________________
KAPIONOR
विशेषा
बृहदत्तिः ।
॥१६॥
Tara
S
| 'सामण्ण-तयण्णविसेसेहा' इत्यादिना प्रागुक्तं समयोपयोगवाहुल्यं पामोति । अथवेत्यग्रतोऽप्यनुवर्तते । ततश्चाऽथवा परिचितविषयस्य विशेषज्ञानेऽभ्युपगम्यमाने परिचिततरविषयस्य तस्मिन्नेव समये सर्वविशेषग्रहणमनन्तरोक्तं पामोति । अथवाऽवग्रहमात्रादपि विशेष- परिच्छेदेङ्गीक्रियमाणे ईहादीनामनुत्थानमेव । ततश्च सर्वाऽपि मतिरवग्रहो ग्राह्यः- सर्वस्यापि मतेरवग्रहरूपतैव प्रामोतीत्यर्थः । अथवा सर्वाऽपि मतिरपाय एवैकः पामोति, अर्थावग्रहे विशेषज्ञानस्याऽऽश्रयणात् , तस्य च निश्चयरूपत्वात् , निश्चयस्य चाऽपायत्वादिति । समयमात्रे चाऽस्मिन्नपार्य सिद्धे "ईहा-वाया मुहुत्तमन्तं तु” इति विरुध्यते । अथवाऽर्थेऽवगृहीते, ईहिते च, अपायः सिद्धान्ते निर्दिश्यते " उग्गहो ईहा अवाओ य" इति क्रमनिर्देशात् , यदि चाऽऽद्यसमयेऽपि विशेषज्ञानाऽभ्युपगमादपाय इष्यते, तीनवगृहीतेऽनीहिते च तस्मिन्नसौ प्राप्तः । 'वा' इत्यथवा, यदि तृतीयस्थाननिर्दिष्टोऽप्यपायः 'समयम्मि चेव परिचियविसयस्स विण्णाणं' इति वचनात् पटुत्ववैचित्र्येण प्रथममभ्युपगम्यते, तर्हि तस्मादेव पाटववैचित्र्यादवग्रहे-हा-ऽपाय-धारणानां ध्रुवं निश्चितमुत्क्रम-व्यतिक्रमौ स्याताम् । तत्र पश्चानुपूर्वीभवनमुत्क्रमः, अनानुपूर्वीभावस्तु व्यतिक्रमः, तथाहि- यथा शक्तिवैचित्र्यात् कश्चित् प्रथममेवाऽपायो भवताऽभ्युपगम्यते, तथा तत एव कस्यापि प्रथम धारणा स्यात् , ततोऽपायः, ततोऽपीहा, तदनन्तरं त्ववग्रह इत्युत्क्रमः; अन्यस्य कस्यचित्पुनरवग्रहमुल्लध्य प्रथममेवेहा समुपजायेत, अपरस्य तु तामप्यतिक्रम्याऽपायः, अन्यस्य तु तमप्यतिवृत्त्य धारणा स्यात् , इत्यादिव्यतिक्रमः । न चेह वयं युक्तिमापच्छनीयाः, भवदभ्युपगतस्य शक्तिवैचित्र्यस्यैव पुष्टहेतोः सद्भावात् । न चैतावुत्क्रम-व्यतिक्रमी युक्ती "डेग्गहो | ईहा अवायो य धारणा एव होन्ति चत्तारि" इति परममुनिनिर्दिष्टक्रमस्याऽन्यथाकर्तुमशक्यत्वादिति । तथा, यदि यत् प्रथमसमये गृह्यते स | विशेषः, तर्हि 'सामण्णं च विसेसो त्ति' यत् सामान्यं तदपि विशेषः प्राप्तः, प्रथमसमये हि सर्वस्यापि वस्तुनोऽव्यक्तं सामान्यमेव रूपं गृह्यते, ततोऽस्मिन्नप्यर्थावग्रहसमये सामान्यमेव गृह्यत इति परमार्थः। यदिवाऽत्र विशेषबुद्धिर्भवताऽभ्युपगम्यते, तर्हि यदिह वस्तुस्थित्या सामान्य स्थितं तदपि भवदभिप्रायेण विशेषः प्राप्तः । चशब्दो दूषणसमुच्चयार्थः । 'सो वा सामण्णं ति' स वा भवद. भिप्रेतो विशेषो वस्तुस्थितिसमायातं सामान्यं प्राप्नोतीति । 'उभयमुभयं व त्ति' अथवा, सामान्य-विशेषलक्षणमुभयमप्येतत्पत्येकमुभयं प्राप्नोति- एकैकमुभयरूपं स्यादित्यर्थः; तथाहि- अव-ईषत् सामान्यं गृह्णातीत्यवग्रह इतिव्युत्पत्त्या वस्तुस्थितिसमायात यत्सामान्यं तत् स्वरूपेण तावत् सामान्यम् , भवदभ्युपगमेन तु विशेषः, इत्येकस्याऽपि सामान्यस्योभयरूपता; तथा योऽपि भवदभ्यु
POOO
॥१६॥
१ गाथा २६७ । २ ईहा उपायौ मुहूर्तान्तस्तु । ३ अवग्रहः, ईहा, अपायश्च । ४ गाथा-२६८ । ५ अवग्रह ईहाऽपायश्च धारणा एव भवन्ति चत्वारि । ६ श्रीभद्रबाहुस्वामिभिः।
For Personal and Prevate Une Grey
H
om.jaineltrary.org