________________
विशेषा०
॥१६२॥
Jain Education Internation
"तं वंजणोग्गहाओ पुव्वं पच्छा स एव वा होजा । पुव्वं तदत्थवंजण संबंधाभावओ नत्थि ॥ २७४ ॥
यद्यनुपहतस्मरणवासना सन्तानस्तदर्थावग्रहात् पूर्वं व्यञ्जनावग्रहो भवतीति यदुक्तं प्रात्रु तद् भवानपि स्मरति । ततः किम्, इति चेत् । उच्यते यदेतद् भवदुत्प्रेक्षितं सामान्यग्राहकमालोचनं तत् तस्माद् व्यञ्जनावग्रहात् पूर्वं वा भवेत् पश्चाद् वा भवेत् स एव वा व्यञ्जनावग्रहोप्यालोचनं भवेत् १, इति त्रयी गतिः, अन्यत्र स्थानाभावात् । किञ्चान्तः १, इत्याह- पूर्वं तद् नास्तीति संबन्धः । कुतः ?, इत्याह- अर्थव्यञ्जनसंबन्धाभावादिति- अर्थः शब्दादिविषयभावेन परिणतद्रव्यसमूहः, व्यञ्जनं तु श्रोत्रादि, अर्थव व्यञ्जनं चार्थव्यञ्जने तयोः संबन्धस्तस्याऽभावात् सति ह्यर्थ-व्यञ्जनसंबन्धे सामान्याथालोचनं स्यात्, अन्यथा सर्वत्र सर्वदा तद्भावप्रसङ्गात् । व्यञ्जनावग्रहाच्च पूर्वमर्थव्यञ्जनसंबन्धो नास्ति, तद्भावे च व्यञ्जनावग्रहस्यैवेष्टत्वात् तत्पूर्वकालता न स्यादिति भावः ॥ इति गाथार्थः ॥ २७४॥
द्वितीयविकल्पं शोधयन्नाह
अत्थोग्गहो वि जं वंजणोग्गहस्सेव चरमसमयम्मि । पच्छा वि तो न जुत्तं परिसेसं वंजणं होज्जा ॥ २७५॥
तथा, अर्थावग्रहोsपि यद् यस्माद् व्यञ्जनावग्रहस्यैव चरमसमये भवति, इति मागिहापि निर्णीतम् । तस्मात् पश्चादपि व्यञ्जनावग्रहादालोचनज्ञानं न युक्तम्, निरवकाशत्वात् । न हि व्यञ्जना -ऽर्थावग्रहयोरन्तरे कालः समस्ति यत्र तत् त्वदीयमालोचनज्ञानं स्यात्, व्यञ्जनावग्रहचरमसमय एवाऽर्थावग्रहसद्भावात् । तस्मात् पूर्व पश्चात्कालयोर्निषिद्धत्वात् पारिशेष्याद् मध्यकालवर्ती तृतीयविकल्पोपन्यस्तो व्यञ्जनं व्यञ्जनावग्रह एव भवताऽऽलोचनाज्ञानत्वेनाऽभ्युपगतो भवेत् । एवं च न कश्चिद् दोषः, नाममात्र एव विवादात् ।। इति गाथार्थः ।। २७५ ।।
क्रियतां तर्हि प्रेरकवर्गेण वर्धापनकम् त्वदभिप्रायाविसंवादलाभात् इति चेत् । नैवम्, विकल्पद्वयस्येह सद्भावात्, तथाहितद्व्यञ्जनावग्रहकालेऽभ्युपगम्यमानमालोचनं किमर्थस्यालोचनं, व्यञ्जनानां वा ? इति विकल्पद्वयम् । तत्र प्रथमविकल्पमनूद्य दूषयन्नाह - * तं च समालोयणमत्थदरिसणं जइ, न वंजणं तो तं । अह वंजणस्स तो कहमालोयणमत्थसुण्णस्स ? ॥ २७६ ॥
१ तद् व्यअनावग्रहातु पूर्व पश्चात् स एव वा भवेत् । पूर्वं तदर्थव्यञ्जनसंबन्धाभावतो नास्ति ॥ २७४ ॥ २ क. ग. 'तत्सद्भावे तु व्य' ज. 'तद्भावे तु व्य' । ३ अर्थावग्रहोऽपि यद् व्यञ्जनावग्रहस्यैव चरमसमये । पश्चादप्यतो न युक्तं परिशेषं व्यञ्जनं भवेत् ॥ २७५ ॥
४ तच समालोचनमर्थदर्शनं यदि, न व्यञ्जनं ततस्तत् । अथ व्यञ्जनस्य ततः कथमालोचनमर्थशून्यस्य ? ॥ २०६ ॥
For Personal and Private Use Only
वृहद्वृत्तिः ।
॥१६२॥
www.jainelibrary.org