SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ REGISTER विशेषा बृहदत्तिः । ॥१५॥ मीहायाः पूर्व गृहीतं, यदीहमानस्य 'शब्दः' इति निश्चयज्ञानमुत्पद्यते ॥ इति गाथार्थः ।। २५८ ॥ ___ अथेहायाः पूर्व सामान्यग्रहणे परेणेष्यमाणे मूरिः स्वसमीहितसिद्धिमुपदशर्यन्नाह अत्थोग्गहओ पुव्वं होयव्वं तस्स गहणकालेणं । पुव्वं च तस्स वंजणकालो सो अत्थपरिसुण्णो ॥ २५९ ॥ नवीहायाः पूर्वं यत् सामान्यं गृह्यते, तस्य तावद् ग्रहणकालेन भवितव्यम् । स चाऽस्मदभ्युपगतसामयिकार्थावग्रहकालरूपो न भवति, अस्मदभ्युपगताङ्गीकारप्रसङ्गात्, किं तर्हि ?, अस्मदभ्युपगतार्थावग्रहात् पूर्वमेव भवदभिप्रायेण तस्य सामान्यस्य ग्रहणकालेन भवितव्यम् , पूर्व च तस्याऽस्मदभ्युपगतार्थावग्रहस्य व्यञ्जनकाल एव वर्तते, व्यञ्जनानां शब्दादिद्रव्याणामिन्द्रियमात्रेणाऽऽदानकालो मध्यपदलोपाद् व्यञ्जनकालः। भवत्वेवम् , तथापि तत्र सामान्यार्थग्रहणं भविष्यति, इत्याशङ्कयाह- स च व्यञ्जनकालोऽर्थपरिशून्यः, न हि तत्र.सामान्यरूपः, विशेषरूपो वा कश्चनाऽप्यर्थः प्रतिभाति, तदा मनोरहितेन्द्रियमात्रव्यापारात्, तत्र चार्थप्रतिभासाऽयोगात् । तस्मात् पारिशेष्यादस्मदभ्युपगतार्थावग्रह एव सामान्यग्रहणमिति गाथायामनुक्तमपि स्वयमेव द्रष्टव्यम् । तदनन्तरं चाऽन्वय-व्यतिरेकधर्मपर्यालोचनरूपा ईहा, तदनन्तरं च 'शब्द एवाऽयम्' इति निश्चयज्ञानमपायः, इति सर्व सुस्थं भवति ।। इति गाथार्थः ॥ २५९ ॥ अथ प्रथममेवाऽर्थावग्रहज्ञानेन शब्दाग्रहणे परः पुनरपि दोषमाहजइ सद्दो त्ति न गहियं न उ जाणइ जं क एस सदो त्ति । तमजुत्तं सामण्णे गहिए मग्गिजइ विसेसो ॥२६०॥ यद्यर्थावबोधसमये प्रथममेव ' शब्दोऽयम्' इत्येवं तद् वस्तु न गृहीतं, तर्हि "ने उण जाणइ के वेस सद्दे ति" जे ति' यत् मुत्रे निर्दिष्टम् , तदयुक्तं प्रामोति, यस्माच्छब्दसामान्ये रूपादिव्यावृत्ते गृहीते सति पश्चाद् मृग्यतेऽन्विष्यते विशेष:-'किमयं शब्दः शाङ्खः, उत शाहः?' इति । इदमुक्तं भवति- “ने उणं जाणइ के वेस सद्दे त्ति" अस्मिन् नन्दिसूत्रे 'न पुनर्जानाति कोऽप्येष शाङ्खo शााद्यन्यतरः शब्दः' इति विशेषस्यैवाऽपरिज्ञानमुक्तम्, शब्दसामान्यमात्रग्रहणं त्वनुज्ञातमेव, तदग्रहणे तु 'क एष शब्दः, किं शाङ्खः, शार्को वा? इत्येवं विशेषमागेणमसंगतमेव स्यात् , विशेषजिज्ञासायाः सामान्यज्ञानपूर्वकत्वात् , शब्दसामान्ये गृहीत एव तद्विशेषमार्ग| णस्य युज्यमानत्वात् ।। इति गाथार्थः ।। २६० ॥ A अर्थावग्रहतः पूर्व भवितव्यं तस्य ग्रहणकालेन । पूर्व च तख व्यअनकालः सोऽर्थपरिशून्यः ॥ २५९ ॥ २ क.ग.'तस्मादस्म' । ३ ग.'ने श'। ४ यदि शब्द इति न गृहीतं न तु जानाति यत् क एष शब्द इति । तदयुक्तं सामान्ये गृहीते मृग्यते विशेषः ॥२०॥ ५ न पुनर्जानाति क एष शब्द इति । क.ग.प.छ.ज.'ण जा'। . ॥१५४॥ DoDKIOKHARE
SR No.600162
Book TitleVisheshavashyak Bhashya Part 01
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy