SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ स बृहद विशेषा. ॥१८८॥ ज्ञानं मतिज्ञानम्' इत्येवं सामान्येनैव सम्यग्दृष्टिसंबन्धि मतिज्ञानमिह विचार्यते । तस्य च संशयादिरूपस्य, निर्णयरूपस्य वा सम्यग्दृष्टिसंबन्धिनो ज्ञानता न विरुध्यते, 'ज्ञायतेऽनेनेति ज्ञानम्' इत्यस्यार्थस्य सर्वत्रोपपद्यमानत्वादिति । ननु यदि संशयादयोऽपि मतिज्ञानम् , तर्हि चतुर्भेदत्वमतिक्रम्य सप्तभेदत्वं तस्य प्रसज्यते, इति चेत् । नैतदेवम् , यतोऽनध्यवसायस्तावत्सामान्यमात्रग्राहित्वेनाऽवग्रहेऽन्तर्भवति, संशयोऽपि पूर्वोक्तस्वरूपेहाप्रकारत्वात् , तत्कारणत्वाच्च तस्यामेवाऽन्तर्विशति, यदपि संशयस्य पूर्वमीहात्वमपाकृतं तदपि व्यवहारिजनानुवृत्त्या, न तु सर्वथेति; विपर्यासस्तु निश्चयरूपत्वात् साक्षादपाय एव, इति कुतश्चतुर्भेदातिक्रमः । इत्थं चैतदगीकर्तव्यम् , अन्यथा सम्यग्दृष्टिसंबन्धिनः संशयादयो मतिज्ञानादतिरिच्यमानाः काऽन्तर्भवेयुः ? । अज्ञान इति चेत् । नैवम् , “सम्मदिट्टी णं भंते ! किं. नाणी अन्नाणी? गोयमा! नाणी, नो अन्नाणी" इत्याद्योगमवचनात् सम्यग्दृष्टेः सदैव ज्ञानिवादिति | भवत्वेवम् , तथापि सम्यग्दृष्टिसंबन्ध्येव मतिज्ञानमिह विचार्यत इति कुतो लभ्यते? इति चेत् । उच्यते- ज्ञानपञ्चकमेवेह विचारयितुमुपक्रान्तम् , ज्ञानं च सम्यग्दृष्टेरेव भवति, अतस्तत्संवन्ध्येव मतिज्ञानमिह विचार्यते, सम्यग्दृष्टिसंबन्धिनां च संशयादीनां ज्ञानता साध्यते । इत्यलं विस्तरेण ।। इति गाथार्थः ।। ३१७ ॥ अत्रातिप्रसक्तिं मन्यमानः परः माह-' __ जइ एवं तेण तुहं अन्नाणी को वि नत्थि संसारी । मिच्छद्दिट्ठीणं ते अन्नाणं नाणमियरेसिं ॥ ३१८॥ यद्येवमुक्तमकारेण संशयादयोऽपि ज्ञानम् , तेन तव 'अज्ञानी नास्ति कोऽपि संसारी जीवः' इति प्राप्तम् : मोक्षे सर्वस्याऽपि ज्ञानं परेणाऽभ्युपगम्यत इति संसारिणामेवाऽयमतिप्रसङ्गलक्षणो दोषः, इत्यभिप्रायवता 'संसारी' इति विशेषणमकारि । एतदुक्तं भवति'संशयादयोऽज्ञानम् , निर्णयस्त्वबाधितो ज्ञानम्' इति तावल्लोकव्यवहारस्थितिः। यदि च भवता संशयादीनामपि ज्ञानरूपता व्यवस्थाप्यते, तर्हि समुच्छन्नोऽयमज्ञानव्यवहारः, ततः कथं नाऽतिप्रसङ्गः। दृश्यते च लोकेऽज्ञानव्यवहारः; स कथं नीयते ? इति । अत्रोत्तरमाह| "मिच्छविहीणमित्यादि' मिथ्यादृष्टीनां संबन्धिनस्ते संशय-विपर्यया-ऽनध्यवसायाः, निर्णयश्चाज्ञानम् , इतरेषां तु सम्यग्दृष्टीनां संबन्धिनस्ते ज्ञानम् , इति नाऽज्ञानव्यवहारोच्छेदः। अयमभिप्रायः- लोकव्यवहाररूढो ज्ञाना-ऽज्ञानव्यवहारोऽत्र न विवक्षितः, किन्त्वागमाभिप्रायरूढो , सम्यग्रष्टयो भगवन् ! किं जानिनः, अज्ञाना:?, गोयमा ! ज्ञानिनः, मो अज्ञानाः । २ 'भगवती' इतिनाम्ना प्रसिद्ध व्याख्याप्रज्ञप्तिसूत्रे । ३ यद्येवं तेन तवाऽज्ञानः कोऽपि नास्ति संसरी । मिथ्यारष्टीनां तेऽज्ञानं ज्ञानमितरेषाम् ॥ ३१८॥ ४ क.ग.छ.ज. 'री आमि' । ॥१८८॥ Jan Education intem For Personal and Private Use Only www.jaineltrary.ary
SR No.600162
Book TitleVisheshavashyak Bhashya Part 01
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy