SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ बृहदत्तिः । विशेषाः ॥१६॥ पगतो विशेषः सोऽपि त्वदभिप्रायेण विशेषः, वस्तुस्थित्या तु सामान्यम् , इति विशेषस्याऽप्येकस्योभयस्वभावता । भवत्वेवमिति चेत् । इत्याह-न च युक्तं सर्वमिदम् । किं कृत्वा , इत्याह- सामान्यमालम्बनं ग्राह्यं मुक्त्वा 'अर्थावग्रहस्य' इति शेषः । इदमुक्तं भवति- अर्थावग्रहस्याऽव्यक्तं सामान्यमात्रमालम्बनं परिहृत्य यदन्यद् विशेषरूपमालम्बनमिष्यते, तदभ्युपगमे च 'सामग्णं च विसेसो वा सामण्ण' इत्यादि यदापतति, तत् सर्वमयुक्तम् , अघटमानकत्वात् । इह च गाथात्रये बहुषु दूषणेषु मध्ये यत् प्रागुक्तमपि किश्चिद् दृषणमुक्तं, तत् प्रसङ्गायातत्वात्, इति न पोनरुक्त्यमाशङ्कनीयम् ।। इति गाथात्रयार्थः ।। २७० ।। २७१ ॥ २७२ ।। ___प्रस्तुत एवार्थेऽपरमपि मतान्तरमुपन्यस्य निराकुर्वन्नाह 'केइदिहालोयणपुव्वमोग्गहं ति तत्थ सामण्णं । गहियमहत्थावग्गहकाले सद्दे त्ति निच्छिण्णं ॥ २७३ ॥ केचिद् वादिन इहाऽस्मिन् प्रक्रमेऽवग्रहं ब्रुवतेऽर्थावग्रहं व्याचक्षते । किविशिष्टम् १, इत्याह- आलोचनपूर्व सामान्यवस्तुग्राहि ज्ञानमालोचनं तत् पूर्व प्रथमं यत्र स तथा तम् , प्रथममालोचनज्ञानं ततोऽर्थावग्रह इत्यर्थः, तथा च तैरुक्तम् " अस्ति बालोचनाज्ञानं प्रथमं निर्विकल्पकम् । बालमूकादिविज्ञानसदृशं शुद्धवस्तुजम् " ॥ १ ॥ इति । किं पुनस्तत्राऽऽलोचनज्ञाने गृह्यते ?, इत्याह- 'तत्थेत्यादि' तत्रालोचन ज्ञाने सामान्यमव्यक्तं वस्तु गृहीतं ' प्रतिपत्त्रा' इति गम्यते, अथाऽनन्तरमर्थावग्रहकाले ' तदेव गृहीतम् ' इत्यनुवर्तते । कथंभूतं सत् ?, इत्याह- निच्छिन्नं पृथक्कृतं रूपादिभ्यो व्यावृत्तमित्यर्थः । केनाल्लेखेन गृहीतम् ?, इत्याह- 'सद्दे त्ति' शब्दविशेषणविशिष्टमित्यर्थः । ततश्च " से जहानामए केइ पुरिसे अव्वत्तं सदं सुणेज" इत्येतदालोचनज्ञानापेक्षया नीयते, " तेणं सद्दे त्ति उग्गहिए" एतत्त्वार्थावग्रहापेक्षया, इति सर्व सुस्थतामनुभवति । न चातः परं भवतोऽप्याचार्य ! किश्चिद् वक्तव्यमस्तिः यदि हि युक्त्यनुभवसिद्धेनाऽर्थेन सूत्रे विषयविभागव्यवस्थापितेऽपि वादी जयं न प्राप्स्यति, तदा तूष्णीमाश्रयन्तु विपश्चितः, विचारचर्यामार्गस्य स्वाग्रहतत्परेण त्वयैव लुप्तत्वात् ।। इति गाथार्थः ॥ २७३ ।। तदत्र सूरिः परस्येषद्गर्वानुविद्धार्मज्ञतामवलोकयन् मार्गावैतारणाय विकल्पयन्नाह१ केचिदिहालोचनपूर्वमवग्रहं ब्रुवन्ति तत्र सामान्यम् । गृहीतमयाऽर्थावग्रहकाले शब्द इति निच्छिन्नम् ॥ २७३ ॥ २ क. ग. 'विति' । ३ क. ग. 'यतः स'। • तथानामा कश्चित् पुरुषोऽम्यक्तं शब्द शृणुयादिति । ५ तेन शब्द इत्यवगृहीतः । ६ ज. 'मज्ञातता' । ७ घ, 'वतर' । १५।। Ja Educontematon
SR No.600162
Book TitleVisheshavashyak Bhashya Part 01
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy