________________
विशेषा ॥१५७॥
तदेवं व्यञ्जनावग्रहे व्यञ्जनसंवन्धपात्रमेव, अर्थावग्रहे त्वव्यक्तशब्दाद्यर्थग्रहणं, न व्यक्तशब्दाद्यर्थसंवेदनम् , इति प्रतिपादितम् ।। सांपतमुपपत्त्यन्तरेणाऽप्यर्थावग्रहे व्यक्तशब्दाद्यर्थसंवेदनं निराचिकीर्षुराह
बृहद्वृत्तिः । 'जेणत्थोग्गहकाले गहणे-हा-वायसंभवो नत्थि । तो नत्थि सहबुद्धी, अहत्थि नावग्गहो नाम ॥ २६६ ॥
पूर्व तावदर्थस्य ग्रहणमात्र, ततश्चेहा, तदनन्तरं त्वपायः, इत्येवं मतिज्ञानस्योत्पत्तिक्रमः । न चैतत्रितयं प्रथममेव शब्दार्थेऽवगृहीते समस्तीति । एतदेवाह- येनार्थावग्रहकालेऽर्थग्रहणे हा-पायानां संभवो नास्ति, ततोऽर्थावग्रहे नास्ति 'शब्दः' इतिविशेषबुद्धिः, अर्थग्रहणे-हा-पूर्वकत्वात् तस्याः । अथाऽस्त्यसौ तत्र, तर्हि नाऽयमर्थावग्रहः, किन्त्वपाय एव स्यात् , नैतद् युज्यते, तदभ्युपगमेऽर्थावग्रहे-हयोरभावप्रसङ्गात् ॥ इति गाथार्थः ॥ २६६ ॥
अपि च, अर्थावग्रहे 'शब्दः' इति विशेषबुद्धाविष्यमाणायां दोपान्तरमप्यस्ति । किं तत् ?, इत्याह
सामण्ण-तयण्णविसेसेहा-वजण-परिग्गहणओ से । अत्थोग्गहेगसमओवओगबाहुल्लमावण्णं ॥ २६७ ॥ ___ इह येयमर्थावग्रहकसमये 'शब्दः' इति विशेषबुद्धिर्भवताऽभ्युपगम्यते, सा तावद् निश्चयरूपा, निश्चयश्चाकस्मादेव न युज्यते, किन्तु क्रमेण, तथाहि- प्रथमं तावद् रूपादिभ्योऽव्यावृत्तमव्यक्तं शब्दसामान्य ग्रहीतव्यम् , ततस्तद्विशेषविषया, तदपररूपादिविशेषविषया च । एतैरेतैश्च धर्मेः 'किमयं शब्दः, आहोखिद् रूपादिः'इत्येवंरूपेहा, तदनन्तरं च गृहीतशब्दसामान्यविशेषाणां ग्रहणम् , अन्येषां तु रूपादिविशेषाणां तत्राविद्यमानानां परिवर्जनम् , इत्येवंभूतेन क्रमेण निश्चयोत्पत्तिः। तथाच सति श्रोतुरावग्रहकसमयेऽपि सामान्यग्रहणादिभिः प्रकारैरुपयोगबहुत्वमापद्यते, एकस्मिंश्च समये बहव उपयोगाः सिद्धान्ते निषिद्धाः, इति नार्थावग्रहे शब्दादिविशेषबुद्धिः ।। इति गाथाभावार्थः॥
__अक्षरार्थस्तूच्यते- सामान्यमिह श्रूयमाणशब्दसामान्यं गृह्यते, ' तयण्णविसेसेह ति' तच्छब्देनाऽनन्तरोक्तं शब्दसामान्यमनुकृष्यते, अन्यशब्देन तु तत्रा-विद्यमाना रूपादयः परिगृह्यन्ते । ततश्च तच्चाऽन्ये च तदन्ये- शब्दसामान्य, रूपादयश्चेत्यर्थः; तेषां
१५७|| , येनार्थावग्रहकाले ग्रहणे हा उपायसंभवो नास्ति । ततो नास्ति शब्दबुद्धिः, अभास्ति नावग्रहो नाम ॥ २६६ ॥ २ ज 'ब्दाद्यर्थे। ३ सामान्य-तदन्यविशेषेहा-वर्जन-परिग्रहणतस्तस्य । अर्थावग्रहकसमयोपयोगबाहुल्यमापन्नम् ॥ २६७ ॥
IODOolaroioमरसन करना
886orolorotoos
Juanian
For Personal and Private Use Only
wMR.Janeitrary.org