________________
विशेषा०
॥१५३॥
इतिशब्द उपप्रदर्शनार्थः, ततश्चेदमुक्त भवति- यथा 'शाहोऽयं शब्दः' इत्यस्यां बुद्धौ शब्दगतभेदाऽवधारणं सांप्रतमसाध्यम् , मन्द्र-मधुरत्वादितदुत्तरोत्तरभेदबाहुल्यसंभवात् । तथाच सति स्तोकत्वाद् नेयं बुद्धिरपायः, किन्त्वर्थावग्रह इत्येवं सुबहुनाऽपि कालेन बृहदत्तिः । सर्वेणाऽपि पुरुषायुपेण शब्दगतमन्द्र-मधुरत्वाद्युत्तरोत्तरभेदावधारणमसाध्यं तद्देदानामनन्तत्वादशक्यमित्यर्थः, यस्मिन् भेदावधारणे, किम् ?, इत्याह- यस्मिन् अपायो भवेदन्यभेदाकाङ्क्षानिवृत्तेयस्मिन् भेदावधारणज्ञानेऽपायत्वं व्यवस्थाप्येतेति भावः । तस्मात् सर्वोऽपि भेदप्रत्यय उत्तरोत्तरापेक्षया त्वदभिप्रायेण स्तोकत्वादर्थावग्रह एव प्रामोति, नाऽपायः, शब्दज्ञानवत् ।। इति गाथार्थः॥२५६ ॥
किश्च, 'शब्द एवायम्' इति ज्ञानं स्तोकत्वाद् यदर्थावग्रहत्वेन भवताऽभिमतम् । तत् पूर्वमीहामन्तरेण न संभवति, तत्पूर्वकत्वे 21 च तस्यार्थ्यावग्रहत्वासंभव इति दर्शयन्नाह
किं सद्दो किमसहोत्तणीहिए सद्द एव किह जुत्तं ? । अह पुबमीहिऊणं सद्दो त्ति मयं, तई पुव्वं ॥२५७॥
'किं शब्दोऽयम्' आहोवित् 'अशब्दो रूपादिः' इत्येवं पूर्वमनीहिते यत् 'शब्द एव' इति निश्चयज्ञानम्, तदकस्मादेव जायमानं कथं युक्तम् ?, विमर्शपूर्वकत्वमन्तरेण नेदं घटत इत्यर्थः । इदमुक्तं भवति- शब्दगतान्वयधर्मेषु, रूपादिभ्यो व्यावृत्तौ च गृहीतायां 'शब्द एव' इति निश्चयज्ञानं युज्यते, तद्ग्रहणं च विमर्शमन्तरेण नोपपद्यते, विमर्शश्चहा, तस्मादीहामन्तरेणाऽयुक्तमेव 'शब्द एवं' इति निश्चयज्ञानम् । अथ निश्चयकालात पूर्वमीहित्वा भवतोऽपि 'शब्द एवाऽयम्' इति निश्चयज्ञानमभिमतम् । हन्त ! तर्हि निश्चयज्ञानात् पूर्व 'तई' असावीहा भवद्वचनतोऽपि सिद्धा ॥ इति गाथार्थः ।। २५७ ।।
यदि नाम निश्चयज्ञानात् पूर्वमीहा सिद्धा, ततः किम् ?, इत्याह
किं तं पुव्वं गहियं जमीहओ सह एव विण्णाणं । अह पुव्वं सामण्णं जमीहमाणस्स सद्दो त्ति ॥२५८॥ हन्त ! यदि निश्चयज्ञानमीहापूर्वकं त्वयाऽभ्युपगम्यते, तर्हि प्रष्टव्योऽसि-नन्वीहायाः पूर्व किं तद् वस्तु प्रमात्रा गृहीतम् , यदीहमानस्य तस्य 'शब्द एवाऽयम्' इति निश्चयज्ञानमुपजायते ?, न हि कश्चिद् वस्तुन्यगृहीतेऽकस्मात् प्रथमत एवेहां कुरुत इति भावः । क्षुभितस्य परस्योत्तरपदानासामर्थ्यमालोक्य स्वयमेव तन्मतमाशङ्कते- अथ ब्रूयात् पर:- सामान्य नाम-जात्यादिकल्पनारहितं वस्तुमात्रज. 'पद' । २ क. 'द् यद्यर्था' । ३ क.ग.'ततः पू' । ४ किं शब्दः किमशब्द इत्यनीहिते शब्द एव कथं युक्तम् ? । अथ पूर्वमीहित्वा शब्द इति मतं, सा पूर्वम् ॥२५७॥
॥१५३॥ ५ किं तत् पूर्व गृहीतं यदीहमानस्य शब्द एवं विज्ञानम् । अथ पूर्व सामान्यं यदीहमानस्य शब्द इति ॥ २५८ ॥
Jan Educonsinmates
For Personal and Private Use Only
www.jainelibrary.org