________________
विशेषा०
।। १५५।।
Jain Educations Internationa
अत्रोत्तरमाह
सव्वत्थ देसयंतो सदो सदो त्ति भासओ भणइ । इहरा न समयमेत्ते सदो त्ति विसेसणं जुतं ॥ २६९ ॥
सर्वत्र पूर्वस्मिन् अत्र च सूत्रावयवे, अवग्रहस्वरूपं देशयन् प्ररूपयन् 'शब्दः शब्दः ' इति भाषकः प्रज्ञापक एव वदति, न तु तत्र ज्ञाने शब्दप्रतिभासोऽस्ति । इत्थं चैतत्, अन्यथा न समयमात्रेऽर्थावग्रहकाले 'शब्दः' इति विशेषणं युक्तम्, आन्तर्मुहूर्तिकत्वाच्छन्दनिश्चयस्येति प्रागेवोक्तम् | सांव्यवहारिकाऽर्थावग्रहापेक्षं वा सूत्रमिदं व्याख्यास्यते इति मा त्वरिष्ठाः ॥ इति गाथार्थः ।। २६१ ॥
अथ सूत्रावष्टम्भवादिनं परं दृष्ट्रा सौत्रमेव परिहारमाह
अहव सुए च्चिय भणियं जह कोइ सुणेज्ज सद्दमव्वत्तं । अव्वत्तमणिद्देसं सामण्णं कप्पणारहियं ॥ २६२ ॥
अथवा यदि तब गाढः श्रुतावष्टम्भः, तदा तत्राप्येतद् भणितं यदुत - प्रथममव्यक्तस्यैव शब्दोल्लेखरहितस्य शब्दमात्रस्य ग्रहणम् । केन पुनः सूत्रावयवेनेदमुक्तम् १, इत्याह- 'जह कोइ सुणेज्ज सहमव्वत्तं ति' अयं च सूत्रावयवो नन्द्यध्ययने इत्थं द्रष्टव्यः- “ से जहानामए केइ पुरिसे अव्वत्तं सदं सुणेज्ज त्ति" । अत्राऽव्यक्तमिति कोऽर्थः १, इत्याह- अनिर्देश्यं 'शब्दोऽयं' 'रूपादिर्वा' इत्यादिना प्रकारेणाsoयक्तमित्यर्थः । ननु यदि शब्दादिरूपेणाऽनिर्देश्यम्, तर्हि किं तत् ?, इत्याह- सामान्यम् । किमुक्तं भवति १, इत्याह- नाम-जात्यादिकल्पनारहितम् । न च वक्तव्यं शाङ्ख- शार्ङ्गभेदापेक्षया शब्दोल्लेखस्याऽप्यव्यक्तत्वे घटमाने कुत इदं व्याख्यानं लभ्यते ? इति अवग्रहस्याऽनाकारोपयोगरूपतया सुत्रेऽधीतत्वात्, अनाकारोपयोगस्य च सामान्यमात्रविषयत्वात् प्रथममेवाऽपायप्रसक्त्याऽवग्रहेहाभावप्रसङ्ग इत्याद्युक्तत्वाच्च ॥ इति गाथार्थः ॥ २६२ ॥
अथ सूरिरेव पराभिप्रायमाशिशङ्कयिषुराह
अंह व मई, पुव्वं चिय सो गहिओ वंजणोग्गहे तेणं । जं वंजणोग्गहम्मि वि भणियं विष्णाणमव्वत्तं ॥२६३॥
१ सर्वत्र देशयन् शब्दः शब्द इति भाषको भणति । इतरथा न समयमात्रे शब्द इति विशेषणं युक्तम् ॥ २६१ ॥
२ अथवा श्रुत एव भणितं यथा कश्चित् शृणुयाच्छन्दमव्यक्तम् । अव्यक्तमनिर्देश्यं सामान्यं कल्पनारहितम् ॥ २६२ ॥
३ तथानामा कश्चित् पुरुषोऽव्यक्तं शब्दं शृणुयादिति । ४ घ. छ. ज. 'तत्रा' ।
५ अथ वा मतिः पूर्वमेव स गृहीतो व्यञ्जनावग्रहे तेन । यद् व्यञ्जनावग्रहेऽपि भणितं विज्ञानमव्यक्तम् ॥ २६३ ॥
For Personal and Private Use Only
बृहद्वत्तिः।
।। १५५।।
www.jainelibrary.org