________________
विशेषा०
॥ १६३॥
Jain Educationa Internationa
तत् समालोचनं यदि सामान्यरूपस्यार्थस्य दर्शनमिष्यते, ततस्तर्हि न व्यञ्जनं व्यञ्जनावग्रहात्मकं भवति, व्यञ्जनावग्रहस्य व्यञ्जनसंबन्धमात्ररूपत्वेनाऽर्थशून्यत्वात् तथाच प्रागपि 'पुत्रं च तस्स वंजणकालो सो अत्थपरिसुण्णो ' इत्यादिना साधितमेवेदम् । अतोऽर्थदर्शनरूपमालोचनं कथमर्थशून्यव्यञ्जनावग्रहात्मकं भवितुमर्हति ?, विरोधात् । अथ द्वितीयविकल्पमङ्गीकृत्याह - अथ व्यञ्जनस्य शब्दादिविषयपरिणतद्रव्यसंवन्धमात्रस्य तत् समालोचनमिष्यते, तर्हि कथमालोचनं- कथमालोचकत्वं तस्य घटते १, इत्यर्थः । कथंभूतस्य सतः ?, इत्याह- अर्थशून्यस्य व्यञ्जनसंबन्धमात्रान्वितत्वेन सामान्यार्थीलोचकत्वानुपपत्तेरित्यर्थः । इति गाथार्थः ॥ २७६ ॥
ननु शास्त्रान्तरप्रसिद्धस्याऽऽलोचनज्ञानस्य वराकस्य तर्हि का गतिः ?, इत्याह
आलोर्येण त्ति नामं हवेज्ज तं वंजणोग्गहस्सेव । होज कहं सामण्णग्गहणं तत्थत्थसुण्णम्मि ? ॥ २७७ ॥ तस्मादालोचनमिति यन्नाम तदन्यत्र निर्गतिकं सत् पारिशेष्याद् व्यञ्जनावग्रहस्यैव द्वितीयं नाम भवेत् । न च विवक्षामात्रप्रवृत्तेषु वस्तूनां बहुष्वपि नामसु क्रियमाणेषु कोsपि विवादमाविष्करोति । अत एतदपि नामान्तरमस्तु, को दोषः ? इति । नैतदेवम्, यस्मादिदं सामान्यग्राहकमालोचनज्ञानं भविष्यति, अर्थावग्रहस्तु विशेषग्राहक इति; एवमप्यस्माकं समीहितसिद्धिर्भविष्यतीति चेत् । इत्याह- ' होज्जेत्यादि ' व्यञ्जनावग्रहस्यैव पारिशेष्यादालोचनज्ञानत्वमापन्नम्, तत्र च प्रागुक्तयुक्तिभिरर्थशून्ये कथं सामान्यग्रहणं भवेत्, येन भवतः समीहितसिद्धिप्रमोदः ? इति । तस्मादर्थावग्रह एव सामान्यार्थग्राहकः, न पुनरेतस्मादपरमालोचनाज्ञानम् । अत एव यदुक्तम्- “ अस्ति ह्यालोचनाज्ञानं प्रथमं निर्विकल्पकम् " इत्यादि, तदप्यर्थावग्रहाश्रयमेव यदि, घटते, नान्यविषयम् ॥ इति गाथार्थः ।। २७७ ॥
अथ 'दुर्बलं वादिनं दृष्ट्राऽभ्युपगमोऽपि कर्तव्यः' इतिन्यायप्रदर्शनार्थमाह
हियं व होउ तहियं सामण्णं कहमणीहिए तम्मि । अत्थावग्गहकाले विसेसणं एस सदो त्ति १ ॥ २७८॥ अथवा भवतु तस्मिन् व्यञ्जनावग्रहे सामान्यं गृहीतम्, तथापि कथमनीहितेऽविमर्शिते तस्मिन्नकस्मादेवार्थावग्रहकाले ' शब्द एषः' इति विशेषणं विशेषज्ञानं युक्तम्, 'शब्द एवैषः' इत्यवं हि निश्वयः, न चायमीहामन्तरेण झगित्येव युज्यते, इत्यसकृदे - वोक्तप्रायम् । अतो नार्थावग्रहे ' शब्दः' इत्यादिविशेषबुद्धिर्युज्यते ।। इति गाथार्थः ॥ २७८ ॥
१ गाथा २५९ । २.ग.घ.छ.ज. 'च वंजणोग्गहका ३ आलोचनेति नाम भवेत् तद् व्यञ्जनावग्रहस्यैव भवेत् कथं सामान्यग्रहणं तत्राऽर्थशून्ये ? ॥ २७७ ॥ ४क.ग. ' यणं तिना । ५ गृहीतं वा भवतु तस्मिन् सामान्यं कथमनीहिते तस्मिन् । अर्थावग्रहकाले विशेषणमेष शब्द इति ? ॥ २७८ ॥
For Personal and Private Use Only
बृहद्वृत्तिः
॥ १६३॥
13 www.jainelibrary.org