SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ विशेषाः Sal ॥१५६॥ e se.comsal SHRISHAIR अथ परस्य मतिः स्यात् । केयम् ?, इत्याह- सोऽव्यक्तोऽनिर्देश्यादिस्वरूपः शब्दोऽर्थावग्रहात् पूर्वमेव व्यञ्जनावग्रहे तेन श्रोत्रा गृहीतः, तत् किमित्यर्थावग्रहेऽपि तद्ग्रहणमुख़ुष्यते । कथमिदं पुनर्जायते यदुत-असौ व्यञ्जनावग्रहे गृहीतः, इत्याह-'जमित्यादि' यद् बृहद्वात्तिः । यस्माद् व्यजनावग्रहेऽपि भवद्भिरव्यक्तं विज्ञानमुक्तम् , अव्यक्तविषयग्रहण एव चाव्यक्तत्वं तस्योपपद्यत इतिभावः।।इति गाथार्थः।।२६३॥ | अत्रोत्तरमाहअत्थि तयं अव्वत्तं न उ तं गिण्हइ सयं पि सो भणियं । न उ अग्गहियम्मि जुज्जइ सहोत्ति विसेसणंबुद्धी॥२६॥ अस्ति तदव्यक्तं श्रोतुर्व्यञ्जनावग्रहे ज्ञानम् , न तस्याऽस्माभिरपलापः क्रियते, न पुनरसौ श्रोताऽतिसौक्ष्म्यात् तत् स्वयमपि गृह्णाति संवेदयते । एतच्च प्रागपि भणितम् । 'सुत्त-मत्ताइसुहुमबोहोच' इति वचनात् , तथा, 'सुत्तादओ सयं वि य विनाणं नावबुज्झन्ति" इति वचनाच्च । तस्माद् व्यञ्जनमात्रस्यैव तत्र ग्रहणम् , न शब्दस्य, व्यञ्जनावग्रहत्वान्यथानुपपत्तेरेवेति । न च सामान्यरूपतयाऽव्यक्ते शब्देऽगृहीतेऽकस्मादेव 'शब्दः' इति विशेषणबुद्धियुज्यते, अनुस्वारस्याऽलाक्षणिकत्वाद् विशेषबुद्धिरित्यर्थः । अस्यां च विशेषबुद्धौ प्रथममेवेष्यमाणायामादावेवार्थावग्रहकालेऽप्यपायमसङ्गः, इत्यसकृदेवोक्तम् ।। इति गाथार्थः ॥ २६४ ॥ ननु यदि व्यञ्जनावग्रहेऽप्यव्यक्तशब्दग्रहणं भवेत् तदा को दोषः स्यात् ', इत्याह त्थो त्ति विसयग्गहणं जइ तम्मिवि सो न वंजणं नाम ।अत्थोग्गहो च्चिय तओअविसेसो संकरो वावि ॥२६५॥ अर्थावग्रहे 'अर्थः' इत्यनेन तावद् विषयग्रहणमभिप्रेतं- रूपादिभेदेनाऽनिर्धारितस्याऽव्यक्तस्य शब्दादेविषयस्य ग्रहणं तत्राऽभिप्रेतमित्यर्थः । यदि च तस्मिन्नपि व्यञ्जनावग्रेहेऽसावव्यक्तशब्दः प्रतिभासत इत्यभ्युपगम्यते, तदा न व्यञ्जनं नाम । व्यञ्जनावग्रहो न प्रामोतीत्यर्थः । ततश्चेदानी निवृत्ता तत्कथा, व्यञ्जनमात्रसंबन्धस्यैव तत्रोक्तत्वात् , भवता च तदतिक्रान्तस्याऽव्यक्ताथग्रहणस्येहाभिधीयमानत्वादिति । तीव्यक्तार्थग्रहणे किमसौ स्यात् ?, इत्याह- अर्थावग्रह एवाऽसौ, अव्यक्तार्थावग्रहणात् , ततश्च नास्ति व्यञ्जनं व्यञ्जनावग्रहः । अथाऽस्याऽपि सूत्रे प्रोक्तत्वादस्तित्वं न परिहियते, तर्हि द्वयोरप्यविशेषः- सोऽप्यर्थावग्रहः, सोऽपि व्यञ्जनावग्रहः प्राप्नोतीति भावः, मेचकमणिप्रभावत् संकरो वा स्यादित्थम् ।। इति गाथार्थः ।। २६५॥ EO ||१५६॥ १ अस्ति तदव्यक्तं न तु तद् गृहाति स्वयमप्यसौ भणितम् । न त्वगृहीते युज्यते शब्द इति विशेषणबुद्धिः ॥ २६४ ॥ २ घ. छ. ज. “य अ'। ३ गाथा १९७॥ ४ अर्थ इति विषयग्रहणं यदि तस्मिन्नप्यसौ न व्यञ्जनं नाम । अर्थावग्रह एव ततोऽविशेषः संकरो वाऽपि ॥ २६५ ॥ ५ घ. छ. ज.हे सोऽव्य'। For Personal and Private Use Only
SR No.600162
Book TitleVisheshavashyak Bhashya Part 01
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy