SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ विशेषा० ॥१५९॥ । यत् तस्य स्वरूपम्- 'समयाम्मि चेव परिचियविसयस्स विसेसविनाणं' इति, तदेतत्परोक्तमपि तदवस्थमेव, न पुनः किश्चिदूनाधिकावस्थम् । कुतः ?, इत्याह- 'पुव्वदोसउ त्ति' 'जेणत्थोग्गहकाले' इत्यादिना, 'सामण्ण-तयण्ण-' इत्यादिना च यः पूर्व दोषोऽभिहितस्तस्मात् पूर्वदोषात्- पूर्वदोषाऽनतिवृत्तेः, तदेतत्परोक्तं तदवस्थमेव, इति नान्यदूषणाऽभिधानप्रयासो विधीयत इति भावः । अथवाऽपूर्वमपि दूषणमुच्यते । किं तत् ?, इत्याह- 'तम्मि चेवेत्यादि' वा इत्यथवा, तस्मिन्नेव स्पष्टविज्ञानस्य व्यक्तस्य जन्तोर्विशेषग्राहिणि समये 'शाङ्खः, शाङ्गों वाऽयं शब्दः, स्निग्धः, मधुरः, कर्कशः, स्त्री-पुरुषाद्यन्यतरवाद्यः' इत्यादि सुबहुकविशेषग्रहणं प्रसज्येत । इदमुक्तं भवति- यदि व्यक्तस्य परिचितविषयस्य जन्तोरव्यक्तशब्दज्ञानमुल्लध्य तस्मिन्नावग्रहैकसमयमात्रे शब्दनिश्चयज्ञानं भवति, तदाऽन्यस्य कस्यचित् परिचिततरविषयस्य पटुतरावबोधस्य तस्मिन्नेव समये व्यक्तशब्दज्ञानमप्यतिक्रम्य 'शाङ्खोऽयं शब्दः' इत्यादिसंख्यातीतविशेषग्राहकमपि ज्ञानं भवदभिप्रायेण स्यात् , दृश्यन्ते च पुरुषशक्तीनां तारतम्यविशेषाः । भवत्येव कस्यचित् प्रथमसमयेऽपि सुबहुविशेषग्राहकमपि ज्ञानमिति चेत् । न, “ने उण जाणइ के वेस सद्दे " इत्यस्य सूत्रावयवस्याऽगमकत्वप्रसङ्गात् । विमध्यमशक्तिपुरुषविषयमेतत् सूत्रमिति चेत् । न, अविशेषेणोक्तत्वात् , सर्वविशेषविषयत्वस्य च युक्त्यनुपपन्नत्वात् । न हि प्रकृष्टमतेरपि शब्दधमिणमगृहीत्वोत्तरोत्तरबहुसुधर्मग्रहणसंभवोऽस्ति, निराधारधर्माणामनुपपत्तेः ॥ इति गाथार्थः ।। २६९ ॥ किश्च, समयमात्रेऽपि 'शब्दः' इति विशेषविज्ञानमभ्युपगच्छतोऽन्येऽपि समयविरोधादयो दोषाः । के पुनस्ते ?, इत्याह अत्थोग्गहो न समयं अहवा समओवओगबाहुल्लं । सव्वविसेसग्गहणं सव्वमई वोगहो गिज्झो ॥२७॥ एगो वाऽवाओ च्चिय अहवा सोऽगहिय-णीहिए पत्तो । उक्कम-वइक्कमा वा पत्ता धुवमोग्गहाईणं ॥२७॥ सामण्णं च विसेसो वा सामण्णमुभयमुभयं वा । न य जुत्तं सव्वमियं वा सामण्णालंबनं मोत्तुं ॥ २७२॥ व्याख्या- " उग्गहो एक समयं " इत्यादिवचनादर्थावग्रहः सिद्धान्ते सामयिको निर्दिष्टः, यदि चार्थावग्रहे विशेषविज्ञानमभ्युपगम्यते तदा सामयिकोऽसौ न पामोति, विशेषज्ञानस्याऽसंख्येयसामयिकत्वात् । अथ समयमात्रेऽप्यस्मिन् विशेषज्ञानमिष्यते, तर्हि १ गाथा २६८। २ गाथा २६६। ३ गाथा २६७। ४ न पुनर्जानाति क एष शब्दः । ५ अर्थावग्रहो न समयमथवा समयोपयोगबाहुल्यम् । सर्वविशेषग्रहणं सर्वमतिर्वावग्रहो प्रायः ॥ २७॥ एको वाऽपाय एचाऽथवा सोऽगृहीता-ऽनीहितः प्राप्तः । उत्क्रम-व्यतिक्रमी वा प्राप्ती भुवमवग्रहादीनाम् ॥२७॥ सामान्य च विशेषो वा सामान्यमुभयमुभयं वा । न च युक्तं सर्वमिदं वा सामान्यालम्बनं मुक्त्वा ॥ २७२ ॥ 4 अवग्रह एक समयम् । ||१५९॥ duona intemat For Personal and Private Use Only www.janeltrary.org
SR No.600162
Book TitleVisheshavashyak Bhashya Part 01
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy