SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ विशेषा ० ।। १५८।। Jain Educations International विशेषा धर्माः श्रोत्रग्राह्यत्वादयः, चक्षुरादिवेद्यत्वादयश्च तद्विषयेहा तदन्यविशेषेहा, किमत्र श्रोत्रग्राह्यत्वादयो धर्मा उपलभ्यन्ते, आहोस्विच्चक्षुरादिवेद्यत्वादयः ? इत्येवंरूपो विमर्श इत्यर्थः, तदनन्तरं तु वर्जनं च तत्राऽविद्यमानरूपादिगतानां हेयधर्माणां चक्षुर्वेद्यत्वादीनां परिग्रहणं च तत्र गृहीतशब्द सामान्यगतानामुपादेयधर्माणां श्रोत्रग्राह्यत्वादीनाम् इति वर्जन- परिग्रहणे त्यागा -ऽऽदाने; सामान्यं च तदन्यविशेषेहा च वर्जन-परिग्रहणे च सामान्य- तदन्यविशेषेहा-वर्जन- परिग्रहणानि तेभ्यस्ततः । ' से ' तस्य श्रोतुः । अर्थावग्रहैकसमये - ऽप्युपयोगबाहुल्यमापन्नं प्राप्तम् । तथाहि - प्रथमः सामान्यग्रहणोपयोगः, यथोक्तेहोपयोगस्तु द्वितीयः, हेयधर्मवर्जनोपयोगस्तृतीयः, उपादेयधर्मपरिग्रहणोपयोगचतुर्थः, इत्येवमर्थावग्रहैकसमयमात्रेऽपि बहव उपयोगाः प्राप्नुवन्ति । न चैतद् युक्तम्, समयविरुद्धत्वात् । तस्माद् नार्थावग्रहे शब्दविशेषबुद्धिः, किन्तु 'संदे त्ति भणइ वत्ता' इत्यादि स्थितम् ।। इति गाथार्थः ॥ २६७ ॥ अथाऽस्मिन्नेवाऽर्थावग्रहेऽपरवाद्यभिप्रायं निराचिकीर्षुराह - अण्णे सामण्णग्गहणमाहु बालरस जायमेत्तस्स । समयम्मि चैव परिचियविसयरस विसेसविन्नाणं ॥ २६८ ॥ अन्ये वादिनः केचिदेवमाहुः - यदेतत्सर्वविशेषविमुखस्याऽव्यक्तस्य सामान्यमात्रस्य वस्तुनो ग्रहणमालोचनं, तद् वालस्य शिशोस्तत्क्षणजातमात्रस्य भवति, नाऽत्र विप्रतिपत्तिः, अव्यक्तो ह्यसौ संकेतादिविकलोऽपरिचितविषयः । यस्तर्हि परिचितविषयः, तस्य किम् ?, इत्याह- समय एवाऽऽयशब्दश्रवणसमय एव विशेषविज्ञानं जायते, स्पष्टत्वात् तस्य । ततश्चाऽमुमाश्रित्य " तेण सद्दे त्ति उगहिए" इत्यादि यथाश्रुतमेव व्याख्यायते, न कश्चिद् दोष इति भावः ॥ इति गाथार्थः ॥ २६८ ॥ अत्रोत्तरमाह तेंदुवत्थमेव तं पुव्वदोसओ तम्मि चैव वा समये । संख-महुराइसुबहुयविसेसग्रहणं पसज्जेज्जा ॥ २६९ ॥ '' जेणत्थोग्गहकाले ' इत्यादिना ग्रन्थेन ' सामण्ण- तयण्णविसेसेहा' इत्यादिना च ग्रन्थेन यद् दूषितं या तस्यावस्था १ गाथा २५३ | २ अन्ये सामान्यग्रहणमाहुर्वालस्य जातमात्रस्य । समये एव परिचितविषयस्य विशेषविज्ञानम् ॥ २६८ ॥ ३ तेन शब्द इत्यवगृहीतः । ४ तदवस्थमेव तत् पूर्वदोषतस्तस्मिन्नेव वा समये । शाङ्ख-मधुरादिसुबहुक विशेषग्रहणं प्रसज्येत || २६९|| ५ गाथा २६६ । ६ गाथा २६७ । For Personal and Private Use Only बृहद्वत्तिः । ।। १५८।। www.jainelibrary.org
SR No.600162
Book TitleVisheshavashyak Bhashya Part 01
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy