________________
बापत
विशेषा
॥१८७॥
हावाब
इह वस्तुनो घटादेम॒न्मयत्व-पृथुवुश्नत्व-वृत्तत्व-कुण्डलायतग्रीवायुक्तत्वादयोऽर्थरूपाः पर्याया अर्थपर्याया अनन्ता भवन्ति । घटकुट-कुम्भ-कलशादयस्तु वचनरूपाः पर्याया वचनपर्यायास्तेऽप्यनन्ता भवन्ति; आदिशब्दात् परव्यावृत्तिरूपा अप्यनन्ता गृह्यन्ते । ततश्चेत्थं समासः कर्तव्यः- अर्थश्च, वचनानि च, आदिशब्दात् परब्यावृत्तयश्च तद्रूपाः पर्याया अर्थ-वचनादिपर्यायाः, ते च तेऽनन्ताश्च त एव शक्तयः, ताभिः संपन्नं युक्तं यतो वस्तु भवति, अतस्तस्यैकदेशविच्छेदकारिणः संशयादयो ज्ञेयाः । इदमुक्तं भवति-न खलु वयं निरंशवस्तुवादिनः, किन्तु यथोक्तानन्तधर्मलक्षणवस्तुनोऽनन्ता एव देशाः सन्तीति वयं मन्यामहे, तन्मध्याच्चैकैकदेशग्राहिणः संशयादयोऽपि भवन्त्येव, इति कथं न ते ज्ञानम् ? । यदि पुनस्ते किमपि न गृह्णीयुः, तदा तेषामनुत्थानमेव स्यात्, सर्वथा निर्विषयज्ञानस्य प्रसवायोगात् , गगननलिनज्ञानवत् । ततश्च 'ज्ञायतेऽनेनेति ज्ञानम्' इति व्युत्पत्त्यर्थात् संशयादीनामपि ज्ञानता न विरुध्यते । ॥ इति गाथार्थः ॥ ३१६ ॥ अथ समस्तवस्तुरूपग्राह्येव ज्ञानं, नैकदेशग्राहकम् , इत्येतदाशय निराकुर्वन्नाह
अहवा न सव्वधम्मावभासया तो न नाणमिट्ठ ते । नणु निन्नओ वि तद्देसमेत्तगाहि त्ति अन्नाणं ॥३१७॥
अथवा- अथ चेदेवं ब्रूयात् परः । किम् ?, इत्याह- न सर्वधर्मावभासका न कात्स्न्ये न गवादिवस्तुसमग्रधर्मग्राहिणः, ततो न ज्ञानमिष्टं ते संशयादयः, संपूर्णवस्तुखरूपग्राहिण एव ज्ञानत्वात् । अत्रोत्तरमाह- ननु भवता ज्ञानत्वेनाऽङ्गीकृतस्तर्हि निर्णयोऽप्यज्ञानमेव प्रामोति । कुतः, इत्याह-तस्य गवादिवस्तुन एकदेशमात्रग्राहीति कृत्वा; तथाहि- गौरयं, घटोऽयं, पटोऽयम्' इत्यादिभिनिर्णयैरपि गोत्व-घटत्वादिको वस्त्वेकदेश एव गृह्यते, अतस्तेऽपि कथं ज्ञानरूपता भजेयुः ? । अथ देशस्य देशिनमन्तरेण कदा| चिदप्यभावात् तद्ग्रहणद्वारेण सर्वमपि वस्तु निर्णयेन गृहीतम् , इत्यतो ज्ञानमेवाऽसौ । तदेतत् संशयादिष्वपि समानम् ; तथाहि'किमयं स्थाणुः, पुरुषो वा' इत्यादिरूपः संशयोऽपि स्थाणुत्वादिकं वस्त्वेकदेशं जानाति, विपर्यासोऽपि विपर्ययवस्त्वेकदेशमबवुध्यते, अनध्यवसायोऽपि सामान्यमात्ररूपं वस्त्वेकदेशमवगृह्णाति । ततश्च संशयादयोऽप्येकदेशपरिज्ञानद्वारेण समग्रमपि वस्तु जानन्त्येव, इति तेषामपि ज्ञानता केन वार्यते ।। अथ गृह्यते संशयादिभिर्वस्त्वेकदेशः, केवलं संशयेन संदिग्धः, विपर्यासेन विपर्यस्तः, अनध्यवसायेन त्वविशिष्ट इति चेत् । ननु प्रतिविहितमप्यदः किं विस्मरासि ?, यतो 'ज्ञायतेऽनेनेति ज्ञानम् , मतिरूपं
॥१८७॥
१ अथवा न सर्वधर्मावभासकास्ततो न ज्ञानमिष्टं ते । ननु निर्णयोऽपि तद्देशमात्रग्राहीत्यज्ञानम् ॥ ३१७ ॥
Jan Educo nema
For Personal and Private Use Only
www.jaineitrary.ary