बिहा
१. छ. ज. 'दये' । २ औत्पत्तिकी, वैनयिकी, कार्मिकी, पारिणामिकी । ३ नन्द्यध्ययन सूत्रे ।
४ चतुर्व्यतिरिक्ताभावाद यस्माद् न तदवग्रहादयः । भिन्नं तेनाऽवग्रहादिसामान्यतस्तद् तद्गतमेव ॥३०३॥ क.ग. 'य तं त' घ. 'गयं त' । ६ गाथा ३०० ।
For Personal and Private Use Only
बृहद्वृत्तिः ।
|1120611
Page #181
--------------------------------------------------------------------------
________________
FO
विशेषा०
वृहद्रातः।
॥१७९॥
वग्गहादओ' इत्यादिना प्रतिपादितैरवग्रहादिसंबन्धिभिरष्टाविंशतिभेदैः किलासंगृहीतत्वाद् व्यञ्जनावग्रहचतुष्टयापगमं कृत्वाऽश्रुतनिश्रितं बुद्धिचतुष्टयं मतान्तरवादिभिः प्रक्षिप्यते; एतच्चायुक्तम् , यतः 'सोइंदियाइभेएण' इत्यादिनाऽवग्रहादीनामेवाऽष्टाविंशतिभेदाः प्रोक्ताः, अवग्रहादयश्च बुद्धिचतुष्टयेऽपि सन्ति, अतोऽवग्रहादिभणनद्वारेण तदप्यश्रुतनिश्रितं बुद्धिचतुष्टयमेतेष्वष्टाविंशतिभेदेषु संगृहीतमेव, इति किमिति तैः पुनरपि प्रक्षिप्यते ? ॥ इति गाथार्थः ।। ३०३ ॥
तत्रैतत् स्यात् प्रष्टव्यं परस्य- 'कथमौत्पत्तिक्यादिबुद्धिचतुष्टयेऽवग्रहादयः संभवन्ति ? । तदत्र यथा ते भवन्ति, तथा दर्शयन्नाह
किह पडिकुक्कुडहीणो जुझे बिंबेण वग्गहो, ईहा । किं सुसिलिट्ठमवाओ दप्पणसंकंतबिंब ति ॥ ३०४॥ इह किलोऽऽगमे___“भैरह-सिल-मिंद-कुक्कुड-तिल-बालुय-हत्थि-अगड-वणसंडे । पायस अइआ-पत्ते खाडहिला पञ्च पियरो य" ॥१॥ इत्यादिनौत्पत्तिक्यादिबुद्धीनां बहून्युदाहरणान्युक्तानि, तन्मध्याच्छेपोपलक्षणार्थ कुर्कुटोदाहरणमाश्रित्यौत्पत्तिक्यां बुद्धाववग्रहादयो भाव्यन्ते- राज्ञा नटकुमारकस्य भरतस्य किल बुद्धिपरीक्षणार्थमादिष्टं यदुत- अयं मदीयकुर्कुटो द्वितीयकुर्कुटमन्तरेणैकैक एव योधनीयः। ततस्तेन जिज्ञासितं मनसि 'कथमयं प्रतिकुर्कुटहीनः प्रतिपक्षभूतद्वितीयकुर्कुटवर्जितो युध्येत । एतच्च जिज्ञासमानस्य तस्य झगित्येव स्फुरितं चेतसि । किम् ?, इत्याह-बिम्बेनेति आत्मीयेन प्रतिबिम्बेन पुरो वीक्षितेन दध्मिातत्वादयं युध्यत इत्यवगृहीतमित्यर्थः । एतच्च किम्?, इत्याह- अवग्रहसामान्य नव बिम्बमात्रावग्रहणादवग्रहो मतिप्रथमभेद इत्यर्थः । ईहा तर्हि का?, इत्याह- 'ईहा कि सुसि लिहमिति' किं पुनस्तत प्रतिबिम्बमस्य योधनाय सुश्लिष्टं सुष्टु युज्यमानकं भवेत्- किं तडागपयःपूरादिगतम्, आहोखिद् दर्पणगतम् ?, इत्यादिविम्बविशेषान्वेषणमीहेत्यर्थः । अपायमुपदर्शयति- 'अवाओ दप्पणसंकंतबिंब ति' कल्लोलादिभिः प्रतिक्षणमपनीयमानत्वात्, अस्पष्टत्वाच जलादिगतविम्बमिह न युक्तम् । ततः स्थिरत्वेन, स्पष्टादित्वेन च चरणाऽऽघातादिविषयत्वाद् दर्पणसंक्रान्तमेव तदत्र युज्यते, इत्येवं विम्बविशेषनिश्चयोऽपाय इत्यर्थः । एवमन्येष्वपि बुद्ध्युदाहरणेष्ववग्रहादयो भावनीयाः। तस्माद् बुद्धिचतुष्टयेऽप्येषां सद्भावाच्छूत
१ गाथा ३०० । २ कथं प्रतिकुकूटहीनो युध्येत बिम्बेनाऽवग्रहः, ईहा । किं सुश्लिष्टमपायो दर्पणसंक्रान्तविम्वमिति ॥ ३० ॥ ३ घ. 'कह' । ४ श्रीनन्दीसने । ५ भरत-शिला मेड़-कुर्कुट-तिल-बालुका-हस्ति-अवट-वनखण्डानि । पायसा-गमन-पत्राणि तरुमर्कटिका ('खीसकोली इति भाषायाम्) पञ्च पितरश्च ॥१॥ ६घ. 'ढि' ।
॥१७९॥
Jan Education Internat
For Personal and Private Use Only
Page #182
--------------------------------------------------------------------------
________________
बृहद्वत्तिः।
विशेषा० ॥१८॥
निश्रितमतिज्ञानसंबन्धिष्ववग्रहादिगताऽष्टाविंशतिभेदेष्ववग्रहादिसाम्येन बुद्धिचतुष्टयस्याऽन्तर्भावो भावनीयः । ततो न युक्तं व्यञ्जनावग्रहचतुष्टयाऽपगमेन पुनर्बुद्धिचतुष्टयप्रक्षेपणम्, इति स्थितम् ॥ इति गाथार्थः ॥ ३०४ ॥
आह-ननु यद्यवग्रहादिसाम्येनाऽश्रुतनिश्रितं श्रुतनिश्रिताऽवग्रहादिष्वन्तर्भवति, तर्हि "आभिणिबोहियनाणं दुविहं पन्नतं, तं जहा- सुयनिस्सियं, अस्सुयनिस्सियं च" इत्येवमागमे यः श्रुतनिश्रितादश्रुतनिश्रितस्य भेद उक्तः, स विशीर्यत एव, इत्याशक्याह
जह उग्गहाइसामण्णउ वि सोइंदियाइणा भेओ । तह उग्गहाइसामण्णओ वि तमणिस्सिया भिन्नं ॥३०५॥
यथेहाऽवग्रहादीनामवग्रहादिसामान्ये सत्यपि, अवग्रहादित्वे तुल्येऽपि सतीत्यर्थः । किम् ?, इत्याह- श्रोत्रेन्द्रियादिना भेदः, तथाहिएके श्रोत्रेन्द्रियसंवन्धिनोऽवग्रहादयः, यावदन्ये स्पर्शनेन्द्रियसंबन्धिनः, अपरे तु मनःसंवन्धिनः; तथा तेनैव प्रकारेणावग्रहादिसामान्ये सत्यपि तदश्रुतनिश्रितं भिन्न, 'श्रुतनिश्रितात्' इति शेषः । कस्माद्धेतोभिन्नम् , इत्याह- 'अणिस्सिय त्ति' भावप्रधानोऽयं निर्देशः, अनिश्रितत्वात्-श्रुतानिश्रितत्वादित्यर्थः । एतदुक्तं भवति- अष्टाविंशतिभेदविचारप्रक्रमेवग्रहादिमत्त्वं सामान्यं धर्ममाश्रित्याऽश्रुतनिश्रितस्य श्रुतनिश्रित एवाऽन्तर्भावो विवक्ष्यते, श्रुता-ऽश्रुतनिश्रितविचारप्रस्तावे त्वश्रुतनिश्रितत्वं विशिष्टं धर्ममुररीकृत्य श्रुतनिश्रितादश्रुतनिश्रितं पृथगेवेष्यते, इत्यागमोक्तस्तयोर्भेदोऽपि न किञ्चिद् विशीर्यते । न च वक्तव्यम्- कथमेकस्यैवैकस्मादेव भेदश्चाऽभेदश्च, विरोधात् ? इति यतो यदि तेनैव धर्मेण भेदः, अभेदश्चेष्येत, स्यात् तदा विरोधः, धर्मान्तरनिबन्धनौ तु भेदा-ऽभेदौ न विरुध्येते । किं हि नाम तद् वस्त्वस्ति, यस्य वस्त्वन्तराद् भेदा-ऽभेदौ न स्तः ? । घटादयोऽपि हि घटादित्वसामान्येन परस्परमभेदिनोऽपि खद्रव्य-क्षेत्र-कालादिमत्त्वेन भिन्ना इति । अत्र बहु वक्तव्यम् , तत्तु नोच्यते, ग्रन्थगहनताप्रसङ्गात् , अनेकान्तजयपताकादिषु विस्तरेणोक्तत्वाच ॥ इति गाथार्थः ।। ३०५॥
स्यादेतत् , किमेतावता कष्टेन ?, मदीयव्याख्यापक्ष एव सुखावहः, श्रुता-ऽश्रुतनिश्रितयोरभेदापत्तेरभावात् , समस्तमीतज्ञानभेदभणनाञ्चति । तदेतदयुक्तम् , सिद्धान्ताभिप्रायबहिर्भूतत्वात् । एतदेवोपसंहारपूर्वकमाह
अट्ठावीसइभेयं सुयनिस्सियमेव केवलं तम्हा । जम्हा तम्मि समत्ते पुणरस्सुयनिस्सियं भणियं ॥ ३०६॥ १५. 'सामान्येन' २ आभिनियोधिकज्ञानं विविध प्रज्ञप्तम् , तद्यथा-श्रुतनिश्रितम् , अश्रुतनिश्रितं च । ३ श्रीनन्दीसूत्रे । ४ यथाऽवग्रहादिसामान्यतोऽपि श्रोबेन्द्रियादिना भेदः । तथाऽवग्रहादिसामान्यतोऽपि तदनश्रिता(तत्वा)द् भिन्नम् ॥३०५॥ ५ प.छ.ज.'तद्यथा' । ६ क.ग. 'श्रुतनिश्रिता'। . अष्टाविंशतिभेदं श्रुतनिश्रितमेव केवलं तस्मात् । यस्मात् तस्मिन् समाप्ते पुनरभुतनिधितं भणितम् ॥ ३०६ ॥
C॥१८॥
asaramorooODIOS
For Peso
Private Use Only
Page #183
--------------------------------------------------------------------------
________________
विशेषा. ॥१८॥
तस्मादवग्रहादिसाम्यादश्रुतनिश्रितस्य श्रुतनिश्रितेऽन्तर्भावं कृत्वा केवलं श्रुतनिश्रितमेव मतिज्ञानमष्टाविंशतिभेदं व्याख्यातुमुचितम् , न तु परोक्तनीत्या व्यञ्जनावग्रहापगमेन श्रुता ऽश्रुतनिश्रितमिति । कुतः, इत्याह- 'जम्हा इत्यादि ' यतः "से किं तं बृहद्वत्तिः । सुयनिस्सियं?" इत्येवमांगमे तस्मिन् श्रुतनिश्रिते समाप्ते निष्ठां नीते सति पुनः पश्चात् “से किं तं अस्सुयनिस्सियं ?" इत्यादिना ग्रन्थे - A नाऽश्रुतनिश्रितं भणितम् । अयमभिप्रायः- श्रुतनिश्रितं सभेदमप्यभिधाय पश्चादेवाऽश्रुतनिश्रितमुक्तम् । अतः कथं तत्तत्र प्रक्षिप्यते । तस्मात् समयाभिप्रायेण श्रुतनिश्रितस्यैवाऽष्टाविंशतिभेदा इति । अतो न भवयाख्यानं श्रेय इति । तदेवं 'चंउवइरित्ताभावा' इत्यादिगाथा मूलटीकाभिप्रायेण व्याख्याताः। अन्ये त्वन्यथाऽपि व्याख्यानयन्ति, तदभिप्रायं त्वतिगम्भीरत्वाद् न विद्मः ॥ इति गाथार्थः ॥ ३०६॥
तदेवमष्टाविंशतिविधत्वं मतिज्ञानस्योपदय विवक्षान्तरेण बहुतरभेदमप्येतद् भवतीति दर्शयन्नाह
जं बहु-बहुविह-खिप्पा-ऽनिस्सिय-निच्छिय-धुवे-यरविभिन्ना । पुणरुग्गहादओ तो तं छत्तीसत्तिसयभेयं ॥३०७॥ यद् यस्माद् बहु-बहुविध-क्षिपा-ऽनिश्रित निश्चित-ध्रुवैः सेतरैः सप्रतिपक्षरेकैकशो विभिन्ना भेदभाजः पुनरप्यवग्रहादय इष्यन्ते । ततस्तदेवाऽष्टाविंशतिविधमाभिनिबोधिकज्ञानमेतैादशाभिर्भेदैः प्रत्येकं भिद्यमानत्वात् पत्रिंशदधिकत्रिशतभेदं भवति । इदमुक्तं भवतिअनन्तरवक्ष्यमाणन्यायेन, संक्षेपतः प्रागभिहितयुक्त्या च श्रोत्रादिभिः कश्चिद् बढवगृह्णाति, कश्चित्चबहु, अपरस्तु बहुविधम् , अन्यस्त्वबहुविधम् । एवं यावदन्यो ध्रुवम् , अपरस्त्वध्रुवमवगृह्णातीति । एवमीहा-ऽपाय-धारणास्वपि समभेदासु प्रत्येकममी द्वादश भेदा योजनीयाः । नवरमीहते, निश्चिनोति, धारयति, इत्याद्यभिलापः कार्यः। ततश्चाऽष्टाविंशतौ द्वादशभिगुणितायां षट्त्रिंशदधिकानि त्रीणि शतानि भेदानां भवन्ति ।। इति गाथार्थः ।। ३०७ ॥
अथ शब्दलक्षणं विषयमाश्रित्य तावद् बहादीनामर्थ व्याख्यातुमाहनाणासहसमूहं बहु पिहं मुणइ भिन्नजाईयम् । बहुविहमणेगभेयं एककं निद-महुराई ॥ ३०८ ॥
१ अथ किं तत् श्रुतनिश्चितम् ।। २ श्रीनन्दीसूत्ररूपे। ३ अथ किं तदधुतनिश्रितम् ।। ४ गाथा ३०३। ५ यत् पहु-बहुविध-क्षिप्रा-ऽनिश्चित-निश्चित-भुवे-तरविभिन्नाः । पुनरवग्रहादयस्ततस्तत् पदिशस्त्रिशतभेदम् ॥ ३०॥ ६ ज. 'के त्रि'। • नानाशब्दसमूह बहुं पृथग् जानाति भिन्न जातीयम् । बहुविधमनेकभेदमेकैकं स्निग्ध-मधुरादिम् ॥ ३०८ ॥ ८ क.ग. 'सुण'।
॥१८॥
Page #184
--------------------------------------------------------------------------
________________
DISEASE
विशेषा०
बृहद्वत्तिः ।
॥१८२॥
PALIमानामा
PHOTOS
खिप्पमचिरेण तं चिय सरूवओ जं अणिस्सियमलिङ्गं । निच्छियमसंसयं जं धुवमच्चतं न उ कयाई ॥३०९॥
इह श्रवणयोग्यदेशस्थे तूर्यसमुदाये युगपद् वाद्यमाने कोऽपि श्रोता तस्य तूर्यसंघातस्य संबन्धिनं पटह-ढक्का-शङ्ख-भेरि-भाणकादिनानाशब्दसमूहमाकर्णितं सन्तं क्षयोपशमविशेषाद् बहुमवग्रहादिना 'मुणति' जानाति । कोऽर्थः ?, इत्याह- पृथग भिन्नजातीयम् , एतावन्तोत्र भेरिशब्दाः, एतावन्तो भाणकशब्दाः, एतावन्तस्तु शङ्ख-पटहादिशब्दाः, इत्येवं पृथगेकैकशो भिन्नजातीयत्वेन तं नानाशब्दसमूहं बुध्यत इत्यर्थः । अन्यस्त्वल्पक्षयोपशमत्वात् तत्समानदेशोऽप्यपहुं 'मुणति'- सामान्येन 'नानातूर्यशब्दोऽयम्' इत्यादिमात्रकमेव जानातीति प्रतिपक्षः । एवमुत्तरगाथायामतिदक्ष्यमाणा प्रतिपक्षभावना सर्वत्रावबोद्धव्या । अन्यस्तु क्षयोपशमवैचित्र्याद् बहुविधं 'मुणति' । कोऽर्थः ?, इत्याह- अनेकभेदम् , इदमपि व्याचष्टे- एकैकं शङ्ख-भेर्यादिशब्दं स्निग्धत्व-मधुरत्व-तरुण-मध्यम-वृद्धपुरुषवाद्यत्वादिबहुविधधर्मोपेतं जानातीत्यर्थः । अन्यस्त्ववहुविधं स्निग्ध-मधुरत्वादिस्वल्पधान्वितमेव पृथग भिन्नजातीयं नानाशब्दसमूहं जानाति । अन्यस्तु क्षिप्रम् । कोऽथेः, इत्याह- अचिरेण शीघ्रमेव परिच्छिनत्ति, नतु चिरेण विमृश्येत्यर्थः । अन्यस्त्वक्षिप्रं चिरविमार्शतं जानाति । तथा 'तं चिय सरूवओ जं अणिस्सियमिति' तमेव नानाशब्दसमूह कोऽप्यनिश्रितं 'मुणति' इति संबन्धः । यं किम् ?, इत्याह- यं खरूपतो जानाति । कोऽर्थः, इत्याह- अलिङ्गं पताकादिलिङ्गा निश्रितमित्यर्थः । इदमुक्तं भवति- तमेव शब्दसमूह 'देवकुलमत्र, तथाविधपताकादर्शनात्' इत्येवं लिङ्गनिश्रामकृत्वा स्वरूपन एव यमवगच्छति, तमनिश्रितं 'मुणति' इत्युच्यत इति । तमेव लिङ्गनिश्रया जानानो निश्रितं 'मुणति' इच्युच्यते । तथा 'निच्छियमसंसयं जं ति यमसंशयमवच्छिनत्ति तं निश्चितं 'मुणति' । निश्चितं तावदित्यमेतद् मया, परं न जाने, तथा वा स्यात्, अन्यथा वा, इत्येवं संदेहानुविद्धं तु जानननिश्चितं 'मुणति' । 'धुवमित्यादि ध्रुवम् , कोऽर्थःअत्यन्तं, न तु कदाचिदिति । इदमुक्तं भवति- यथैकदा बहादिरूपेणाऽवगतं सर्वदैव तथाऽवबुध्यमानो ध्रुवं 'मुणति' इत्युच्यते । यस्तु कदाचिद् बहादिरूपेण, कदाचित् त्वबहादिरूपेण, सोऽध्रुवं 'मुणति' ।। इति गाथाद्वयार्थः ॥ ३०८ ॥३०९ ॥ इतरशब्दं व्याचिख्यासुराहऍत्तो चिय पडिवक्खं साहिजा, निस्सिए विसेसो वा । परधम्महि विमिस्सं निस्सियमावणिस्सियं इयरं॥३१॥
॥१८२॥
१ क्षिप्रमचिरेण तमेव स्वरूपतो यमनिश्रितमलिङ्गम् । निश्चितमसंशयं यं ध्रुवमत्यन्तं न नु कदाचित् ॥ ३०९ ॥ २ क. घ. 'मुदये। ३ क. ग. 'देश्यमाना प्र' । ४ एतस्मादेव प्रतिपक्षं कथयेद् निश्रिते विशेषो वा । परधर्मविमिनं निश्रितमविनिश्रितमितरत् ॥ ३१०॥
Jan Education inten
For Personal and Private Use Only
www.jaineltrary.ary
Page #185
--------------------------------------------------------------------------
________________
एतस्मादेवोक्तस्वरूपाद् बबादिपदपदसमूहात् प्रतिपक्षमेतद्विपर्ययमबह-बहुविधा-Sक्षिप-निश्रिता-ऽनिश्चिता-ऽध्रुवपदपटलक्षणं विशेषा साधयेत् स्वयमेव ब्रूयाद् मेधावी । स च लाघवार्थ बहादिविचार एव साधितः । तदेवं व्याख्याता द्वादशापि बहादयो भेदाः ।
अथवा निश्रिते समतिपक्षेऽपि व्याख्यानान्तरलक्षणो विशेषो वक्तव्यः । कः ?, इत्याह- परधर्मेरश्चादिवस्तुधमैर्विमिश्रं युक्तं गवादिवस्तु ॥१८३॥
गृह्णानस्य निश्रितं भवति- गामश्वादिरूपेण गृह्णतो येयं विपर्ययोपलब्धिः, तनिश्रितमित्यर्थः । इतरत्तु यत्परधर्विमिदं वस्तु न गृह्णाति, किन्तु यथावस्थितमेव तत्सद्भूतोपलब्धिरूपमनिश्रितं गवादिकं वस्तु गवादिरूपेणैव गृह्णतो येयमविपर्ययोपलब्धिस्तदनिश्रितमित्यर्थः ।।
अत्राह- ननु बहु-बहुविधपरिज्ञानादीनि विशेषणानि स्पष्टार्थग्राहकेष्वपायादिषु भवन्तु, व्यञ्जनावग्रह-निश्चयार्थावग्रहयोस्तु कथं तत्संभवः, तथाहि- 'सामन्नमणिद्देसं सरूव-नामाइकप्पणारहियं इत्यादिवचनानिश्चयार्थावग्रह शब्दादिविशेषमात्रग्रहणमपि नास्ति, | कुतो यथोक्तबहादिपरिज्ञानसंभवः । अथ व्याख्यानाद् व्यवहारावग्रहोत्र गृह्यते, तस्मिंश्च विशेषग्राहित्वाद् बहुपरिज्ञानादिविशेष
णान्युपपद्यन्त एव । भवत्वेवम् , तथाऽप्यष्टाविंशतिभेदमध्यसंगृहीतस्य व्यञ्जनावग्रहस्य कथमेतद्विशेषणसंभवः । तत्र हि सामान्यार्थग्रहणमात्रमपाकृतम् , बदादिपरिज्ञानं तु दूरोत्सारितमेवेति ।।
सत्यमेतत् , किन्तु व्यञ्जनावग्रहादयः कारणमपायादीनाम् , तानन्तरेणाऽपायाद्यभावात् । ततश्चाऽपायादिगतं बबादिपरिज्ञानं तत्कारणभूतेषु व्यञ्जनावग्रहादिष्वपि योग्यतयाऽभ्युपगन्तव्यम् । न हि सर्वथा विशिष्टात् कारणाद् विशिष्ट कार्यमुत्पत्तुमर्हति, कोद्रFod वीजादेरपि शालिफलादिप्रसवप्रसङ्गात् , इति प्रागप्युक्तमायम् । इत्यलमतिचर्चितेन ।। इति गाथार्थः ॥ ३१० ॥
ननु कथमेकस्याऽपि मतिज्ञानस्यैतावन्तो भेदाः ?, इत्याशङ्कय निर्दिष्टभेदानां कारणम् , अन्येषामपि बहुतरभेदानां सहेतुकं ER संभवं चोपसंहारगर्भमाह
ऐवं बज्झ-झंतरनिमित्तवइचित्तओ मइबहुत्तं । किंचिम्मेत्तविसेसेण भिजमाणं पुणोऽणतं ॥ ३११॥
एवं तावद् बाह्या-ऽऽभ्यन्तरनिमित्तवैचित्र्याद् मातिबहुत्वमुक्तम् । तत्र बाह्यं निमित्तं मतिज्ञानस्य कारणमालोक-विषयादिकम् । तस्य च स्पष्टा-ऽव्यक्त-मध्यमा-ऽल्प-महत्त्व-संनिकर्ष-विप्रकर्षभेदाद् वैचित्र्यम् । आभ्यन्तरनिमित्तं पुनरावरणक्षयोपशमो-पयोगो-पकरणेन्द्रियाणि । अस्याऽपि वैचित्र्यं शुद्धा-ऽशुद्ध-मध्यमभेदात् । ततश्चैतस्माद् बाह्या-ऽऽभ्यन्तरनिमित्तचिच्याद् मतिज्ञानस्य यथोक्तभेदबहुत्वम
१ गाथा २५२ । २ एवं बाह्या-ऽऽभ्यन्तरनिमित्तवैचित्र्यतो मतिबहुत्वम् । किञ्चिन्मात्र विशेषेण भिद्यमानं पुनरनन्तम् ॥ ३ ॥
POOOOOONDHADIDIODARA
॥१८३||
Jan Educonsinema
For Personal and Private Use Only
Page #186
--------------------------------------------------------------------------
________________
विशेषा.
॥१८॥
क
PREPARATOREHEAPESCRIBE
भिहितमवगन्तव्यम् । एतदेव च मतिज्ञानं यथोक्तनिमित्तद्वयस्य किञ्चिन्मात्रभेदाद् भिद्यमानं पुनरनन्तमपि भवतीति प्रतिपत्तव्यम् , सामान्येन मतिज्ञानमात्रवतां जीवानामनन्तत्वात् , तेषां च क्षयोपशमादिभेदेन मतभिन्नत्वादिति भावः ।। इति गाथार्थः ।। ३११ ॥
अत्राह कश्चित्- नन्ववग्रहादयो ज्ञानमेव न भवन्ति, स्पष्टार्थनिर्भासाद्यभावात् , संशयादिवत् , इति कथममी मतिज्ञानभेदाः?, इत्याशङ्कचैतेषां ज्ञानत्वसाधनायाह
इह संसयादणंतभावाडे वग्गहादयो नाणं । अणुमाणमिवाह न संसयाइसब्भावउ तेसुं ॥ ३१२ ॥
अवग्रहादयो ज्ञानमिति प्रतिज्ञा, संशयादिवनन्तर्भावादिति हेतुः, आदिशब्दाद् विपर्यया-ऽनध्यवसायपरिग्रहः, अनुमानवदिति दृष्टान्तः । इह संशयाद्यनन्तर्भूतैर्वर्ण-गन्धादिभिः पुद्गलद्रव्यैर्व्यभिचारसंभवात् , सूत्रस्य च सूचकत्वात् 'आत्मधर्मत्वे सति संशयाद्यनन्तर्भावात्' इति सविशेषणो हेतुर्द्रष्टव्यः । अत्राह पर:- ननु सविशेषणे हेतावनैकान्तिकता मा भूत , असिद्धता त्वनिवार्यवेति । एतदेवाह- 'न संसयाईत्यादि' मूरे ! न तद् भवदीयं वचः। कुतः, इत्याह-संशयादिसद्भावतस्तेष्ववग्रहादिषु, तेषां संशयादिरूपत्वात् संशयाधनन्तर्भावात् , इत्यसिद्धो हेतुरिति भावः ॥ इति गाथार्थः ॥ ३१२ ॥ कथं पुनस्तेषु संशयादिसद्भावः ?, इत्याह
ननु संदिद्धे संसय-विवजया संसओ ह चेहा वि । वच्चासो वा निस्सियमवग्गहोऽणज्झवसियं तु ॥ ३१३ ॥
ननु 'र्खिप्पमचिरेण 'इत्यादिगाथायां तु यदुक्तम्- 'निच्छियमसंसयं जं ति' तत्पतिपक्षे यदुच्यते- 'कोऽपि संदिग्धं मुणति' इति, तत्र संदिग्धे ज्ञायमाने संशयस्तावद् व्यक्त एव , यत्र च संशयस्तत्र संदिहानस्य कदाचिद् विपर्ययोऽपि स्यात्ः इत्येवं संदिग्धे संशय-विपर्ययौ तावदनिवारितावेव । अथवा, किमननोत्तरभेदरूपे संदिग्धे दूषणप्रदानेन ?, हन्त ! येयं मूलभेदरूपेहा साऽपि संशय एव, निश्चयत्वे तस्या अपायत्वप्रसङ्गादिति । अथवा 'परधम्मेहि विमिस्सं निस्सियं' इत्यत्र यद् निश्रितमुक्तं, तदपि गवादिकमश्वादिरूपेण गृहद् विपर्यास एव । न हि नृत्यन् विपर्यासो भवति, किन्त्वन्यस्यान्यरूपेण ग्रहणमेवेति भावः । नैश्चयिकार्थावग्रहरूपोऽवग्रहः पुनरनध्यवसितमनध्यवसाय एव, अनिर्देश्यसामान्यमात्रग्राहित्वात् , न ह्यत्र कस्याऽप्यर्थस्य संबन्ध्यध्यवसायोऽस्तीति कृत्वा ।
१ इह संशयाद्यनन्तर्भावादवग्रहादयो ज्ञानम् । अनुमानमिवाऽऽह-न, संशयादिसद्भावतस्तेषु ॥ ३१२ ॥ २ क. ग, घ, छ, 'लधर्मेळ' । ३ ननु संदिग्धे संशय विपर्ययौ संशय इह नेहाऽपि । व्यत्यासो वा निश्रितमवग्रहोऽनध्यवसित तु ॥ ३१३॥ ४ गाथा ३०९। ५ घ. ज. 'कस्यचि' । ६ गाथा ३१० ।
॥१८४॥
Jan Education Internat
For Personal and Private Use Only
www.jaineitrary.ary
Page #187
--------------------------------------------------------------------------
________________
बृहद्वृत्तिः ।
विशेषा ॥१८५॥
१. माह
860
तदेवं संशयादिरूपत्वाद् नाऽवग्रहादयो ज्ञानमिति । अतो न ते मतिज्ञानभेदाः । तद्भेदत्वे वा मतिज्ञानमपि न किञ्चित् , दोषशतजर्जरावग्रहाद्यात्मकत्वात् ॥ इति गाथार्थः ॥ ३१३ ।।
अत्राऽऽचार्यः प्राह
इह सज्झमोग्गहाईण संसयाइत्तणं तहवि नाम । अब्भुवगंतुं भण्णइ नाणं चिय संसयाईया ॥ ३१४ ॥
इह यदवग्रहादीनां संशयादित्वं त्वयोद्भावितं तदद्यापि साध्यं साधनीयं वर्तते, त्वदुक्तनियुक्तिकवाङ्मात्रेणैव मदुक्तहेतोरसिद्धवाभावादिति मन्तव्यम्, न पुनरेतावतैव जाता त्वत्समीहितसिद्धिः, इति प्रमुदितेन न भाव्यमिति भावः । तथाहि- यदुक्तम् 'संदिग्धे संशय-विपर्ययो' इति । तदयुक्तम्, अभिप्रायापरिज्ञानात्, न ह्यस्माभिस्तथाविधं वस्त्वप्रापकं संदिग्धत्वं विवक्षितम् , येन वस्त्वप्रापणात्, विपर्ययप्रापणाद् वा तत्र संशय-विपर्ययौ स्याताम् ; किन्तु कृतेऽपि वस्तुपापकेऽवितथे निश्चये यत्र तथाविधक्षयोपशमवैचिच्याद् मनसि किश्चिदल्पं शङ्कामात्रं न निवर्तते 'सम्यग् न जाने, तथैव स्यादन्यथा वा' इति, तच्चेह संदिग्धत्वं विवक्षितम् । न चैतावन्मात्रेणैवाऽज्ञानता युक्ता, व्यवहारोच्छेदप्रसङ्गात् । न खलु धूम-बलाकादेः सकाशात् सम्यग् दहन-जलादौ निश्चितेऽपि मुखेन तनिश्चयं ब्रुवतामपि सर्वेषां प्रमातृणां चेतसि शङ्कामात्रं विनिवर्तते । न च ते सर्वेऽपि निश्चितं वस्तु न प्राप्नुवन्ति । न च कापि संशय-विपर्ययत्वेनाऽज्ञानता तेषां दृष्टा । यदप्युच्यते- 'ईहाऽपि संशय एवं' । तदप्यसंगतम् , न हि 'किमयं स्थाणुः, पुरुषो वा' इत्यादिरूपः संशय ईहाऽभ्युपगम्यते; किन्तु यदनन्तरमेव निश्चयोऽवश्यं भवति, स एवान्वयधर्मघटन-व्यतिरेकधर्मनिराकरणाभ्यां निश्चयाभिमुखो बोध ईहा, इत्यसकृदेव पूर्वमावेदितम् । न चायं संशयः, निश्चयाभिमुखत्वात् । नापि निश्चयः, तत्प्रत्यासत्तिमात्रप्राप्तत्वात् । न च वक्तव्यम्- निश्चयादन्यस्य सर्वस्य संशयत्वादज्ञानतैवेति: निश्चयोपादानक्षणस्याऽपि सर्वथाऽज्ञानत्वप्रसङ्गात् । तथा च सति निश्चयस्याऽप्यज्ञानताप्राप्तिः । “न ह्यविशिष्टात् कारणाद् विशिष्टकार्योत्पत्तिः" इत्युक्तत्वादिति । यदप्युक्तम्- 'निश्रितं विपर्यासः' इति । तदप्ययुक्तम् , 'लिङ्गाश्रितं निश्रितम्' इत्यस्मिन् व्याख्यानेऽस्य दोषस्य सर्वथैवाऽसंबध्यमानत्वात्, 'परधम्मेहि विमिस्सं निस्सियं' इत्यस्य च व्याख्यानान्तरमात्रत्वात् । भवतुं तदपि व्याख्यानम् , तथापि व्याख्यानात् परधर्मास्तस्मिन्नाशङ्किता एव द्रष्टव्याः, न तु निश्चिताः, यथा 'गौरवात्र, १च. छ. ज. 'न म' । २ इह साध्यमवग्रहादीनां संशयादित्वं तथापि नाम । अभ्युपगम्य भण्यते ज्ञानमेव संशयादयः ॥ ३१४ ॥ ३ क. ग. 'स्वादि'। ४ गाथा ३१० । ५५.छ.ज. 'तु चत'।
नाहा
॥१८५||
Page #188
--------------------------------------------------------------------------
________________
विशेषा० ॥१८६॥
केवलमश्व इव प्रतिभाति' इति । एतावन्मात्रेणैव चेयं विपर्ययोपलब्धिरवगन्तव्या; न तु सर्वथा विपर्ययधर्मनिश्चयात् , सर्वथा विपर्यये तत्राऽश्वादिसत्त्वप्रसङ्गात् । न च वक्तव्यम्- एवं सतीदमनिश्चिताद् न भिद्येतः तत्र परधर्मनिश्रितत्वाभावात् , विवक्षितवस्त्वभावशङ्कामात्रस्यैव सद्भावादिति । न च विपर्ययधर्मशङ्कामात्रेणाऽप्यज्ञानता, वस्तुप्राप्तिविघाताभावादिति । यदप्युक्तम्- 'अवग्रहोऽनध्यवसायः' इति । तदप्ययुक्तम् , तत्र ह्यध्यवसायः साक्षादेव नास्ति, योग्यतया पुनरस्त्येव, अन्यथा तत्कार्येष्वपायादिष्वपि तदभावप्रसङ्गात्, इत्युक्तमेव । अतिमत्त-मूर्छितानामेव हि ज्ञानमनध्यवसाय उच्यते, तत्र योग्यतयाऽप्यध्यवसायस्य वक्तुमशक्यत्वात् , तत्कार्यभूतस्याऽपायाद्यध्यवसायस्याऽप्यलक्षणत्वात् । तदेवमवग्रहादीनामसिद्ध संशयादित्वम् । तथापि 'अभ्युपगन्तुं'अङ्गीकृत्यापि तेषां संशयादिरूपता ब्रूमः- ज्ञानमेव संशयादयः संशय-विपर्यया-ऽनध्यवसायाः। ततश्च संशयादिरूपत्वेऽपि नावग्रहादीनां मतिज्ञानभेदत्वं विरुध्यत इति भावः । इदमुक्तं भवति-नास्माभिः 'समीहितवस्तुपापकं ज्ञानम् , इतरदज्ञानम्' इत्येवं व्यवहारिणां प्रमाणा-ऽप्रमाणभूते ज्ञाना-ज्ञाने विचारयितुमुपक्रान्ते, किन्तु 'ज्ञायते येन किमपि, तत् सम्यग्दृष्टिसंबन्धि ज्ञानम्' इत्येतावन्मात्रकमेव व्याख्यातुमभिप्रेतम् । वस्तुपरिज्ञानमात्रं तु संशयादिष्वपि विद्यते, इति न तेषामपि सम्यग्दृष्टिसंवन्धिनां ज्ञानत्वहानिः ॥ इति गाथार्थः ॥ ३१४ ॥ कथं पुनः संशयादयो ज्ञानम् ?, इत्याह
वेत्थुस्स देसगमगत्तभावओ परमयप्पमाणं व । किह वत्थुदेसविण्णाणहेयवो, सुणसु तं वोच्छं ॥ ३१५ ॥
ज्ञानमेव संशयादयः, इति प्राक्तनी प्रतिज्ञा; वस्तुनो गवादेः स्व-परपर्यायैरनन्तधर्माध्यासितस्य यो देश एकदेशस्तस्य गमकत्वभावात् , इति हेतुः; पराभिमतं प्रमाणं निश्चयज्ञानरूपं तद्वदिति दृष्टान्तः । इह यद् वस्त्वेकदेशस्य गमकं तज् ज्ञानं दृष्टं, यथा परमतं निश्चयरूपं प्रमाणम् , वस्त्वेकदेशगमकाश्च संशयादयः, ततस्ते ज्ञानम् , इति । अत्र हेतोरसिद्धतां मन्यमानः परः पृच्छति-कथं वस्त्वेकदेशविज्ञानहेतवः संशयादयः?, वस्तुनो निरंशत्वेन देशस्यैवाभावाद् न त एकदेशग्राहिणो घटन्त इति परस्याऽभिप्रायः। आचायः प्राह- यत् त्वया पृष्टं तद् वक्ष्ये भणिष्याम्यहम् , शृणु समवहितः समाकर्णय त्वम् ।। इति गाथार्थः ।। ३१५ ॥ यथाप्रतिज्ञातमेवाह
इह वत्थुमत्थ-वयणाइपज्जयाणंतसत्तिसंपन्नं । तस्सेगदेसविच्छेयकारिणो संसयाईया ॥ ३१६ ॥ १ क.ग. 'नम्'। २ वस्तुनो देशगमकत्वभावतः परमतप्रमाणमिव । कथं वस्तुदेशविज्ञानहेतवः, शृणु तद् वक्ष्ये ॥ ३१५॥ ३ घ.छ.ज. 'ना' । ४ इह वस्त्वर्थ-वचनादिपर्यायाऽनन्तशक्तिसंपन्नम् । तस्यैकदेशविच्छेदकारिणः संशयादयः ।। ३१६॥
RESTHETHEASESARDARS8888888razes
॥१८६॥
Jan Education intem
For Personal and Private Use Only
www.jaineltrary.ary
Page #189
--------------------------------------------------------------------------
________________
बापत
विशेषा
॥१८७॥
हावाब
इह वस्तुनो घटादेम॒न्मयत्व-पृथुवुश्नत्व-वृत्तत्व-कुण्डलायतग्रीवायुक्तत्वादयोऽर्थरूपाः पर्याया अर्थपर्याया अनन्ता भवन्ति । घटकुट-कुम्भ-कलशादयस्तु वचनरूपाः पर्याया वचनपर्यायास्तेऽप्यनन्ता भवन्ति; आदिशब्दात् परव्यावृत्तिरूपा अप्यनन्ता गृह्यन्ते । ततश्चेत्थं समासः कर्तव्यः- अर्थश्च, वचनानि च, आदिशब्दात् परब्यावृत्तयश्च तद्रूपाः पर्याया अर्थ-वचनादिपर्यायाः, ते च तेऽनन्ताश्च त एव शक्तयः, ताभिः संपन्नं युक्तं यतो वस्तु भवति, अतस्तस्यैकदेशविच्छेदकारिणः संशयादयो ज्ञेयाः । इदमुक्तं भवति-न खलु वयं निरंशवस्तुवादिनः, किन्तु यथोक्तानन्तधर्मलक्षणवस्तुनोऽनन्ता एव देशाः सन्तीति वयं मन्यामहे, तन्मध्याच्चैकैकदेशग्राहिणः संशयादयोऽपि भवन्त्येव, इति कथं न ते ज्ञानम् ? । यदि पुनस्ते किमपि न गृह्णीयुः, तदा तेषामनुत्थानमेव स्यात्, सर्वथा निर्विषयज्ञानस्य प्रसवायोगात् , गगननलिनज्ञानवत् । ततश्च 'ज्ञायतेऽनेनेति ज्ञानम्' इति व्युत्पत्त्यर्थात् संशयादीनामपि ज्ञानता न विरुध्यते । ॥ इति गाथार्थः ॥ ३१६ ॥ अथ समस्तवस्तुरूपग्राह्येव ज्ञानं, नैकदेशग्राहकम् , इत्येतदाशय निराकुर्वन्नाह
अहवा न सव्वधम्मावभासया तो न नाणमिट्ठ ते । नणु निन्नओ वि तद्देसमेत्तगाहि त्ति अन्नाणं ॥३१७॥
अथवा- अथ चेदेवं ब्रूयात् परः । किम् ?, इत्याह- न सर्वधर्मावभासका न कात्स्न्ये न गवादिवस्तुसमग्रधर्मग्राहिणः, ततो न ज्ञानमिष्टं ते संशयादयः, संपूर्णवस्तुखरूपग्राहिण एव ज्ञानत्वात् । अत्रोत्तरमाह- ननु भवता ज्ञानत्वेनाऽङ्गीकृतस्तर्हि निर्णयोऽप्यज्ञानमेव प्रामोति । कुतः, इत्याह-तस्य गवादिवस्तुन एकदेशमात्रग्राहीति कृत्वा; तथाहि- गौरयं, घटोऽयं, पटोऽयम्' इत्यादिभिनिर्णयैरपि गोत्व-घटत्वादिको वस्त्वेकदेश एव गृह्यते, अतस्तेऽपि कथं ज्ञानरूपता भजेयुः ? । अथ देशस्य देशिनमन्तरेण कदा| चिदप्यभावात् तद्ग्रहणद्वारेण सर्वमपि वस्तु निर्णयेन गृहीतम् , इत्यतो ज्ञानमेवाऽसौ । तदेतत् संशयादिष्वपि समानम् ; तथाहि'किमयं स्थाणुः, पुरुषो वा' इत्यादिरूपः संशयोऽपि स्थाणुत्वादिकं वस्त्वेकदेशं जानाति, विपर्यासोऽपि विपर्ययवस्त्वेकदेशमबवुध्यते, अनध्यवसायोऽपि सामान्यमात्ररूपं वस्त्वेकदेशमवगृह्णाति । ततश्च संशयादयोऽप्येकदेशपरिज्ञानद्वारेण समग्रमपि वस्तु जानन्त्येव, इति तेषामपि ज्ञानता केन वार्यते ।। अथ गृह्यते संशयादिभिर्वस्त्वेकदेशः, केवलं संशयेन संदिग्धः, विपर्यासेन विपर्यस्तः, अनध्यवसायेन त्वविशिष्ट इति चेत् । ननु प्रतिविहितमप्यदः किं विस्मरासि ?, यतो 'ज्ञायतेऽनेनेति ज्ञानम् , मतिरूपं
॥१८७॥
१ अथवा न सर्वधर्मावभासकास्ततो न ज्ञानमिष्टं ते । ननु निर्णयोऽपि तद्देशमात्रग्राहीत्यज्ञानम् ॥ ३१७ ॥
Jan Educo nema
For Personal and Private Use Only
www.jaineitrary.ary
Page #190
--------------------------------------------------------------------------
________________
स
बृहद
विशेषा. ॥१८८॥
ज्ञानं मतिज्ञानम्' इत्येवं सामान्येनैव सम्यग्दृष्टिसंबन्धि मतिज्ञानमिह विचार्यते । तस्य च संशयादिरूपस्य, निर्णयरूपस्य वा सम्यग्दृष्टिसंबन्धिनो ज्ञानता न विरुध्यते, 'ज्ञायतेऽनेनेति ज्ञानम्' इत्यस्यार्थस्य सर्वत्रोपपद्यमानत्वादिति । ननु यदि संशयादयोऽपि मतिज्ञानम् , तर्हि चतुर्भेदत्वमतिक्रम्य सप्तभेदत्वं तस्य प्रसज्यते, इति चेत् । नैतदेवम् , यतोऽनध्यवसायस्तावत्सामान्यमात्रग्राहित्वेनाऽवग्रहेऽन्तर्भवति, संशयोऽपि पूर्वोक्तस्वरूपेहाप्रकारत्वात् , तत्कारणत्वाच्च तस्यामेवाऽन्तर्विशति, यदपि संशयस्य पूर्वमीहात्वमपाकृतं तदपि व्यवहारिजनानुवृत्त्या, न तु सर्वथेति; विपर्यासस्तु निश्चयरूपत्वात् साक्षादपाय एव, इति कुतश्चतुर्भेदातिक्रमः । इत्थं चैतदगीकर्तव्यम् , अन्यथा सम्यग्दृष्टिसंबन्धिनः संशयादयो मतिज्ञानादतिरिच्यमानाः काऽन्तर्भवेयुः ? । अज्ञान इति चेत् । नैवम् , “सम्मदिट्टी णं भंते ! किं. नाणी अन्नाणी? गोयमा! नाणी, नो अन्नाणी" इत्याद्योगमवचनात् सम्यग्दृष्टेः सदैव ज्ञानिवादिति | भवत्वेवम् , तथापि सम्यग्दृष्टिसंबन्ध्येव मतिज्ञानमिह विचार्यत इति कुतो लभ्यते? इति चेत् । उच्यते- ज्ञानपञ्चकमेवेह विचारयितुमुपक्रान्तम् , ज्ञानं च सम्यग्दृष्टेरेव भवति, अतस्तत्संवन्ध्येव मतिज्ञानमिह विचार्यते, सम्यग्दृष्टिसंबन्धिनां च संशयादीनां ज्ञानता साध्यते । इत्यलं विस्तरेण ।। इति गाथार्थः ।। ३१७ ॥
अत्रातिप्रसक्तिं मन्यमानः परः माह-' __ जइ एवं तेण तुहं अन्नाणी को वि नत्थि संसारी । मिच्छद्दिट्ठीणं ते अन्नाणं नाणमियरेसिं ॥ ३१८॥
यद्येवमुक्तमकारेण संशयादयोऽपि ज्ञानम् , तेन तव 'अज्ञानी नास्ति कोऽपि संसारी जीवः' इति प्राप्तम् : मोक्षे सर्वस्याऽपि ज्ञानं परेणाऽभ्युपगम्यत इति संसारिणामेवाऽयमतिप्रसङ्गलक्षणो दोषः, इत्यभिप्रायवता 'संसारी' इति विशेषणमकारि । एतदुक्तं भवति'संशयादयोऽज्ञानम् , निर्णयस्त्वबाधितो ज्ञानम्' इति तावल्लोकव्यवहारस्थितिः। यदि च भवता संशयादीनामपि ज्ञानरूपता व्यवस्थाप्यते, तर्हि समुच्छन्नोऽयमज्ञानव्यवहारः, ततः कथं नाऽतिप्रसङ्गः। दृश्यते च लोकेऽज्ञानव्यवहारः; स कथं नीयते ? इति । अत्रोत्तरमाह| "मिच्छविहीणमित्यादि' मिथ्यादृष्टीनां संबन्धिनस्ते संशय-विपर्यया-ऽनध्यवसायाः, निर्णयश्चाज्ञानम् , इतरेषां तु सम्यग्दृष्टीनां संबन्धिनस्ते ज्ञानम् , इति नाऽज्ञानव्यवहारोच्छेदः। अयमभिप्रायः- लोकव्यवहाररूढो ज्ञाना-ऽज्ञानव्यवहारोऽत्र न विवक्षितः, किन्त्वागमाभिप्रायरूढो
, सम्यग्रष्टयो भगवन् ! किं जानिनः, अज्ञाना:?, गोयमा ! ज्ञानिनः, मो अज्ञानाः । २ 'भगवती' इतिनाम्ना प्रसिद्ध व्याख्याप्रज्ञप्तिसूत्रे । ३ यद्येवं तेन तवाऽज्ञानः कोऽपि नास्ति संसरी । मिथ्यारष्टीनां तेऽज्ञानं ज्ञानमितरेषाम् ॥ ३१८॥ ४ क.ग.छ.ज. 'री आमि' ।
॥१८८॥
Jan Education intem
For Personal and Private Use Only
www.jaineltrary.ary
Page #191
--------------------------------------------------------------------------
________________
Poo
नैश्चयिकः । आगमे च संशयादिरूपं, निश्चयरूपं वा मिथ्यादृष्टः सर्वमप्यज्ञानम् : सम्यग्दृष्टस्तु तदेव सर्व ज्ञानम् । इत्येवं ज्ञाना-ज्ञानविशेषा व्यवहारो रूढः । ततश्च यदादौ संशयादित्वेनाऽवग्रहादीनामज्ञानत्वं प्रेरितम् , तदयुक्तम् न हि संशयादित्वमज्ञानभावस्य निमित्तमागम
विचारे, किन्तु मिथ्यादृष्टिसंबन्धित्वम् , तच्चेह नास्ति, सम्यग्दृष्टिसंबन्धिनामेवाऽवग्रहादीनामिह विचारयितुमुपक्रान्तत्वात् , इति भावः ।। ॥१८९॥
इति गाथार्थः ॥ ३१८॥ का पुनर्मिथ्यादृष्टिनाऽपराधः कृतः, येन तत्संबन्धि सर्वमप्यज्ञानम् ?, इत्याह
सदसदविसेसणाओ भवहेउजाहच्छिओवलम्भाओ । नाणफलाभावाओ मिच्छद्दिहिस्स अण्णाणं ॥ ३१९ ॥ एषा पूर्वमिहाऽपि व्याख्यातैवेति ॥ ३१९ ॥ सम्यग्दृष्टस्तर्हि को विशेषः, येन तस्य सर्वमपि ज्ञानम् ?, इत्याह
ऐगं जाणं सव्वं जाणइ सव्वं च जाणमेगं ति । इय सव्वमयं सव्वं सम्मदिहिस्स जं वत्थु ॥ ३२० ॥
इह परमाण्वादिकमेकैकं वस्तु स्व-परपर्यायैः समस्तत्रिभुवनगतवस्तुमयम् , तथाहि- परमाणौ तावदेकगुणकालत्वादयोऽनन्ता वर्ण-गन्ध रसादिकाः स्वपर्याया भवन्ति । अपरं च, असौ विवक्षितः परमाणुरन्येभ्यः परमाणु-द्यणुक-त्र्यणुकादिसमस्तवस्तुभ्यः क्षेत्रFol कालादिभिावृत्तः, इत्यतस्तद्वयावृत्तिलक्षणा अनन्ताः परपर्याया भवन्ति । एवं च सति येभ्योऽन्यवस्तुभ्योऽसौ परमाणुावृत्तः, तेषां
सर्वेषामपि तत्र परमाणौ प्रत्येकमभावो वर्तते, इति सामर्थ्यात् सिद्धम् ; अन्यथा तस्य तेभ्यो व्यावृत्त्यसिद्धः, अभावश्चाऽभाव वतो धर्मः, यत्र धर्मः, तत्र धर्मिणा कथञ्चिद् भवितव्यमेव, अन्यथा तस्य तद्धर्मत्वायोगातः ततश्च सर्वाण्यप्यन्यवस्तूनि तत्र परमाणौ स्वा| भाववृत्तिद्वारेण वर्तन्त इति पर्यवसितम् । ततश्च परमाणुः सर्ववस्तुमयः सिद्धः । एवं व्यणुकादिष्वपि भावनीयम् , तेषामपि प्रत्येक परेभ्यो व्यावृत्तत्वात् । ततश्च सर्वमपि वस्तु सर्वमयमिति स्थितम् । इह च य एकं विवक्षितं वस्तु जानाति, स शेषाण्यपि सर्ववस्तूनि जानाति, समस्तवस्तुपरिज्ञाननान्तरीयकत्वादेकवस्तुपरिज्ञानस्य । येभ्योऽपि हि शेषवस्तुभ्यो व्यावृत्तं तद् विवक्षितं वस्तु, तानि सर्वाण्यपि ज्ञातव्यानि, तत्परिज्ञानाभावे तेभ्यो व्यावृत्तत्वस्याऽवगन्तुमशक्यत्वादिति । यश्च सर्ववस्तूनि जानाति स विवक्षितमप्येकं किमपि वस्तु जानाति, तत्परिज्ञानाविनाभावात समस्तवस्तुज्ञानस्य । तानि हि सर्ववस्तूनि विवक्षितैकवस्तुनो व्यावृत्तान्यवबोद्धव्यानि । न च
१ गाथा ११५ । २ एकं जानन् सर्व जानाति सर्व च जाननेकमिति । इति सर्वमयं सर्व सम्यग्दृष्टैर्यद् वस्तु ॥ ३२० ॥ ३ क.स.ग. 'लकत्वा' ।
॥१८९॥
in Education
For Personal and
Use Only
Page #192
--------------------------------------------------------------------------
________________
विशेषा०
॥१९॥
तु सर्वमययत्वात् । सत्यमधिपरिज्ञानं तर्हि ।
तदपरिज्ञाने तयावृत्तत्वमेव बोद्धं शक्यत इति । नन्वेवंविधपरिज्ञानं तर्हि केवलिन एव भवति, नाऽन्यस्य, तस्य मूक्ष्माऽतीत-व्यवहिता-ऽमृर्तादिसमस्तवस्तुग्रहणासमर्थत्वात् । सत्यम् , साक्षादित्यं केवल्येव जानाति, तद्वचनश्रद्धानद्वारेण पुनर्भावतोऽन्योऽपि सम्यग्दृष्टिः सर्व एकैकं वस्तु सर्वमयं जानाति । आगमे हि केवलिनैतत् प्रणीतम् , तद्यथा- “जे एगं जाणइ से सव्वं जाणइ, जे सव्वं जाणइ से एगं जाणइ ति"। सम्यग्दृष्टेंश्च सर्वस्याऽप्ययमागमः प्रमाणमेव, अन्यथा सम्यग्दृष्टित्वायोगात् । ततश्च यद्यपि सर्वः सम्यग्दृष्टिरित्यं सर्वं सर्वमयं वस्तु न जानाति, तथापि यथोक्तागमश्रद्धानद्वारेण भावतो जानात्येवेति । अतः सर्वदैवाऽयं ज्ञानी भण्यते, केवलिदृष्टयथावस्थितवस्तुस्वरूपस्य प्रमाणताभ्युपगमद्वारेण सर्वदैव तेन ज्ञायमानत्वात् ॥ इति गाथाभावार्थः ।। ___अक्षरार्थस्तूच्यते- एक वस्तु जानन् सर्व वस्तु जानाति, सर्वच वस्तु जानने जानातीति एवंभूतमागमं सम्यग्दृष्टिस्तावत् सर्वदैव प्रमाणतयाऽभ्युपगच्छति' इति शेषः । इत्यतः परमाण्वादिकं यत् किमपि वस्त्वस्ति, तत्सर्वमप्युक्तन्यायेन ख-परपर्यायैः सर्वमयं सम्यग्दृष्टिज्ञानगोचरः। अतः सर्वदेवाऽयं ज्ञानी भण्यते, जाग्रतः, स्वपतः, तिष्ठतः, चलतश्चाऽस्य परमगुरुप्रणीतयथोक्तवस्तुस्वरूपाभ्युपगमस्य चेतसि सर्वदैवाऽविचलनात् ।। इति गाथार्थः ॥ ३२० ॥
ननु यद्येवं, तर्हि निश्चयरूपं सम्यग्दृष्टानमस्तु, संशयांदयस्तु बालानामप्यज्ञानत्वेन लोके रूढाः, तस्याऽपि कथमिव ज्ञानं स्युः १, इत्याह
जे संसयादिगम्मा धम्मा वत्थुस्स ते वि पज्जाया । तदहिगमत्तणओ ते नाणं चिय संसयाईया ॥ ३२१ ॥
इह ये संशयादिगम्या धर्मास्तेऽपि वस्तुनस्तावत् पर्याया एव । ततस्तदधिगमहेतुत्वात् ते सम्यग्दृष्टिसंबन्धिनः संशयादयो ज्ञानमेव । एतदुक्तं भवति- इह लोकव्यवहाररूढं संशयादित्वमज्ञानभावस्य निबन्धनत्वेन तावन्नाधिकृतमेव, किन्तु मिथ्यादृष्टिसंबन्धि त्वमित्युक्तमेव, तच्च सम्यग्दृष्टिसंबन्धिनां संशयादीनां नास्ति, तत्कथं न ते ज्ञानं भवेयुः । ज्ञायते येन किश्चित् तज्ज्ञानं भवति, न च संशयादिभिः किमपि ज्ञायते, इति चेत् । नैवम्, तेषामपि वस्तुपर्यायगमकत्वात् , तथाहि- पुरतः स्थाणी व्यवस्थिते योऽसौ 'किमयं स्थाणुः, पुरुषो वा ?' इति संशय उदेति, तत्र यत् स्थाणुत्वं, पुरुषत्वं च प्रतिभाति, तदुभयमपि स्थाणी पर्यायरूपतया
। य एक जानाति स सर्व जानाति, यः सबै जानाति स एकं जानातीति । २ ये संशयादिगम्या धर्मा वस्तुनस्तेऽपि पर्यायाः । तदधिगमत्वतस्ते ज्ञानमेव संशपादयः ॥ ३२१ ॥
मावस्या
॥१९॥
Jan Education Internat
For Personal and Private Use Only
www.jaineltrary.ary
Page #193
--------------------------------------------------------------------------
________________
विशेषा. ॥१९१॥
प्राप्यते, स्थाणुत्वस्याऽनुगतत्वेन सत्वात् , पुरुषत्वस्य त्वभावरूपतयाऽसद्भावात् । अथवा, स्थाणुत्वं स्थाणोः पर्यायः, पुरुषत्वं तु पुरुषस्येति । यश्च स्थाणी 'पुरुष एवाऽयम्' इति विपर्यासः प्रादुरस्ति, तत्रापि पुरुषत्वं व्यावृत्तिरूपतया स्थाणोरपि पर्यायः, अनुगतत्वेन तु पुरुषस्येति; अनध्यवसायप्रतिभासि तु सामान्यमविवादेन स्थाण्वादिवस्तुपर्याय एव । तदेवं संशयादिभिर्वस्तुपर्यायाणां ज्ञायमानत्वात् , सम्यग्दृष्टिसंबन्धिनां च तेषामिहाऽधिकृतत्वेन मिथ्यादृष्टिसंबन्धित्वस्याऽभावात् , लोकरूढस्य च संशयादित्वस्याऽज्ञाननिवन्धनत्वेनेहाऽनधिकृतत्वाज्ज्ञानमेव ते सम्यग्दृष्टिसंबन्धिनः संशयादयः ॥ इति गाथार्थः ।। ३२१ ॥
नन्वनन्तपर्यायं सर्वमपि वस्तु, इति भवद्भिरुक्तम् । तस्य च घटादिवस्तुन एकस्मिन् काल एकमेव कश्चिद् घटत्वादिपर्यायं सम्यग्दृष्टिरपि गृह्णाति । अतोऽनन्तपर्यायमपि वस्त्वेकपर्यायतया गृह्णतस्तस्यापि कथं ज्ञानं स्यात्, अन्यथास्थितस्याऽन्यथा ग्रहणात् ?, इत्याशङ्कयाह
पंजायमासयंतो एक पि तओ पओयणवसाओ । तत्तियपज्जायं चिय तं गिण्हइ भावओ वत्थु ॥३२२ ॥
'तउत्ति तकोऽसौ सम्यग्दृष्टिरेकमपि घटादिवस्तुनो घटत्वादिपर्यायं प्रयोजनवशादाश्रयन् गृह्णस्तावन्तः प्रागुक्तप्रकारेणाऽनन्ताः पर्याया यस्य तत् तावत्पर्यायमेव भावतः परमार्थतो वस्तु घटादिकं गृह्णाति । एतदुक्तं भवति-भावत आगमप्रामाण्याभ्युपगमाभिप्रायतः सम्यग्दृष्टिना यथाऽवस्थितमनन्तपर्यायं वस्तु सदैव गृहीतमेवाऽऽस्ते, केवलं प्रयोजनवशादेकं पर्यायमाश्रयति, तथाहि-सौवर्णे घटे दृष्टे यस्य घटमात्रेण प्रयोजनं भवति स 'घटोऽयम्' इति घटत्वमध्यवस्यति । यस्य तु सुवर्णेन, स 'सुवर्णमिदम्' इति सुवर्णत्वं व्यवस्यति । यस्य तु जलक्षेपादिना, स 'जलादिभाजनमिदम्' इति जलादिभाजनत्वमध्यवस्यति । उपलक्षणं च प्रयोजनम् , अन्येऽप्यभ्यासपाटव-प्रत्यासत्त्यादयो गृह्यन्ते; तथाहि- ब्राह्मणे द्वारि दृष्टे कोऽप्यभ्यासवशाद् 'भिक्षुकोऽयम्' इत्याचष्टे, अन्यस्तु पाटववशाद् 'ब्राह्मणोऽयम्' इति, अपरस्तु यस्तत्समीपेऽधीते स प्रत्यासत्तिवशाद् 'मदीयोपाध्यायोऽसौ' इत्याद्यनया दिशा भावनीयम् । ततश्च प्रयोजनादिवशादेकपर्यायतया वस्तु गृह्णानोऽप्यसौ भावतः परिपूर्णाऽनन्तपर्यायमेव गृह्णाति । अतः सर्वदैव भावतः प्रतिपन्नयथावस्थितवस्तुखरूपस्य संशयादिकालेऽपि सम्यग्दृष्टानमेव ।। इति गाथार्थः ॥ ३२२ ॥
१ क-ग- 'घटादित्वप'। २ पर्यायमाश्रयन्नेकमपि सकः प्रयोजनवशात् । तावत्पर्यायमेव तद् गृहाति भावतो वस्तु ॥ ३२२ ।।
Jan Education inte
For Personal and Private Use Only
Page #194
--------------------------------------------------------------------------
________________
विशेषा० ॥१९२॥
मिथ्याप्टेरप्येवं भविष्यति, इति चेत् । न, इत्याह
'निण्णयकाले विजओ न तहारूवं विदंति ते वत्थु । मिच्छट्टिी, तम्हा सव्वं चिय तेसिमण्णाणं ॥ ३२३ ॥ बृहद्वत्तिः। ___ आस्तां संशयादिकाले, निर्णयो निश्चयस्तत्कालेऽपि यतस्ते मिथ्यादृष्टयो न यथा परमगुरुभिदृष्टं तथारूपमनन्तपर्याय वस्तु विदन्ति, केवलिदृष्टयथावस्थितवस्त्वभ्युपगमस्य तेषां कदाचिदप्यभावात् । अन्यथा मिथ्यादृष्टित्वायांगात् । अतस्तेषां निश्चयरूपं, संशयादिरूपं च सर्वमज्ञानमेव, ज्ञाननिवन्धनस्य भुवनगुरुनिर्णीतयथावस्थितवस्त्वभ्युपगमस्य कदाचिदप्यसत्त्वात् ।। इति गाथार्थः ॥३२३॥
अथवा नाज्ञानमात्रमेव तेषाम् , किन्त्वद्याप्याधिक्यं किश्चित् , इति दर्शयत्राहकेद्रयरं वन्नाणं विवज्जओ चेव मिच्छदिट्ठीणं । मिच्छाभिणिवेसाओ सव्वत्थ घडे व्व पडबुद्धी ॥ ३२४ ॥
संशया-ऽनध्यवसाय-विपर्ययान् किलाऽज्ञानत्वेन सामान्यतो वदति भवान् , मिथ्यादृष्टंस्त्वातदुःसहमहादुःखहेतुत्वात् कष्टतरं विशेषिततरमज्ञानम् । कुतः, इत्याह- यस्माद् विपर्ययो विपर्यास एव तस्य सर्वज्ञाक्ते यथावस्थिते वस्तुनि, न तु संशया-ऽनध्यवसायाविति भावः । अतः संशया-ऽनध्यवसायवद्भयो विशेषिततरमस्याऽज्ञानम् । कुतः पुनरस्य विपर्यय एव, इत्याह-मिथ्याभिनिवेशात् , सर्वत्रेति- सर्वत्र मोक्षे, तत्साधने संसार, तत्साधने च नारकादिवस्तुनि वा, तस्य मिथ्याभिनिवेशात् सर्वज्ञोक्तविपरीताध्यवसायात् , घटे पटबुद्धिवत् ।। इति गाथार्थः ॥ ३२४ ॥ ___ तदेवं सर्वज्ञोक्तयथावस्थितानन्तपर्यायवस्त्वभ्युपगमस्य सर्वदेव भावात् सम्यग्दृष्टानं समर्थितम् । अथ प्रकारान्तरेणापि तत् ।। तस्य समर्थयबाह
अहवा जहिंदनाणोवओगओ तम्मयत्तणं होइ। तह संसयाइभावे नाणं नाणोवओगाओ ॥ ३२५ ॥
अथवा यथेन्द्रज्ञानोपयोगात् तदुपयोगवतो ज्ञातुर्देवदत्तादेः परमैश्वर्याद्यभावेऽपि तन्मयत्वमिन्द्रमयत्वं भवति, भावेन्द्र एवाऽयं व्यपदिश्यत इत्यर्थः तथा सम्यग्दृष्टेरपि सम्यग्दर्शनलाभकाल एव मत्यादिज्ञानलाभाज्ज्ञानपरिणामरूपस्य ज्ञानोपयोगमात्रस्य सर्वदैव भावात् , अन्यथा मिथ्यादृष्टित्वप्रसङ्गात् , सदैव ज्ञानमभ्युगन्तव्यम् , तदुपयुक्तस्य तन्मयत्वात् , इन्द्रोपयुक्तदेवदत्तेन्द्रवदिति । इदमुक्तं
निर्णयकालेऽपि यतो न तथारूपं विदन्ति ते वस्तु । मिथ्यारष्टयः, तस्मात् सर्वमेव तेषामज्ञानम् ॥ ३२३ ॥ २ कष्टतरं वाऽज्ञानं विपर्यय एवं मिथ्यादृष्टीनाम् । मिथ्याभिनिवेशात् सर्वत्र घट इव पटवुद्धिः ॥ ३२४॥ ३ अथवा यथेन्द्रज्ञानोपयोगतस्तन्मयत्वं भवति । तथा संशयादिभावे ज्ञानं ज्ञानोपयोगात् ॥ ३२५ ॥ ४ ज. 'सर्वदै ।
PRADOORSHeidio
VI|१९२॥
Jan Education Internat
For Personal and Private Use Only
www.janelibrary.org
Page #195
--------------------------------------------------------------------------
________________
बृहद्वत्तिः ।
॥१९॥
Poभवति- सम्यग्दर्शनसद्भावेऽस्य सर्वदैव ज्ञानोपयोगमात्र तावदस्ति । ततश्च संशयादिकालेऽपि मौलज्ञानोपयोगतो ज्ञान्येषाऽसौ, यथा विशेषा० दारिद्रयादिसद्भावेऽपीन्द्रज्ञानोपयोगतो ज्ञाता इन्द्र एव, यथा वा रसकूपिकायां महारसे निपतितं तृणादिकमपि तद्रूपतामेवोपगच्छति ॥
इति गाथार्थः ॥ ३२५॥
अथ मिथ्यादृष्टेरप्येवं भविष्यति, इत्याशय निराकुर्वनाहतुल्लमियं मिच्छस्स वि सो सम्मत्ताइभावसुन्नो त्ति । उवओगम्मि वि तो तरस निच्चमन्नाणपरिणामो॥ ३२६ ॥
ननु यत्सम्यग्दृष्टानोपयोगतो ज्ञानमुक्तम् , तदिदं मिथ्यादृष्टेरपि तुल्यं समानम् , तस्याऽपि ज्ञानोपयोगसद्भावात् । तदयुक्तम् । कुतः?, इत्याह- यतः स मिथ्यादृष्टिः सम्यक्त्वादिभावशून्यः- सम्यक्त्वादयो ये भावाः पदार्थाः, आदिशब्दाद् मति-श्रुतज्ञानादिपरिग्रहः, तैःशून्यो विरहित इत्यर्थः, इति कुतोऽस्य ज्ञानोपयोगः?, सम्यक्त्वादिभावमन्तरेण तस्याऽभावात् , तद्भावे च मिथ्यादृष्टित्वायोगात् । ततस्तस्य मिथ्यादृष्टरुपयोगेऽपि नित्यमज्ञानपरिणाम एव, महाविषादप्यतिक्रान्तरूपमज्ञानपरिणामं विहाय नान्यः कोऽप्यस्योपयोगोऽस्तीति भावः । अतोऽस्य सदैवाऽज्ञानपरिणामः, सम्यग्दृष्टेस्तु ज्ञानपरिणामः, इति कुत उभयोस्तुल्यता ? ॥ इति गाथार्थः ॥ ३२६ ॥ एतदेव भावयति
जं निन्नओवओगे वि तस्स विवरीअवत्थुपडिवत्ती । तो संसयाइकाले कत्तो नाणोवओगो से ? ॥ ३२७॥
यतो निर्णयोपयोगकालेऽपि तस्य मिथ्यादृष्टेः सर्वज्ञोक्तविपरीतवस्तुप्रतिपत्तिरेवोपजायते । ततो निर्णयकालेऽप्यनुपजातो ज्ञानपरिणामः संशयादिकाले कुतस्तस्य वराकस्य भविष्यति । अतो मुधैव सम्यग्दृष्टेरिव मिथ्यादृष्टेरपि संशयादीनां ज्ञानत्वापादनाय खिद्यसे त्वपिति भावः ॥ इति गाथार्थः ।। ३२७॥
तदेवं सम्यग्दृष्टिसंबन्ध्येच मतिज्ञानमिह विचार्यत इति चेतास निधाय 'अन्भुवगंतुं भण्णइ नाणं चिय संसयाईया' इत्यादिना ग्रन्थेन साधितं संशयादीनां ज्ञानत्वम् । ततश्च संशयादिभावेऽपि नावग्रहादीनामज्ञानतेति स्थितम् । यदि वा संशयादिभावेनावग्रहादीनां यदज्ञानत्वं परेण प्रेर्यते, तदभिप्रायापरिज्ञानादाकाशरोमन्थनमेव न ह्यस्माभिर्ज्ञानमेवेह विचारयितुमारब्धं, येनाऽज्ञानत्वापादनं
, तुल्यमिदं मिथ्या( दृष्टेः अपि स सम्यक्त्वादिभावशून्य इति । उपयोगेऽपि ततस्तस्य नित्यमज्ञानपरिणामः ॥ ३२६ ॥ २ यनिर्णयोपयोगेऽपि तस्य विपरीतवस्तुप्रतिपत्तिः । ततः संशयादिकाले कुतो ज्ञानोपयोगस्तस्य ? ॥ ३२७ ॥ ३ घ.छ.ज. रीयव' । ४ गाथा ३१४ ।
॥१९३॥
HAR
For Personal and Private Use Only
Page #196
--------------------------------------------------------------------------
________________
विशेषा
॥१९४॥
बाधकं भवेत् : किन्तु ज्ञाना-ऽज्ञानादिरूपा सामान्येन मतिरेव विचार्यते, इति दर्शयन्नाह
अहवा जह सुयनाणावसरे सामण्णदेसणं भणियं । तह मइनाणावसरे सव्वमइनिरूवणं कुणति ॥ ३२८ ॥
अथवा यथा श्रुतज्ञानविचारावसरे ज्ञानरूपस्य, अज्ञानरूपस्य च श्रुतस्य सामान्यदेशनं भणितम् , तथा मतिज्ञानावसरे सर्वस्या अपि निर्णयरूपायाः, संशय-विपर्यासा-ऽनध्यवसायात्मिकायाश्चः ज्ञानरूपायाः, अज्ञानरूपायाश्च मतनिरूपणं करोत्याचार्यः।। इति गाथाक्षरार्थः ॥
भावार्थस्त्वयम्- इहादौ 'आभिणिवोहियनाणं सुयनाणं' इत्यादिगाथायां श्रुतज्ञानं तावज्ज्ञाना-ज्ञानोभयरूपमपि भणितम् , न पुनः सम्यक्श्रुतमेव । कथं पुनरिदं ज्ञायते ?, इति चेत् । उच्यते- 'अक्खर सन्नी सम्म' इत्यादिगाथयाऽभिधास्यमानानां चतुर्दशानां श्रुतभेदानामिह संग्रहात् , तेषु च मध्ये मिथ्याश्रुतस्याऽपि पठनात् । ततश्च यथा लाघवार्थमिह ज्ञाना-ज्ञानोभयरूपमपि श्रुतज्ञानमुक्तम् , तथेहापि मतिज्ञानप्रतिपादनावसरे संशय-विपर्यासा-ऽनध्यवसाय-निर्णय-ज्ञाना-ज्ञानात्मिकायाः सर्वस्या अपि मतेः सामान्येनैव निरूपण क्रियते, न तु ज्ञानपश्चकाधिकारात् सम्यग्दृष्टिसंबन्धिन्या एव, व्यवहारिजनप्रमाणा-ऽप्रमाणचिन्तया निर्णयरूपाया एव वा, इति भावः। | ततश्चाऽवग्रहादयः संशयादिरूपा वा भवन्तु, निर्णयरूपा वा, ज्ञानं वो भवन्तु, अज्ञानं वा, न नः किश्चित् सूयतेः श्रुतवल्लाघवार्थं 'मननं मतिः' इति मतिमात्रस्यैवेह विचारयितुमिष्टत्वात् , तस्य च संशयादिष्वपि घटनात् । ततश्च 'नर्नु संदिद्ध संसय-विवज्जया' इत्यादि यदुक्तं तत्सर्वमस्माकमवाधकमेवेति भावः ॥ इति गाथार्थः ॥ ३२८॥
ननु भवतु सामान्येन सर्वस्या अपि मतेर्निरूपणमिदम् , किन्तु ज्ञाना-ऽज्ञानचिन्तायां किमिह ज्ञानम् ?, किं चाऽज्ञानम् ?, इति निवेद्यताम् , इत्याशङ्कचाह
ऍसा सम्माणुगया सव्वा नाणं विवज्जए इयरं । अविसेसिआ मइ च्चिय जम्हा निविट्ठमाईए ॥ ३२९ ॥ एषा सामान्येन निर्दिष्टा मतिः सम्यक्त्वानुगता सम्यग्दृष्टेः संबन्धिनी सर्वाऽपि संशयादिरूपा, निश्चयरूपा वा ज्ञानमेव । विपर्यये त्वज्ञानम्-मिथ्यादृष्टिसंवन्धिनी सर्वाऽप्यज्ञानमित्यर्थः । कुतः पुनरिदं ज्ञायते ?, इत्याह- 'जम्हा निदिमाईए त्ति' यस्मादादावव
, अथवा यथा श्रुतज्ञानावसरे सामान्यदेशनं भणितम् । तथा मतिज्ञानावसरे सर्वमतिनिरूपणं करोति ॥३२८॥ २ गाथा ७९ । ३ अक्षरं सज्ञि सम्यक् । ४ क. ग. 'वा अ'। ५ गाथा ३१३ । ६ घ.छ.ज.'णु'। ७ एषा सम्पगनुगता सर्वा ज्ञानं विपर्यय इतरत् । अविशेषिता मतिरेव यस्माद् निर्दिष्टमादौ ॥ ३२९ ॥
॥१९४||
For Personal and Private Use Only
Page #197
--------------------------------------------------------------------------
________________
कशाहOOS
बृहदत्तिः ।
विशेषा ॥१९५॥
ग्रहादिभेदनिरूपणात् पूर्वमेव निर्दिष्टं नन्द्यध्ययनमूत्रकारेण । किं निर्दिष्टम् ?, इत्याह- 'अविसेसिया मइ च्चिय त्ति' सूचकत्वात् | सूत्रस्य, अनेनाऽऽलापकः सर्वोऽपि सूचितो द्रष्टव्यः, तद्यथा-" अविसेसिंआ मई मइनाणं च, मइअन्नाणं च, विसेसिंआ मई- सम्मदि- हिस्स मई मइनाणं, मिच्छदिहिस्स मई मइअन्नाणं" इति । ततो यस्मादागम एवमुक्तम् , तस्मात् सम्यग्दृष्टेः सर्वापि मतिर्ज्ञानं, मिथ्यादृष्टेस्त्वज्ञानम् ।। इति गाथार्थः ।। ३२९ ॥
अथ 'सदसद-' इत्यादिना प्रागुक्तामपि सम्यग्दृष्टेनित्वे, मिथ्यादृष्टेरज्ञानत्वे पुनरपि युक्तिमाहविवरीअवत्थुगहणे जं सो साहणविवजयं कुणइ । तो तस्स अन्नाणफलं सम्मदिट्ठिस्स नाणफलं ॥३३०॥
इह मिथ्यादृष्टिस्तावद् मिथ्यात्वोदयविपर्यस्तत्वात् त्रिभुवनगुरुपणीतवस्तु विपरीतं सर्वमेव गृह्णाति । ततोऽसौ विपरीतवस्तुग्रहणे विपरीतवस्तुग्रहणशीलतयेत्यर्थः, यस्मात् साधनविपर्ययं करोति- साध्यन्ते मोक्षादयोऽनेनेति साधनं ज्ञान-दर्शन-चारित्रादि तस्य विपर्ययं व्यत्ययं करोति, अज्ञान-मिथ्यात्वा-विरत्यादीन्यपि मोक्षादिसाधकत्वेनेच्छतीत्यर्थः । ततस्तस्य ज्ञानमज्ञानफलमेव, अज्ञानस्यैव फलं नरकप्राप्त्यादिकं यस्मात् तदज्ञानफलम् , अज्ञानवद् वा फलति नरकादिदुःखं प्रसूत इत्यज्ञानफलम् । तत्फलत्वाचाज्ञानमेवेति भावः । सम्यग्दृष्टस्तु ज्ञानं ज्ञानफलमेव, ज्ञानस्यैव फलं यस्मात् , ज्ञानवद् वा फलति खगादिसुखमिति ज्ञानफलं, तत्फलत्वाच ज्ञानमेवेति हृदयम् । इदमुक्तं भवति- विपरीतवस्तुग्राही मिथ्यादृष्टिोक्षादेः साधनं सम्यग्ज्ञान-क्रियारूपं विपरीतं मन्यते- “वेदविहिता हिंसा न दोषाय"
"षट् शतानि नियुज्यन्ते पशूनां मध्यमेऽहनि । अश्वमेधस्य वचनाद् न्यूनानि पशुभिस्त्रिभिः " ॥१॥
" हत्वा भूतसहस्राणि कृत्वा पापशतानि च । स्नात्वा गङ्गाजले पूते यान्ति जीवाः शिवालयम् " ॥१॥ इत्यादिभूतघातनिबन्धनत्वेन संसारहेतोमिथ्याज्ञानस्य मोक्षादिसाधकत्वेनाऽभ्युपगमात् , जलस्नान-पशुवध-पुत्रसन्ततिनिबन्धनमैथुनादिक्रियायां च तत्साधकत्वेन प्रवर्तनात् । अतस्तस्य ज्ञानमप्यज्ञानफलत्वेनाऽज्ञानमेव । सम्यग्दृष्टस्तु सम्यग्ज्ञान-क्रियासंयोगेन मोक्षादी प्रवृत्तेनिफलत्वेन ज्ञानमेव ।। इति गाथार्थः ॥ ३३०॥ १ अविशेषिता मतिमंतिज्ञानं च, मत्यज्ञानं च; विशेषिता मतिः- सम्यग्दृष्टेर्मतिर्मतिज्ञानम् , मिथ्यादृष्टर्मतिर्मत्यज्ञानम् । २ घ. छ.ज, 'सिया म' । ३ गाथा ३१९ । ४ विपरीतवस्तुग्रहणे यत् स साधनविपर्ययं करोति । ततस्तस्याऽज्ञानफलं सम्यग्दृष्टानफलम् ॥ १३० ॥ ५ घ, ज, रीयब'। ६ क.ग, 'णाण'।
॥१९॥
JanEducational InternationRVE
For Personal and Private Use Only
Page #198
--------------------------------------------------------------------------
________________
अथ पुनरपि मिथ्यादृष्टः सम्यग्दृष्टितुल्यतामाशङ्कय निराकुर्वन्नाहविशेषा० जेइ सो वि तस्स धम्मो किं विवरीयत्तणं ति, तं न भवे । धम्मो वि जओ सब्वो न साहणं किंतु जो जोग्गो॥३३॥ बृहद्वत्तिः।
यो मिथ्याज्ञान-विपरीतक्रियालक्षणो धर्मो मिथ्यादृष्टिना मोक्षसाधकत्वेनाऽभ्युपगतः, यदि सोऽपि तस्य सम्यग्ज्ञानादिरूपस्य सम्यग्दृष्ट्यभ्युपगतस्य मोक्षसाधनस्य धर्मः, तर्हि मिथ्यादृष्टेः किं विपरीतत्वम् ? न किञ्चिदित्यर्थः । अयमत्र भावार्थ:-'ईय सबमयं सव्वं समद्दिछिस्स जं वत्थु इति वचनात् 'सर्वमयं सर्वमेव वस्तु' इति भवतां सिद्धान्तः। ततश्च सम्यग्ज्ञान-दर्शन-चारित्रसमुदायरूपस्य साधनस्य यथा सम्यग्ज्ञानादिको धर्मः, तथा मिथ्याज्ञानादिकोऽपि, अन्यथा सर्वस्य सर्वमयत्वत्यागप्रसङ्गात् । अतः सम्यग्दृष्टिना मोक्षसंसिद्धये यस्य साधनस्य धर्मोऽङ्गीकृतः, मिथ्याष्टिनाऽपि तत्सिद्धये तस्यैव धर्मः स्वीकृतः, धर्मग्रहणद्वारेण च कथञ्चित् तस्य धर्मिणो ग्रहणम् । अतः किं नाम मिथ्यादृष्टेर्विपरीतत्वम् । । इति परेणोक्त आचार्यः पाह- 'तं न भवे ति तदेतत् त्वदुक्तं न भवेद् न युज्यते । कुतः १, इत्याह- 'धम्मो वि जओ इत्यादि इदमुक्तं भवति- अनन्तधर्माध्यासितस्यापि वस्तुनो न सर्वेऽपि धर्मा एकमर्थ साधयन्ति, किन्तु योग्यतानुरूपेण कोऽपि कश्चिदेवेति । यथा हि कलश-मल्लक-कपाल-भुम्भलकादीनां साधारणेऽपि मृद्धर्मत्वे न
कलशवद् (म्भलकादयोऽपि मङ्गल-जलधारणादिकार्येषु व्याप्रियन्ते, नापि सुवर्णधर्मत्वे समानेऽपि कुण्डलवद् नूपुरमपि कर्णालङ्करPणाय नियुज्यते, न चापि शालि-दालि-घृतादिधर्मत्वे तुल्येऽपि रसवद् गन्धादयोऽपि तृप्ति-देहपुष्ट्यादीनि साधयन्ति । एवं यद्यपि
मोक्षादिसाधनस्य मिथ्याज्ञानादिकोऽपि व्यावृत्तिरूपतया धर्मः, तथापि नासौ मोक्षं साधयति, किन्तु तद्विपक्षभूतं संसारादिकमेव, मोक्षादिकं तु यत्साधनयोग्यः सम्यग्ज्ञानादिको धर्मः स एव साधयति । ततः सम्यग्दृष्टिगृहीतेऽप्यनन्तधर्माध्यासिते मोक्षादिसाधने वस्तुनि योग्यमेव सम्यग्ज्ञानादिकं धर्म तत्साधनाय व्यापारयति, नाऽयोग्यं मिथ्याज्ञानादिकम् । मिथ्यादृष्टिस्तु मिथ्यात्वोदयतिमिरतिरस्कृतभावदृष्ठित्वेन तत्र तस्याऽयोग्यतामपश्यंस्तमेव व्यापारयतीति । अतः साधनविपर्ययं करोति, इत्यज्ञानमेव तस्य ॥ इति गाथार्थः ॥ ३३१ ॥ एतदेव भावयन्नाहजोग्गा-जोग्गविसेसं अमुणतो सो विवजयं कुणइ । सम्मट्ठिी उण कुणइ तस्स सट्ठाणविणिओगं ॥ ३३२ ॥
॥१९ , यदि सोऽपि तस्य धर्मः किं विपरीतत्वमिति, तद् न भवेत् । धर्मोऽपि यतः सर्वो न साधनं किन्नु यो योग्यः ॥ ३३१ ॥ २ गाथा ३२० । ३ घ.ज. 'भुम्भुल' । ४ क.ग. 'धनद'। ५ योग्यायोग्यविशेषमजानन् स (मिथ्यादृष्टिः) विपर्ययं करोति । सम्यग्दृष्टिः पुनः करोति तस्य स स्थानविनियोगम् ॥३३२॥
मास्टरलायन
SHAR
JABEducatorisinterin
For Personal
Use Only
Page #199
--------------------------------------------------------------------------
________________
विशेषा०
॥१९७॥
Jain Educations Internati
व्याख्यातार्थैव, नवरं सम्यग्दृष्टिर्योग्यमयोग्यं च साधनधर्म जानाति, ज्ञात्वा च स्थाने व्यापारयति । तथा च सम्यगाराको भूत्वा समीहितफलभाग् भवति । उक्तं च
"काले सिक्ख नाणं जिणभणिअं परमभत्तिराएणे । दंसणपभावगाणि अ सिक्ख सत्थाई कालम्मि ॥ १ ॥ काले य भत्तपाणं गवेसए सयलदोसपरिमुद्धं । आयरियाईणट्टा पवयणमायासु उवउत्तो ॥ २ ॥
एवं समायरंतो काले कालं विसुद्धपरिणामो । असवन्तजोगकारी सलाहणिज्जो य भुवणम्मि || ३ || सयलसुरा - सुरपणमिअजिण गणहरभणियकिरियविहिकुसलो । आराहिऊण सम्मत्त-नाण चरणाई परमाई ॥ ४ ॥ सत्तट्टभवग्गहणभंतैरकालम्मि केवलन्नाणं । उप्पाडिऊण गच्छइ विहुयमलो सासयं मोक्खं ॥ ५ ॥
तत्थ य जर- जम्मण-मरण-रोग-तण्हा-छुहा-भय-विमुक्को । साइ अपज्जवसाणं कालमणतं सुहं लहइ" ॥ ६ ॥ इत्येवमादि || इति गाथार्थः ॥ ३३२ ॥
तदेवं चालना - प्रत्यवस्थानादिभिर्व्याख्याता अवग्रहादयः । अथ तेषामेव कालनिरूपणार्थमाह नियुक्तिकारः
उग्गहो एवं समयं ईहा वाया मुहुत्तमंतं तु । कालमसंखं संखं च धारणा होइ नायव्वा ॥ ३३३ ॥
अवग्रह इति व्याख्यानाद् नैश्वयिकोऽर्थावग्रहो द्रष्टव्यः । स किम् ?, इत्याह- सर्वजघन्यः कालविशेषः समयः, तमेकं समयं भवति, न परतः । ईहा पायौ प्राग्निर्णीत स्वरूपौ 'मुहुत्तमतं त्विति' अन्तःशब्दो मध्यवचनः, ततश्च जघन्यतः, उत्कृष्टतश्च मुहूर्तातर्भि मुहूर्त ज्ञातव्यौ भवतः - अन्तर्मुहूर्तमित्यर्थः । तुश्चकारार्थः । चकारश्चानुक्तसमुच्चये । ततश्च व्यञ्जनावग्रह व्यावहारिकार्थावग्रहौ
१ काले शिक्षते ज्ञानं जिनभणितं परमभक्तिरागेण । दर्शनप्रभावकाणि च शिक्षते शास्त्राणि काले ॥ १ ॥ काले च भक्तपानं गवेषते सकलदोषपरिशुद्धम् । आचार्यादीनामर्थाय प्रवचनमातृषूपयुक्तः ॥ २ ॥ एवं समाचरन् काले काले विशुद्धपरिणामः । आस्त्रवान्तयोगकारी श्लाघनीयश्च भुवने ॥ ३ ॥ सकलसुरासुरप्रणतजिन-गणधरभणितक्रियाविधिकुशलः । आराध्य सम्यक्त्व ज्ञान चरणानि परमाणि ॥ ४ ॥ सप्ता-ऽष्टभवग्रहणाभ्यन्तरकाले केवलज्ञानम् । उत्पाद्य गच्छति विधुतमलः शाश्वतं मोक्षम् ॥ ५ ॥
तत्र च जरा-जन्म-मरण-रोग-तृष्णा क्षुद्-भय-विमुक्तः । साचपर्यवसानं कालमनन्तं सुखं लभते ॥ ६ ॥ २. क.ग. 'णं' । ३ घ. 'तरे का' ४ क. ग. 'लं नाणं' ।
५ अवग्रह एक समयमीहा पायौ मुहूर्तान्तस्तु । कालमसंख्यं संख्यं च धारणा भवति ज्ञातव्या ॥ ३३३ ॥
For Personal and Private Use Only
बृहद्वृत्तिः ।
॥१९७॥
Page #200
--------------------------------------------------------------------------
________________
विशेषा
॥१९८॥
च प्रत्येकमन्तर्मुहूतं भवत इति द्रष्टव्यम् । क्वचित् 'मुहुत्तमद्धं तु' इति पाठः, तत्रापि मुहूर्तार्धशब्देनाऽन्तर्मुहूर्तमेव मन्तव्यम् । तुशब्दोऽपि तथैव । कलनं कालः, न विद्यते संख्या पक्ष-मास-ऋतु-अयन-संवत्सरादिका यस्याऽसावसंख्यः पल्योपमादिलक्षणस्तं कालमसंख्यम् , तथा संख्यायत इति संख्यः- पक्ष-मास-ऋतु-अयनादिप्रमित इत्यर्थः, तं संख्यम् , चशब्दादन्तर्मुहूर्त च धारणा प्रागभिहितस्वरूपा भवति ज्ञातव्या । इदमुक्तं भवति- अविच्युति-स्मृति-वासनाभेदाद् धारणा त्रिविधा । तत्राऽविच्युतिरूपा, स्मृतिरूपा च प्रत्येकमन्तर्मुहूर्तं भवति । या तु तदर्थज्ञानावरणक्षयोपशमरूपा स्मृतिबीजरूपा वासनाख्या धारणा, सा संख्येयवर्षायुषां सत्चानां संख्येयं कालम्, असंख्येयवर्षायुषां तु पल्योपमादिजीविनामसंख्येयं कालं भवति ॥ इति नियुक्तिगाथार्थः ॥ ३३३ ।।
अथैनां भाष्यकारो व्याख्यानयति
अत्थोग्गहो जहन्नो समयं सेसोग्गहादओ वीसुं । अंतोमुहुत्तमेगं तु वासनाधारणं मोत्तुं ॥ ३३४ ॥ ___ अवग्रह इत्यस्य व्याख्यानमर्थावग्रह इति, अयमपि निश्चय-व्यवहारभेदतो द्विधा, ततो व्यवहारार्थावग्रहव्यवच्छेदार्थमाह'जहन्न इति' अतिस्तोककालत्वेन जघन्यो नैश्चयिकोर्थावग्रहो नेतर इत्यर्थः, अयमेकसमयं भवति । शेषास्त्वेकां वासनारूपां धारणां मुक्त्वा येऽवग्रहादयो व्यञ्जनावग्रह-व्यावहारिकार्थावग्रहे-हा-ऽपाया-ऽविच्युति-स्मृतिरूपा मतिभेदास्ते सर्वेऽपि विष्वक् पृथगेकमेवाऽन्तमुहूर्त भवन्ति । वासनाधारणायास्तु नियुक्तिगाथोक्तमेव कालमानमवगन्तव्यम् , इत्यभिप्रायः ॥ इति गाथार्थः ।। ३३४ ॥
अथ 'पुहं सुणेइ सई' इत्यादिनियुक्तिगाथाया भाष्यकारः संबन्धमुपदर्शयन् परां गाथामाह
"सोत्ताईणं पत्ताइविसयया पुवमत्थओ भणिया । इह कंठा सट्ठाणे भण्णइ, विसयप्पमाणं च ॥३३५॥ श्रोत्रादीनां प्राप्ता-आप्तविषयता पूर्वमर्थतोऽर्थव्याख्यानद्वारेणाऽऽयाता मया विस्तरेणाऽभिहिता । इह तु स्वस्थाने स्वस्थानत्वाद् नियुक्तिकारेण कण्ठाद् गाथासूत्रेण स्वयमेवासौ भण्यते । एतदुक्तं भवति- 'उग्गहो ईह अवाओ य' इत्यादिनियुक्तिगाथाया व्याख्यान कुर्वता मया नयण-मणोवजिदियभेयाओ वंजणोग्गहो चउहा' इत्यादिना भाष्येण व्यञ्जनावग्रहव्याख्याप्रस्तावे श्रोत्रादीनां प्राप्ता-प्राप्तविषयता मोक्ता । इह तु कण्ठाद् नियुक्तिगाथायाः खस्थानत्वाद् नियुक्तिकारस्तां वक्ति । नन्वत्र कथं तस्याः स्वस्थानत्वम् ,
१ घ. ज. 'स्मृतेवी । २ प. ज. 'जभूता वा'। ३ अर्थावग्रहो जघन्यः समय शेषाऽवमहादयो विष्वक् । अन्तर्मुहूर्तमेकं तु वासनाधारणां मुक्त्वा ॥३३॥ ४ गाथा ३३६ । ५ श्रोत्रादीनां प्राप्तादिविषयता पूर्वमर्थतो भणिता । इह कण्ठात् स्वस्थाने भण्यते, विषयप्रमाणं च ॥३३५॥ ६ गाथा १७८ । ७ गाथा २०४ ।
॥१९८॥
Jan Education interna
For Personal and Private Use Only
www.jaineltrary.ary
Page #201
--------------------------------------------------------------------------
________________
विशेषा० ॥१९९॥
इति चेत् । उच्यते- नन्द्यध्ययनागमेऽत्रान्तरे तस्याः प्रतिपादितत्वादिह स्वस्थानत्वमिति । न केवलमसावेवाभिधास्यते, किन्तु प्रसङ्गतः ।। सर्वेन्द्रियाणां विषयप्रमाणं चाहं भणिष्यामि ॥ इति गाथार्थः ॥ ३३५॥
बृहद्वृत्तिः । कया पुनर्गाथया नियुक्तिकृताऽसौ भण्यते ?, इत्याह
पुढे सुणेइ सदं रूवं पुण पासइ अपुढे तु । गंधं रसं च फासं च बहपुढे वियागरे ॥ ३३६ ॥
श्रोत्रेन्द्रियं कर्तृ, शब्दं कर्मतापन्नं शृणोति । कथंभूतम् ?, इत्याह- स्पृश्यत इति स्पृष्टस्तं स्पृष्टं तनौ रेणुवदालिङ्गितमात्रमेवेत्यर्थः । इदमुक्तं भवति- स्पृष्टमात्राण्येव शब्दद्रव्याणि श्रोत्रमुपलभते, यतो घ्राणेन्द्रियविषयभूतद्रव्येभ्यस्तानि मूक्ष्माणि, बहूनि, भावुकानि च, पटुतरं च श्रोत्रेन्द्रियं विषयपरिच्छेदे घ्राणेन्द्रियादिगणादिति । श्रोत्रेन्द्रियस्य चेह कर्तृत्वं शब्दश्रवणान्यथानुपपत्तेर्लभ्यते । एवं घ्राणेन्द्रियादिष्वपि वाच्यम् । तानि पुनः कथं गन्धादिकं गृह्णन्ति ?, इत्याह- गन्ध्यत इति गन्धस्तमुपलभते घ्राणेन्द्रियम् , रस्यत इति रसस्तं च गृह्णाति रसनेन्द्रियम् , स्पृश्यत इति स्पर्शस्तं च जानाति स्पर्शनेन्द्रियम् । कथम्भूतं गन्धादिकम् ?, इत्याह-बद्धस्पृष्टम् । तत्र स्पृष्टमिति पूर्ववदेव, बद्धं तु गाढतरमाश्लिष्टमात्मप्रदेशस्तोयवदात्मीकृतमित्यर्थः । ततश्च गन्धादिद्रव्यसमूह प्रथमं स्पृष्टमालिङ्गितम् , ततश्च स्पर्शनानन्तरं बद्धमात्मपदेशैर्गाढतरमागृहीतमेवोपलभते घ्राणेन्द्रियादिकमिति । एवं व्यागृणीयात् प्ररूपयेत् प्रज्ञापकः, यतो घ्राणेन्द्रियादिविषयभूतानि गन्धादिद्रव्याणि शब्दद्रव्यापेक्षया स्तोकानि, बादराणि, अभावुकानि च, विषयपरिच्छेदे श्रोत्रापेक्षयाऽपनि च घ्राणादीनि अतो बद्धस्पृष्टमेव गन्धादिद्रव्यसमूहं गृह्णन्ति, न पुनः स्पृष्टमात्रमिति भावः । ननु यदि स्पर्शानन्तरं बद्धं गृह्णाति, तर्हि 'पुटबद्धं' इति पाठो युक्तः, इति चेत् । उच्यते- विचित्रत्वात् सूत्रगतेरित्थं निर्देशः, अर्थतस्तु यथा त्वयोक्तं तथैव द्रष्टव्यम् । अपरस्त्वाह- यद् बद्धं तत् सृष्टं भवत्येव, विशेषवन्धे सामान्यवन्धस्याऽन्तर्भावात् , ततः किं स्पृष्टग्रहणेन ? इति । तदयुक्तम् , सकलश्रोतसाधारणत्वाच्छास्त्रारम्भस्य, प्रपश्चितज्ञाऽनुग्रहार्थमर्थापत्तिगम्यार्थाभिधानेऽप्पदोषादिति ॥
चक्षुरिन्द्रियं त्वमाप्तमेव विषयं गृह्णाति, इत्याह- 'रूवं पुण पासई अपुढं विति' रूपं कर्मतापन्नं चक्षुरस्पृष्टमप्राप्तमेव पश्यति । पुनःशब्दस्य विशेषणार्थत्वादस्पृष्टमपि योग्यदेशस्थमेव पश्यति, नाऽयोग्यदेशस्थं सौधर्मादि, कट-कुट्यादिव्यवहितं वा घटादि । इति नियुक्तिगाथार्थः ।। ३३६ ॥
॥१९९॥ १ स्पृष्ट भणोति शब्दं रूपं पुनः पश्यत्यस्पृष्टं तु । गन्धं रसं च सर्श च पदस्पृष्टं व्यागृणीयात् ॥ २३ ॥
Torks
Jin
a
international
For Personal and Private Use Only
www.jaineitrary.org
Page #202
--------------------------------------------------------------------------
________________ विशेषा० बृहद्धत्तिः / // 20 // अथैतद्व्याख्यानाय भाष्यम्पुढे रेणुं व तणुम्मि बद्धमप्पीकयं पएसेहिं / छिक्काई चिय गिण्हइ सहदव्वाइं जं ताई // 337 // बहु-सुहुम-भावुगाई जं पडुयर च सोत्तविण्णाणं / गंधाईदब्वाइं विवरीयाई जओ ताई // 338 // फरिसाणंतरमत्तप्पएसमीसीकयाई घेप्पंति / पडुयरविण्णाणाई जं च न घाणाइकरणाई // 339 / / 'स्पृष्टं' इत्यस्य व्याख्यानं 'पुढे रेणुं व तणुम्मि ति' यथा रेणोस्तनौ संबन्ध इत्येतावन्मात्रेण यद् वस्तु संबद्धं तदिह स्पृष्टमुच्यत इति भावः / 'बद्धमित्यादि' यदात्मीकृतमात्मना गाढतरमागृहीतम् , आत्मप्रदेशस्तनुलग्नतोयवद् मिश्रीभूतं तद् बद्धमुच्यत इत्यर्थः / तत्र 'छिक्काई चिय त्ति' स्पृष्टान्येव शब्दद्रव्याणि गृह्णाति श्रोत्रम् , यतस्तानि बहूनि, सूक्ष्माणि, भावुकानि च वासकानि चेत्यर्थः / पटुतरं च श्रोतृविज्ञानम् / गन्धादिद्रव्याणि तु विपरीतानि स्तोक-बादरा-भावुकानि यतः, अतस्तानि स्पर्शानन्तरमात्मप्रदेशैमिश्रीकृतानि स्पृष्ट-बद्धानि गृह्यन्ते घ्राणादिभिः, पटुतरविज्ञानानि च न भवन्ति यतो घ्राणादिकरणानि // इति गाथात्रयार्थः॥ 337 // 338 / / 339 / / अथ 'रुवं पुण पासइ अपुढे तु' इत्यत्रोपपतिमाह अप्पत्तकारि नयणं मणो य नयणस्स विसयपरिमाणं / आयंगुलेण लक्खं अइरित्तं जोयणाणं तु // 34 // प्रागुक्तयुक्त्या अमाप्तकारि-अप्राप्तस्यैव वस्तुनः परिच्छेदकारि यतो नयनं, मनश्चः ततोऽस्पृष्टमेव रूपं पश्यति नयनेन्द्रियम् / ननु यद्यप्राप्त रूपमेतत् पश्यति, तर्हि लोकान्तादर्वाग् यदस्ति तत् सर्व पश्यतु, अप्राप्तत्वाविशेषात् , इत्याशय, यदिन्द्रियाणां विषयपरिमाणं भणनीयत्वेन प्राक् प्रतिज्ञातं, तत्र चक्षुषस्तावत् तदाह- 'नयणस्सेत्यादि' नयनेन्द्रियस्याऽऽगमे आत्माङ्गुलेन सावितिलास्कृष्टतोऽपि विषयपरिमाणमभिहितम, तेनामाप्तकारित्वाविशेषेऽपि परतो न पश्यतीति भावः / इह च ' आ इति वदत कोऽभिप्रायः / उच्यते-- अङ्गुलमिह तावत् त्रिविधं भवति- आत्माङ्गुलम् , उच्छ्याङ्गुल, प्रमाणाङ्गुलं चेतिबाऽऽयुटर , स्पृष्टं रेणुरिव तनी बदमात्मीकृतं प्रदेशः / स्पृष्टान्येव गृह्णाति शब्दहव्याणि यत् तानि // 33 // बहु-सूक्ष्म-भावुकानि यत् पटुतरं च श्रोत्रविज्ञानम् / गन्धादिद्रव्याणि विपरीतानि यतस्तानि // 338 // स्पर्शानन्तरमात्मप्रदेशमिश्रीकृतानि गृह्यन्ते / पटुतरविज्ञानानि यच्च न प्राणादिकरणानि // 339 // 2 गाथा 3 अप्राप्तकारि नयनं मनश्च नयनस्य विषयपरिमाणम् / आत्माङलेन लक्षमतिरिक्तं योजनानां तु // 340 // // 20 // JanEducationaina For and Private Use Only